संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|केदारखण्डः| अध्यायः ६ केदारखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ केदारखण्डः - अध्यायः ६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः ६ Translation - भाषांतर ॥ऋषय ऊचुः ॥लिंगे प्रतिष्ठा च कथं शिवं हित्वा प्रवर्तिता ॥तत्कथ्यतां महाभाग परं शुश्रुषतां हि नः ॥१॥ ॥लोमश उवाच ॥यदा दारुवने शंभुर्भिक्षार्थं प्राचरत्प्रभुः ॥२॥दिगंबरो मुक्तजटाकलापो वेदांतवेद्यो भुवनैकभर्ता ॥स ईश्वरो ब्रह्मकलापधारो योगीश्वराणां परमः परश्च ॥३॥अणोरणीयान्महतो मही यान्महानुभावो भुवनाधिपो महान् ॥स ईश्वरो भिक्षुरूपी महात्मा भिक्षाटनं दारुवने चकार ॥४॥मध्याह्न ऋषयो विप्रास्तीर्थं जग्मुः स्वकाश्रमात् ॥तदानीमेव सर्वास्ता ऋषीभार्याः समागताः ॥५॥विलोकयंत्यः शंभुं तमाचख्युश्च परस्परम् ॥कोऽसौ भिक्षुकरूपोयमागतोऽपूर्वदर्शनः ॥६॥अस्मै भिक्षां प्रयच्छामो वयं च सखिभिः सह ॥तथेति गत्वा सर्वास्ता गृहेभ्य आनयन्मुदा ॥७॥भिक्षान्नं विविधं श्लक्ष्णं सोपचारं च शक्तितः ॥प्रदत्तं भिक्षितं तेन देवदेवेन शूलिना ॥८॥काचित्प्रियतमं शंभुं बभाषे विस्मयान्विता ॥कोसि त्वं भिक्षुको भूत्वा आगतोत्र महामते ॥९॥ऋषीणामाश्रमं शुद्धं किमर्थं नो निषीदसि ॥तयोक्तोऽपि तदा शंभुर्बभाषे प्रहसन्निव ॥१०॥ईश्वरोहं सुकेशांते पावनं प्राप्तवानिमम् ॥ईश्वरस्य वचः श्रुत्वा ऋषिभार्या उवाच तम् ॥११॥ईश्वरोऽसि महाभाग कैलासपतिरेव च ॥एकाकिनः कथं देव भिक्षार्थमटनं तव ॥१२॥एवमुक्तस्तया शंभुः पुनस्तामब्रवीद्वचः ॥दाक्षायण्या विरहितो विचरामि दिगंबरः ॥१३॥भिक्षाटनार्थं सुश्रोणि संकल्परहितः सदा ॥तया सत्या विना किंचित्स्त्रीमात्रं मम भामिनि ॥न रोचते विशालाक्षि सत्यं प्रतिवदामि ते ॥१४॥तस्योक्तं वचनं श्रुत्वा उवाच कमलेक्षणा ॥स्त्रियो हि सुखसंस्पर्शाः पुरुषस्य न संशयः ॥१५॥तास्स्त्रियो वर्जिताः शंभो त्वादृशेन विपश्चिता ॥१६॥इति च प्रमदाः सर्वा मिलिता यत्र शंकरः ॥भिक्षापात्रं च तच्छंभोः पूरितं च महागुणैः ॥१७॥अन्नैश्चतुर्विधैः षड्भी रसैश्च परिपूरितम् ॥यदा संभुर्गंतुकामः कैलासं पर्वतं प्रति ॥तदा सर्वा विप्रपत्न्यो ह्यन्गच्छन्मुदान्विताः ॥१८॥गृहकार्यं परित्यज्य चेरुस्तद्गतमानसाः ॥गतासु तासु सर्वासु पत्नीषु ऋषिसत्तमाः ॥१९॥यावदाश्रममभ्येत्य तावच्छून्यं व्यलोकयन् ॥परस्परमथोचुस्ते पत्न्यः सर्वाः कुतो गताः ॥२०॥न विदामोऽथ वै सर्वाः केन नष्टेन चाहृताः ॥एवं विमृश्यमानास्ते विचिन्वंतस्ततस्ततः ॥२१॥समपश्यंस्ततः सर्वे शिवस्यानुगताश्च ताः ॥शिवं दृष्ट्वा तु संप्राप्ता ऋषयस्ते रुषान्विताः ॥२२॥शिवस्याथाग्रतो भूत्वा ऊचुः सर्वे त्वरान्विताः ॥किं कृतं हि त्वया शंभो विरक्तेन महात्मना ॥परदारापहर्त्तासि त्वमृषीणां न संशयः ॥२३॥एवं क्षिप्तः शिवो मौनी गच्छमानोऽपि पर्वतम् ॥तदा स ऋषिभिः प्राप्तो महादेवोऽव्ययस्तथा ॥यस्मात्कलत्रहर्ता त्वं तस्मात्षंढो भव त्वरम् ॥२४॥एवं शप्तः स मुनिभिर्लिंगं तस्यापतद्भुवि ॥भूमिप्राप्तं च तल्लिंगं ववृधे तरसा महत् ॥२५॥आवृत्य सप्त पातालान्क्षणाल्लिंगमदोर्ध्वतः ॥व्याप्य पृथ्वीं समग्रां च अंतरिक्षं समावृणोत् ॥२६॥स्वर्गाः समावृताः सर्वे स्वर्गातीतमथाभवत् ॥न मही न च दिक्चक्रं न तोयं न च पावकः ॥२७॥न च वायुर्न वाकाशं नाहंकारो न वा महत् ॥न चाव्यक्तं न कालश्च न महाप्रकृतिस्तथा ॥२८॥नासीद्द्ववैतविभागं च सर्वं लीनं च तत्क्षणात् ॥यस्माल्लीनं जगत्सर्वं तस्मिँल्लिगे महात्मनः ॥२९॥लयनाल्लिंगमित्येवं प्रवदंति मनीषिणः ॥तथाभूतं वर्द्धमानं दृष्ट्वा तेऽपि सुरर्षयः ॥३०॥ब्रह्मेंद्रविष्णुवाय्यग्निलोकपालाः सपन्नगाः ॥विस्मयाविष्टमनसः परस्परमथाब्रुवन् ॥३१॥किमायामं च विस्तारं क्व चांतः क्व च पीठिका ॥इति चिंतान्विता विष्णुमूचुः सर्वे सुरास्तदा ॥३२॥ ॥देवा ऊचुः ॥अस्य मूलं त्वया विष्णो पद्मोद्भव च मस्तकम् ॥युवाभ्यां च विलोक्यं स्यात्स्थाने स्यात्परिपालकौ ॥३३॥श्रुत्वा तु तौ महाभागौ वैकुंठकमलोद्भवौ ॥विष्णुर्गतो हि पातालं ब्रह्मा सर्वर्गं जगाम ह ॥३४॥स्वर्गं गतस्तदा ब्रह्मा अवलोकनतत्परः ॥नापस्यत्तत्र लिंगस्य मस्तकं च विचक्षमः ॥३५॥तथा गतेन मार्गेण प्रत्यावृत्त्याब्जसंभवः ॥मेरुपृष्ठमनुप्राप्तः सुरभ्या लक्षितस्ततः ॥३६॥स्थिता या केतकीच्छायामुवाच मधुरं वचः ॥तस्या वचनमाकर्ण्य सर्वलोकपितामहः ॥उवाच प्रहसन्वाक्यं छलोक्त्या सुरभिं प्रति ॥३७॥लिंगं महाद्भुतं दृष्टं येनव्याप्तं जगत्त्रयम् ॥दर्शनार्थं च तस्यांतं देवैः संप्रेषितोस्मयहम् ॥३८॥न दृष्टं मस्तकं तस्य व्यापकस्य महात्मनः ॥किं वक्ष्येऽहं च देवाग्रे चिंता मे चाति वर्तते ॥३९॥लिंगस्य मस्तकं दृष्टं देवानां च मृषा वदेः ॥ते सर्वे यदि वक्ष्यंति इंद्राद्या देवतागणाः ॥४०॥ते संति साक्षिमो देवा अस्मिन्नर्थे वदत्वरम् ॥अर्थेऽस्मिन्भव साक्षी त्वं केतक्या सह सुव्रते ॥४१॥तद्वचः शिरसा गृह्य ब्रह्मणः परमेष्ठिनः ॥केतकीसहिता तत्र सुरभी तदमानयत् ॥४२॥एवं समागतो ब्रह्म देवाग्रे समुवाच ह ॥४३॥ ॥ब्रह्मोवाच ॥लिंगस्य मस्तकं देवा दृष्टवानहमद्भुतम् ॥समीचीनं चार्तितं च केतकीदल संयुतम् ॥४४॥विशालं विमलं श्लक्ष्णं प्रसन्नतरमद्भुतम् ॥रम्यं च रमणीयं च दर्शनीयं महाप्रभम् ॥४५॥एतादृशं मया दृष्टं न दृष्टं तद्विनाक्वचित् ॥ब्रह्मणो हि वचः श्रुत्वा सुरा विस्मयमाययुः ॥४६॥एवं विस्मयपूर्णास्ते इंद्राद्या देवतागणाः ॥तिष्ठंति तावत्सर्वेशो विष्णुरध्यात्मदीपकः ॥४७॥पातालादागतः सद्यः सर्वेषामवदत्त्वरम् ॥तस्याप्यंतो न दृष्टो मे ह्यवलोकनतत्परः ॥४८॥विस्मयो मे महाञ्जातः पातालात्परतश्चरन् ॥अतलं सुतलं चापि नितलं च रसातलम् ॥४९॥तथा गतस्तलं चैव पातालं च तथातलम् ॥तलातलानि तान्येनं शून्यवद्यद्विभाव्यते ॥५०॥शून्यादपि च शून्यं च तत्सर्वं सुनिरीक्षितम् ॥न मूलं च न मध्यं च न चांतो ह्यस्य विद्यते ॥५१॥लिंगरूपी महादेवो येनेदं धार्यते जगत् ॥यस्य प्रसादादुत्पन्ना यूयं च ऋषयस्तथा ॥५२॥श्रुत्वा सुराश्च ऋषयस्तस्य वाक्यमपूजयन् ॥तदा विष्णुरुवाचेदं ब्रह्माणं प्रहसन्निव ॥५३॥दृष्टं हि चेत्त्वया ब्रह्मन्मस्तकं परमार्थतः ॥साक्षिणः के त्वया तत्र अस्मिन्नर्थे प्रकल्पिताः ॥५४॥आकर्ण्य वचनं विष्णोर्ब्रह्मा लोकपितामहः ॥उवाच त्वरितेनैव केतकी सुरभीति च ॥५५॥ते देवा मम साक्षित्वे जानीहि परमार्थतः ॥ब्रह्मणो हि वचः श्रुत्वा सर्वे देवास्त्वरान्विताः ॥५६॥आह्वानं चक्रिरे तस्याः सुरभ्याश्च तया सह ॥आगते तत्क्षमादेव कार्यार्थं ब्रह्मणस्तदा ॥५७॥इंद्राद्यैश्च तदा देवैरुक्ता च सुरभी ततः ॥उवाच केतकीसार्द्धं दृष्टो वै ब्रह्मणा सुराः ॥५८॥लिंगस्य मस्तको देवाः केतकीदलपूजितः ॥तदा नभोगता वाणी सर्वेषां श्रृण्वतामभूत् ॥५९॥सुरभ्या चैव यत्प्रोक्तं केतक्या च तथा सुराः ॥तन्मृषोक्तं च जानीध्वं न दृष्टो ह्यस्य मस्तकः ॥६०॥तदा सर्वेऽथ विबुधाः सेंद्रा वै विष्णुना सह ॥शेपुश्च सुरभीं रोषान्मृषावादनतत्पराम् ॥६१॥मुखेनोक्तं त्वयाद्यैवमनृतं च तथा शुभे ॥अपवित्रं मुखं तेऽस्तु सर्वधर्मबहिष्कृतम् ॥६२॥सुगंधकेतकी चापि अयोग्या त्वं शिवार्चने ॥भविष्यसि न संदेहो अनृता चैव भामिनि ॥६३॥तदा नभो गता वाणी ब्रह्मणं च शशाप वै ॥मृषोक्तं च त्वया मंद किमर्थं बालिशेन हि ॥६४॥भृगुणा ऋषिभिः साकं तथैव च पुरोधसा ॥तस्माद्युयं न पूज्याश्च भवेयुः क्लेशभागिनः ॥६५॥ऋषयोऽपि च धर्मिष्ठास्तत्त्ववाक्यबहिष्कृताः ॥विवादनिरता मूढा अतत्त्वज्ञाः समत्सराः ॥६६॥याचकाश्चावदान्याश्च नित्यं स्वज्ञानघातकाः ॥आत्मसंभाविताः स्तब्धाः परस्परविनिंदकाः ॥६७॥एवं शप्ताश्च मुनयो ब्रह्माद्या देवतास्तथा ॥शिवेन शप्तास्ते सर्वे लिंगं शरणमाययुः ॥६८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्रीशिवलिङ्गमाहात्म्ये ब्रह्मादिशापवृत्तान्तवर्णनं नाम षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : July 18, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP