संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|केदारखण्डः| अध्यायः १ केदारखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ केदारखण्डः - अध्यायः १ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः १ Translation - भाषांतर ॥ अथ श्रीस्कान्दे महापुराणे प्रथमं माहेश्वरखण्डं प्रारभ्यते ॥॥श्रीगणेशाय नमः ॥ॐनमो भगवते वासुदेवाय ॥ॐनारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥देवीं सरस्वती चैव ततो जयमुदीरयेत् ॥१॥ ॥व्यास उवाच ॥यस्याज्ञया जगत्स्रष्टाविरिंचिः पालको हरिः ॥संहर्ता कालरुद्राख्यो नमस्तस्मै पिनाकिने।१॥तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् ॥तत्रैव नैमिषारण्ये सौनकाद्यास्तपोधनाः ॥दीर्घसत्रं प्रकुर्वंतः सत्रिणः कर्मचेतसः ॥२॥तेषां सदर्शनौत्सुक्यादागतो हि महातपाः ॥व्यासशिष्यो महाप्राज्ञो लोमशोनाम नामतः ॥३॥तत्रागतं ते ददृशुर्मुनयो दीर्घसत्रिणः ॥उत्तस्थुर्युगपत्सर्वे सार्घ्यहस्ताः समुत्सुकाः ॥४॥दत्त्वार्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः ॥तं पप्रच्छुर्महाभागाः शिवधर्मं सविस्तरम् ॥५॥ ॥ऋषय ऊचुः ॥कथयस्व महाप्राज्ञ देवदेवस्य शूलिनः ॥महिमानं महाभाग ध्यानार्चनसमन्वितम् ॥६॥संमार्जने किं फलं स्यात्तथा रंगावलीषु च ॥प्रदाने दर्पणस्याथ तथा वै चामरस्य च ॥७॥प्रदाने च वितानस्य तथा धारागृहस्य च ॥दीपदाने किं फलं स्यात्पूजायां किं फलं भवेत् ॥८॥कानिकानि च पुण्यानि कथ्यतां शिवपूजने ॥इतिहासपुराणानि वेदाध्ययनमेव च ॥९॥शिवस्याग्रे प्रकुर्वंति कारयन्त्यथ वा नराः ॥किं फलं च नृणां तेषां कथ्यतां विस्तरेण हि ॥१०॥शिवाख्यानपरोलोके त्वत्तो नान्योऽस्ति वै मुने ॥११॥इति श्रुत्वा वचस्तेषां मुनीनां भावितात्मनाम् ॥उवाच व्यासशिष्योऽसौ शिवमाहात्म्यमुत्तमम् ॥१२॥ ॥लोमश उवाच ॥अष्टादशपुराणेषु गीयते वै परः शिवः ॥तस्माच्छिवस्य माहात्म्यं वक्तुं कोऽपि न पार्यते ॥१३॥शिवेति द्व्यक्षरं नाम व्याहरिइष्यंति ये जनाः ॥तेषां स्वर्गश्च मोक्षश्च भविष्यति न चान्यथा ॥१४॥उदारो हि महादेवो देवानां पतिरिश्वरः ॥येन सर्वं प्रदत्तं हि तस्मात्सर्व इति स्मृतः ॥१५॥ते धन्यास्ते महात्मानो ये भजंति सदा शिवम् ॥१६॥विना सदाशिवं योहि संसारं तर्तुमिच्छति ॥स मूढो हि महापापः शिवद्वेषी न संशयः ॥१७॥भक्षितं हि गरं येन दक्षयज्ञो विनाशितः ॥कालस्य दहनं येन कृतं राज्ञः प्रमोचनम् ॥१८॥ ॥ऋषय ऊचुः ॥यथा गरं भक्षितं च यथा यज्ञो विनाशितः ॥दक्षस्य च तथा ब्रूहि परं कौतूहलं हि नः ॥१९॥ ॥सूत उवाच ॥दाक्षायणी पुरा दत्ता शंकराय महात्मने ॥वचनाद्ब्रह्मणो विप्रा दक्षेण परमेष्ठिनः ॥२०॥एकदा हि स दक्षो वै नैमिषारण्यमागतः ॥यदृच्छावशमापन्न ऋषिभिः परिपूजितः ॥२१॥स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुरासुरैः ॥तत्र स्थितो महादेवो नाभ्युत्थानाभिवादने ॥चकारास्य ततः क्रुद्धो दक्षो वचनब्रवीत् ॥२२॥सर्वत्र सर्वे हि सुरासुरा भृशं नमंति मां विप्रवराः समुत्सुकाः ॥कथं ह्यसौ दुर्जनवन्महात्मा भूतादिभिः प्रेतपिशाचयुक्तः ॥श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना ॥२३॥पाखंडिनो दुर्जनाः पापशीला विप्रं दृष्ट्वा चोद्धता उन्मदाश्च ॥वध्यास्त्याज्याः सद्भिरेवंविधा हि तस्मादेनं शापितुं चोद्यतोऽस्मि ॥२४॥इत्येवमुक्त्वा स महातपास्तदा रुषान्वितो रुद्रमिदं बभाषे ॥२५॥श्रृण्वंत्वमी विप्रतमा इदानीं वचो हि मे कर्तुमिहार्हथैतत् ॥रुद्रो ह्ययं यज्ञबाह्यो वृतो मे वर्णातीतो वर्णपरो यतश्च ॥२६॥नंदी निशम्य तद्वाक्यं शैलादो हि रुषान्वितः ॥अब्रवीत्त्वरितो दक्षं शापदं तं महाप्रभम् ॥२७॥ ॥नन्द्युवाच ॥यज्ञबाह्यो हि मे स्वामी महेशोऽयं कृतः कथम् ॥यस्य स्मरणमात्रेण यज्ञाश्च सफला ह्यमी ॥२८॥यज्ञो दानं तपश्चैव तीर्थानि विविधानि च ॥यस्य नाम्ना पवित्राणि सोयं शप्तोऽधुना कथम् ॥२९॥वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते ॥येनेदं पालितं विश्वं सर्वेण च महात्मना ॥शप्तोऽयं स कथं पाप रुद्रोऽयं ब्राह्मणाधम ॥३०॥एवं निर्भार्त्सितस्तेन नंदिना हि प्रजापतिः ॥नंदिनं च शशापाथ दक्षो रोषसमन्वितः ॥३१॥यूयं सर्वे रुद्रवरा वेदबाह्याश्च वै भृशम् ॥शप्ताहि वेदमार्गैश्च तथा त्यक्ता महर्षिभिः ॥३२॥पाषंडवादसंयुक्ताः शिष्टऽऽचारबहिष्कृताः ॥कपालिनः पानरतास्तथा कालमुखा ह्यमी ॥३३॥इति शप्तास्तदा तेन दक्षेण शिवकिंकराः ॥तदा प्रकुपितो नंदी दक्षं शप्तुं प्रचक्रमे ॥३४॥शप्ता वयं त्वया विप्र साधवः शिवकिंकराः ॥वृथैव ब्रह्मचापल्यादहं शापं ददामि ते ॥३५॥वेदवादरता यूयं नान्यदस्तीतिवादिनः ॥कामात्मानः स्वर्गपरा लोभमोहसमन्विताः ॥३६॥वैदिकं च पुरस्कृत्य ब्राह्मणाः शूद्रयाजकाः ॥दरिद्रिणो भविष्यंति प्रतिग्रहरताः सदा ॥३७॥दक्ष केचिद्भविष्यन्ति ब्राह्मणा ब्रह्मराक्षसाः ॥ ॥लोमश उवाच ॥विप्रास्ते शपितास्तेन नंदिना कोपिना भृशम् ॥३८॥अथाकर्ण्येश्वरो वाक्यं नंदिनः प्रहसन्निव ॥उवाच वाक्यं मधुरं बोधययुक्तं सदाशिवः ॥३९॥ ॥महादेव उवाच ॥कोपं नार्हसि वै कर्तुं ब्राह्मणान्प्रति वै सदा ॥ब्राह्मणागुरवो ह्येते वेदवादरताः सदा ॥४०॥वेदो मंत्रमयः साक्षात्तथा सूक्तमयो भृशम् ॥सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम् ॥४१॥तस्मान्नात्मविदो निन्द्या आत्मैवाहं न चेतरः ॥कोऽयं कस्त्वं क्व चाहं वै कस्माच्छप्ता हि वै द्विजाः ॥४२॥प्रपंचरचनां हित्वा बुद्धो भव महामते ॥तत्त्वज्ञानेन निर्वर्त्य स्वस्थः क्रोधादिवर्जितः ॥४३॥एवं प्रबोधितस्तेन शंभुना परमेष्ठिना ॥विवेकपरमो भूत्वा शैलादो हि महातपाः ॥शिवेन सह संगम्य परमानंदसंप्लुतः ॥४४॥दक्षोपि हि रुषाऽऽविष्टऋषिभिः परिवारितः ॥ययौ स्थानं स्वकं तत्र प्रविवेश रुषाऽन्वितः ॥४५॥श्रद्धां विहाय परमां शिवपूजकानां निंदापरः स हि बभूव नराधमश्च ॥सर्वैर्महर्षिभिरुपेत्य स तत्र शर्वं देवं निनिन्द न बभूव कदापि शान्तः ॥४६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पुराणप्रस्तावदक्षवृत्तान्तवर्णनंनाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : July 15, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP