संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|केदारखण्डः| अध्यायः ४ केदारखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ केदारखण्डः - अध्यायः ४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः ४ Translation - भाषांतर ॥लोमश उवाच ॥विष्णुनोक्तं वचः श्रुत्वा दक्षो वचनमब्रवीत् ॥वेदानामप्रमाणं च कृतं ते मधुसूदन ॥१॥वैदिकं कर्म चोत्सृज्य कथं सेश्वरतां व्रजेत् ॥तदुच्यतां महाविष्णो येन धर्मः प्रतिष्ठितः ॥२॥दक्षेणोक्तो महाविष्णुरुवाच परिसांत्वयन् ॥त्रैगण्यविषया वेदाः संभवंति न चान्यथा ॥३॥वेदोदितानि कर्माणि ईश्वरेण विना कथम् ॥सफलानि भविष्यंति विफलान्येव तानि च ॥४॥तस्मात्सर्वप्रयत्नेन ईश्वरं शरणं व्रऐजा ॥एवं ब्रुवति गोविन्द आगतः सैन्यसागरः ॥वीरभद्रेण सदृशो ददृशुस्तं तदा सुराः ॥५॥इंद्रोपि प्रहसन्विष्णुमात्मवादरतं तदा ॥वज्रपाणिः सुरैः सार्द्धं योद्धुकामोऽभवत्तदा ॥६॥भृगुणाचारितः शीघ्रमुच्चाटनपरेण हि ॥तदा गणाः सुरैः सार्धं युयुधुस्ते गणान्विताः ॥७॥शरतोमरनागचैर्जघ्नुस्ते च परस्परम् ॥नेदुःशंखाश्च बहुशस्तस्मिन्रणमहोत्सवे ॥८॥तथा दुन्दुभयो नेदुः पटहा डिंडिमादयः ॥तेन शब्देन महताश्लाघ्यमानास्तदा सुराः ॥लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान् ॥९॥खड्गैश्चापि हताः केचिद्गदाभिश्च विपोथिताः ॥देवैः पराजिताः सर्वे गणाः शतसहस्रशः ॥१०॥इंद्राद्यौर्लोकपालैश्च गणास्ते च पराङ्गमुखाः ॥कृताश्च तत्क्षणादेव भृगोर्मंत्रबलेन हि ॥११॥उच्चाटनं कृतं तेषां भृगुणा यज्विना तदा ॥यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ॥१२॥तेनैव देवा जयिनो जातास्तत्क्षणमेव हि ॥स्वानां पराजयं दृष्ट्वा वीरभद्रो रुपान्वितः ॥१३॥भूतान्प्रेतान्पिशाचांश्च कृत्वा तानेव पृष्ठतः ॥वृषभस्थान्पुरस्कृत्य स्वयं चैव महाबलः ॥तीक्ष्णं त्रिशूलमादाय पातयामास तान्रणे ॥१४॥देवान्यक्षान्पिशाचांश्च गुह्यकान्राक्षसां स्तथा ॥शूलघातैश्च ते सर्वे गणा देवान्प्रजघ्निरे ॥१५॥केचिद्द्विधाकृताः खङ्गैर्मुद्गरैश्चापि पोथिताः ॥परश्वधैः खंडशश्च कृताः केचिद्रणाजिरे ॥१६॥शूलैर्भिन्नाश्च शतशः केचिच्च शकलीकृताः ॥एवं पराजिताः सर्वे पलायनपरायणाः ॥१७॥परस्परं परिष्वज्य गतास्तेपि त्रिविष्टपम् ॥केवलं लोकपालाश्च इंद्राद्यास्तस्थुरुत्सुकाः ॥बृहस्पतिं पृच्छमानाः कुतोस्माकं जयो भवेत् ॥१८॥बृहस्पतिरुवाचेदं सुरेंद्रं त्वरितस्तदा ॥ ॥बृहस्पतिरुवाच ॥यदुक्तं विष्णुना पूर्वं तत्सत्यं जातमद्य वै ॥१९॥अस्ति चेदीश्वरः कश्चित्फलरूप्यस्य कर्म्मणः ॥कर्तारं भजते सोपि न ह्यकर्तुः प्रभुर्हिसः ॥२०॥न मंत्रौषधयः सर्वे नाभिचारा न लौकिकाः ॥न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ॥२१॥ज्ञातुमीशाः संभवंति भक्त्याज्ञेयस्त्वनन्यया ॥शांत्या च परया तृष्ट्या ज्ञातव्यो हि सदाशिवः ॥२२॥तेन सर्वं संभवंति सुखदुःझखात्मकं जगत् ॥परंतु संवदिष्यामि कार्याकार्यविवक्षया ॥२३॥त्वमिंद्र बालिशो भूत्वा लोकपालैः सहाद्य वै ॥आगतो बालिशो भूत्वा इदानीं किं करिष्यसि ॥२४॥एते रुद्रसहायाश्च गणाः परमशोभनाः ॥कुपिताश्च महाभागा न तु शेषं प्रकुर्वते ॥२५॥एवं बृहस्पतेर्वाक्यं श्रुत्वा तेऽपि दिवौकसः ॥चिंतामापेदिरे सर्वे लोकपाला महेश्वराः ॥२६॥ततोऽब्रवीद्वीरभद्रो गणैः परिवृतो भृशम् ॥सर्वे यूयं बालिशत्वादवदानार्थमागताः ॥२७॥अवदानानि दास्यामि तृप्त्यर्थं भवतां त्वरन् ॥एवमुक्त्वा शितैर्बाणैर्जघानाथ रुषान्वितः ॥२८॥तैर्बाणैर्निहताः सर्वे जग्मुस्ते च दिशो दश ॥२९॥गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ॥यज्ञवाटे समायातो वीरभद्रो गणान्वतः ॥३०॥तदा त ऋषयः सर्वे सर्वमेवेश्वरेश्वरम् ॥विज्ञप्तुकामाः सहसा ऊचुरेवं जनार्दनम् ॥३१॥रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः ॥एतच्छ्रुत्वा तु वचनमृषीणां वै जनार्दनः ॥३२॥योद्धुकामः स्थितो युद्धे विष्णुरध्यात्मदीपकः ॥वीरभद्रो महाबाहुः केशवं वाक्यमब्रवीत् ॥३३॥अत्र त्वयागतं कस्माद्विष्णो वेत्त्रा महाबलम् ॥दक्षस्य पक्षमाश्रित्य कथं जेष्यसि तद्वद ॥३४॥दाक्षायण्या कृतं यच्च न दृष्टं किं त्वयानघ ॥त्वं चापि यज्ञे दक्षस्य अवदानार्थमागतः ॥अवदानं प्रयच्छामि तव चापि महाभूज ॥३५॥एवमुक्त्वा प्रणम्यादौ विष्णुं सदृशरूपिणम् ॥वीरभद्रोऽग्रतो भूत्वा विष्णुं वाक्यमथाब्रवीत् ॥३६॥यथा शंभुस्तथा त्वं हि मम नास्त्यत्र संशयः ॥तथापि त्वं महाबाहो योद्धुकामोऽग्रतः स्तितः ॥नेष्याम्यपुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना ॥३७॥तस्य तद्वचनं श्रुत्वा वीरभद्रस्य धीमतः ॥उवाच प्रहसन्देवो विष्णुः सर्वेश्वरेश्वरः ॥३८॥ ॥विष्णुरुवाच ॥रुद्रतेजःप्रसूतोसि पवित्रोऽसि महामते ॥अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः ॥३९॥अहं भक्तपराधीनस्तथा सोऽपि महेश्वरः ॥तेनैव कारणेनात्र दक्षस्य यजनं प्रति ॥४०॥आगतोऽहं वीरभद्र रुद्रकोपसमुद्भव ॥अहं निवारयामि त्वां त्वं वा मां विनिवारय ॥४१॥इत्युक्तवति गोविंदे प्रहस्य स महाभुजः ॥प्रश्रयावनतो भूत्वा इदमाह जनार्दनम् ॥४२॥यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः ॥सेवकाश्च वयं सर्वे तव वा शंकरस्य च ॥४३॥तच्छ्रुत्वा वचनं तस्य सोऽच्युतः संप्रहस्य च ॥इदं विष्णुर्महावाक्यं जगाद परमेश्वरः ॥४४॥योधयस्व महाबाहो मया सार्धमशंकितः ॥तवास्त्रैः पूर्यमाणोऽहं गच्छामि भवनं स्वकम् ॥४५॥तथेत्युक्त्वा तु वीरोऽसौ वीरभद्रो महाबलः ॥गृहीत्वा परमास्त्राणि सिंहनादैर्जगर्ज ह ॥४६॥विष्णुश्चापि महाघोषं शंखनादं चकार सः ॥तच्छ्रुत्वा ये गता देवा रणं हित्वाऽऽययुः पुनः ॥४७॥व्यूहं चक्रुस्तदा सर्वे लोकपालाः सवासवाः ॥तदेन्द्रेण हतो नंदीवज्रेण शतपर्वणा ॥४८॥नंदीना च हतः शक्रस्त्रिशूलेन स्तनांतरे ॥वायुना च हतो भृंगी भृंगिणा वायुराहतः ॥४९॥शूलेन सितधारेण संनद्धो दण्डधारिणा ॥यमेन सह संग्रामं महाकालो बलान्वितः ॥५०॥कुबेरेण च संगम्य कूष्मांडानां पतिः स्वयम् ॥वरुणेन समं युद्धं मुंडश्चैव महाबलः ॥५१॥युयुधे परयाशक्त्या त्रैलोक्यं विस्मयन्निव ॥नैर्ऋतेन समागम्य चंडश्चबलवत्तरः ॥५२॥युयुधे परमास्त्रेण नैर्ऋत्यं च विडंबयन् ॥योगिनीचक्रसंयुक्तो भैरवो नायको महान् ॥५३॥विदार्य देवानखिलान्पपौ शोणितमद्बुतम् ॥क्षेत्रपालास्तथा चान्ये भूतप्रमथगुह्यकाः ॥५४॥साकिनी डाकिनी रौद्रा नवदुर्गास्तथैव च ॥योगिन्यो यातुदान्यश्च तथा कूष्मांडकादयः ॥नेदुः पपुः शोणितं च बुभुजुः पिशितं बहु ॥५५॥भक्ष्यमाणं तदा सैन्यं विलोक्य सुरराट्स्वयम् ॥विहाय नंदिनं पश्चाद्वीरभद्रं समाक्षिपत् ॥५६॥वीरभद्रो विहायैव विष्णुं देवेन्द्रमास्थितः ॥तयोर्युद्धमभूद्धोरं बुधांगारकयोरिव ॥५७॥वीरभद्रं यदा शक्रो हंतुकामस्त्वरान्वितः ॥तावच्छंक्रं गजस्थं हि पुरयामास मार्गणैः ॥५८॥वीरभद्रो रुषाविष्टो दुर्निवार्यो महाबलः ॥तदेद्रेंणाहतः शीघ्रं वज्रेण शतपर्वणा ॥५९॥सगजं च सवज्रं च वासवं ग्रस्तुमुद्युतः ॥हाहाकारो महा नासीद्भूतानां तत्र पश्यताम् ॥६०॥वीरभद्रं तताभूतं तथाभूतं हंतुकामं पुरंदरम् ॥तव्रमाणस्तदा विष्णुर्वीरभद्राग्रतः स्थितः ॥६१॥शक्रं च पृष्ठतः कृत्वा योधयामास वै तदा ॥वीरभद्रस्य विष्णोश्च युद्धं परमभूत्तदा ॥६२॥शस्त्रास्त्रैर्विविधाकारैर्योधयामासतुस्तदा ॥पुनर्नंदिनमालोक्य शक्रो युद्ध विशारदः ॥६३॥द्वंद्वयुद्धं सुतुमुलं देवानां प्रमथैः सह ॥प्रमथा मथिता देवैः सर्वे ते प्राद्रवन्रणात् ॥६४॥गणान्पराङ्मुखान्दृष्ट्वा सर्वे ते व्याधयो भृशम् ॥रुद्रकोपात्समुद्भूता देवाश्चापि प्रदुद्रुवुः ॥६५॥ज्वरैस्तु पीडितान्देवान्दृष्ट्वा विष्णुर्हसन्निव ॥जीवग्राहेण जग्राह देवांस्तांश्च पृथक्पृथक् ॥६६॥देवाश्चिनौ तदाहूय व्याधीन्हंतुं तदा भृतिम् ॥ददौ ताभ्यां प्रयत्नेन गणयित्वा सुबुद्धिमान् ॥६७॥ज्वरांश्च सन्निपातांश्च अन्ये भूतद्रुहस्तदा ॥तान्सर्वान्निगृहीत्वाथ अश्विनौ तौ मुदान्वितौ ॥विज्वरानथ देवांश्च कृत्वा मुमुदतुश्चिरम् ॥६८॥तैर्जितं योगिनीचक्रं भैरवं व्याकुलीकृतम् ॥तीक्ष्णाग्रैः पातयामासुः शरैर्भूतगणानपि ॥६९॥सुरैर्विद्रावितं सैन्यं विलोक्य पतितं भुवि ॥वीरभद्रो रुपाविष्टो विष्णुं वचनमब्रवीत् ॥७०॥त्वं शूरोसि महाबाहो देवानां पालको ह्यसि ॥युध्यस्व मां प्रयत्नेन यदि ते मतिरीदृशी ॥७१॥इत्युक्त्वा तं समासाद्य विष्णुं सर्वेश्वरेश्वरम् ॥ववर्ष निशितैर्बाणैर्वीरभद्रो महाबलः ॥७२॥तदा चक्रेण भगवान्वीरभद्रं जघान सः ॥आयांतं चक्रमालोक्य ग्रसितं तत्क्षणाच्च तत् ॥७३॥ग्रसितं चक्रमालोक्य विष्णुः परपुरंजयः ॥मुखं तस्य परामृज्य विष्णुनोद्गिलितं पुनः ॥७४॥स्वचक्रमादाय महानुभावो दिवं गतोऽथो भुवनैकभर्ता ॥ज्ञात्वा च तत्सर्वमिदं च विष्णुः कृती कृतं दुष्प्रसहं परेषाम् ॥७५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे वीरभद्रादीनां विष्ण्वादिभिः सह युद्धवर्णनंनाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : July 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP