संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीभक्तिचन्द्रिका| अष्टः पटलः श्रीभक्तिचन्द्रिका अनुक्रमणिका प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टः पटलः श्रीभक्तिचन्द्रिका - अष्टः पटलः भक्तिचन्द्रिका Tags : bhaktichandrikasanskritभक्तिचन्द्रिकासंस्कृत अष्टः पटलः Translation - भाषांतर मन्त्राणां साधनं वक्ष्ये सकामानां विशेषतः ।येनैव साध्यते सर्वकर्मसिद्धिरयत्नतः ॥१॥वाग्भवाद्येन मन्त्रेण शुक्लपद्मेन प्रत्यहम् ।वाग्भवप्रकृतिं देवं रात्रिशेषे विशेषतः ॥२॥सुक्लेन चन्दनेनैव धूपदीपादिभिस्तथा ।सम्पूज्य मासमेकं च सहस्रं प्रजपन्मनून।लभते सर्वविद्यां च कवित्वं निर्मलं सुधीः ॥३॥श्रीपूर्वेणैव मनुना श्रीशं गौरं समर्चयन।सितश्रीखण्डपङ्कोपलिप्तेन कुसुमेन च ॥४॥करवीरोद्भवेनैव सितेनैकशतेन च ।प्रभाते प्रत्यहं मासमेकं मन्त्री प्रयत्नतः ।जपन्सहस्रतन्मन्त्रान्सम्पत्तिं लभते न कः ॥५॥शक्तिपूर्वेण मनुना सर्वशक्तिसमन्वितम् ।गौरचन्द्रं समाराध्य पुत्रकामो जितेन्द्रियः ॥६॥सितासर्पिः समायुक्तैः रक्तपद्मैः समाहितः ।हुत्वायुतद्वयं वह्नौ योनिकुण्डे समाचिते ॥७॥सहस्रैकप्रमाणेन तथा मन्त्रं जपन्शुचिः ।वत्सराभ्यन्तरे पुत्रं लभते वैष्णवं शुचिम् ॥८॥ज्वरादिपीडितानां च ग्रस्तानां व्याधिसङ्कटैः ।शिरः स्पृष्ट्वा जपेन्मन्त्रं नृसिंहाद्यक्षरान्वितम् ।सहस्रं व्याधिभिर्मुक्तो भवेदेव तदा नरः ॥९॥प्रणवाद्येन तेनैव तत्त्वजिज्ञासुरात्मनः ।न्यासिवेशोत्सवं गौरचन्द्रं भक्त्या समाहितः ॥१०॥तुलसीमालतीजातिकुसुमैश्चन्दनोक्षितैः ।समाराध्य जपं लक्षं कुर्वन्मन्त्री जितेन्द्रियः ॥११॥लभते परमां शान्तिं संसारच्छेदकारिणीम् ।विशिष्टमुत्तमं ज्ञानं जायते नात्र संशयः ॥१२॥वशीभवेज्जगत्सर्वं सर्वे स्युर्बान्धवा नराः ।प्रेमसिद्धिः करस्था स्याज्ज्ञानविज्ञानसंयुता ॥१३॥एकैकं काम्यमुद्दिश्य जपपूजास्वतन्त्रता ।स्वाश्रमाचारकौशल्यं ब्रह्मचर्यादिकं विधिः ॥१४॥एवं सिद्धिमनुः प्रातः शतजप्तं जलं पिबेत।मासमेकं मिताहारी भवेच्छ्रुतिधरस्तदा ॥१५॥अथ सिद्धप्रयोगविधिःअथ सिद्धप्रयोगोऽपि लिख्यते साधुसम्मतः ।यद्योगाज्जपमात्रेण सिध्यत्येव मनुर्मतः ॥१६॥पुटितं प्रणवेनैव मन्त्रं कृत्वा जपेत्सुधीः ।लक्षमेकं हविष्याशी तदा सिद्धमनुर्भवेत ॥१७॥वाग्भवान्तरितं मन्त्रवर्णं कृत्वा जपन्मनुम् ।लक्षं नियतवाक्शुद्धः सिद्धमन्त्रस्तदा भवेत ॥१८॥वाक्शक्तिकमलायुक्तं जपेन्मन्त्रं सुसाधकः ।लक्षं निशीथे शुद्धात्मा क्षीरभोजनमचरन।तदा सिद्धो भवेन्मन्त्रः सर्वकाम्यफलप्रदः ॥१९॥अथ पुरश्चरणविधिःअथ वक्ष्ये पुरश्चर्याविधिं मन्त्रार्थसिद्धये ।यं ऋते न भवेत्सिद्धिर्मन्त्राणां किमु कर्मणाम् ॥२०॥धनैर्वासोयुगैर्दिव्यैरलङ्कारैर्मनोरमैः ।सन्तोष्य श्रीगुरुं प्रेम्णा वाक्येन सेवयापि च ॥२१॥पादौ कराभ्यां संस्पृश्य प्रणम्य दण्डवद्भुवि ।करिष्ये मन्त्रवर्यस्य पुरश्चरणमुत्तमम् ॥२२॥आज्ञां मे देहि भगवन्सर्वकाम्यार्थसिद्धये ।एवं प्रसादितः प्रीत्या गुरुणा साधकोत्तमः ॥२३॥देवगेहेऽश्वत्थमूले पुष्पोद्याने नदीतटे ।परवते स्वर्धुनीतीरे क्षेत्रे श्रीपुरुषोत्तमे ॥२४॥तेषामेकतमे स्थाने समाहितमनाः शुचिः ।आहारादिविहारार्थं क्रोशयुग्मं समन्ततः ॥२५॥क्षीरिवृक्षोद्भवैः काष्ठैः खानितैर्दिक्षु कल्पयेत।जपस्थानम्, कूर्मचक्रं नवकोष्ठसमन्वितम् ॥२६॥अष्टवर्गं लिखेत्तत्र क्षेत्राख्याद्याक्षरं यतः ।तन्मुखं तद्भवेत्तत्र चैलाजिनकुशोत्तरम् ॥२७॥आसनं स्थापयेन्मन्मन्त्रैर्मन्त्रितं तत्र साधकः ।स्वस्तिकं कमलद्वापि बद्धासनमनन्यधीः ॥२८॥उपविश्य च पूर्वेद्युर्गायत्रीं प्रजपेत्सुधीः ।सङ्कल्पतिलकुशाभ्यां प्रायश्चित्तविधिक्रमात ॥२९॥ततः प्रारम्भदिवसे प्रातः स्नात्वासनोपरि ।उपविश्य च सङ्कल्पं कृत्वा न्यस्ततनुः शुचिः ॥३०॥मन्त्रं नैव द्रुतं नैव विलम्बितमनन्यधीः ।ध्यायन्मन्त्राक्षरं देवं दशधा संस्कृतं पुनः ॥३१॥जपेत्सूर्योदयात्यावन्मध्यन्दिनं समाहितः ।यावत्सङ्ख्यो जपस्तत्र दिवसे तावदन्वहम् ॥३२॥त्रिकालपूजा कर्तव्या हरिर्द्रव्यं निवेदयेत।शेषभोजी मिताहारो मितवाक्प्रियभाषणः ॥३३॥स्त्रिया सम्भाषणं त्याज्यं शूद्रसम्भाषणं तथा ।मनः प्रलोभनं कार्यं न च नाना मनोरथैः ॥३४॥एवं पूर्णजपो हुत्वा होमाशक्तौ विधानवित।दशांशं होमसङ्ख्यानां चतुर्गुणमनुं जपेत ॥३५॥तर्पणं चाभिषेकं च कुर्यान्मन्त्री विधिक्रमात।ब्राह्मणान्भोजयेद्भक्त्या कृतकार्यो भवेत्सुखी ॥३६॥एवं प्रमाणमालम्ब्य कलौ सङ्ख्याचतुर्गुणा ।एवं चतुर्गुणजपात्सिद्धो मन्त्रो भवेन्नृणाम् ॥३७॥अथोपसंहारःवैराग्येण विना मन्त्रसिद्धिर्नो जायते नृणाम् ।तस्मात्सर्वः प्रयत्नेन विरक्तः प्रजपेन्मनुम् ॥३८॥वैराग्यं वासना शौन्यमिहामुत्र च दैहिके ।कामात्कोर्धाच्च मोहाच्च दम्भाहङ्कारयोगतः ॥३९॥मात्सर्याल्लोभतो जाता वासना दुरवग्रहा ।तया संसक्तमनसां कार्यसिद्धिर्न जायते ॥४०॥प्रीतो देवो वरं दाता स च प्रीतः कथं भवेत।दुर्वासनां परित्यज्य सदा सद्वासनायुतः ॥४१॥कायेन मनसा वाचा स्वधर्मपरमानसः ।यथाविधिक्रमेणैव जपन्मन्त्रं सुसाधकः ॥४२॥यदा कृष्णं भजेद्भक्त्या नित्यसन्ध्यात्रये सुखी ।तन्नामनिरतोऽभीक्ष्णं तत्पादमननोत्सवः ॥४३॥तत्कथाश्रवणोल्लासी भृशं तद्रूपदर्शकः ।एवं चेन्निरपेक्षोऽपि सापेक्षो वा समाहितः ॥४४॥गुर्वाज्ञामननासक्तो गुरुदेवात्मकोऽनिशम् ।तदा प्रियमनाः कृष्णो निरपेक्षाय सादरम् ॥४५॥निजपादाम्बुजे प्रीतिं ददाति प्रेमलक्षणाम् ।सापेक्षाय यथाकाम्यं ददाति वरमुत्तमम् ।नान्यथा जायते सिद्धिः कोटिसङ्ख्यजपादिभिः ॥४६॥वैराग्यं जायते केन क्षिणोति वासनां कुतः ।यतः सिद्धिमवाप्नोति सर्वकल्याणसाधिकाम् ॥४७॥सन्नधा वैष्णवे शास्त्रे गुरुवाक्ये च साधवः ।साधुसङ्गेन शास्त्रोक्त्या गुरुभक्तिः सुनिष्ठिता ॥४८॥तन्निष्ठशास्त्रसिद्धान्ते प्रतीतिर्जायते नृणाम् ।तद्वाक्येन हि संज्ञानं जायते तेन तत्त्वतः ॥४९॥भद्राभद्रं विजानीते त्याज्यं ग्राह्यं विशेषतः ।त्यजेत्त्यागकृताभ्यासो ग्राह्यग्रहणतत्परः ॥५०॥एवं संजायते ज्ञानं विज्ञानसहितं ततः ।तेन ज्ञानेन संछिन्ना भवेद्दुर्वासना भृशम् ॥५१॥यथा बुद्ध्या यजन्कृष्णमातप्तकनकोज्ज्वलम् ।जपेन्मन्त्रं यथासङ्खं मन्त्रदेवैकविग्रहम् ॥५२॥एवं सिद्धमनुर्मन्त्री कृतकार्यो यथासुखम् ।विहरेत्परमप्रीत्या परमानन्दविग्रहः ॥५३॥इति भक्तिचन्द्रिकायामष्टः पटलः N/A References : N/A Last Updated : May 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP