मन्त्राणां साधनं वक्ष्ये सकामानां विशेषतः ।
येनैव साध्यते सर्वकर्मसिद्धिरयत्नतः ॥१॥

वाग्भवाद्येन मन्त्रेण शुक्लपद्मेन प्रत्यहम् ।
वाग्भवप्रकृतिं देवं रात्रिशेषे विशेषतः ॥२॥

सुक्लेन चन्दनेनैव धूपदीपादिभिस्तथा ।
सम्पूज्य मासमेकं च सहस्रं प्रजपन्मनून।
लभते सर्वविद्यां च कवित्वं निर्मलं सुधीः ॥३॥

श्रीपूर्वेणैव मनुना श्रीशं गौरं समर्चयन।
सितश्रीखण्डपङ्कोपलिप्तेन कुसुमेन च ॥४॥

करवीरोद्भवेनैव सितेनैकशतेन च ।
प्रभाते प्रत्यहं मासमेकं मन्त्री प्रयत्नतः ।
जपन्सहस्रतन्मन्त्रान्सम्पत्तिं लभते न कः ॥५॥

शक्तिपूर्वेण मनुना सर्वशक्तिसमन्वितम् ।
गौरचन्द्रं समाराध्य पुत्रकामो जितेन्द्रियः ॥६॥

सितासर्पिः समायुक्तैः रक्तपद्मैः समाहितः ।
हुत्वायुतद्वयं वह्नौ योनिकुण्डे समाचिते ॥७॥

सहस्रैकप्रमाणेन तथा मन्त्रं जपन्शुचिः ।
वत्सराभ्यन्तरे पुत्रं लभते वैष्णवं शुचिम् ॥८॥

ज्वरादिपीडितानां च ग्रस्तानां व्याधिसङ्कटैः ।
शिरः स्पृष्ट्वा जपेन्मन्त्रं नृसिंहाद्यक्षरान्वितम् ।
सहस्रं व्याधिभिर्मुक्तो भवेदेव तदा नरः ॥९॥
प्रणवाद्येन तेनैव तत्त्वजिज्ञासुरात्मनः ।
न्यासिवेशोत्सवं गौरचन्द्रं भक्त्या समाहितः ॥१०॥

तुलसीमालतीजातिकुसुमैश्चन्दनोक्षितैः ।
समाराध्य जपं लक्षं कुर्वन्मन्त्री जितेन्द्रियः ॥११॥

लभते परमां शान्तिं संसारच्छेदकारिणीम् ।
विशिष्टमुत्तमं ज्ञानं जायते नात्र संशयः ॥१२॥

वशीभवेज्जगत्सर्वं सर्वे स्युर्बान्धवा नराः ।
प्रेमसिद्धिः करस्था स्याज्ज्ञानविज्ञानसंयुता ॥१३॥

एकैकं काम्यमुद्दिश्य जपपूजास्वतन्त्रता ।
स्वाश्रमाचारकौशल्यं ब्रह्मचर्यादिकं विधिः ॥१४॥

एवं सिद्धिमनुः प्रातः शतजप्तं जलं पिबेत।
मासमेकं मिताहारी भवेच्छ्रुतिधरस्तदा ॥१५॥

अथ सिद्धप्रयोगविधिः
अथ सिद्धप्रयोगोऽपि लिख्यते साधुसम्मतः ।
यद्योगाज्जपमात्रेण सिध्यत्येव मनुर्मतः ॥१६॥

पुटितं प्रणवेनैव मन्त्रं कृत्वा जपेत्सुधीः ।
लक्षमेकं हविष्याशी तदा सिद्धमनुर्भवेत ॥१७॥

वाग्भवान्तरितं मन्त्रवर्णं कृत्वा जपन्मनुम् ।
लक्षं नियतवाक्शुद्धः सिद्धमन्त्रस्तदा भवेत ॥१८॥

वाक्शक्तिकमलायुक्तं जपेन्मन्त्रं सुसाधकः ।
लक्षं निशीथे शुद्धात्मा क्षीरभोजनमचरन।
तदा सिद्धो भवेन्मन्त्रः सर्वकाम्यफलप्रदः ॥१९॥

अथ पुरश्चरणविधिः
अथ वक्ष्ये पुरश्चर्याविधिं मन्त्रार्थसिद्धये ।
यं ऋते न भवेत्सिद्धिर्मन्त्राणां किमु कर्मणाम् ॥२०॥

धनैर्वासोयुगैर्दिव्यैरलङ्कारैर्मनोरमैः ।
सन्तोष्य श्रीगुरुं प्रेम्णा वाक्येन सेवयापि च ॥२१॥

पादौ कराभ्यां संस्पृश्य प्रणम्य दण्डवद्भुवि ।
करिष्ये मन्त्रवर्यस्य पुरश्चरणमुत्तमम् ॥२२॥

आज्ञां मे देहि भगवन्सर्वकाम्यार्थसिद्धये ।
एवं प्रसादितः प्रीत्या गुरुणा साधकोत्तमः ॥२३॥

देवगेहेऽश्वत्थमूले पुष्पोद्याने नदीतटे ।
परवते स्वर्धुनीतीरे क्षेत्रे श्रीपुरुषोत्तमे ॥२४॥

तेषामेकतमे स्थाने समाहितमनाः शुचिः ।
आहारादिविहारार्थं क्रोशयुग्मं समन्ततः ॥२५॥

क्षीरिवृक्षोद्भवैः काष्ठैः खानितैर्दिक्षु कल्पयेत।
जपस्थानम्, कूर्मचक्रं नवकोष्ठसमन्वितम् ॥२६॥

अष्टवर्गं लिखेत्तत्र क्षेत्राख्याद्याक्षरं यतः ।
तन्मुखं तद्भवेत्तत्र चैलाजिनकुशोत्तरम् ॥२७॥

आसनं स्थापयेन्मन्मन्त्रैर्मन्त्रितं तत्र साधकः ।
स्वस्तिकं कमलद्वापि बद्धासनमनन्यधीः ॥२८॥

उपविश्य च पूर्वेद्युर्गायत्रीं प्रजपेत्सुधीः ।
सङ्कल्पतिलकुशाभ्यां प्रायश्चित्तविधिक्रमात ॥२९॥

ततः प्रारम्भदिवसे प्रातः स्नात्वासनोपरि ।
उपविश्य च सङ्कल्पं कृत्वा न्यस्ततनुः शुचिः ॥३०॥
मन्त्रं नैव द्रुतं नैव विलम्बितमनन्यधीः ।
ध्यायन्मन्त्राक्षरं देवं दशधा संस्कृतं पुनः ॥३१॥

जपेत्सूर्योदयात्यावन्मध्यन्दिनं समाहितः ।
यावत्सङ्ख्यो जपस्तत्र दिवसे तावदन्वहम् ॥३२॥

त्रिकालपूजा कर्तव्या हरिर्द्रव्यं निवेदयेत।
शेषभोजी मिताहारो मितवाक्प्रियभाषणः ॥३३॥

स्त्रिया सम्भाषणं त्याज्यं शूद्रसम्भाषणं तथा ।
मनः प्रलोभनं कार्यं न च नाना मनोरथैः ॥३४॥

एवं पूर्णजपो हुत्वा होमाशक्तौ विधानवित।
दशांशं होमसङ्ख्यानां चतुर्गुणमनुं जपेत ॥३५॥

तर्पणं चाभिषेकं च कुर्यान्मन्त्री विधिक्रमात।
ब्राह्मणान्भोजयेद्भक्त्या कृतकार्यो भवेत्सुखी ॥३६॥

एवं प्रमाणमालम्ब्य कलौ सङ्ख्याचतुर्गुणा ।
एवं चतुर्गुणजपात्सिद्धो मन्त्रो भवेन्नृणाम् ॥३७॥

अथोपसंहारः
वैराग्येण विना मन्त्रसिद्धिर्नो जायते नृणाम् ।
तस्मात्सर्वः प्रयत्नेन विरक्तः प्रजपेन्मनुम् ॥३८॥

वैराग्यं वासना शौन्यमिहामुत्र च दैहिके ।
कामात्कोर्धाच्च मोहाच्च दम्भाहङ्कारयोगतः ॥३९॥

मात्सर्याल्लोभतो जाता वासना दुरवग्रहा ।
तया संसक्तमनसां कार्यसिद्धिर्न जायते ॥४०॥

प्रीतो देवो वरं दाता स च प्रीतः कथं भवेत।
दुर्वासनां परित्यज्य सदा सद्वासनायुतः ॥४१॥

कायेन मनसा वाचा स्वधर्मपरमानसः ।
यथाविधिक्रमेणैव जपन्मन्त्रं सुसाधकः ॥४२॥

यदा कृष्णं भजेद्भक्त्या नित्यसन्ध्यात्रये सुखी ।
तन्नामनिरतोऽभीक्ष्णं तत्पादमननोत्सवः ॥४३॥

तत्कथाश्रवणोल्लासी भृशं तद्रूपदर्शकः ।
एवं चेन्निरपेक्षोऽपि सापेक्षो वा समाहितः ॥४४॥

गुर्वाज्ञामननासक्तो गुरुदेवात्मकोऽनिशम् ।
तदा प्रियमनाः कृष्णो निरपेक्षाय सादरम् ॥४५॥

निजपादाम्बुजे प्रीतिं ददाति प्रेमलक्षणाम् ।
सापेक्षाय यथाकाम्यं ददाति वरमुत्तमम् ।
नान्यथा जायते सिद्धिः कोटिसङ्ख्यजपादिभिः ॥४६॥

वैराग्यं जायते केन क्षिणोति वासनां कुतः ।
यतः सिद्धिमवाप्नोति सर्वकल्याणसाधिकाम् ॥४७॥

सन्नधा वैष्णवे शास्त्रे गुरुवाक्ये च साधवः ।
साधुसङ्गेन शास्त्रोक्त्या गुरुभक्तिः सुनिष्ठिता ॥४८॥

तन्निष्ठशास्त्रसिद्धान्ते प्रतीतिर्जायते नृणाम् ।
तद्वाक्येन हि संज्ञानं जायते तेन तत्त्वतः ॥४९॥

भद्राभद्रं विजानीते त्याज्यं ग्राह्यं विशेषतः ।
त्यजेत्त्यागकृताभ्यासो ग्राह्यग्रहणतत्परः ॥५०॥

एवं संजायते ज्ञानं विज्ञानसहितं ततः ।
तेन ज्ञानेन संछिन्ना भवेद्दुर्वासना भृशम् ॥५१॥

यथा बुद्ध्या यजन्कृष्णमातप्तकनकोज्ज्वलम् ।
जपेन्मन्त्रं यथासङ्खं मन्त्रदेवैकविग्रहम् ॥५२॥

एवं सिद्धमनुर्मन्त्री कृतकार्यो यथासुखम् ।
विहरेत्परमप्रीत्या परमानन्दविग्रहः ॥५३॥

इति भक्तिचन्द्रिकायामष्टः पटलः

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP