संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीभक्तिचन्द्रिका| पञ्चमः पटलः श्रीभक्तिचन्द्रिका अनुक्रमणिका प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टः पटलः श्रीभक्तिचन्द्रिका - पञ्चमः पटलः भक्तिचन्द्रिका Tags : bhaktichandrikasanskritभक्तिचन्द्रिकासंस्कृत पञ्चमः पटलः Translation - भाषांतर अथ स्तोत्रं प्रवक्ष्यामि प्रत्यङ्गवर्णनं प्रभोः ।त्रिकालं पठनादेव प्रेमभक्तिं लभेन्नरः ॥१॥कश्चिच्छ्रीकृष्णचैतन्यस्मरणाकुलमानसः ।पुलकावचिताङ्गोऽपि सकम्पाश्रुविलोचनः ॥२॥कथंचित्स्थैर्यमालम्ब्य प्रणम्य गुरुमादरात।स्तोतुमारब्धवान्भक्त्या द्विजचन्द्रं महाप्रभुम् ॥३॥तप्तहेमद्युतिं वन्दे कलिकृष्णं जगद्गुरुम् ।चारुदीर्घतनुं श्रीमच्छचीहृदयनन्दनम् ॥४॥लसन्मुक्तालतानद्धचारुकुञ्चितकुन्तलम् ।शिखण्डाक्षतगन्धाढ्य पुष्पगुच्छावतंसकम् ॥५॥अर्धचन्द्रोल्लसद्भालकस्तूरीतिलकाङ्कितम् ।भङ्गुरभ्रूलताकेलिजितकामशरासनम् ॥६॥प्रेमप्रवाहमधुररक्तोत्पलविलोचनम् ।तिलप्रसूनसुस्निग्धनूतनायतनासिकम् ॥७॥श्रीगण्डमण्डलोल्लासिरत्नकुण्डलमण्डितम् ।सव्यकर्णसुविन्यस्तस्फुरच्चारुशिखण्डकम् ॥८॥मधुरस्मितसुस्निग्धप्रारक्ताधरपल्लवम् ।ईषद्दन्तुरितस्निग्धस्फुरन्मुक्तारदोज्ज्वलम् ॥९॥सप्रेममधुरालापवशीकृतजगज्जनम् ।त्रिकोणचिबुकं कोटिशरदिन्दुप्रभाननम् ॥१०॥सिंहग्रीवं महामत्तद्विरदोल्लासिकन्धरम् ।आरक्तरेखात्रययुक्कम्बुकण्ठमनोहरम् ॥११॥मुक्ता प्रबालकलितहारोज्ज्वलितवक्षसम् ।कङ्कणाङ्गदविद्योतिजानुलम्बितभुजद्वयम् ॥१२॥यवचक्राङ्कितारक्तश्रीमत्पाणितलोज्ज्वलम् ।स्वर्णमुद्रालसच्छ्रीमद्विमलाङ्गुलिपल्लवम् ॥१३॥चन्दनागुरुसुस्निग्धं पुलकावलिचर्चितम् ।चारुनाभिलसन्मध्यं सिंहमध्यकृशोदरम् ॥१४॥विचित्रचित्रवसनमध्यबन्धोल्लसद्वलिम् ।सुचारुनूपुरोल्लासिकूजच्चरणपल्लवम् ॥१५॥शरच्चन्द्रप्रतीकाशनखराजत्पदाङ्गुलिम् ।अङ्कुशध्वजवज्रादिलसत्तलपदाम्बुजम् ॥१६॥कोटिसूर्यप्रतीकाशं कोटीन्दुललितद्युतिम् ।कोटिकन्दर्पलावण्यं कोटिलीलामनोरमम् ॥१७॥साक्षाल्लीलातनुं केलितनुं शृङ्गारविग्रहम् ।क्वचिद्भावकलामूर्तिं प्रस्फुरत्प्रेमविग्रहम् ॥१८॥नामात्मकं नामतनुं परमानन्दविग्रहम् ।भक्त्यात्मकं भक्तितनुं भक्त्याचारविहारिणम् ॥१९॥अशेषकेलिलावण्यं लीलाताण्डवपण्डितम् ।शचीजठररत्नाब्धिसमुद्भूतसुधानिधिम् ॥२०॥अशेषजगदानन्दकन्दमद्भुतमङ्गलम् ।स्फुरद्रासरसावेशमदालसविलोचनम् ॥२१॥क्वचिद्भक्तजनैर्दिव्यमाल्यगन्धानुलेपनैः ।वेष्टितं रससङ्गीतं गायद्भी रसलालसम् ॥२२॥क्वचिद्बाल्यरसावेशगङ्गातीरे विहारिणम् ।क्वचिद्गायति गायन्तं नृत्यन्तं करशब्दितैः ॥२३॥वदन्तं शब्दमत्युच्चैः कुर्वन्तं सिंहविक्रमम् ।क्वचिदास्फोटहुङ्कारकम्पिताशेषभूतलम् ॥२४॥सुगुप्तगोपिकाभावप्रकाशितजगत्त्रयम् ।प्रापिताशेषपुरुषस्त्रीस्वभावमनाकुलम् ॥२५॥निजभावरसास्वादविवशैकादशेन्द्रियम् ।विदग्धनागरीभावकलाकेलिमनोरमम् ॥२६॥गदाधरप्रेमभावकलाक्रान्तमनोरथम् ।नरहरिप्रेमरसास्वादविह्वलमानसम् ॥२७॥सर्वभागवताहूतकान्ताभावप्रकाशकम् ।प्रेमप्रदानललितद्विभुजं भक्तवत्सलम् ॥२८॥प्रेमाख्यपदद्वन्द्वं श्रीप्रेमभक्तिमन्दिरम् ।निजभावरसोल्लासमुग्धीकृतजगत्त्रयम् ॥२९॥स्वनामजपसङ्ख्याभिर्वैष्णवीकृतभूतलम् ।नवद्वीपजनानन्दं भूदेवजनमङ्गलम् ॥३०॥अशेषजीवसद्भाग्यक्रमसम्भूतसत्फलम् ।भयानुरागसुस्नेहभक्तिगम्यपदाम्बुजम् ॥३१॥नटराजशिरोरत्नं श्रीनागरशिरोमणिम् ।अशेषरसिकस्फूर्यन्मौलिभूषणभूषणम् ॥३२॥रसिकानुगतस्निग्धवदनाब्जमधुव्रतम् ।श्रीमद्द्विजकुलोत्तंसं नवद्वीपविभूषणम् ॥३३॥प्रेमभक्तिरसोन्मत्ताद्वैतसेव्यपदाम्बुजम् ।नित्यानन्दप्रियतमं सर्वभक्तमनोरथम् ॥३४॥भक्ताराध्यं भक्तिसाध्यं भक्तरूपिणमीश्वरम् ।श्रीनिवासादिभक्ताग्रैः स्तूयमानं मुहुर्मुहुः ।सार्वभौमादिभिर्वेदशास्त्रागमविशारदैः ॥३५॥य एवं चिन्तयेद्देवदेवेशं प्रयतोऽनिशम् ।संस्तौति भक्तिभावेन त्रिसन्ध्यं नित्यमेव च ॥३६॥धर्मार्थी लभते धर्मं श्रीभागवतमुत्तमम् ।अर्थार्थी लभते चार्थं कृष्णसेवाविधौ रतिम् ॥३७॥कामार्थी लभते कामं प्रेमभक्तिविधानतः ।संसारवासनामुक्तिं मोक्षार्थी विगतस्पृहः ॥३८॥विद्यार्थी लभते विद्यां कामसंसारकृन्तनीम् ।काव्यार्थी कविताशक्तिं कृष्णवर्णनशालिनीम् ॥३९॥अपुत्रो वैष्णवं पुत्रं लभते लोकवन्दितम् ।आश्रयार्थी लभेच्छान्तं श्रीमद्भागवतं गुरुम् ॥४०॥श्रीमच्छ्रीकृष्णचैतन्यपादाम्बुजे भृशम् ।प्रेमानुरागललितां सद्भक्तिं लभते नरः ॥४१॥इति भक्तिचन्द्रिकायां प्रत्यङ्गवर्णनो नाम पञ्चमः पटलः N/A References : N/A Last Updated : May 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP