संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीभक्तिचन्द्रिका| प्रथमः पटलः श्रीभक्तिचन्द्रिका अनुक्रमणिका प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टः पटलः भक्तिचन्द्रिका - प्रथमः पटलः भक्तिचन्द्रिका Tags : bhaktichandrikasanskritभक्तिचन्द्रिकासंस्कृत प्रथमः पटलः Translation - भाषांतर कान्तं शान्तमशेषजीवहृदयानन्दस्वरूपं परंसर्वात्मानमनन्तमाद्यममलं विश्वाश्रयं केवलम् ।भक्त्यानन्दरसैकविग्रहवरं भक्तैकभक्तिप्रियंभक्तावेशधरं विभुं कमपि तं गौरं सदोपास्महे ॥१॥कामाग्निमायाशशिबद्धमूर्तिर्नामामृताब्धिर्विहरन्स्वशक्त्या ।नामैकगम्योरससारमूर्तिर्नामात्मको नामविनोदकारी ॥२॥भक्तीशयोरभेदेन कृष्णचैतन्य उच्यते ।भेदात्कृष्णस्य भक्तेश्च प्रसिद्धिस्तत्त्ववेदिनाम् ॥३॥नामचिन्तामणिः ख्यातो नामरूपी जनार्दनः ।स एव कृष्णचैतन्यस्तस्य नामात्मको मनुः ॥४॥अत्रारिमित्रचिन्तापि न कार्या राशिभेदतः ।सर्वात्मा सर्वबन्धुश्च सर्वमित्रं जगत्पतिः ॥५॥सर्वेऽधिकारिणस्तत्र पूजाचर्याजपादिषु ॥६॥मनवो बहुशस्तस्य धर्मकामार्थमोक्षदाः ।सतां भागवतीभक्तिप्रदाः प्रेमप्रदाः क्वचित ॥७॥भक्तिप्रकाशं विधिवच्चन्द्रज्योत्स्नेव चन्द्रिका ।कर्त्री चेन्नामतो भक्तिचन्द्रिका कथ्यते बुधैः ।तदर्थं मन्त्रचर्याणां विधानं कथ्यते क्रमात ॥८॥तत्रादावुद्धरेन्मन्त्रांस्ततश्चर्याविधिं क्रमात।तेनैव यो जपेन्मन्त्रं लभते सिद्धिमुत्तमाम् ॥९॥मन्त्रोद्धारमहं वक्ष्ये सर्वकामार्थसिद्धये ।कामो धरित्रीमायेन्दुकलितः स्याद्रतिप्रियः ॥१०॥अजो वह्निरमायुक्तश्चन्द्रखण्डयुतः परः ।प्रेमाख्यो नाम बीजोऽयं प्रेमभक्तिप्रदायकः ॥११॥कृष्णचैतन्य ङेर्वहिजायान्तो मनुरुत्तमः ।जपादस्यैव मन्त्रस्य सर्वसिद्धिं व्रजेन्नरः ॥१२॥रामैं ह्रीं कमलाबीजं प्रत्येकेन नियोजयेत।कामस्थाने नृसिंहं च वेदादिषड्विधो मनुः ।एकेन साधयेत्सर्वं प्रेमभक्तिं विशेषतः ॥१३॥एषामेकतमं मन्त्रं यो जपेत्स महामुनिः ।स्तुत्यते सर्वदेवैश्च स च भागवतोत्तमः ॥१४॥अथ चर्याविधिं वक्ष्ये सर्वमन्त्रार्थसाधनम् ।सिद्धो न जायते मन्त्रो विना येन जपादिभिः ॥१५॥ब्राह्मे मुहूर्ते उत्थाय साधकः स्थिरबुद्धिमान।भालाम्बुजे गुरुं शुद्धं गौरवर्णं स्मिताननम् ॥१६॥शुक्लमाल्याम्बरधरं शुभ्रचन्दनशोभितम् ।स्वस्तिकासनसंविष्टं व्याख्यामुद्राकराम्बुजम् ॥१७॥ध्यात्वैव तत्पदाम्भोजरजोभिर्वपुरात्मनः ।संशोध्य हृदिदेवेशं संचिन्त्य तत्पदाम्बुजे ॥१८॥यथाशक्ति जपेन्मन्त्रमात्मानं तन्मयं पुनः ।भावयन्प्रातरुत्थाय स्नानार्थं च जलाशयम् ।गत्वा स्नात्वा जलेकृत्वा चतुरस्रं च मण्डलम् ॥१९॥तत्रैवाहयेन्मन्त्री तीर्थानि मनुनाधुना ।गङ्गे च यमुने चैव गोदावरि सरस्वति ॥२०॥नर्मदे सिन्धु कावेरि जलेऽस्मिन्संनिधिं कुरु ।इत्यनेनाङ्कुशेनैव मुद्रया सूर्यमण्डलात ॥२१॥तत्राष्टधा जपन्मन्त्रं शिरस्यञ्जलिमष्टधा ।दत्त्वा तत्र त्रिधाप्लुत्य कृत्वा सन्ध्यादिकं सुधीः ॥२२॥कामं प्रेमाख्यमुच्चार्य कृष्णचैतन्यमादरात।तर्पयामीति मन्त्रेण पञ्चविंशतिमञ्जलीन ॥२३॥दत्त्वा निर्वर्त्य विधिवत्स्नानं साधकसत्तमः ।पूजागृहद्वारदेशे शुचिर्भूत्वोपविश्य च ।संपूज्य द्वारपालांश्च देहलीं लङ्घयेत ॥२४॥ततःआसनस्थोऽपि भूतानां शान्तिकर्म समाचरेत।उत्पतन्तीह भूता ये पृथिव्यम्बरवासिनः ॥२५॥पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।त्वं च धारय मां नित्यं पवित्रं कुरु चासनम् ॥२६॥इत्यामन्त्र्यासनं मन्त्री तथा धारादिपञ्चभिः ।पूजयित्वा तु तत्रैव प्राङ्मुखः साधकोत्तमः ॥२७॥स्वस्तिकासनसंविस्टो वामाङ्घ्रिघातनत्रयम् ।ऊर्ध्वतालत्रयं दत्त्वा दृष्ट्यापूजालयाद्बहिः ॥२८॥भौमान्तरीक्षदिव्यांस्तान्विघ्नान्निःसारयेत ॥२९॥ततःअस्त्रेण गन्धपुष्पाभ्यां करौ संशोध्य साधकः ।पुनरस्त्रेण संप्रोक्ष्य गन्धं पुष्पं जलं ततः ॥३०॥अमृतीकृत्य मूलेन कुर्यान्मन्त्रितमुत्तमम् ।ततः स्फोटिकया कुर्याद्दिग्बन्धनमतः परम् ॥३१॥प्राकारत्रितयं वह्नेर्विधाय तस्य मध्यतः ।स्थित्वाचरेद्भूतशुद्धिं यथाक्रममनन्यधीः ॥३२॥ज्ञानकर्मेन्द्रियैर्भूतैः सूक्ष्मभूतैश्च पञ्चभिः ।प्रकृत्या मनसा बुद्ध्याप्यहंकारेण शुद्धधीः ॥३३॥स्वस्वकार्ययुतैर्जीवं सुषुम्नावर्त्मना ततः ।नीत्वा ब्रह्मणि संयोज्य सोऽहमित्येव योजयेत ॥३४॥शून्यं शरीरं संचिन्त्य वायुबीजानि षोडश ।वामनासापुटे धीमान्जपन्यत्नेन शुद्धधीः ॥३५॥वामनासापुटेनैव वायमाकृष्य वायुना ।तेन नाभिस्थितं वायुमण्डलं वर्धयेत्ततः ॥३६॥तेन यत्नेन संशोध्य वामकुक्षिस्थितं पुनः ।पुरुषं पापसंघातं श्यामं रक्तविलोचनम् ॥३७॥अङ्गुष्ठैकमितं दुष्टमधोमुखमतः परम् ।स्तम्भयित्वानिलं यत्नाच्चतुःषष्ठिमितं जपन ॥३८॥जपन्द्वात्रिंशद्वारं तद्दक्षिणेन शनैस्त्यजेत ॥३९॥पुनर्दक्षिणया वायुमाकृष्य वह्निमन्त्रतः ।स्तम्भयित्वानिक्लं मन्त्रीयोगेन कुम्भकेन हि ॥४०॥प्रज्वाल्य वायुना वह्निं संदह्य पापदेहिनम् ।तद्भस्मसहितं वायुं वामया संत्यजेद्बहिः ॥४१॥वामया वायुमाकृष्य जपन्नेवेन्दुसंज्ञकम् ।बीजं मध्यमनाभ्याच ललाटेन्दौ नियोज्य च ॥४२॥वारुणेनैव संस्तम्भ्य वायुं तच्चन्द्रमण्डलात।विधायामृतदृष्टिं च तयामृतीकृतं वपुः ॥४३॥विचिन्त्य शक्तिबीजेन शरीरं सुदृढं पुनः ।भावयन्सन्त्यजेद्वायुं दक्षिणेनैव वर्त्मना ॥४४॥पूर्वस्थापितजीवादीन्स्वे स्वे स्थाने नियोजयेत।हंस इत्येष मन्त्रेण जीवन्यासं ततश्चरेत ॥४५॥जीवन्यासमनुं वक्ष्ये सर्वकर्माङ्गमुत्तमम् ।वेदादिर्बिन्दुमान्शेषः शक्तिरङ्कुश एव च ॥४६॥चादिलान्तं सेन्दुखण्डं हो हंसः सोऽहमेव च ।मम प्राणा इह प्राणाः पुनः पूर्वमनुं पठन ॥४७॥मम जीव इह स्थितः पुनरेवं मनुं पठन।मम वाङ्मनस्त्वगिति चक्षुः श्रोत्रं ततः परम् ॥४८॥घ्राणप्राणा इहागत्य सुकेनैव चिरं पुनः ।तिष्ठन्तु वह्निजाया च पूर्वबीजचतुष्टयम् ॥४९॥जीवन्यासमनुः प्रोक्तस्तान्त्रिकैर्मन्त्रवित्तमैः ॥५०॥इति भक्तिचन्द्रिकायां प्रथमः पटलः ! N/A References : N/A Last Updated : May 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP