संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीभक्तिचन्द्रिका| सप्तमः पटलः श्रीभक्तिचन्द्रिका अनुक्रमणिका प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टः पटलः श्रीभक्तिचन्द्रिका - सप्तमः पटलः भक्तिचन्द्रिका Tags : bhaktichandrikasanskritभक्तिचन्द्रिकासंस्कृत सप्तमः पटलः Translation - भाषांतर अथ मन्त्रवरं वक्ष्ये द्वात्रिंशदक्षरान्वितम् ।सर्वपापप्रशमनं सर्वदुर्वासनानलम् ॥१॥चतुर्वर्गप्रदं सौम्यं भक्तिदं प्रेमपूर्वकम् ।दुर्बुद्धिहरणं शुद्धसत्त्वबुद्धिप्रदायकम् ॥२॥सर्वाराध्यं सर्वसेव्यं सर्वेषां कामपूरकम् ।सर्वाधिकारसंयुक्तं सर्वलोकैकबान्धवम् ॥३॥सर्वाकर्षणसंयुक्तं दुष्टव्याधिविनाशनम् ।दीक्षाविधिविहीनं च कालाकालविवर्जितम् ॥४॥वाङ्मात्रेणार्चितं बाह्यपूजाविध्यनपेक्षकम् ।जिह्वास्पर्शनमात्रेण सर्वेषां फलदायकम् ।देशकालानियमितं सर्ववादिसुसम्मतम् ॥५॥तस्योद्धारं प्रवक्ष्यामि समाहितमनाः शृणु ।हरे द्वन्द्वं तथा कृष्णद्वन्द्वं व्युत्क्रमणात्पुनः ॥६॥हरेरामद्वयं पश्चाद्विलोमेनैव तत्पठेत।सर्वाघहर्णाद्धेतोर्हरिरित्यभिधीयते ॥७॥भक्तियोगेन सर्वेषां जीवाकर्षणकारणात।कृष्ण इत्युच्यते सद्भिः शुद्धसत्त्वतनुः प्रभुः ॥८॥रामोऽपि लोकरमणात्संसारच्छेदकारकः ।तस्मान्मोक्षप्रदो रामः सर्वशास्त्रेषु कथ्यते ॥९॥सम्बोधनप्रियः कृष्णः सम्बोधनपदक्रमात।मन्त्रोऽयं विहितस्तेन तत्र प्रेमा नियोजितः ॥१०॥सर्वनामस्वरूपोऽयं देहस्वरूप एव च ।तत्रैकत्र यदि प्रेमा सोभयत्र तदा भवीत ॥११॥चतुर्युगे भवेद्भक्तिर्मुक्तिश्चैव चतुर्युगे ।तेन नामानि चत्वारि चत्वारि कृष्णरामयोः ॥१२॥भक्तिसाधनतः पापनाशोऽथ मुक्तिसाधनात।तत्रोभयत्र नामानि हरेश्चत्वारि नामतः ॥१३॥सम्बोधनपदं श्रुत्वा प्रभुस्तत्र समागतः ।किं प्रार्थते भक्तजनैस्तदेव दातुमुद्यतः ॥१४॥एतैर्न प्रार्थ्यते किंचिन्नामश्रवणयोगतः ।वसेत्तेषां च हृदय इत्थम्भूतगुणो हरिः ॥१५॥मन्त्रे मुक्तिविधानार्थं रामनामनियोजितम् ।द्वयोर्विरोधात्भक्तानां विधेयं किं तदुच्यताम् ॥१६॥आदौ भक्त्या भवेन्मुक्तिः संसारच्छेदकारिणी ।तथा भागवती भक्तिः प्रेमलक्षणलक्षिता ॥१७॥तथा च—न विना भक्तियोगेन मुक्तिः स्थाद्भवसागरात।तां ऋते प्रेमदा भक्तिर्न कदाचित्प्रभोः पदे ॥१८॥अविद्या सुखदुःखानां विनाशाद्विद्यया युतः ।जीवन्मुक्तः स विज्ञेयः प्रेमभक्तिपरायणः ।अमुना मनुना चैतत्साध्यसाधनतत्परः ॥१९॥तत्साधनं प्रवक्ष्यामि यथाविधिक्रमादिह ।नित्यानन्दो मुनिः प्रोक्तोऽनुष्टुब्छन्द उदाहृतः ॥२०॥परमास्वरूपः श्रीचैतन्य एव दैवतम् ।कृष्णनामेति बीजं स्याद्भक्तिः शक्तिरुदाहृता ॥२१॥आद्या शक्तिरधिष्ठात्री देवता प्रेमरूपिणी ।एतेषां विनियोगः स्यात्प्रेमसिद्धौ प्रभोः पदे ॥२२॥अङ्गन्यासं प्रकुर्वीत मन्त्रवर्णविभागतः ।हरे कृष्ण हरे कृष्ण हृदयाय नमस्ततः ॥२३॥कृष्ण कृष्णेति शिरसे स्वाहा चैव हरे हरे ।शिखायै वषडित्येव कवचाय हुमित्यतः ॥२४॥हरे राम हरे राम नेत्राभ्यां वौषडित्यपि ।राम रामेति विज्ञेयमस्त्राय फट्ततः परम् ॥२५॥हरे हरे ततः कुर्यात्करन्यासमिति क्रमात ॥२६॥ततो यन्त्रं लिखेन्मन्त्री पद्मं षोडशपत्रकम् ।रेखात्रयसमायुक्तं द्वारतोरणसंयुतम् ॥२७॥अक्षरद्वयमानेन मन्त्रवर्णान्लिखेद्दले ।षट्कोणं विलिखेन्मध्ये कर्णिकायां विधानतः ॥२८॥प्रेमाख्यं मध्यदेशे च कामं बीजं च कोणतः ।एतस्मिन्न्नपि यन्त्रे चाप्याधारादीन्प्रपूज्य च ।तत्रैव स्थापयेद्ध्यात्वा यथाविधिक्रमादिति ॥२९॥कनकरुचिरभासः शुद्धसत्त्वैकवेशोनिजसुमधुरनामाख्यानदानैकदक्षः ।सततमवतु विश्वं श्रीनवद्वीपचन्द्रोनिजपरिजनवीतो दीनबन्धुर्द्विजेन्द्रः ॥३०॥ध्यात्वैवं पूजयेद्भक्त्या परमात्मानमव्ययम् ॥३१॥कोणाग्रदिक्षु देशे च पूजयेदङ्गदेवताः ।षट्कोणस्याग्रभागे च स सम्पूज्या भक्तिसंयुताः ॥३२॥नित्यानन्दोऽद्वैतनामा मुरारिः श्रीनिवासकः ।काशीश्वरो मुकुन्दश्च ततः केशरमध्यतः ॥३३॥गदाधरो द्विजवरस्तथा नरहरिः प्रियः ।दामोदरो वासुदेवः शिवानन्दगदाधरौ ॥३४॥रागहवश्रीरामदासौ सुन्दरानन्दशार्ङ्गिणौ ।गौरीदासस्ततः पूज्यः परमेश्वर एव च ॥३५॥पुरुषोत्तमदासोऽपि तथा वृन्दावनाश्रयः ।गोविन्दो वासुदेवश्च कमलाकर एव च ॥३६॥तद्बहिः पत्रमध्ये च वैष्णवा भक्तितत्पराः ।गोपीनाथो महेशश्च शुक्लाम्बरसनातनौ ॥३७॥जगायिमाधवौ ज्ञेयौ वासुदेवाच्युतावपि ।दिक्षु पूज्याः प्रयत्नेन प्रेमाश्रुपुलकाचिताः ॥३८॥जय गौराङ्ग गौराङ्ग जय विश्वम्भर प्रभो ।इति वादरता नित्यं प्रेमगद्गदभाषिणः ॥३९॥पत्राग्रे तद्बहिः पूज्याः यदुनन्दन एव च ।गङ्गादासः केशवश्च कृष्णदासस्ततः परम् ॥४०॥रघुनाथविश्वनाथौ नीलाम्बरसनातनौ ।दिव्यमाल्यकराः सौम्याः प्रेमाश्रुपुलकाकुलाः ।ततोऽन्यावरणान्येव पूर्ववत्परिपूजयेत ॥४१॥कोट्येकजपमात्रेण पुरश्चरणमुच्यते ।दशांशहोमसङ्ख्यानां चतुर्गुणविधानतः ॥४२॥जपं कुर्यात्प्रयत्नेन काÿअसङ्ख्या न विद्यते ।मालया कररेखाभिर्जपेत्साधकसत्तमः ॥४३॥विधिर्मन्त्रजपे प्रोक्तः षष्ठिदण्डात्मकं दिनम् ।स्नानाद्यपेक्षा नास्त्यत्र यथाशक्यं करोतु वा ।इत्येवं साधयेन्मन्त्रं स एव साधकोत्तमः ॥४४॥इति भक्तिचन्द्रिकायां सप्तमः पटलः N/A References : N/A Last Updated : May 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP