संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीभक्तिचन्द्रिका| षष्ठः पटलः श्रीभक्तिचन्द्रिका अनुक्रमणिका प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टः पटलः श्रीभक्तिचन्द्रिका - षष्ठः पटलः भक्तिचन्द्रिका Tags : bhaktichandrikasanskritभक्तिचन्द्रिकासंस्कृत षष्ठः पटलः Translation - भाषांतर अथ वक्ष्ये मन्त्रवरान्सर्वकामार्थसिद्धिदान।कृष्णचैतन्यचन्द्रस्य प्रेमभक्तिसुसिद्धये ॥१॥कृष्णेति द्व्यक्षरो मन्त्रश्चैतन्यत्र्यक्षरो मतः ।चतुर्वर्णो मन्त्रवरो ङेयुक्त्र्यक्षर एव च ॥२॥स च पञ्चाक्षरो ज्ञेयः प्रेमादिर्मनुरुत्तमः ।प्रेमसम्पुटितो ज्ञेयश्चैतन्य इति पञ्चमः ॥३॥कामादिश्चेत्पञ्चमः स्यात्षडक्षर इतीरितः ।षडक्षरो मन्मथान्तो मनुः सप्ताक्षरो मतः ॥४॥विश्वम्भराय प्रेमादिः कामानोत्मनुरुत्तमः ।स्याच्छचीनन्दनो ङेयुग्वह्निजायान्तको मनुः ॥५॥अष्टक्षरो मन्त्रवरः प्रेमाख्यादिर्नवाक्षरः ।दशाक्षरो मन्मथादिर्मन्त्रराजः प्रकीर्तितः ॥६॥एतेषां नारदो ज्ञेयो मुनिश्छन्दो विराडिति ।देवता कृष्णचैतन्यो बीजं प्रेमाख्यमुत्तमम् ॥७॥शक्तिर्वह्निवधूः प्रोक्ता साद्याधिष्ठातृदेवता ।प्रेमाख्येन हि षड्दीर्घभाजा स्यादङ्गकल्पना ॥८॥प्रातः कृत्यादिकं कर्मयर्थापूर्वं समाचरेत।पद्मं वसुदलोपेतं कर्णिकाकेशरान्वितम् ॥९॥षट्कोणं विलिखेन्मध्ये बीजं तत्र लिखेत्पुनः ।तत्र सम्पूजयेद्भक्त्या भगवन्तं सुसाधकः ॥१०॥श्रीमन्मौक्तिकदामबद्धचिकुरं सुस्मेरचन्द्राननम् ।श्रीखण्डागुरुचारुचित्रवसनस्रग्दिव्यभूषणाञ्चितम् ॥११॥नृत्यावेशरसानुमोदमधुरं कन्दर्पवेशोज्ज्वलम् ।चैतन्यं कनकद्युतिं निजजनैः संसेव्यमानं भजे ॥१२॥ध्यात्वैवं पूजयेन्नित्यं बहिरङ्गैस्ततो बहिः ।दिक्पालास्त्राणि सम्पूज्य जपेन्मन्त्रं सुसाधकः ॥१३॥लक्षैकसङ्ख्यया प्रोक्तो जपो होमादयः क्रमात ॥१४॥पुनरन्यमनुं वक्ष्ये सर्वसिद्धिफलप्रदम् ।वेदादिहृद्भगवते कृष्णचैतन्य एव च ॥१५॥ङेयुतो मन्त्रराजोऽयं त्रयाधिकदशाक्षरः ।मुनिर्ब्रह्मा विराट्छन्दो देवतान्यासिरूपधृक ॥१६॥चैतन्यः परमानन्दः प्रणवो बीजमुत्तमम् ।नमः शक्तिर्विनियोगो भक्तिसिद्ध्यर्थ इत्यपि ॥१७॥आचक्रायाग्निदयिता हृदयाय नमो हृदि ।विचक्रायानलवधूः शिरसे वह्निनागरी ॥१८॥सुचक्रायाग्निवरदा शिखायैव षडित्यपि ।त्रैलोक्यरक्षणोपेतचक्रायाग्निप्रिया ततः ॥१९॥कवचाय तथा वर्म त्वसुरान्तकपूर्वकम् ।चक्रं पुनश्चतुर्थ्यन्तं स्वाहास्त्राय तथास्त्रकम् ॥२०॥नाराचमुद्रया कुर्याद्ध्वनित्रितयमेव च ।एवमङ्गादिना कुर्यात्करन्यासं सुसंयमी ।अपरं पूर्ववत्कृत्वा ध्यायेद्हृदयपङ्कजे ॥२१॥अत्यन्तातप्तहेमद्युतिरुचिरतनुं दीर्घदेहाक्षिबाहुंश्रीखण्डालिप्तवक्षःस्थलकलिततलसन्मालतीमाल्ययुग्मम् ।आरक्ताभासवासोयुगललितवपुर्नाट्यलीलाकलाढ्यंवन्दे चैतन्यचन्द्रं सकलकलुषहं प्रेमभक्त्येकगम्यम् ॥२२॥धात्वैवं पूजयेद्भक्त्या भगवन्तं जनार्दनम् ।अङ्गैर्दिक्पतिभिः सार्धं वज्राध्यैश्च यथाक्रमम् ॥२३॥एवमाराधितो देवदेवेशः साधकोत्तमैः ।विरक्तिसहितां भक्तिं ददाति तत्क्षणात्प्रभुः ॥२४॥प्रेमाख्यस्य मनोर्वक्ष्ये पूजाविधिमथो क्रमात।ऋषिर्ब्रह्मानुष्टुप्च्छन्दो देवता प्रेमविग्रहः ॥२५॥विश्वम्भरो बीजमन्त्रप्रेमाख्यं स्वयमेव च ।शक्तिर्वह्निवधूः प्रोक्तो विनियोगः स्वकर्मणि ॥२६॥षड्दीर्घभाजा प्रेम्ना च कुर्यादेवाङ्गकल्पनाम् ।यथाविधि करन्यासं कृत्वाध्यायेत्समाहितः ॥२७॥ध्यायेद्बालं प्रसन्नं तरुणरविकराभासमानं समन्तात्क्रोडस्थं मातुरद्धा प्रकटितपरमानन्दमालोलदेहम् ।देवं विश्वम्भरं तं कलिकलुषहरं दिव्यविप्राङ्गनाभिःप्रेम्ना संवीक्ष्यमाणं विहसितवदनं रक्तनेत्रोत्पलाढ्यम् ॥२८॥ध्यात्वैवं पूजयेद्भक्त्या पाद्यार्घ्याद्यैर्यथाक्रमम् ॥२९॥अङ्गवह्न्यादिकोणे तदनु च परितः केशरेष्वेव मात्र्दिव्यालङ्कारयुक्ताः सुविमलवसनाः पूजयेद्भक्तियुकः ।पूज्या भक्तिर्विभूतिस्त्रिभुवनजननी श्रीशचीकान्तिराद्याशान्तिः शक्तिश्च धात्री तदनुदलगतात्पूजयेद्गन्धपुष्पैः ॥३०॥नित्यानन्दस्तथाद्वैतो मुरारिः श्रीनिवासकः ।जगन्नाथस्तथा ज्ञेयः सुदर्शन इति स्मृतः ॥३१॥गदाधरश्च विख्यातः ख्यातो नरहरिस्तथा ।दिव्यमाल्याम्बरधराः पुलकाश्रुभराकुलाः ॥३२॥पत्राग्रे विप्रपत्न्यश्च पूजनीयाः प्रयत्नतः ।माधवी वैष्णवी देवी शुभदा सुन्दरी सती ॥३३॥कालिन्दी ललिता दिव्यवासोऽलङ्कारचर्चिताः ।गौरीश्यामा क्रमाज्ज्ञेयाः प्रतिवेशिवराङ्गनाः ।तद्बहिर्दिक्षु भक्ताग्र्याः पूजनीया विधानतः ॥३४॥वासुदेवो मुकुन्दश्च रामः शङ्कर एव च ।नीलाम्बरो रामदासकविचन्द्रस्ततः परम् ॥३५॥हरिदासस्तथा चन्द्रशेखराचार्य एव च ।दिव्यमाल्याम्बरधराः सर्वे सङ्गीततत्पराः ॥३६॥तद्बहिर्दिक्षु दिक्पालान्वज्रादींश्च ततो बहिः ।पूर्वोक्तयन्त्रे सम्पूज्य दशलक्षं जपेद्बुधः ॥३७॥इति भक्तिचन्द्रिकायां षष्ठः पटलः N/A References : N/A Last Updated : May 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP