संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः|

द्वितीयः भागः - उन्मादाधिकारः

भावप्रकाशसंहिता


अथ द्वाविंश उन्मादाधिकारः ॥२२
मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः
मानसोऽयमतो व्याधिरुन्माद इति कीर्त्तितः ॥१॥
स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्त्ति च ॥२॥
विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमा च चेष्टा ॥३॥
एकैकशः सर्वशश्च दोषैरत्यर्थमूर्च्छितैः
मानसेन च दुःखेन स पञ्चविध उच्यते
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् ॥४॥
तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ॥५॥
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च
अबद्धवाक्यं हृदयञ्च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ॥६॥
रुक्षाल्पशीतान्नविरेकधातुक्ष योपवासैरनिलोऽतिवृद्धः
चिन्ताऽदिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ॥७
अस्थानहास्यस्मितनृत्यगीतवा गङ्गविक्षेपणरोदनानि पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलञ्चानिलजस्य रूपम् ॥८॥
अजीर्णकट्वम्लविदाहशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्
उन्मादमत्युग्रमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात् ॥९॥
अमर्षसंरम्भविनग्नभावाः सन्तर्जनाभिद्र वणौष्ण्यरोषाः
प्रच्छायशीतान्नजलाभिलाषा पीता च भा पित्तकृतस्य लिङ्गम् ॥१०॥
सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रवृद्धः
बुद्धिं स्मृतिञ्चाप्युपहन्ति चित्तं प्रमोहयन्सञ्जनयेद्विकारम् ॥११॥
वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता च निद्रा
छर्दिश्च लाला च बलञ्च भुक्ते नखादिशौक्ल्यञ्च कफात्मके स्यात् ॥१२॥
यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स तु हेतुभिः स्यात्
सर्वाणि रूपाणि बिभर्त्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः ॥१३॥
चौरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा
गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः ॥१४॥
चित्रं ब्रवीति च मनोऽनुगतं विसंज्ञो गायत्यथो हसति रोदिति चातिमूढः ॥१५॥
रक्तेक्षणो हतबलेन्द्रि यभाः सुदीनः श्यावाननो विषकृते तु भवेत्परासुः ॥१६॥
अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः
जागरूको ह्यसन्देहमुन्मादेन विनश्यति ॥१७॥
अमत्तर्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादियुक्तः
प्रकोपकालो नियतश्च यस्य देवादिजन्मा मनसो विकारः ॥१८॥
सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रो ऽप्यवितथसंस्कृतप्रभाषी
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ॥१९॥
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः
सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः ॥२०॥
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः
नृत्यन्वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः ॥२१॥
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतगतिरल्पवाक्सहिष्णुः
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ॥२२॥
प्रेतानां स दिशति संस्तरेषु पिण्डाञ् शान्तात्मा जलमपि चापसव्यवस्त्रः
मांसेप्सुस्तिलगुडपायसाभिलाषी तद्भक्तो भवति पितृग्रहाभिजुष्टः ॥२३॥
यस्तूर्व्यां प्रसरति सर्पवत्कदाचित् सृक्किण्यौ मुहुरपि जिह्वयाऽवलेढि
क्रोधालुर्घृतमधुदुग्धपायसेप्सुर्विज्ञेयः स खलु भुजङ्गमेन जुष्टः ॥२४॥
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः
क्रोधालुर्विविधबलो निशाविहारी शौचद्विड् भवति स राक्षसैर्गृहीतः ॥२५॥
देवविप्रगुरुद्वेषी वेदवेदाङ्गनिन्दकः
आत्मपीडाकरोऽहिस्रो ब्रह्मराक्षससेवितः ॥२६॥
उद्बस्त्रः कृशपरुषो विरुद्धभाषी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः
बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टंस्त्रसति रुदन्पिशाचजुष्टः ॥२७॥
स्थूलाक्षो द्रुतमटनः सफेनवामी निद्रा लुः पतति च कम्पते च योऽति
यश्चाद्रि द्विरदनगादिविच्युतः स्यात्सोऽसाध्यो भवति तथा त्रयोदशेऽब्दे ॥२८॥
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ ॥२९॥
पितरः कृष्णपक्षे च पञ्चम्यामपि चोरगाः
रक्षःपिशाचा रात्रौ च चतुर्दश्यां विशन्ति हि ॥३०॥
वातिके स्नेहपानं प्राग्विरेकः पित्तसम्भवे
कफजे वमनं कार्यं परो वस्त्यादिकः क्रम
यच्चोपद्रे क्ष्यते किञ्चिदपस्मारे चिकित्सितम्
उन्मादे तच्च कर्त्तव्यं सामान्याद् दोषदूष्ययोः ॥३१॥
जलाग्निद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा
रक्षेदुन्मादिनं यत्नात्सद्यः प्राणहरं हि तत् ॥३२॥
ब्राह्मीकूष्माण्डीफलषड्ग्रन्थाशङ्खपुष्पिकास्वरसाः
दृष्टा उन्मादहृतः पृथगेते कुष्ठमधुमिश्राः ॥३३॥
सिद्धार्थको हिङ्गु वचा करञ्जो देवदारु च
मञ्जिष्ठा त्रिफला श्वेता कटभी त्वक् कटुत्रयम् ॥३४॥
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम् ॥३५॥
नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा
अपस्मारविषोन्मादकृत्याऽलक्ष्मीज्वरापहम् ॥३६॥
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते
सर्पिरेतेन संसिद्धं सगोमूत्रं तदर्थकृत् ॥३७॥
ब्रूयादिष्टविनाशञ्च दर्शयेदद्भुतानि च
बद्धं सर्षपतैलाक्तं रक्षेदुत्तानमातपे ॥३८॥
कपिकच्छ्वाऽथ वा तप्तैर्लोहतैलजलैः स्पृशेत्
कशाभिस्ताडयेत्तं वा सुबद्धं विजने गृहे ॥३९॥
सर्पेणोद्धृतदंष्ट्रेण दशेत्सिंहैर्गजैश्च तम्
त्रासयेच्छस्त्रहस्तैश्च शत्रुभिस्तस्करैस्तथा ॥४०॥
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्
त्रासयेयुर्वधैरेनं तर्जयन्तो नृपाज्ञया ॥४१॥
देहदुःखभयेभ्यो हि यतः प्राणभयं भवेत्
ततस्तस्य शमं याति सर्वतो विप्लुतं मनः ॥४२॥
इष्टद्र व्यविनाशेन मनो यस्याभिहन्यते
तस्य तत्सदृशप्राप्त्या ज्ञात्वाऽश्वासैः शमं नयेत् ॥४३॥
त्र्यूषणं हिङ्गु लवणं वचा कटुकरोहिणी
शिरीषस्य करञ्जस्य बीजं गौराश्च सर्षपाः ॥४४॥
गोमूत्रपिष्टैरेभिस्तु वर्तिर्नेत्राञ्जने हिता
हन्त्युन्मादमपस्मारं तथा चातुर्थकं ज्वरम् ॥४५
कुष्ठाश्वगन्धे लवणाजमोदे द्वेजीरके त्रीणि कटूनि पाठा
मङ्गल्यपुष्पी च समान्यमूनि सर्वैः समानाञ्च वचां विचूर्ण्य ॥४५॥
ब्राह्मीरसेनाखिलमेव भाव्यं वारत्रयं शुष्कमिदं हि चूर्णम्
अक्षप्रमाणं मधुना घृतेन लिह्यान्नरः सप्त दिनानि चूर्णम् ॥४७॥
सारस्वतमिदं चूर्णं ब्रह्मणा निर्मितं पुरा
हिताय सर्वलोकानां दुर्मेधानां विचेतसाम् ॥४८॥
एतस्याभ्यासतः पुंसां बुद्धिर्मेधा धृतिः स्मृतिः
सम्पत्तिः कविताशक्तिः प्रवर्द्धेतोत्तरोत्तरम् ॥४९॥
विश्वाऽजमोदरजनीद्वयसैन्धवोग्रायष्ट्याह्वकुष्ठमगधोद्भवजीरकाणाम्
चूर्णं प्रभातसमये लिहतः ससर्पिर्वाग्देवता निवसति स्वयमेव वक्त्रे ॥५०॥
क्वाथे विचूर्णिते क्षिप्त्वा तत्षोडशगुणं जलम्
पादशेषं प्रकर्त्तव्यमेष क्वाथविधिः स्मृतः ॥५१॥
दशमूली तथा रास्ना वातारिस्त्रिवृता बला
मूर्वा शतावरी चेति क्वाथैस्तु कुडवैः पृथक् ॥५२॥
कृतैः क्वाथैर्घृतप्रस्थद्वयं मृद्वग्निना पचेत्
कल्कीकृतैर्वक्ष्यमाणद्र व्यैः सम्यक् पुनः पचेत् ॥५३॥
विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्
स्थिराऽनन्ता रजन्यौ द्वे प्रियङ्गुः सारिवाद्वयम् ॥५४॥
नीलोत्पलैला मञ्जिष्ठा दन्ती दाडिमकेसरम्
विडङ्गं ह्यग्निपत्री च कुष्ठं चन्दनपद्मके ॥५५॥
तालीशपत्रं बृहती मालतीकुसुमं नवम्
अष्टाविंशतिभिः कल्कैरेतैः कर्षमितैः पृथक् ॥५६॥
चतुर्गुणं जलं दत्वा पिष्टैस्तद्विपचेद् घृतम्
महाचैतसनामेदं सर्वचेतोविकारनुत् ॥५७॥
अपस्मारे महोन्मादे मन्देऽग्नौ ज्वरकासयोः
वातरक्ते प्रतिश्याये शोषे कार्श्ये तृतीयके ॥५८॥
म्रूत्रकृच्छ्रे कटीशूले विसर्पाभिहतेषु च
पाण्ड्वामये तथा कण्ड्वां विषे मेहे गरेऽपि च ॥५९॥
देवादिहतचित्तानां गद्गदानामचेतसाम्
शस्तं स्त्रीणाञ्च वन्ध्यानां धन्यमायुर्बलप्रदम् ॥६०॥
अलक्ष्मी पापरक्षोध्नं सर्वग्रहनिवारणम्
हन्ति भ्रमं मदं मूर्च्छां मेधास्मृतिमतिप्रदम् ॥६१॥
पूजाबल्युपहारेष्टिहोममन्त्राञ्जनादिभिः
जयेदागन्तुमुन्मादं यथाविधि शुचिर्भिषक् ॥६२॥
कृष्णामरिचसिन्धूत्थमधुगोरोचनाकृतम्
अञ्जनं सर्वदेवादिकृतोन्मादहरं परम्६३॥
ॠक्षजम्बुकलोमानि शल्लकी लशुनं तथा
हिङ्गु मूत्रञ्च बस्तस्य धूममस्य प्रयोजयेत्
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ॥६४॥
कल्याणकञ्च युञ्जीत महद् वा चैतसं घृतम्
तैलं नारायणं वाऽथ महानारायणं तथा ॥६५॥
ॠते पिशाचादन्येषु प्रतिकूलं न वाऽचरेत्
रोगिणंभिषजं यत्ते क्रुद्धा हन्युर्महौजसः ॥६६॥
इति द्वाविंश उन्मादाधिकारः समाप्तः ॥२२॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP