संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः| छर्द्यधिकारः द्वितीयः भागः अशोऽधिकारः जठरान्निगविकाराधिकारः कृमिरोगाधिकारः पाण्डुरोगकामलाहलीमकाधिकारः रक्तपित्ताधिकारः अम्लपित्तश्लेष्मपित्ताधिकारः राजयक्ष्माधिकारः कासरोगाधिकारः हिक्काऽधिकारः श्वासरोगाधिकारः स्वरभेदाधिकारः अरोचकाधिकारः छर्द्यधिकारः तृष्णाऽधिकारः मूर्च्छाभ्रमनिद्रातन्द्रासंन्यासाधिकारः मदात्ययाधिकारः दाहाधिकारः उन्मादाधिकारः अपस्माराधिकारः वातव्याध्यधिकारः ऊरुस्तम्भाधिकारः आमवाताधिकारः पित्तव्याध्यधिकारः श्लेष्मव्याध्यधिकारः वातरक्ताधिकारः द्वितीयः भागः - छर्द्यधिकारः भावप्रकाशसंहिता Tags : aayurvedbhavprakash samhitasamhitaआयुर्वेदभावप्रकाश संहितासंहिता छर्द्यधिकारः Translation - भाषांतर अथ सप्तदशश्छर्द्यधिकारः ॥१७अतिद्र वैरतिस्निग्धै रहृद्यैर्लवणैरपिअकाले चातिमात्रैश्च तथासात्म्यैश्च भोजनैः ॥१॥आमाद्भयात्तथोद्वेगाद जीर्णात्क्रिमिदोषतःनार्याश्चापन्नसत्त्वाया स्तथाऽतिद्रुतमश्नतःबीभत्सैर्हेतुभिश्चान्यैर्भुक्तमुत्क्लिश्यते बलात् ॥२॥दुष्टदोषैः पृथक्सर्वैर्विभत्सालोकनादिभिःछर्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ॥३॥हृल्लासोद्गारसंरोधौ प्रसेको लवणास्यताद्वेषोऽन्नपाने च भृशं वमीनां पूर्वलक्षणम् ॥४॥छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैःनिरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः ॥५॥हृत्पार्श्वपीडामुखशोष शीर्षनाभ्यर्त्तिकासस्वरभेदतोदःउद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम् ॥६॥कृच्छ्रेण चाल्पं महता च वेगेनार्त्तोऽनिलाच्छर्दयतीव दुःखम् ॥७॥मूर्च्छापिपासामुखशोष मूर्द्धताल्वक्षिसन्तापतमोभ्रमार्त्तःपीतं भृशोष्णं हरितञ्च तिक्तं धूम्रञ्च पित्तेन वमेत्सदाहम् ॥८॥तन्द्रा ऽस्यमाधुर्यकफप्रसेक सन्तोषनिद्रा ऽरुचिगौरवार्त्तःस्निग्धं घनं स्वादु कफाद्धि शुक्लं सलोमहर्षोऽल्परुजं वमेत्तु ॥९॥असात्म्यजा च कम्जाऽमजा च बीभत्सजा दौर्हृदजा च या हिसा पञ्चमी ताञ्च विभावयेच्च दोषोच्छ्रयेणैव यथोक्तमादौ ॥११॥शूलहृल्लासबहुला कृमिजा च विशेषतःकृमिहृद्रो गतुल्येन लक्षणेन च लक्षिता ॥१२॥कासः श्वासो ज्वरस्तृष्णाहिक्कावैचित्त्यमेव चहृद्रो गस्तमकश्चैव ज्ञेयाश्छर्देरुपद्र वाः ॥१३॥क्षीणस्य या छर्दिरतिप्रसक्ता सोपद्र वा शोणितपूययुक्तासचन्द्रि कां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेन्निरुपद्र वां च ॥१४॥आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्विधीयते मारुतजां विना तु संशोधनं वा कफपित्तहारि ॥१५॥हन्यात्क्षीरोदकं पीतं छर्दिं पवनसम्भवाम्मुद्गामलकयूषो वा ससर्पिष्कः स सैन्धवः ॥१६॥गुडूचीत्रिफलानिम्बपटोलैः क्वथितं जलम्पिबेन्मधुयुतं तेन छर्दिर्नश्यति पित्तजा ॥१७॥हरीतकीनां चूर्णन्तुलिह्यान्माक्षिकसंयुतम्अधोमार्गीकृते दोषे छर्दिः शीघ्रं निवर्त्तते ॥१८॥विडङ्गत्रिफलाविश्वा चूर्णं मधुयुतं जयेत्विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम् ॥१९॥पिष्ट्वा धात्रीफलं लाजाञ्छर्कराञ्च पलोन्मिताम्दत्वा मधुपलञ्चापि कुडवं सलिलस्य चवाससा गालितं पीतं हन्ति च्छर्दिं त्रिदोषजाम् ॥२०॥गुडूच्या रचितं हन्ति हिमं मधु समन्वितम्दुर्निवारामपि च्छर्दिं त्रिदोषजनितां बलात् ॥२१॥एलालवङ्गगजकेशरकोलमज्जालाजाप्रियङ्गुघनचन्दनपिप्पलीनाम्चूर्णानि माक्षिकसितासहितानि लीढ्वा छर्दिंनिहन्ति कफमारुतपित्तजाताम् ॥२२॥अश्वत्थवल्कलं शुष्कं दग्धं निर्वापितं जलेतज्जलं पानमात्रेण छर्दिं जयति दुर्जयाम् ॥२३॥पथ्यात्रिकटुधान्याक जीरकाणां रजो लिहन्मधुना नाशयेच्छर्दिमरुचिञ्च त्रिदोषजाम् ॥२४॥बिल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रे ण संयुतःछर्दिं त्रिदोषजां हन्ति पर्पटः पित्तजां तथा ॥२५॥आम्रास्थिबिल्वनिर्यूहः पीतः समधुशर्करःनिहन्याच्छर्द्यतीसारं वैश्वानर इवाहुतिम् ॥२६॥जम्ब्वाम्रपल्लवशृतं लाजरजः संयुतं शीतम्शमयति मधुना युक्तं वमिमतिसारं तृषामुग्राम् ॥२७॥बीभत्सजां हृद्यतमैरिष्टैर्दौर्हृदजां फलैःलङ्घनैरामजां छर्दिं जयेत्सात्म्यैरसात्म्यजाम् ॥२८॥कृमिहृद्रो गवद्धन्याच्छर्दिं कृमिसमुद्भवाम्तत्र तत्र यथादोषं क्रियां कुर्याच्चिकित्सकः ॥२९सोद्गारायां भृशं छर्द्यां मूर्वाया धान्यमुस्तयोःसमधुकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम् ॥२९॥सौवर्चलमजाजी च शर्करा मरिचानि चक्षौद्रे ण सहितं लीढं सद्यश्छर्दिनिवारणम् ॥३१॥इति सप्तदशश्छर्द्यधिकारः सम्पूर्णः ॥१७॥ N/A References : N/A Last Updated : May 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP