संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः|

द्वितीयः भागः - श्वासरोगाधिकारः

भावप्रकाशसंहिता


अथ चतुर्दशः श्वासरोगाधिकारः ॥१४॥
यैरेव कारणैर्हिक्का देहिनां सम्प्रवर्त्तते
तैरेव बहुभिः श्वासो व्याधिर्घोरः प्रजायते ॥१॥
महोर्ध्वच्छिन्नतमकक्षुद्र भेदैस्तु पञ्चधा
भिद्यते स महाव्याधिः श्वास एको विशेषतः ॥२॥
प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च
आनाहोवक्त्रवैरस्यं शङ्खनिस्तोद एव च ॥३॥
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः
विष्वग्व्रजति संरुद्धस्तदा श्वासान् करोति सः ॥४॥
उद्धूयमानवातो यःशब्द वद् दुःखितो नरः
उच्चैः श्वसिति सन्नद्धो मत्तर्षभ इवानिशम् ॥५॥
प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः
विवृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक् ॥६॥
दीनस्य श्वसितञ्चास्य दूराद्विज्ञायते भृशम्
महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते ॥७॥
ऊर्ध्वं श्वसिति योऽत्यर्थं न च प्रत्याहरत्यधः
श्लेष्मावृतमुखस्रोतः क्रुद्धगन्धवहार्दितः ॥८॥
ऊर्ध्वदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्ततः
प्रमुह्यन्वेदनाऽत्तश्च शुष्कास्योऽरतिपीडितः ॥९॥
ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुद्ध्य्ते
मुह्यतस्ताम्यतश्चोर्ध्वश्वासस्तस्य निहन्त्यसून् ॥१०॥
यस्तु श्वसिति विच्छिनं सर्वप्राणेन पीडितः
न वा श्वसिति दुःखार्त्तो मर्मच्छेदरुजाऽदितः ॥११॥
आनाहस्वेदमूर्च्छाऽत्तो दह्यमानेन वस्तिना
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः ॥१२॥
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः
छिन्नश्वासेन विच्छिन्नः स शीघ्रं विजहात्यसून् ॥१३॥
प्रतिलोमो यदा वायुः स्रोतांसि प्रतिपद्यते
ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च ॥१४॥
करोति पीनसं तेन कण्ठे घुर्घुरकं तथा
अतीव तीव्रवेगञ्च श्वासं प्राणप्रपीडकम् ॥१५॥
प्रताम्यति स वेगेन तृष्यते सन्निरुध्यते
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः ॥१६॥
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः
तस्यैव च विमोक्षान्ते मुहूर्त्तं लभते सुखम् ॥१७॥
तथाऽस्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भषितुम्
न चापि लभते निद्रां शयानः श्वासपीडितः ॥१८॥
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः
आसीनो लभते सौख्यमुष्णञ्चैवाभिनन्दति ॥१९॥
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्त्तिमान्
विशुष्कास्यो मुहुःश्वासो मुहुश्चैवावधम्यते ॥२०॥
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते
स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः ॥२१॥
ज्वरमूर्च्छापरीतञ्च विद्यात्प्रतमकं तु तम् ॥२२॥
उदावर्त्तरजोऽजीर्णक्लिन्नकायनिरोधजः
तमसा वर्द्धतेऽत्यर्थं शीतलैश्च प्रशाम्यति
मज्जतस्तमसीवास्य विद्यात्प्रतमकन्तु तम् ॥२३॥
रुक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्
क्षुद्र श्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः ॥२४॥
हिनस्ति न च गात्राणि न च दुःखो यथेतरे
न च भोजनपानानां निरुणद्ध्युचितां गतिम् ॥२५॥
नेन्द्रि याणां व्यथाञ्चापिकाञ्चिदुत्पादयेद्रुजम्
स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः ॥२६॥
क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च ॥२७॥
कामं प्राणहरा रोगा बहवो न तु ते तथा
यथा श्वासश्च हिक्का च हरतः प्राणमाशु वै ॥२८॥
श्वासहिक्कातुरं प्रायः स्निग्धैः स्वेदैरुपाचरेत्
युक्तैर्लवणतैलाभ्यां तैरस्य ग्रन्थितः कफः ॥२९॥
श्वासो विलयमायाति मारुतश्चोपशाम्यति
स्विन्नं ज्ञात्वा ततश्चैनं भोजयेच्च रसौदनम् ॥३०॥
स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम्
पाययेच्छ्वासकासघ्नं प्रतिश्यायकफापहम् ॥३१॥
प्रस्थं बिभीतकानामस्थि विना साधयेदजामूत्रे
अयमवलेहो लीढो मधुसहितः श्वासकासघ्नः ॥३२॥
देवदारुबलामांसीः पिष्ट्वा वर्त्तिं प्रकल्पयेत्
तां घृताक्तां पिबेद्धूमं श्वासं हन्ति सुदारुणम् ॥३३॥
दशमूलीशटीरास्नापिप्पलीविश्वपौष्करैः
शृङ्गीतामलकीभार्गीगुडूचीनागराग्निभिः ॥३४॥
यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः
श्वासहृद्ग्रहपार्श्वार्त्तिहिक्काकासप्रशान्तये ॥३५॥
दशमूलस्य वा क्वाथः षौष्करेणावचूर्णितः
श्वासकासप्रशमनः पार्श्वशूलनिवारणः ॥३६॥
रम्भाकुन्दशिरीषाणां कुसुमं पिप्पलीयुतम्
पिष्ट्वा तण्डुलतोयेन पीत्वा श्वासमपोहति ॥३७॥
शृङ्गीमहौषधकणाघनपौष्कराणां चूर्णं शटीमरिचयोश्च सिताविमिश्रम्
क्वाथेन पीतममृतावृषपञ्चमूल्याः श्वासं त्र्यहेण विनिहन्ति हि घोररूपम् ॥३८॥
पञ्चमूली तु सामान्या पित्ते योज्या कनीयसी
महती मारुते देया सैव देया कफाधिके ॥३९॥
कूष्माण्डकशिफाचूर्णं पीतं कोष्णेन वारिणा
शीघ्रं शमयति श्वासं कासञ्चापि सुदारुणम् ॥४०॥
हरिद्रां मरिचं द्रा क्षां कणां रास्नां शटीं गुडम्
कटुतैलं लिहन्हन्याच्छ्वासान् प्राणहरानपि ॥४१॥
शतं सङ्गृह्य भार्ग्यास्तु दशमूल्यास्तथा शतम्
शतं हरीतकीनाञ्च पचेत्तोये चतुर्गुणे ॥४२॥
पादावशेषे तस्मिंस्तु रसे वस्त्रनिपीडिते
आलोड्य च तुलां पूतां गुडस्य त्वभयास्ततः ॥४३॥
पुनः पचेत्तु मृद्वग्नौ यावल्लेहत्वमेति तत्
शीते च मधुनस्तत्र षट्पलानि विनिक्षिपेत् ॥४४॥
त्रिकटुं त्रिसुगन्धञ्च पलमात्रं पृथक् पृथक्
यवक्षारं कर्षयुग्मं सञ्चूर्ण्य प्रक्षिपेत्ततः ॥४५
भक्षयेदभयामेकां लेहस्यार्द्धपलं तथा
श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ॥४५॥
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा
स्वरवर्णप्रदो ह्येष जठराग्नेश्च दीपनः
नाम्ना भार्गीगुडः ख्यातो भिषग्भिः सकलैर्मतः ॥४७॥
अष्टाङ्गचूर्णसंयुक्तं छागक्षीरं प्रयोजयेत्
श्वासं कासान्वितं घोरं हन्यादेतन्न संशयः ॥४८॥
दशमूलरसो देयः श्वासनिर्मूलशान्तये
अवश्यंमरणीयो यो जीवेद्वर्षशतं नरः ॥४९॥
रसो गन्धो विषञ्चापि टङ्कणञ्च मनः शिला
एतानिकर्षमात्राणि मरिचं चाष्टकर्षकम् ॥५०॥
कटुत्रयं कर्षयुग्मं पृथगत्र विनिक्षिपेत्
रसः श्वासकुठारोऽय सर्वश्वासनिवारणः ॥५१॥
इति चतुर्दशः श्वासाधिकारः समाप्तः ॥१४॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP