संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः| कासरोगाधिकारः द्वितीयः भागः अशोऽधिकारः जठरान्निगविकाराधिकारः कृमिरोगाधिकारः पाण्डुरोगकामलाहलीमकाधिकारः रक्तपित्ताधिकारः अम्लपित्तश्लेष्मपित्ताधिकारः राजयक्ष्माधिकारः कासरोगाधिकारः हिक्काऽधिकारः श्वासरोगाधिकारः स्वरभेदाधिकारः अरोचकाधिकारः छर्द्यधिकारः तृष्णाऽधिकारः मूर्च्छाभ्रमनिद्रातन्द्रासंन्यासाधिकारः मदात्ययाधिकारः दाहाधिकारः उन्मादाधिकारः अपस्माराधिकारः वातव्याध्यधिकारः ऊरुस्तम्भाधिकारः आमवाताधिकारः पित्तव्याध्यधिकारः श्लेष्मव्याध्यधिकारः वातरक्ताधिकारः द्वितीयः भागः - कासरोगाधिकारः भावप्रकाशसंहिता Tags : aayurvedbhavprakash samhitasamhitaआयुर्वेदभावप्रकाश संहितासंहिता कासरोगाधिकारः Translation - भाषांतर अथ द्वादशः कासरोगाधिकारः ॥१२॥धूमोपघाताद्र जसस्तथैव व्यायामरुक्षान्ननिषेवणाच्चविमार्गगत्वादपि भोजनस्य वेगावरोधात्क्षवथोस्तथैव ॥१॥प्राणो ह्युदानानुगतः प्रदुष्टः सम्भिन्नकांस्यस्वनतुल्यघोषःनिरेति वक्त्रात्सहसा सदोषोमनीषिभिः कास इति प्रदिष्टः ॥२॥पञ्चकासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैःक्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ॥३॥पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यताकण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ॥४॥हृच्छङ्खपार्श्वोदरमूर्द्धशूली क्षामाननः क्षीणबलस्वरौजाःप्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासतिशुष्कमेव ॥५॥उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषाऽत्तपित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः ॥६॥प्रलिप्यमानेन मुखेन सीदञ्छिरोरुजाऽत्त कफपूर्णदेहःअभक्तरुग्गौरवकण्डुयुक्तः कासेद् भृशं सान्द्र कफः कफेन ॥७॥अतिव्यवायभाराध्वयुद्धाश्वगजनिग्रहैःरूक्षस्योरःक्षतं वायुर्गृहीत्वाकासमावहेत् ॥८॥स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्कण्ठेन कूजताऽत्यर्थं विभग्नेनेव चोरसा ॥९॥सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेनशूलिनादुःखस्पर्शेनशूलेन भेदपीडाऽभितापिना ॥१०॥पर्वभेदज्वरश्वास तृष्णावैस्वर्यपीडितःपारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ॥११॥विषमासात्म्यभोज्यातिव्यवायाद् वेगनिग्रहात्घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाःकुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम् ॥१२॥सगात्रशूलज्वरमोहदाहप्राणक्षयं चोपलभेत कासी ॥१३॥शुष्यन् विनिष्ठीवति निर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति ॥१४॥इत्येष क्षयजः कासःक्षीणानां देहनाशनःसाध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः ॥१५॥न वै कदाचित्सिद्ध्य्तेमपि पादगुणान्वितौस्थविराणां जराकासः सर्वो याप्यः प्रकीर्त्तितः ॥१६॥त्रीन्पूर्वान्साधयेत्साध्यान्पथ्यैर्याप्यांस्तु यापयेत् ॥१७॥ज्वरारोचकहृल्लासस्वरभेदक्षयादयःभवन्त्युपेक्षया यस्मात् तस्मात्तत्त्वरया जयेत् ॥१८॥कासस्य चिकित्सावास्तूको वायसीशाकं मूलकं सुनिषण्णकम्स्नेहास्तैलादयो भक्ष्यास्तथेक्षुरसगौडिकाः ॥१९॥दध्यारनालाम्लफलं प्रसन्नापानमेव चशस्यते वातकासेषु स्वाद्वम्ललवणानि च ॥२०॥ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्भिषक् ॥२१॥दशमूलीकृता श्वासकासहिक्कारुजाऽपहायवागूर्दीपनी वृष्या वालरोगविनाशिनी ॥२२॥रसः कर्कोटकानां वा घृतभृष्टः सनागरःवातकासप्रशमनः शृङ्गीमत्स्यस्य वा पुनः ॥२३॥कण्टकारीयुगद्रा क्षा वासाकर्चूरबालकैःनागरेण च पिप्पल्या क्वथितं सलिलं पिबेत्शर्करामधुसंयुक्तं पित्तकासहरं परम् ॥२४॥कफजकासस्य चिकित्सापिप्पली कट्फलंशुण्ठी शृङ्गी भार्गी तथोषणम्कारवी कण्टकारी च सिन्दुवारो यवानिका ॥२५॥चित्रको वासकश्चैषां कषायं विधिवत्कृतम्कफकासविनाशाय पिबेत्कृष्णारजोयुतम् ॥२६॥इक्ष्विक्षुबालिका पद्ममृणालोत्पलचन्दनम्मधुकं पिप्पली द्रा क्षा लाक्षा शृङ्गी शतावरी ॥२७॥द्विगुणा च तुगाक्षीरी सिता सर्वचतुर्गुणालिह्यात्तन्मधुसर्पिर्भ्यां क्षतकासनिवृत्तये ॥२८॥चूर्णं काकुभमिष्टं वासकरसभावितं बहून्वारान्मधुघृतसितोपलाभिर्लेह्यं क्षयकासरक्तहरम् ॥२९॥ताप्यमानस्य कासेन नासास्रावे स्वरे जडेक्षवथौ गन्धनाशेच धूमपानं प्रयोजयेत् ॥३०॥मनः शिलाऽलमरिचमांसीमुस्तेङ्गुदैः पिबेत्धूमं त्र्यहञ्च तस्यानु पयश्च सगुडं पिबेत् ॥३१॥एष कासान्पृथग्द्वन्द्वसर्वदोषसमुद्भवान्शतैरपि प्रयोगाणामसाध्यान्साधयेद् ध्रुवम् ॥३२॥बदरीदलमालिप्तं शिलयाऽतपशोषितम्तद्धूमपानं सक्षीरं महाकासनिवारणम् ॥३३॥कण्टकारीकृतः क्वाथः सकृष्णः सर्वकासहःकण्टकार्याः कणायाश्च चूर्णं समधु कासहत् ॥३४॥लवङ्गजातीफलपिप्पलीनां भागान्प्रकल्प्याक्षसमानमीषाम्पलार्द्धमानं मरिचं प्रदेयं पलानि चत्वारि महौषधस्य ॥३५॥सिता समस्तेन समाऽथ चूर्णं रोगानिमानाशु बलान्निहन्तिकासज्वरारोचकमेहगुल्मश्वासाग्निमान्द्यग्रहणीविकारान् ॥३६॥कुनटीसैन्धवव्योषविडङ्गामयहिङ्गुभिःलेहः साज्यमधुः कासश्वासहिक्कानिवारणः ॥३७॥हरीतकीकणाशुण्ठीमरिचं गुडसंयुतम्कासश्लेष्मापहं प्रोक्तं परं वह्नेः प्रदीपनम् ॥३८॥कर्षः कर्षांशपलं पलद्वयं स्यात्ततोर्द्धकर्षञ्चमरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम् ॥३९॥सर्वौषधिभिरसाध्याः कासा ये वैद्यनिर्मुक्ताःअपि पूयं छर्दयतां तेषामिदमौषधं परमम् ॥४०॥मरिचं कर्षमात्रं स्यात्पिप्पली कर्षसम्मिताअर्द्धकर्षो यवक्षारः कर्षयुग्मन्तु दाडिमम् ॥४१॥एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हिशाणप्रमाणां गुटिकां कृत्वा वक्त्रे विधारयेत्अस्याः प्रभावात्सर्वेऽपि कासा यान्त्येव सङ्क्षयम् ॥४२॥समूलवल्कच्छदकण्टकार्यास्तुलां ततो द्रो णमितं जलञ्चहरीतकीनां शतमेकपात्रे विपाच्य कुर्याच्चरणाम्बुशेषम् ॥४३॥तस्मिन्कषाये तनुवस्त्रपूते हरीतकीभिः सहिते गुडस्यतुलां विनिक्षिप्य पचेत्सुपक्वमेतत्समुत्तार्य सुशीतलञ्च ॥४४॥पलं पलञ्चापि कटुत्रयञ्च तथा चतुर्जातपलं विचूर्ण्यपलानि षट् पुष्परसस्य चापि विनिक्षिपेत्तत्र विमिश्रयेच्च ॥४५॥प्रयुज्यमानो विधिनैष लेहो यथाबलञ्चापियथाऽनलञ्चवातात्मकं पित्तकृतं कफोत्थं त्रिदोषजातानपि च त्रिदोषम् ॥४६॥क्षतोद्भवञ्च क्षयजञ्च कासं श्वासञ्च हन्यात्सह पीनसेनयक्ष्माणमेकादशरूपमुग्रं हरीतकी या भृगुणोपदिष्टा ॥४७॥कण्टकारीतुलां नीरद्रो णे पक्त्वा कषायकम्पादशेषं गृहीत्वा च तत्र चूर्णानि दापयेत् ॥४८॥पृथक्पलांशान्येतानि गुडूची चव्यचित्रकौमुस्तं कर्कटशृङ्गी च त्र्यूषणं धन्वयासकः ॥४९॥भार्गी रास्नाशटी चैव शर्करापलविंशतिःप्रत्येकञ्च पलान्यष्टौ प्रदद्याद् घृततैलयोः ॥५०॥पक्त्वा लेहत्वमानीय शीते मधु पलाष्टकम्चतुर्भागं तुगाक्षीर्याः पिप्पल्याश्च चतुःपलम् ॥५१॥क्षिप्त्वा निदध्यात्सुदृढे मृण्मये भाजने शुभंलेहोऽय हन्ति हिक्काऽतिकासश्वासानशेषतः ॥५२॥इति द्वादश कासाधिकारः समाप्तः N/A References : N/A Last Updated : May 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP