संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः|

द्वितीयः भागः - अम्लपित्तश्लेष्मपित्ताधिकारः

भावप्रकाशसंहिता


अथ दशमोऽम्लपित्तश्लेष्मपित्ताधिकारः ॥१०॥
विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपानान्नभुजो विदग्धम्
पित्तं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः ॥१॥
अविपाकः क्लमोत्क्लेशस्तिक्ताम्लोद्गारगौरवैः
हृत्कण्ठदाहारुचिभिरम्लपिक्तं वदेद्भिषक्
अम्लपित्तं द्विधा प्रोक्तमधोगं च तथोर्ध्वगम् ॥२॥
वातं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाच्छम्
मत्स्योदकाभं त्वतिपिच्छिलाभं श्लेष्मानुजातं सहितं रसेन ॥३॥
तृड्दाहमूर्च्छाभ्रममोहकारि प्रयात्यधो वा विविधप्रकारम्
हृल्लासकोठानलसादहर्षस्वेदाङ्गपीतत्वकरं कदाचित् ॥४॥
भुक्ते विदग्धेऽप्यथ वाऽप्यभुक्ते करोति तिक्ताम्लवमिं कदाचित्
उद्गारमेवंविधमेव कण्ठहृत्कुक्षिदाहं शिरसो रुजञ्च ॥५॥
करचरणदाहमौष्ण्यं महतीमरुचिं ज्वरं च कफपित्तम्
जनयति कण्डूमण्डलपिडकाशतनिचितरोगचयम् ॥६॥
सानिलं सानिलकफं सकफं तच्च लक्षयेत्
दोषलिङ्गेन मतिमान् भिषङ्मोहकरं हि तत् ॥७॥
कम्पप्रलापमूर्च्छाश्चिमिचिमिगात्रावसादशूलानि
तमसो दर्शनविभ्रमप्रमोहहर्षास्तथाऽनिलयुतेन ॥८॥
कफनिष्ठीवनगौरवजडताऽरुचिशीतसादवमिलेपाः
दहनबलहानिकण्डूनिद्रा श्चिह्नं कफानुगे भवति
उभयमिदमेव चिह्नं मारुतकफसम्भवेऽम्लपित्ते स्यात् ॥९॥
रोगोऽयमम्लपित्ताख्यो यत्नात्संसाध्यते नवः
चिरोत्थितो भवेद्याप्यः कृच्छ्रसाध्यः स कस्यचित् ॥१०॥
तिक्ताम्लकटुकोद्गारहृत्कुक्षिकण्ठदाहकृत्
तमो मूर्च्छाऽरुचिश्छर्दिरालस्यं च शिरोरुजा
प्रसेको मुखमाधुर्यं श्लेष्मपित्तस्य लक्षणम् ॥११॥
अम्लपित्ते तु वमनं पटोलारिष्टवासकैः
कारयेन्मदनैः क्षौद्रैः सैन्धवैश्च तथा भिषक् ॥१२॥
विरेचनं त्रिवृच्चूर्णं मधुधात्रीफलद्र वैः
ऊर्ध्वगं वमनैर्विद्वानधोगं रेचनैर्हरेत् ॥१३॥
यवगोधूमविकृतीस्तीक्ष्ण संस्कारवर्जिताः
यथास्वं लाजसक्तून्वा सितामधुयुतान्पिबेत् ॥१४॥
निस्तुषयववृषधात्रीक्वथितं सलिलं त्रिगन्धमधुयुक्तम्
द्रुततरमपहरति वमिं सञ्जनितामम्लपित्तेन ॥१५॥
छिन्नोद्भवानिम्बपटोलपत्रं क्षौद्रा न्वितं पीतमनेकरूपम्
सुदारुणं हन्ति तदम्लपित्तं यथाऽशनिस्तालतरुं प्रवृद्धम् ॥१६॥
वासाऽमृतापर्पटक निम्बभूनिम्बमार्कवैः ऐत्रिफलाकुलकैः क्वाथः सक्षौद्र श्चाम्लपित्तहा ॥१७॥
पाठापटोलयवचन्दनधान्य धात्रीवासावराङ्गदल नागकणऽभयाभिः लेहःसिताऽज्यमधुभिःशिवपाल पिण्डीहन्त्यम्ल पित्तमरुचिज्वरदाहशोषान् ॥१८॥
हन्त्यम्लपित्तवमनारुचिदाहमोहखालित्यमेहशिशिरव्रणशुक्रदोषान्
भुक्त्वा नरः सततमामलकीरसेन वृद्धोऽप्यनेन हि भवेत्तरुणो रिरंसुः ॥१९॥
कूष्माण्डकरसो ग्राह्यः पलानां शतमात्रकम्
रसतुल्यं गवां क्षीरं धात्रीचूर्णंपलाष्टकम् ॥२०॥
धात्रीतुल्यासिता योज्या गव्यमाज्यं पलद्वयम्
मन्दाग्निना पचेत्सर्वं यावद्भवति पिण्डितम् ॥२१॥
पलार्द्धं पलमेकं वा प्रत्यहं भक्षयेदिदम्
खण्डकूष्माण्डकं ख्यातमम्लपित्तापहं परम् ॥२२॥
कुडवं नारिकेलस्य जले मृद्वग्निना पचेत्
नारिकेलजलालाभे गव्ये पयसि तत्पचेत् ॥२३॥
धान्यकं पिप्पली मुस्तं चातुर्जातं विचूर्णितम्
प्रत्येकं टङ्कमात्रं तु शीते तस्मिन्विनिक्षिपेत् ॥२४॥
पलमात्रस्तदर्द्धोऽपि भक्षितः प्रत्यहं नरैः
नारिकेलस्य खण्डोऽय पुंस्त्वनिद्रा बलप्रदः ॥२५॥
अम्लपित्तं रक्तपित्तं शूलञ्च परिणामजम्
क्षयं क्षययति क्षिप्रं शुष्कं दार्वनलो यथा ॥२६॥
प्रस्थन्तु नारिकेलस्य सूक्ष्मं दृषदि पेषितम्
निष्कुलीकृतकूष्माण्डखण्डानामर्द्धमाढकम् ॥२७॥
तद्द्वयं भक्षयेद्ग्रव्ये घृते तु कुडवोन्मिते
ततस्तत्र क्षिपेच्छुद्धं गोदुग्धञ्चाढकोन्मितम् ॥२८॥
तत्रैव निक्षिपेद्भव्यां सितां प्रस्थद्वयोन्मिताम्
पचेत्सर्वाणि चैकत्र मृदुना वह्निना भिषक् ॥२९॥
सुपक्के शीतले तत्र चूर्णीकृत्य विनिक्षिपेत्
सूक्ष्मैलां धान्यकं धात्रीं पर्पटं जलदं जलम् ॥३०॥
उशीरं चन्दनं द्रा क्षां शृङ्गाटञ्च कशेरुकम्
त्वक्पत्रकं सकर्पूरं कर्षयुग्मं पृथक्पृथक् ॥३१॥
सर्वं संमिश्रयेद्र क्षेद्भाजने मृण्मये नवे
पलमात्रमिदं प्रातर्भक्षयेद्वा यथाऽनलम् ॥३२॥
एतन्निषेवितं हन्ति रोगानेतान्न संशयः
अम्लपित्तं ज्वरं पित्तं रक्त पित्तमरोचकम् ॥३३॥
वातरक्तं तृषां दाहं पाण्डुरोगञ्च कामलाम्
क्षयं क्षपयति क्षिप्रं शूलञ्च परिणामजम् ॥३४॥
नारिकेलस्य खण्डोऽयमश्विभ्यां भाषितः पुरा
वर्णदो बृहंणो वृष्यः पुंस्त्वनिद्रा बलप्रदः ॥३५॥
अभया पिप्पली द्रा क्षा सितधान्यकवासकम्
मधुना कण्ठदाहघ्नं पित्तश्लेष्महरं परम् ॥३६॥
पटोलयवधान्याकपिप्पल्यामलकानि च
तेषां क्षौद्र्रयुतः क्वाथः पित्तश्लेष्महरः परः ॥३७॥
पित्तश्लेष्मवमीकण्डूकोठविस्फोटदाहनुत्
दीपनः पाचनः क्वाथः शृङ्गवेरपटोलयोः ॥३८॥
पिप्पलीखण्डपथ्याभिस्तुल्याभिर्मोदकः कृतः
पित्तश्लेष्म हरो भुक्तो वह्निमान्द्यं च नाशयेत् ॥३९॥
इति दशमोऽम्ल पित्तश्लेष्मपित्ताधिकारः समाप्तः ॥१०॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP