संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः|

द्वितीयः भागः - रक्तपित्ताधिकारः

भावप्रकाशसंहिता


अथ नवमो रक्तपित्ताधिकारः ॥९॥
घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः
तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च
पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणितम् ॥१॥
ततः प्रवर्त्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा ॥२॥
ऊर्ध्वं नासाऽक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्त्तते ॥३॥
सदनं शीतकामित्वं कण्ठधूमायनं वमिः
लौहगन्धस्य निश्वासो भवत्यस्मिन्भविष्यति ॥४॥
सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम्
श्यावारुणं सफेनं च तनु रूक्षञ्च वातिकम् ॥५॥
रक्तपित्तंकषायाभं कृष्णं गोमूत्रसन्निभम्
मेचकाङ्गारधूमाभमञ्जनाभञ्च पैत्तिकम् ॥६॥
संसृष्टलिङ्गसंसर्गात्त्रिलिङ्गं सान्निपातिकम्
ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्
द्विमार्गं कफवाताभ्यामुभाभ्यां तत्प्रवर्त्तते ॥७॥
दौर्बल्यश्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छा
भुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा
तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूयनिष्ठीवनञ्च
द्वेषो भक्तेऽविपाको विकृतिरपिभवेद्र क्तपित्तोपसर्गाः ॥८॥
एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते
यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् ॥९॥
ऊर्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम्
व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतस्तु यत् ॥१०॥
एकमार्गं बलवतो नातिवेगं नवोत्थितम्
रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्र्रवम् ॥११॥
मांसप्रक्षालनाभं क्वथितमिव च यत्कर्दमाम्भोनिभं वा
मेदः पूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम्
यत्कृष्णं यच्च नीलं भृशमपि कुणपं यत्र चोक्ता विकारा
स्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति ॥१२॥
येन चोपहतो रक्तं रक्तपित्तेन मानवः
पश्येद् दृश्यं वियच्चापि तदसाध्यमसंशयम् ॥१३॥
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः
लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः ॥१४॥
पित्तास्रं स्तम्भयेन्नादौ प्रवृत्तं बलिनो यतः
हृत्पाण्डुग्रहणीरोगप्लीहगुल्मज्वरादिकृत् ॥१५॥
शालिषष्टिकनीवारकोरदूषप्रसाधिकाः
श्यामाकाश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् ॥१६॥
मसूरमुद्गचणकाः समकुष्ठाढकीफलाः
प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम् ॥१७॥
दाडिमामलकं विद्वानम्लार्थं चापि दापयेत्
पटोलनिम्बन्यग्रोधप्लक्षवेतसपल्लवाः ॥१८॥
शाकार्थं शाकसात्म्यानां तण्डुलीयादयो हिताः
पारावतान्कपोतांश्च लावान् रक्ताक्षवर्त्तकान् ॥१९॥
शशान्कपिञ्जलानेणान्हरिणान्कालपुच्छजान्
रक्तपित्तहरान्विद्याद्र्रसांस्तेषां प्रयोजयेत् ॥२०॥
ईषदम्लाननम्लांश्च घृतभृष्टान्ससैन्धवान्
कफानुगे यूषशाकान्दद्याद्वातानुगे रसम् ॥२१॥
पथ्यं सतीनयूषेण ससितैर्लाजसक्तुभिः ॥२२॥
धान्याकधात्रीवासानां द्रा क्षापर्पटयोर्हिमः
रक्तपित्तं ज्वरं दाहं तृष्णां शोषञ्च नाशयेत् ॥२३॥
ह्रीबेरमुत्पलं धान्यं चन्दनं यष्टिकाऽमृता
उशीरञ्च त्रिवृच्चैषां क्वाथं समधुशर्करम् ॥२४॥
पाययेत्तेन सद्यो हि रक्तपित्तं प्रणश्यति
रक्तपित्तं जयत्युग्रं तृष्णां दाहं ज्वरं तथा ॥२५॥
पद्मोत्पलानां किञ्जल्कः पृश्निपर्णीप्रियङ्गुकाः
जले साध्या रसे तस्मिन्पेया स्याद्र क्तपित्तिनाम् ॥२६॥
वासापत्रसमुद्भूतो रसः समधुशर्करः
क्वाथो वा हरते पीतो रक्तपित्तं सुदारुणम् ॥२७॥
पिष्टानां वृषपत्राणां पुटपाकरसो हिमः
समधुर्हरते रक्तपित्तं कासज्वरक्षयान् ॥२८॥
उत्पलं कुमुदं पद्मं कह्लारं लोहितोत्पलम्
मधुकञ्चेति पित्तासृक्तृष्णाच्छर्दिहरो गणः ॥२९॥
वासायां विद्यमानायामाशायां जीवितस्य च
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥३०॥
आटरूषक मृद्वीका पथ्याक्वाथः सशर्करः
क्षौद्र्राढ्यःसकलश्वासरक्तपित्तनिबर्हणः ॥३१॥
दूर्वा सोत्पलकिञ्जल्कमञ्जिष्ठासैलवालुका
शीता शीतमुशीरञ्च मुस्तं चन्दनपद्मकम् ॥३२॥
विपचेत्कार्षिकैरेतैराजं प्रस्थमितं घृतम्
तण्डुलानां जलं छागीक्षीरं दद्याच्चतुर्गुणम् ॥३३॥
तत्पानं वमतो रक्तं नावनं नासिकागते
कर्णाभ्यां यस्य गच्छेत्तु तस्य कणौ प्रपूरयेत् ॥३४॥
चक्षुः स्रवति रक्तञ्चेत्पूरयेत्तेन चक्षुषी
मेढ्रपायुप्रवृत्ते तु वस्तिकर्मसु योजयेत् ॥३५॥
रोमकूपप्रवृत्ते तु तदभ्यङ्गं प्रयोजयेत्
सर्वेषु रक्तपित्तेषु तस्माच्छ्रेष्ठमिदं घृतम् ॥३६॥
मृद्वीकां चन्दनं लोध्रं प्रियङ्गुञ्च विचूर्णयेत्
चूर्णमेतत्पिबेत्क्षौद्र वासारससमन्वितम् ॥३७॥
नासिकामुखपायुभ्यो योनिमेढ्रादिवेगितम्
रक्तपित्तं स्रवद्धन्ति सिद्ध एष प्रयोगराट् ॥३८॥
यच्च शस्त्रक्षतेनेव रक्तं स्रवति वेगतः
तदप्येतेन चूर्णेन तिष्ठत्येवावचूर्णितम् ॥३९॥
इक्षूणां मध्यकाण्डानि सकन्दं नीलमुत्पलम्
केशरं पुण्डरीकस्य मोचामधुकपद्मकैः ॥४०॥
वटप्ररोहशुङ्गाश्च द्रा क्षा खर्जूरमेव च
एतानि समभागानि कषायं सम्प्रकल्पयेत् ॥४१॥
उषितं मधुसंयुक्तं पाययेच्छर्कराऽन्वितम्
सप्रमेहं रक्तपित्तं क्षिप्रमेतन्नियच्छति ॥४२॥
द्रा क्षया फलिनीभिर्वा प्रियालमधुकेन वा
श्वदंष्ट्रया शतावर्या रक्तजित्साधितं पयः ॥४३॥
पक्वोदुम्बरकाश्मर्यः पथ्याखर्जूरगोस्तनाः
मधुना घ्नन्ति संलीढा रक्तपित्तं पृथक्पृथक् ॥४४॥
अतिनिःसृतरक्तो वा क्षौद्र्रयुक्तं पिबेदसृक्
यकृद्वा भक्षयेदाजं मांसं वा पित्तसंयुतम् ॥४५॥
नासाप्रवृत्तरुधिरं घृतभृष्टं श्लक्ष्णपिष्टमामलकम्
सेतुरिव तोयवेगं रुणद्धि मूर्ध्नि प्रलेपेन ॥४६॥
घ्राणप्रवृत्ते जलमाशु पेयं सशर्करं नासिकया च यो वा
द्रा क्षारसं क्षीरघृतं पिबेद्वा सशर्करञ्चेक्षुरसं हिमं वा ॥४७॥
नस्ये दाडिमपुष्पस्य रसो दूर्वाभवोऽपि वा
आम्रास्थिजः पलाण्डोर्वा नासिकास्राविरक्तजित् ॥४८॥
पुराणं पीनमानीय कूष्माण्डस्य फलं बृहत्
तद्बीजाधारबीजत्वक्छिराशून्यं समाचरेत् ॥४९॥
ततस्तस्य तुलां नीत्वा पचेज्जलतुलाद्वये
तस्मिन्नीरेऽद्धशिष्टे तु यत्नतः शीतलीकृते ॥५०॥
तानि कूष्माण्डखण्डानि पीडयेद् दृढवाससा
यत्नतस्तज्जलं नीत्वा पुनः पाकाय धारयेत् ॥५१॥
कूष्माण्डं शोषयेद्घर्मे ताम्रपात्रे ततः क्षिपेत्
क्षिप्त्वा तत्र घृतं प्रस्थं कूष्माण्डं तेन भर्जयेत् ॥५२॥
मधुवर्णं तदालोक्य तज्जलं तत्र निक्षिपेत्
सितायाश्च तुलां तत्र क्षिप्त्वा तल्लेहवत्पचेत् ॥५३॥
सुपक्वे पिप्पलीशुण्ठीजीराणां द्विपले पृथक्
पृथक्पलार्द्धं धान्याकं पत्रैलामरिचत्वचम् ॥५४॥
चूर्णमेषां क्षिपेत्तत्र घृतार्द्धं क्षौद्र्रमावपेत्
एतत्पलमितं खादेदथ वाऽग्निबलं यथा ॥५५॥
खण्डकूष्माण्डलेहोऽय रक्तपित्तञ्च नाशयेत्
पित्तज्वरं तृषां दाहं प्रदरं कृशतां वमिम् ॥५६॥
कासं श्वासञ्च हृद्र्रोगं स्वरभेदं क्षतं क्षयम्
नाशयत्येव वृद्धिञ्च बृंहणो बलवर्द्धनः ॥५७॥
पुराणं पीनमानीय कूष्माडस्य फलं दृढम्
तद्वीजाधारबीजत्वक्छिराशून्यं समाचरेत् ॥५८॥
ततोऽतिसूक्ष्मखण्डानि कृत्वा तस्य तुलां पचेत्
गोदुग्धस्य तुलामध्ये मन्देऽग्नौ वा पचेच्छनैः ॥५९॥
शर्करायास्तुलां सार्द्धां गोघृतं प्रस्थमात्रकम्
प्रस्थार्द्धं माक्षिकञ्चापि कुडवं नारिकेलतः ॥६०॥
प्रियालफलमज्जानां द्विपलं तिखुरीपलम्
क्षिपेदेकं च विपचेल्लेहवत्साधु साधयेत् ॥६१॥
भिषक्सुपक्वमालोक्य ज्वलनादवतारयेद्
कोष्णे तत्र क्षिपेदेषां चूर्णं तानि वदाम्यहम् ॥६२॥
एकोऽक्ष शतपुष्पाया अथ क्षीरी यवानिका
गोक्षुरः क्षुरकः पथ्या कपिकच्छुफलानि च ॥६३॥
सप्तमी त्वक्च सर्वेषामक्षयुग्मं पृथक्पृथक्
धान्यकं पिप्पली मुस्तमश्वगन्धा शतावरी ॥६४॥
तालमूली नागबला बालकं पत्रकं शटी
जातीफलं लवङ्गञ्च सूक्ष्मैला बृहदेलिका ॥६५॥
शृङ्गाटकं पर्पटकं सर्वं पलमितं पृथक्
चन्दनं नागरं धात्रीफलञ्चापि कशेरुजम् ॥६६॥
प्रत्येकं पञ्चकर्षाणि चत्वार्येतानि निक्षिपेत्
पलद्वयमुशीरस्य मसनस्योषणस्य च ॥६७॥
कूष्माण्डस्यावलेहोऽय भक्षितः पलमात्रया
किं वा यथावह्निबलं भुक्त्वारोगान्विनाशयेत् ॥६८॥
रक्तपित्तं शीतपित्तमम्लपित्तमरोचकम्
बह्निमान्द्यं सदाहञ्च तृष्णां प्रदरमेव च ॥६९॥
रक्तार्शोऽपि तथा छर्दि पाण्डुरोगञ्च कामलाम्
उपदंशं विसर्पञ्च जीर्णञ्च विषमं ज्वरम् ॥७०॥
लेहोऽय परमो वृष्यो बृंहणो बलबर्द्धनः
स्थापनीयः प्रयत्नेन भाजने मृण्मये नवे ॥७१॥
कूष्माण्डकस्य स्वरसं पलानां शतमात्रया
रसतुल्यं गवां क्षीरं धात्रीचूर्णं पलाष्टकम् ॥७२॥
मृद्वग्निना पचेत्तावद्यावद्भवति पिण्डवत्
धात्रीतुल्या सिता योज्या पलार्द्धं लेहयेदनु ॥७३॥
खण्डकूष्माण्डकं ह्येतद् भुक्तमभ्यासतो हरेत्
रक्तपित्तमम्लपित्तं दाहं तृष्णाञ्च कामलाम् ॥७५॥
शतावरी छिन्नरुहा वृषो मुण्डतिका बला
तालमूली च गायत्री त्रिफलायास्त्वचस्तथा ॥७५॥
भार्गी पुष्करमूलञ्च पृथक्पञ्च पलानि च
जलद्रो णे विपक्तव्यमष्टभागावशेषितम् ॥७६॥
दिव्यौषधिहतस्यापि माक्षिकेण हतस्य वा
पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम् ॥७७॥
खण्डतुल्यं घृतं देयं पलषोडशकं बुधैः
पचेत्ताम्रमये पात्रे गुडपाको मतो यथा ॥७८॥
प्रस्थार्धं मधुना देयं शुभाश्मजतुकस्य च
शृङ्गी कृष्णा विडङ्गञ्च शुण्ठ्यजाजी पलं पलम् ॥७९॥
त्रिफला धान्यकं पत्रं कणा मरिचकेशरम्
चूर्णं दत्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ॥८०॥
यथाकालं प्रयुञ्जीत बिडालपदमात्रकम्
गव्यक्षीरानुपानञ्च सेव्यो मांसरसः पयः ॥८१॥
गुरुवृष्यान्नपानानि स्निग्धमांसादि बृंहणम् रक्तपित्तं क्षयं कासं पार्श्वशूलं विशेषतः ॥८२॥
वातरक्तं प्रमेहञ्च शीतपित्तं वमिं क्लमम्
श्वयथुं पाण्डुरोगञ्च कुष्ठं प्लीहोदरं तथा ॥८३॥
आनाहं मूत्रसंस्रावमम्लपित्तं निहन्ति च
चक्षुष्यं बृंहणं वृष्यं मङ्गल्यं प्रीतिवर्द्धनम् ॥८४॥
आरोग्यं पुत्रदं श्रेष्ठं कामाग्निबलवर्द्धनम्
श्रीकरंलाघवञ्चैव खण्डकाद्यं प्रकीर्त्तितम् ॥८५॥
छागं पारावतं मांसं तित्तिरिः क्रकरः शशः
कुरङ्गः कृष्णसारश्च मांसमेषां प्रयोजयेत् ॥८६॥
नारिकेलपयः पानं सुनिषण्णकवास्तुकम्
शुष्कमूलकजीवाख्यं पटोलं बृहतीफलम् ॥८७॥
वार्ताकुं पक्वमाम्रञ्च खर्जूरं स्वादु दाडिमम्
ककारपूर्वकं यच्च मांसञ्चानूपसम्भवम् ॥८८॥
वर्जनीयं विशेषेण खण्डकाद्यं समश्नता
लोहान्तरवदत्रापि पुटनादिक्रियेष्यते
न पुनर्माक्षिकेणैव शिलयैव हि मारणम् ॥८९॥
शतावरीमूलकल्कं कल्कात्क्षीरं चतुर्गुणम्
क्षीरतुल्यं घृतं गव्यं सितया कल्कतुल्यया ॥९०॥
घृतशेषं पचेत्तत्तु पलार्द्धं लेहयेत्सदा
रक्तपित्तं ह्याम्लपित्तं क्षयं श्वासञ्च नाशयेत् ॥९१॥
इति नवमो रक्तपित्ताधिकारः समाप्तः ॥९॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP