संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकर्चोनाम विंशतिकाण्ड| ६१ ते ६५ एकर्चोनाम विंशतिकाण्ड १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ विंशतिकाण्ड: - ६१ ते ६५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६१ ते ६५ Translation - भाषांतर ६१व्याघ्रायोभयादते यथाहमकरं नमः॥नमस्ते पथ्ये रेवति स्वस्तिमा परां णय स्वस्ति पुनरानय ॥१॥अथो स्वस्ति निष्कृधि जीवा ज्योतिरशीमहि ।आ मनं यजामहे सत्यं प्राशं पुरोहितम् ॥२॥तं देवं प्रथमं यजेद् व्योम्ना मनसं करत् ॥३॥आमनस्क देवकारो रुवत्कदेवक ।अर्वाचावस्तरं कृधि यमहं कामये प्रियम् ॥४॥अयं नो अग्निरध्यक्षो ऽयं नो वसुवित्तम: ।अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजाम् ॥५॥अस्मिन् सहस्रं पुष्यास्मैधमानाः स्वे गृहे ।इमं समिन्धिषीमह्यायुष्मन्तः सुवर्चसः ॥६॥शुद्धवाता कृष्णफला कब्रू बलासभेषजी ।शुक्ति वल्गस्य नाशनी देवीर्ददातु भेषजम् ॥७॥अश्वत्थो देव सदनास्तृतीयस्यामितो दिवि॥तत्र लोहित वृक्षोजातः शिश्रु: क्षिप्त भेषजः ॥८॥न तत्र भवो हन्ति न शर्व इषुमस्यति । ईषुयत्र त्वं देवतम्वुरो पर्वतेषु वि रोहति ॥९॥कृष्यामन्यो वि रोहति गिरेरन्यो ऽधिपक्षसि ।त्रातारौ सश्वदामिमावा गन्तां शिश्रुतुम्वुरु ॥१०॥६२यावत् पर्णं यावत् फलं यावन्तो अध्यरुक्षराः ।तावन्तः शुष्मास्तुम्वुरोस्तदु ते विषदूषणीः ॥१॥रुद्र जलासभेषजे ऽमुं रोगमशीशमो जिज्वलन्निति ॥२॥आस्थाद्योरस्थात् पृथिव्यस्थादिदमुर्वमन्तरिक्षम् । -ऋषभस्येव कनिष्क्रदतो हृदयं शमयामि ते ॥३॥रुषसं मा सिञ्चन्तु मरुतः सं मा सौ रोहिणीदिवः ।सं मायमग्नि: सिञ्चन्तु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥४॥नक्तं हरि मृगयेते दिवा सुपर्णा रोहितौ ।भवाय च शर्वाय चोभाभ्यामकरं नम: ॥५॥नमो भवाय नमः शर्वाय नमः कुमारसत्रवे ।नमो नीलशिखण्डाय नम: सभाप्रपादिने ॥६॥खिशयस्य हरी अश्वतरौ गर्दभावभितः सरौ ।तस्मै नीलशिखण्डाय नम: सभाप्रपादिने ॥७॥खिशअसावेति शिशुमारो असावेति पुलिकया।कुमारसत्रोवराहोदकं परिवाचनम् ॥८॥यथेदमभ्रमर्भकं पर्जन्यादपसीयते।एवा मे अश्विना मुखादभिल्यमपसीयताम् ॥९॥अभील नश्येतः परस्तृचं मे माभिर्मिम्लपः।अगस्त्यस्य ब्रह्मणाभीलीन् नाशयामसि ॥१०॥६३सेसिचामुपत्वचां नाशया पुरुरूपादभील्यं मुखात ।यन् मे ऽकृतादभिप्रियादारुरोहमलं मुखम् ॥१॥अपां वात इव शीफालं सूर्यस्तदपलुंपतु ।अप मे ऽभीलि पतत् त्वां वात हृदं यथा ॥२॥आ मा सुपर्णं गच्छन्तु सुभागमस्तु मे मुखम्।यथा सूर्यस्यो पादये हिरण्यं प्रतिरोचते ॥३॥एवा मे मश्विना मुखं सुपर्ण प्रतिरोचताम् ।प्रयद्गावो नभ्यूर्णयस्त्वेषावयांस्यक्रमन् ॥४॥घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।इन्द्रेण प्रेषित उलूक सं पचामि ते ॥५॥घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।सोमेन प्रेषित उलूक सं पचामि ते ॥६॥घ्नन्तु कृष्णामुप त्वचं सुभागमस्तु मे मुखम् ।सूर्यण प्रेषित उलूक सं पचामि ते ॥७॥घ्नन्तु कृष्णामुप त्वचं सुभागमस्तु मे मुखम् ।बृहस्पतिना प्रेषित उलूक सं पचामि ते ॥८॥घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।प्रजापतिना प्रेषित उलूक सं पचामि ते ॥९॥६४घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।ग्राह्या दूतो ऽस्युलूक सं पचामि ते ॥१॥घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम ।निऋत्या दूतो ऽस्युलूक सं पचामि ते ॥२॥घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।वरुणस्य दूतो ऽस्युलूक सं पचामि ते ॥३॥घ्नन्तु कृष्णामुप त्वचं सुभागमस्तु मे मुखम् ।मृत्योर्दूतो ऽस्युलूक सं पचामि ते ॥४॥घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।यमस्य दूतो ऽस्युलूक सं पचामि ते ॥५॥राजा त्वा वरुणो अखनदत्तां सोमेन बभ्रुणा ।तां त्वा विद्म प्रपातिकां प्रामुष्य हृदयं तव ॥६॥नि शोचयैनं प्रपतैनं समेनं तक्मना सृज ।यथास्य दह्यमानस्याग्निः पर्वाण्यन्वयत् हृदयं परिवर्जयाक्षी कामेन शोचया मूर्तं मामपश्यत ॥७॥अयमित्वाग्निरानयत् वातस्त्वा त उद्यमात् ।यं त्वमेनं निर्वर्त्तया असौ हा इह ते मनः ॥८॥अग्निष्ट्वा तपतु सूर्यस्त्वा तपतु वातस्त्वा युङ्क्तां मरुतश्च युञ्जताम् ।अर्वाङ् एहि समश्नुव आ नो मरिचिभिः ॥९॥वृहामि ते लोमान्यङ्गेभ्य: पचामि मांसं ज्वलयाम्यस्थि।इह ते रमतां मनो मयि ते रमतां मन: ॥१०॥६५अयं पिण्ड: कर्करः पिण्ड: स्मरः पाञ्चालः संतपनः करंकरः ।अमुष्य हृदयं तपो यमहं कामये प्रियम् ॥१॥यथायमग्निस्तपति यथा तपति सूर्यः ।एवा ते तप्यतां मनो हृदयमङ्गमङ्गं परुष्परुर्मांकामेन नरमासा अत्र ॥२॥यथा तपन्ति परशुं यथा वासि नि खादिरम् ।यथा सूर्य उद्यन् सर्वं संतपन्ति ॥३॥एवा ते तप्यतां मनो हृदयमङ्गमङ्ग परुष्परुर्मां कामेन नरमासा अत्र ॥४॥स त्वा द्यौश्च पृथिवी च तपतां मां कामेन नरमासा अत्र ॥५॥स्मरहै स्मरतादमुमङ्गज्वरेणो छोचनीनाम् ।तक्मनैनं संसृज विश्वशारदेन मम। कामेन ॥६॥अष्टाशीति सहस्राण्येत्यवादीद् वचो मम ।इहारेहमवादिषुमत्रारे प्रायस्वस्तम् ॥७॥यं सुमित्रः सुमित्रायै चक्रेवासास्मरम् ।यथा सा तस्य कामेन न सुष्वाप कदा चन ॥८॥एवासौ मम कामेन माव स्वप्सीत् कदा चन ।पर्यग्निरापस्तपति परिद्यामेति सूर्यः ॥९॥परि वामिन्द्रो वृत्रहा मह्यं तपतु सर्वतः ।यथा वातो न्यावाति यथा तपति सूर्यः ॥१o॥एवा त्वमिन्द्र वृत्रहनमुं मह्यमिहानय।शालाला त्वं संवननं वनाद् वननमा भृतम् ॥११॥येन पयो गन्धर्वो अप्सरसां समवानयत् ।तेनाहममुं मयि वा नयाम्यामृत्योरा परावत: ॥१२॥(ड्रत्येकर्चनाम विंशतिकाण्डे दशमो ऽनुवाकः )इत्यथर्ववेदे पैप्पलादसंहितायां एकर्चोनाम विंशतिकाण्डः समाप्तः N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP