संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकर्चोनाम विंशतिकाण्ड| ५६ ते ६० एकर्चोनाम विंशतिकाण्ड १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ विंशतिकाण्ड: - ५६ ते ६० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ५६ ते ६० Translation - भाषांतर ५६एतद् वदन्यत्र जिघांसति यदन्यत्र विवीषत।तद् वश्चित्तममूमुहं तद् वश्चित्तमनीनशम् ॥१॥अस्ति वै पथां निष्कुटं नदीनां च निरङ्कुशम् ।तद् वश्चित्तममूमुहं तद् वश्चित्तमनीनशम् ॥२॥यानि व: सप्तचेतांस्यष्टौ यानि मनांसि च॥तद् वश्चित्तममूमुहं तद् वश्चित्तमनीनशम् ॥३॥इन्द्रण मेदिना युजाग्निना जातवेदसा।तेन वः चित्तममूमुहं तेन वः चित्तमनीनशम् ॥४॥प्रतीचीनान् वो अभ्यधामश्वमिवाश्वाभिधान्या ।कृण्वे वो मामके वशे पदोरुपानहौ यथा ॥५॥देवानां समिदसि देवानां यातुरसि ।यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व ॥६॥रोचे मा प्रकाशे मा कृष्ण्वाविदन् मा गमयः ।अनु मा बुध्यन्ताम् ॥७॥वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः ।अपध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥८॥अप्सुजातस्य महतस्पर्यश्मनः ।स्वयं जातस्य शोचिषो ऽद्भिः पर्वतानां शये ॥९॥उतोदिनीं समिद्वतीं दुर्गा योनिर्व्यद्वला ।मृगाङ् अनु प्र पातय मरीचीरनु नाशय ! ॥१०॥अश्वस्याश्वः संपतिता पर्णे ते वसतिष्कृता । तिस्कृताअसृक् पतत्रिणामसि जहि वामून् प्र बाधसः ॥११॥असूक्तो अधि जातोसि पर्णे ते सदनं कृतम् ।आाण्डं पतत्रिणामसि जहि वामून् प्र बाधसः ॥१२॥यथा गर्दभो विवर्धनाद्वधूयुर्व्यपलायते ।एवासौ पलायताममुष्मादध्या नयत् ॥१३॥५७सनिरसि सनितासि सनेयम् ॥१॥कृतिरसि कर्तासि क्रियासम् ॥२॥वित्तिरसि वेत्तासि विदेयम् ॥२॥भूतिरसि भवितासि भूयासम् ॥४॥भूरसि सुभूरसि सुभूर्नामासि ॥५॥प्रजापतेर्मध्यमः श्रेष्ठो रश्मिरसि ।भूतये त्वा वित्तये त्वा पशूनां त्वा वित्तय आ दधामि ॥६॥अग्निर्वह्निर्वह्निरग्निः ॥७॥इन्द्रारोद्धा प्रजापतिः प्रजाता।बृहस्पतेस्त्वा मुखेन याचामि ॥८॥प्रजापतेष्ट्वा मुखेन याचामि ।सूर्यस्य त्वा चक्षुषा प्रतीक्षे अदब्धेन त्वा चक्षुषावेक्षये ॥९ ॥व्धेनअयुतोहमयुतोमात्मा अयुतं मे चक्षुरयुतं मे श्रोत्रमयुतो मे प्राणो अयुतो मे ऽपानो अयुतोहं सर्व: ॥१०॥देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आरभे ।अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेन ॥११॥इन्द्रस्य त्वा जठरे सादयामि वरुणोस्योदरे ॥१२॥यो ऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्ट: ॥१३॥तस्मिन्नेष सुहूतमस्तु प्राशित्रं तन् मा मा हिंसीत् परमे व्योमन् ॥१४॥(ह्रत्येकर्चनाम विंशतिकण्डे नवमोऽनुवाकः)५८वेद वै ते तक्मन् नाम विश्वसो नाम वा असि ।असमक्तो नाम ते पिताहर्षी नाम तक्मन् ते माता समिद्धा नाम ते स्वसा ॥१॥गिरिं गच्छेत: सप्तमुखे ॥२॥असुरास्त्वोदवभरन् समुद्रादधिमायया ।तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥३॥रोगस्थानमसृक्स्थानमथो अस्रावभेषजम् ।बभ्रोरश्वस्य वारेणापि नह्यामि ता अहम् ॥४॥यन् मे दण्डो वा पाति दीक्षया तपसा सह ।तमहं पुनरा ददे पुनरिन्द्रः पुनर्भगः ।पुनमें ब्रह्मणस्पति ब्रह्म जीवित वा अदात् ॥५॥उत्थादुलूकापतनुत्तान पादमर्भकः ।स मे ध्रियमाणमा वहद् वि द्वेषः परा वहत् ॥६॥यथा वाण: सुसंशितः परापतत्याशुमत् ।एवामूत्रस्य ते धारा परा पतति केतुमत् ॥७॥यथा मधु मधुकृतः संभरन्ति मधावधी ।एवा मे मधुमद् वचो देवेषु पुरुषेषु च ॥८॥दीर्घायुत्वाय तपसे मह्या अरिष्टतातये॥सुपर्णो मह्यमब्रवीदेतत् समक्त भेषजमेतत् पुलित भेषजम् ॥९॥अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।शुचिः पावक ईड्यः ॥१०॥५९पेशिर्माता: पेशि: पिता पैशय: पैश्याहतः॥अद्धा कृतस्य ब्रह्मणा वृश्चिकस्यारसं विषम् ॥१॥निर्ह्वयामि पर्णसादां निरुप्सच्छादुते विषम् ।भूमिस्त उच्यते माता तस्मै ते नम उत्सृजत् ॥२॥किमुदन्त आमयति किमभूदुपवेशनम् ।आपो निरस्यता क्रिमिमगदे कृणुता हनू ॥३॥यत्र भूम्या अनामृतं दिवि चन्द्रमसि श्रितम् ।विद्वाङ् अहं तत्र मन्ये माहं प्रौत्रमघं निगाम् ॥४॥यत् ते सुसीमे हदयंमदो वैतत् प्रजापतौ ।वेदाम तस्य ते वयं माह पौत्रमघं निगाम ॥५॥यत् सुपर्णाया हृदयं पृथिव्यामधिनिष्ठितम् ।वेदाहं तस्यास्ते तन्वां मम माहं पौत्रमघं निगाम् ॥६॥तद् अग्नेर्हृदयमसि विद्युद्द्युत्या तथा वेद ।वेदाम तस्य ते वयं माहं पौत्रमघं निगाम् ॥७॥प्रजायै मे प्रजापतिरिन्द्राग्नी शर्म यच्छतम् ।यथाहं ज्योग् जीवो ऽसानि प्रजानामधिपा वशी ॥८॥यां प्रजामविदामज्यात्मनः परि निर्मिताम् ।आयुष्मतीं तनुकृतां तामग्ने जरसे नय ॥९॥इन्द्र इव सासहानरग्निरिव ज्योतिषावहम् ।सूर्य इव विश्वत: प्रत्यङ् समुद्र इव जुष्टरः ॥१०॥६०ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम् । तु. शौ.सं. ५एतन् मा तस्मान् मा हिंसीद् वेदः पृष्टः शचीपते ॥१॥उद्भर द्यावापृथिवी सहौषधीभिः ।गृह्णामि प्रजां निरप: सृजामि ॥२॥मा न आपो मेधां मा ब्रह्म प्र मथिष्टन॥सुष्यदा यूयं स्यन्दध्वमुपहूतो ऽहं सुमेधा वर्चस्वी ॥३॥मा नो मेधां मा नो दीक्षां मा नो हिंसिष्ट यत् तप: ।शिवा नः सर्वमायुषे आपो भवन्तु मातर: ॥४॥इह प्रजा विश्वरूपा रमन्तामस्मिन् गोष्ठे विश्वभृतो जनित्रीः ।अग्निं कुलायमुप संविशन्तिर्जानन्तु न: पयसा घृतेन ॥५॥रन्तय स्थ रमतय स्थ मयिश्रिता स्थ मयि श्रयध्वम् ।मनोतानामा स्थ ग्राम्या अप्सरसो वेदवित्तमाः मा विशत् ॥६॥सर्वनीलशिखण्ड वीर कर्मणिकर्मणि ।इमामस्य प्राशं जहि येनेदं विभजामहे ॥७॥तृतीयकं वितृतीयं सदंदिं तक्मानमुत राजयक्ष्मम् ।यथा शक्र उन् मुमोच तृतीयकमेवाहं तदुन्मुञ्चामि ॥८॥तृतीयकं त्वामस्यामोषध्यां बध्नामि ।आध्वस्तपक्षिणे बृहते यथाहमकरं नमः ॥९॥तृतीयकं त्वामस्यामोषध्यां बध्नामि ।इन्द्राय तिवषीमते यथाहमकरं नम: ॥१०॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP