११
अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्श: । तु. शौ.सं. ४१
तरन् विश्वा अवरा रजांसीन्द्रेण सख्या शिव आ जगाम ॥१॥
आगन् देव: सविता सर्वादाया ऊरु ज्योतिरविदामा नवोभि: । ,
महीं नाव मदितेरारुहेमं यत्र सोमं सदमित् तत्र भद्रम् ॥२॥
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥३॥
पतिर्दिवः पतिरग्निः पृथिव्याः पतिर्विश्वस्य भुवनस्य राजति ।
पतिर्विश्वा ओषधीराविवेश पत्नीवानग्निरिह याहि सोमम् ॥४॥
सं क्रामतं मा जिहीतं शरीरं प्राणापानौ सयुजेह स्ताम् ।
सप्तऋषिभ्य: परि दद्म एतं त एनं स्वस्ति जरसे नयन्तु ॥५॥
यत् त आयुरतिहितं पराचैरपान: प्राणो य उ वाते परेत: ।
अग्निष्टदाहार्निर्ऋतेरुपस्थात् तदात्मनि पुनरा वेशयामि ॥६॥
मा त्वा प्राणो हासीद् यस्तया प्रविष्टो मा त्वापानोवहाय परा गात् ।
संरभ्य जीव: शरदः सुवर्चा अग्निष्टे गोपा अधिपा वशिष्ठ: ॥७॥
राकामहं सुहवां सुष्टुती हुवे शृणोतु न: सुभगा बोधतु त्मना ।
सीव्यत्वप: सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥८॥
यास्ते राके सुमतय: सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥९॥
या राका या सिनीवाली या गुङ्गूर्या सरस्वती ।
इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥१०॥
या सुबाहुः स्वङ्गुरि: सुषुमा बहुसूवरी । सुषू
तस्यै विशपत्न्यै हविः सिनीवाल्यै जुहोतनः ॥११॥
सिनीवालि पृथुष्ठके या देवानामसि स्वसा ।
जुषस्व हव्यमाहुतं प्रजां देवि दिदिडिढ़ न: ॥१२॥
या विश्वत इन्द्रमसि प्रतीची सहस्रस्तुतामभियन्तु देवी । .
विष्णोस्पत्नि तुभ्यं राका हवीषिं पतिं देवी राधसा चोदयस्व ॥१३॥
(ड्रत्येकर्चोनाम विशांतिकाण्डे द्वितीयो ऽनुवाक: )

१२
उपह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । तु. शौ.सं. ७३
श्रेष्ठं सवं सविता साविषन्नो ऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥१॥भिद्धो धर्म
हिङकृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् ।
दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥२॥
गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्ङ् अकृणोन् मातवा उ ।
सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥३॥धर्म
सूयवसाद् भगवती हि भूया अथो वयं भगवन्त: स्याम ।
अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥४॥
संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यन् नमस्यम्।
रिरिक्वांसस्तन्वा सुम्नमायुः सखेत्सख्युर्निमिषि रक्षमाणाः ॥५॥
समिद्धो अग्निरश्विना तप्तो वां घर्म आगतम् ।
दुह्यन्ते नूनं वृषणेह धेनवो दस्रा वदन्ति कारव: ॥६॥
समिद्धो अग्निरश्विना रथी दिवस्तप्तो घर्मो दुह्यते वामिषे मधु ।
वयं हि वां पुरुदमासी अश्विना हवामहे सधमादेषु कारव: ॥७॥
यदुस्त्रियास्वाहुतं घृत पयो ऽयं सो अश्विना वां भाग आ गतम् ।
माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं रोचने दिव: ॥८॥
तप्तो वां घर्मो नक्षन्तु स्वहोता प्र वामध्वर्युश्चरति पयस्वान् !
मधोदुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियाया: ॥९॥
उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियाया: ।
वि नाकमख्यत् सविता वरेण्यो ऽनु द्यावापृथिवी सुप्रणीति: ॥१०॥

१३
स्वाहाकृत: शुचिर्देवेषु घर्मो यो अश्विनोश्चमसो देवपानः ।
तम् उ विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति ॥१॥
सुगा वो देवा: सदना कृणोमि य आचष्टेदं सवनं जुषाणा: ।
वहमाना भरमाणा अभ्रा अस्तं घर्मं तमुदातिष्ठतानु ॥२॥
शिवा न: शंतमा भव सुमृडीका सरस्वति ।
मा ते युयोम संदृश: ॥३॥
उपैनं देवो अग्रभीच्चमसेन बृहस्पति: ।
यजमानाय सुन्वते इन्द्र गीर्भिर्न आ भर ॥४॥
सं मा सिञ्चन्तु मरुत: सं पूषा सं बृहस्पति: ।
सं मायमग्नि: सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ! ॥५॥
इडा इवास्माङ् अनु वस्तां व्रतेन यस्या: पदे पुनते देवयन्त: ।
घृतपदी शक्वरी: सोमपृष्ठोप यज्ञमस्थित वैश्वदेवी ॥६॥
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्रा: ॥७॥तु. शौ.सं. १४.२८
यस्ते द्रप्सः स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् ।
अध्वर्योर्वा परि वा य: पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् ॥८॥
यस्ते द्रप्स: पतितो ऽवश्च य: पर: स्रुचा ।
अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥९॥
यस्ते द्रप्सः पतित: पृथिव्यां धानासोमः परीवापः करम्भः ।
अयं देवो बृहस्पति: सं तं सिञ्चतु वर्चसे ॥१०॥

१४
पवस्वतीरोषधय: पयस्वन् मामकं वच:॥
अथो पयस्वतां पय आ हरामि सहस्रश: ॥१॥
अयमग्निर्वरेण्य आयुष्टे विश्वतो दधत् ।
पुनस्त्वा प्राणायति परा यक्ष्मं सुवामि ते ॥२॥
जनाद् विश्वजनीनां विशामुरुक्षितीनाम् ।
दूरात्त्वामन्ये आभृतमीर्ष्याया नाम भेषजम् ॥३॥
दूरादेतत् संभवन्ति इर्ष्याया नाम भेषजम्॥
तत् संवेगस्य भेषजं तदस्ना सं गृभायिकम् ॥४॥
अग्नेरिव दहतो दावस्य दहतो यथा ।
एतामेतस्येर्षां हृद उद्गाग्निमिव वारये ॥५॥
अपमार्ज्यपनयन् मन्यन्ते हृदयादधि ।
अमुष्मिन्नीर्ष्यामादध्म स्ततो एनां नि दध्मसि ॥६॥
तिरश्चिराजेरसितात् पृदाकोरधि संभृतम् ।
तत् कंङ्कपर्वणो विषमियं वीरुददूदुषत् ॥७॥दूदुर्षत्
इयं वीरुन् मधुजाता मधुश्चुन्मधुला मधूः ।
सा वीह्रुतस्य भेषज्यथो मशकजम्भनी ॥८॥
यतो दष्टं यत: पीतं ततस्त्वा निर्नयामसि ।
अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥९॥
अयं यो विख्यो विकटो विपरुर्व्यङ्गमुखान्वेषां वृजिना कृणोषि।
तानि त्वं देव सवितरिषीकामिव सं नम: ॥१०॥

१५
यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम्। तु. शौ.सं. ६.७१
यदेव किं च प्रतिजग्रहाहमग्निष्टद्विश्वादगदं कृणोतु ॥१॥
यदाशसा मे चरतो जनाङ् अनु याचमानस्य वदतो विचुक्षुभे ।
यन् मे तन्वो मनसो विरिष्ट सरस्वती तदा पृणातु घृतेन ॥२॥
यदारिम प्रतिगृह्णन्त्व एन: शिसासन्तो बलिमग्ने चरन्त: ।
त्वन्नस्तस्मादेनसो मुमुग्धि वैश्वानर: प्रति हव्या गृभाय ॥३॥
चक्षुषः पाशान् मनसश्च पाशा दीक्षाया: पाशादुत शक्वरीणाम् !
तस्मान् मुमुग्धि विश्वावसो त्वं नो दातॄणां दानं भुनजामहे वयम् ॥४॥भुनजा
अदुर्मे विश्वे देवा ऽदात्सवितेदम् ।
अदान् मे ब्रह्मणस्पति: प्रियो मित्रो अदादिदम् ॥५॥
इन्द्रेण मेदिना युजा ऽपवाथे पृतन्यत: ।
अधरे सन्तु शत्रव: ॥६॥
अग्निरिन्द्रश्च यद्युवं हतो वृत्राण्यप्रति ।
उग्रा हि वृत्र हन्तुमा ॥७॥
अग्निमिन्द्रं च यद् वयं पुरोधायै हवामहे ।
तौ नो मृडातीदृशे ॥८॥
याभ्यां स्वरजयनग्रे या वा तस्थतुर्भुवना जुषाणः ।
प्रचर्षणी वृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेहम् ॥९॥
ययोरोजसा स्तभिता रजांसि यो वीर्यैर्वीरतमा शचीभिः ।
यौ पत्येते अप्रतीतौ सहोभिर्विष्णुमगन् वरुणं पूर्वहूति: ॥१०॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP