संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकर्चोनाम विंशतिकाण्ड| ६ ते १० एकर्चोनाम विंशतिकाण्ड १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ विंशतिकाण्ड: - ६ ते १० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६अरेपस: सचेतस: स्वसरे मन्युमत्तमा: ॥१॥समेत विश्व ओजसा पतिं दिवो य एको विभूरतिथिर्जनानाम्।स पूर्व्यो नूतनमाविवासत् तं वर्त्मनिरनु वावृत एकमित् पुरु: ॥२॥कुहूं देवीममृतां विदानापसमस्मिन् यज्ञे सुहवा जोहवीमि । तु. शौ.सं. ४२यो नो ददाति श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम ॥३॥कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविष: शृणोतु ।सं दाशुषे किरतु भूरिपुष्टा रायस्पोषं चिकितुषे दधातु ॥४॥सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् ॥५॥जानिमित्रो व: सर्वा: सं सृजान् मयि संज्ञानमस्तु व: ॥६॥(इत्येकर्चोनाम विंशतिकाण्डे प्रथमो ऽनुवाकः)७यन्नो अग्निरखनद्यन्न इन्द्रो विश्वे यद् देवा मरुतः स्वर्का । तु. शौ.सं. २४.१तदस्मभ्यं सविता सत्यधर्मा सरस्वत्यनुमतिर्नियच्छात् ॥१॥यूयं नो देवा उभयाय वेधसे शर्म नो यच्छत् द्विपदे चतुष्पदे।अदत् पिबदूर्जयमानमाशितं तदस्मभ्यं शं योररपो दधात ॥२॥बृहस्पते सवितर्बोधयैनं संशितं चित् सन्तरं सं शिशाधि ।वर्धयैनं महते सौभगाय विश्व एनमनु मदन्ति देवा: ॥३॥अमुत्रभूयादधि यद् यमस्य बृहस्पतिरभिशस्त्या अमुञ्चत् । मूत्र तु. शौ.सं. ५३.१प्रति मृत्युमौहतामश्विना ते देवानामग्ने भिषजा शचीभिः ॥४॥इन्द्रावरुणा सुतपाविमं सुतं मद्यं सोमं पिबतं धृतव्रतौ । पिवयुवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये ॥५॥इन्द्रावरुणा मधुमत्तमस्य वृष्ण: सोमस्य वृषणा वृषेथाम्॥इदं वामस्मे परिषिक्तमन्ध आसद्यास्मिन् बर्हिषि मादयेथाम् ॥६॥वर्हिउरु विष्णो वि क्रमस्वोरु क्षयाय नष्कृधि ।घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥७॥दिवो विष्ण उत वा पृथिव्या उरोर्वा विष्णो महो ऽन्तरिक्षात् ।उभा हि हस्तौ मधुना पृणस्वाप्रयच्छ दक्षिणादोत सव्यात् ॥८॥विष्णोर्नु कं प्र वोचं वीर्याणि य: पार्थिवानि विममे रजांसि ।यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगाय: ॥९॥प्र तद् विष्णुः स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः ।यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥१०॥८अग्नाविष्णू महि धाम प्रियं वां पाथो घृतस्य गुह्यानि नाम ! तु. शौ.सं. २९दमेदमे सप्त रत्ना दधानो उप वां जिह्वा घृतमा चरण्यात् ॥१॥अग्नाविष्णू महि तद् वां महित्वं वीथो घृतस्य गुह्या जुषाणा ।दमेदमे सुष्टुत्या वावृधाना प्रति वां जिह्वा घृतमुच्चरण्यात् ॥२॥उन्नम्भय पृथिवीं भिन्द्धीदं दिव्यं नभ: ।उद्नो दिव्यस्य नो धातरीशानो वि ष्या बिलम् ॥३॥विलअपक्रामन् पौरुषेयाद् गृणानो दैव्यं सह: ।प्रणीतीरभ्या वर्तस्व देवो देवानां सख्या जुषाणः ॥४॥पितोरहं पितुपतिं तदीडे धाता विधर्त्ता भुवनेष्वेषु ।नेमेन मह्यं मधुमाङ् इहैधि नेमेनामुष्मै विषुवाङ् वैधि ॥५॥अयं पितोः पितुवाङ् अभृतस्वरिदं शृणोतु यदहं ब्रवीमि |नेमेन मह्यं मधुमाङ् इहैधि नेमेनामुष्मै विषुवाङ् वैधि ॥६॥आत्रैवैनं निर्ऋत आरभस्वात्रैवैनं निर्ऋते प्रक्षिणीह्यात्रैवैनं सर्वं वि वृश्च ।नेमेन मह्यं मधुमाङ् इहैधि नेमेनामुष्मै विषुवाङ् वैधि ॥७॥यत्वा पितरुप ब्रुवे तन्नो आशृण्वस्मिन्निहवे हव्यो यथास: ।अमुं देवै निर्ऋतिः संविदानामुं सिञ्चन्तु वरुणस्य पाशात् ॥८॥यदस्मृति चकृमा किं चिदग्ने उपारिम चरणैर्जातवेद: !तस्मात् पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्मात् ॥९॥अग्ने ऽध्यक्षो न एहि पाहि नो दुरितात् पाहि दुष्वप्न्यात् ।आशन्या अजन्याद्यक्ष्मान्न: पाहि ॥१o॥९त्विषिरसि त्विषिवन्तो भूयास्म ।चक्षुष्मन्तो गोमन्त: प्रजावन्तो वर्चस्विन: ॥१॥---सिञ्चन्नतः क्षीरं भरतो दधि।इदं तद् विश्वरूपा व: पयोहरामि वीरुधा ॥२॥यदघ्न ओषधीभ्योऽदभ्यः संभरथा मधु ।इदं तद विश्वरूपा व: क्षीरं हराम्योषधी ॥३॥यो अभ्यु बभ्रुणायसि स्वपन्तमिच्छ पुरुषं शयानमकस्यलम् ।अयस्मयेन वर्मणाऽश्ममयेन वर्मणा पर्यस्मान् वरुणो दधत् ॥४॥ये नो गृहे ब्रह्मणा मन्यमाना घोरां वाचं मिथुया नो ब्रुवन्ति ।ये नो रुचो बलिरुचो भवन्तु दुर्योणमस्मत् परिते हरन्तु ॥५॥अयमग्नि: सत्पतिर्वृद्धवृष्णो रथीव पक्तीनजयत् पुरोहित: ।नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यव: ॥६॥अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।स जास्पत्यं सुयममा कृष्णुष्व शत्रूयतामभि तिष्ठा महांसि ॥७॥जुष्टो दमुना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।विश्वा ह्यग्ने अभियुजो विहत्य शत्रूयतामा भरा भोजनानि ॥८॥अग्ने सपत्नान् प्र णुदस्व जातान् प्रत्यजातान् जातवेदो नुदस्व ।अधि नो बूहि सुमनस्यमानः शर्म नो यच्छ त्रिवरूथमुद्भित् ॥९॥ रुथप्रान्यान् सपत्नान् सहसा सहस्व प्रत्यजातान् जातवेदो श्रृणीहि ।इदं राष्ट्रं पिपृहि सौभगायानु त्वा देवा वसवो ददन्ताम् ॥१०॥१०यो नो मित्रावरुणा अभिदासात् सपत्नो वोत् पिपानो बृहस्पते ।सर्वं तमग्ने अधरं पारयास्मद् यथेन्द्राहमुत्तमश्चेतयानि ॥१॥अहमेषामुत्तमश्चेतयानि मम वशमुपतिष्ठन्तु सर्वे ।आजुह्वानो घृतपृष्ठ: सुवर्चा वसोर्मध्ये दीदिहि जातवेद: ॥२॥अमुमग्ने अधरं पारयास्मज्जामय उत् पिपानं सपत्नम् ।ये नो धूर्वानधरे ते भवन्तु विश्वा द्वेषांस्यभितो नु वृङ्धि ॥३॥मूर्धानं दिवो अरतिं पृथिव्या विशस्त्वा सर्वा बलिहृता उपासताम्।तासामुग्रो मध्यमेष्ठेयमस्या स्वे क्षेत्रे सवितेव वि राज: ॥४॥आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टिपतिं रयीणाम् ।रायस्पोषं श्रवस्युं वसानमिह हुवेम सदनं रयीणाम् ॥५॥यस्य व्रते पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आप: ।यस्य व्रते पुष्टिपतिर्निविष्टस्तं सरस्वन्तमवसे हुवेम ॥६॥ये ते सरस्वन्न् ऊर्मयो मधुमन्तो घृतश्चुत: ।तेभिर्नो विता भव: ॥७॥दिव्यं समुद्रं पायसं बृहन्तमपां गर्भं वृषभमोषधीनाम् । वृहअभीपतो रय्या तर्पयन्तं सरस्वतं रयिष्ठां सादयेह ॥८॥ रयीइन्द्रस्य कुक्षिरसि सोमधान आत्मा देवानामुत विश्वरूपः ।इह प्रजा जनय यास्त आसु या अन्यत्रेह तास्ते स्वधिता गृणन्तु ॥९॥श्येन: सुपर्णो दिव्यो नृचक्षा: सहस्रपाच्छतयोनिर्वयोधा: ।स नो नि यच्छाद् वसुयत् पराभृतमस्माकमस्तु पितृषु स्वधावत् ॥१०॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP