मध्यखण्डम् - चतुर्थोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


क्षुण्णं द्र व्यपलं सम्यक्षड्भिर्नीरपलैः प्लुतम्
निशोषितं हिमः स स्यात्तथा शीतकषायकः
तन्मानं फाण्टवज्ज्ञेयं सर्वत्रैवैष निश्चयः ॥१॥

रक्तपित्ते आम्रादिहिमः
आम्रं जम्बूं च ककुभं चूर्णीकृत्य जले क्षिपेत्
हिमं तस्य पिबेत्प्रातः सक्षौद्रं रक्तपित्तजित् ॥२

तृष्णादौ मरीच्यादिहिमः
मरिचं मधुयष्टी च काकोदुम्बरपल्लवाः
नीलोत्पलं हिमस्तज्जस्तृष्णाच्छर्दिनिवारणः ॥३॥

वातपित्तज्वरादौ नीलोत्पलादिहिमः
नीलोत्पलं बला द्रा क्षा मधूकं मधुकं तथा
उशीरं पद्मकं चैव काश्मरी च परूषकम् ॥४॥

एष शीतकषायश्च वातपित्तज्वराञ्जयेत्
सप्रलापभ्रमच्छर्दिमोहतृष्णानिवारणः ॥५॥

जीर्णज्वरे गुडूचीहिमो रक्तपित्ते वासाहिमश्च
अमृताया हिमः पेयो जीर्णज्वरहरः स्मृतः
वासायाश्च हिमः कासं रक्तपित्तज्वराञ्जयेत् ॥६॥

अन्तर्दाहादौ धान्याकहिमः
प्रातः सशर्करः पेयो हिमो धान्याकसम्भवः
अन्तर्दाहं तथा तृष्णां जयेत्स्रोतोविशोधनः ॥७॥

रक्तपित्तादौ धान्यकादिहिमः
धान्याकधात्रीवासानां द्रा क्षापर्पटयोर्हिमः
रक्तपित्तं ज्वरं दाहं तृष्णां शोषं च नाशयेत् ॥८॥

इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे हिमकल्पना नाम चतुर्थोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP