संस्कृत सूची|संस्कृत साहित्य|संहिता|शार्ङ्गधर संहिता|मध्यखण्डम्| पञ्चमोऽध्यायः मध्यखण्डम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः मध्यखण्डम् - पञ्चमोऽध्यायः संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : Ayurvedsamhitasanskritsharangdhar samhitaआयुर्वेदशार्ङ्गधर संहितासंस्कृतसंहिता कल्ककल्पना Translation - भाषांतर द्रव्यमाद्र रं! शिलापिष्टं शुष्कं वा सजलं भवेत्प्रक्षेपावापकल्कास्ते तन्मानं कर्षसंमितम् ॥१॥कल्के मधु घृतं तैलं देयं द्विगुणमात्रयासिता गुडं समं दद्याद् द्र वा देयाश्चतुर्गुणाः ॥२॥वर्द्धमानपिप्पलीविधिःत्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याऽथवा कणाःपिबेत्पिष्ट्वा दशदिनं तास्तथैवापकर्षयेत् ॥३॥एवं विंशद्दिनैः सिद्धं पिप्पलीवर्द्धमानकम्अनेन पाण्डुवातास्रकासश्वासारुचिज्वराःउदरार्शः क्षयश्लेष्मवाता नश्यन्त्युरोग्रहाः ॥४॥निम्बकल्को व्रणच्छर्द्यादौलेपान्निम्बदलैः कल्को व्रणशोधनरोपणःभक्षणाच्छर्दिकुष्ठानि पित्तश्लेष्मकृमीञ्जयेत् ॥५॥महानिम्बकल्को गृध्रस्याम्महानिम्बजटाकल्को गृध्रसीनाशनः स्मृतः ॥६॥रसोनकल्को वातरोगविषमज्वरादिषुशुद्धः कल्को रसोनस्य तिलतैलेन मिश्रितःवातरोगाञ्जयेत्तीव्रान्विषमज्वरनाशनः ॥७॥द्वितीयो रसोनकल्को वातव्याधौपक्वकन्दरसोनस्य गुलिका निस्तुषीकृतापाटयित्वा च मध्यस्थं दूरीकुर्यात्तदङ्कुरम् ॥८॥तदुग्रगन्धनाशाय रात्रौ तक्रे विनिक्षिपेत्अपनीय च तन्मध्याच्छिलायां पेषयेत्ततः ॥९॥तन्मध्ये पञ्चमांशेन चूर्णमेषां विनिक्षिपेत्सौवर्चलं यवानीं च भर्जितं हिङ्गुसैन्धवम् ॥१०॥कटुत्रिकं जीरकं च समभागानि चूर्णयेत्एकीकृत्य ततः सर्वं कल्कं कर्षप्रमाणतः ॥११॥खादेदग्निबलापेक्षी ऋतुदोषाद्यपेक्षयाअनुपानं ततः कुर्यादेरण्डशृतमन्वहम् ॥१२॥सर्वाङ्गैकाङ्गजं वातमर्दितं चापतन्त्रकम्अपस्मारमथोन्मादमूरुस्तम्भं च गृध्रसीम् ॥१३उरःपृष्ठकटीपार्श्वकुक्षिपीडां क्रिमीञ्जयेत्अजीर्णमातपं रोषमतिनीरं पयो गुडम् ॥१४॥रसोनमश्नन्पुरुषस्त्यजेदेतन्निरन्तरम्मद्यं मासं तथाऽम्ल च रसं सेवेत नित्यशः ॥१५॥पिप्पल्यादिकल्क ऊरुस्तम्भेपिप्पली पिप्पलीमूलं भल्लातकफलानि चएतत्कल्कश्च सक्षौद्र ऊरुस्तम्भनिवारणः ॥१६॥विष्णुक्रान्ताकल्कः परिणामशूलेविष्णुक्रान्ताजटाकल्कः सिताक्षौद्र घृतैर्युतःपरिणामभवं शूलं नाशयेत्सप्तभिर्दिनैः ॥१७॥शुण्ठीकल्कः परिणामशूलामवातयोःशुण्ठीतिलगुडैः कल्कं दुग्धेन सह योजयेत्परिणामभवं शूलमामवातं च नाशयेत् ॥१८॥अपामार्गकल्को रक्तार्शसिअपामार्गस्य बीजानां कल्कस्तण्डुलवारिणापीतो रक्तार्शसां नाशं कुरुते नात्र संशयः ॥१९॥बदरीमूलकल्को रक्तातीसारेबदरीमूलकल्केन तिलकल्कश्च योजितःमधुक्षारयुतः कुर्याद्र क्तातीसारनाशनम् ॥२०लाक्षाकल्को रक्तक्षयेकूष्माण्डकरसोपेतां लाक्षां कर्षद्वयं पिबेत्रक्तक्षयमुरोघातं क्षयरोगं च नाशयेत् ॥२१॥तण्डुलीयकल्को रक्तप्रदरेतण्डुलीयजटाकल्कः सक्षौद्र ः! सरसाञ्जनःतण्डुलोदकसंपीतो रक्तप्रदरनाशनः ॥२२॥अङ्कोलमूलकल्कोऽतिसारविषयोःअङ्कोलमूलकल्कश्च सक्षौद्र स्तण्डुलाम्बुनाअतीसारहरः प्रोक्तस्तथा विषहरः स्मृतः ॥२३॥वन्ध्याकर्कोटिकाऽदीनां मूलकल्को विषेवन्ध्याकर्कोटिकामूलं पाटलाया जटा तथाघृतेन बिल्वमूलं वा द्विविधं नाशयेद्विषम् ॥२४॥अभयादिकल्कः त्रिदोषनाशने पथ्यादिकल्कः पाचनादौ चअभयासैन्धवकणाशुण्ठीकल्कस्त्रिदोषहापथ्यासैन्धवशुण्ठीभिः कल्को दीपनपाचनः ॥२५॥त्रिवृदादिकल्कः कृमिरोगेत्रिवृत्पलाशबीजानि पारसीकयवानिकाकम्पिल्लकं विडङ्गं च गुडश्च समभागकःतक्रेण कल्कमेतेषां पिबेत्क्रिमिगणापहम् ॥२६॥तिलनागकेशरकल्को रक्तार्शसिनवनीततिलैः कल्को जेता रक्तार्शसां स्मृतःनवनीतसितानागकेशरैश्चापि तद्विधः ॥२७॥शुण्ठ्यादि बृहतीकल्कौ संग्रहण्याम्पीतो मसूरयूषेण कल्कः शुण्ठीशलाटुजःजयेत् संग्रहणीं तद्वत्तक्रेण बृहतीभवः ॥२८॥इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे कल्ककल्पनानाम पञ्चमोऽध्यायः N/A References : N/A Last Updated : March 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP