संस्कृत सूची|संस्कृत साहित्य|संहिता|शार्ङ्गधर संहिता|मध्यखण्डम्| एकादशोऽध्यायः मध्यखण्डम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः मध्यखण्डम् - एकादशोऽध्यायः संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : Ayurvedsamhitasanskritsharangdhar samhitaआयुर्वेदशार्ङ्गधर संहितासंस्कृतसंहिता धातुशोधनमारण Translation - भाषांतर अथ धातुशोधनमारणकल्पनानामैकादशोऽध्यायःअथ धातूनां समुदायेन शोधनमारणम्तत्रादौ धातूनां संख्या नामानि चस्वर्णतारारताम्राणि नागवङ्गौ च तीक्ष्णकम्धातवः सप्त विज्ञेयास्ततस्ताञ्छोधयेद् बुधः ॥१॥धातुशोधनविधिःस्वर्णतारारताम्रायः पत्राण्यग्नौ प्रतापयेत्निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥२॥गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधाएवं स्वर्णादिलोहानां विशुद्धिः सम्प्रजायते ॥३॥नागवङ्गयोः शोधनविधिःनागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत्त्रिधा त्रिधा विशुद्धिः स्याद्र विदुग्धेन च त्रिधा ॥४॥अथ स्वर्णमारणम्स्वर्णाच्च द्विगुणं सूतमम्लेन सह मर्दयेत्तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥५॥गोलकं च ततो रुन्ध्याच्छरावदृढसम्पुटेत्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दशनिरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥६॥स्वर्णमारणे द्वितीयो विधिःकाञ्चने गालिते नागं षोडशांशेन निक्षिपेत् ॥७॥चूर्णयित्वा तथाऽम्लेन घृष्ट्वा कृत्वा च गोलकम्गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् ॥८॥शरावसम्पुटे धृत्वा पुटेत् त्रिंशद्वनोपलैःएवं सप्तपुटैर्हेम निरुत्थं भस्म जायते ॥९॥तृतीयो विधिःकाञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोःकज्जल्या हेमपत्राणि लेपयेत्सममात्रया ॥१०॥काञ्चनारत्वचः कल्को मूषायुग्मं प्रकल्पयेत्धृत्वा तत्संपुटे गोलं मृण्मूषासंपुटे च तत् ॥११॥निधाय संधिरोधं च कृत्वा संशोष्य गोमयैःवह्निं खरतरं कुर्यादेवं दद्यात्पुटत्रयम्निरुत्थं जायते भस्म सर्वकार्येषु योजयेत् ॥१२॥चतुर्थो विधिःकाञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम्ज्वालामुखी यथा हन्यात्तथा हन्ति मनः शिला ॥१३॥पञ्चमो विधिःशिलासिन्दूरयोश्चूर्णं समयोरर्कदुग्धकैः ॥१४॥सप्तैव भावना दद्याच्छोषयेच्च पुनः पुनःततस्तु गालिते हेम्नि कल्कोऽय दीयते समः ॥१५॥पुनर्धमेदतितरां यथा कल्को विलीयतेएवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् ॥१६॥षष्ठो विधिःपारावतमलैर्लिम्पेदथवा कुक्कुटोद्भवैःहेमपत्राणि तेषां च प्रदद्यादधरोत्तरम् ॥१७॥गन्धचूर्णं समं दत्त्वा शरावयुगसम्पुटेप्रदद्यात्कुक्कुटपुटं पञ्चभिर्गोमयोपलैः ॥१८॥एवं नवपुटान्दद्याद्दशमं च महापुटम्त्रिंशद्वनोपलैर्देयं जायते हेमभस्मकम् ॥१९॥स्वर्णभस्मगुणाःसुवर्णं च भवेत्स्वादु तिक्तं स्निग्धं हिमं गुरुबुद्धिविद्यास्मृतिकरं विषहारि रसायनम् ॥२०॥रजतमारणे प्रथमो विधिःभागैकं तालकं मर्द्यं जम्भेनाम्लेन केनचित्तेन भागत्रयं तारपत्राणि परिलेपयेत् ॥२१॥धृत्वा मूषापुटे रुद्ध्वा पुटेत्त्रिंशद्वनोपलैःसमुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत्एवं चतुर्दशपुटैस्तारभस्म प्रजायते ॥२२॥द्वितीयो विधिःस्नुहीक्षीरेण सम्पिष्टं माक्षिकं तेन लेपयेत् ॥२३॥तालकस्य प्रकारेण तारपत्राणि बुद्धिमान्पुटेच्चतुर्दशपुटैस्तार भस्म प्रजायते ॥२४॥आर इ!पित्तलइ! मारणविधिःअर्कक्षीरेण सम्पिष्टो गन्धकस्तेन लेपयेत्समेनारस्य पत्राणि शुद्धान्यम्लद्र वैर्मुहुः ॥२५॥ततो मूषापुटे धृत्वा पुटेद्गजपुटेन चएवं पुटद्वयेनैव भस्मारं भवति ध्रुवम्आरवत्कांस्यमप्येवं भस्मतां याति निश्चितम् ॥२६॥ताम्रपित्तल कांस्यमारणविधिःअर्कक्षीरवदाजं स्यात्क्षीरं निर्गुण्डिका तथाताम्ररीतिध्वनिवधे समगन्धकयोगतः ॥२७॥ताम्रमारणविधिःसूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद् बुधःवासरत्रयमम्लेन ततः खल्वे विनिक्षिपेत् ॥२८॥पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत्तत उद्धृत्य पत्राणि लेपयेद् द्विगुणेन च ॥२९॥गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम्ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ॥३०॥तत्कल्केन बहिर्गोलं लेपयेदङ्गुलोन्मितम्धृत्वा तद्गोलकं भाण्डे शरावेण च रोधयेत् ॥३१॥वालुकाभिः प्रपूर्याथ विभूतिलवणांबुभिःदत्त्वा भांडमुखे मुद्रा ं! ततश्चुल्यां विपाचयेत् ॥३२॥क्रमवृद्धाग्निना सम्यग्यावद्याम चतुष्टयम्स्वाङ्गशीतलमुद्धृत्य मर्दयेत्सूरणद्र वैः ॥३३॥दिनैकं गोलकं कुर्यादर्द्धगन्धेन लेपयेत्सघृतेन ततो मूषां पुटे गजपुटे पचेत् ॥३४॥स्वाङ्गशीतं समुद्धृत्य मृतं ताम्रं शुभं भवेत्वांतिं भ्रांतिं क्लमं मूर्च्छां न करोति कदाचन ॥३५॥सीसकमारणे प्रथमो विधिःताम्बूलीरससम्पिष्टशिलालेपात्पुनः पुनःद्वात्रिंशद्भिः पुटैर्नागो निरुत्थो याति भस्मताम् ॥३६॥द्वितीयो विधिःअश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निक्षिपेत्मृत्पात्रे द्रा विते नागे लोहदर्व्या प्रचालयेत् ॥३७॥यामैकेन भवेद्भस्म तत्तुल्यां च मनःशिलाम्काञ्जिकेन द्वयं पिष्ट्वा पचेद् दृढपुटेन च ॥३८॥स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन चपुनः पुटेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः ॥३९॥वङ्गमारणविधिःमृत्पात्रे द्रा विते वङ्गे चिञ्चाऽश्वत्थत्वचो रजः ॥४०॥क्षिप्त्वा तेन चतुर्थांशमयोदर्व्या प्रचालयेत्ततो द्वियाममात्रेण वङ्गभस्म प्रजायते ॥४१॥अथ भस्मसमं तालं क्षिप्त्वाऽम्लेन प्रमर्दयेत्ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत् ॥४२॥तालेन दशमांशेन याममेकं ततः पुटेत्एवं दशपुटैः पक्वो वङ्गस्तु म्रियते ध्रुवम् ॥४३॥लौहमारणे प्रथमो विधिःशुद्धं लोहभवं चूर्णं पातालगरुडीरसैःमर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम् ॥४४॥पुटत्रयं कुमार्या च कुठारच्छिन्निकारसैःपुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत् ॥४५॥द्वितीयो विधिःक्षिपेत्तु द्वादशांशेन दरदं तीक्ष्णचूर्णतःमर्दयेत्कन्यकाद्रा वैर्यामयुग्मं ततः पुटेत् ॥४६॥एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात्रसैः कुठारच्छिन्नायाः पातालगरुडीरसैःस्तन्येन चार्कदुग्धेन तीक्ष्णस्यैवं मृतिर्भवेत् ॥४७॥तृतीयो विधिःसूतकाद् द्विगुणं गन्धं दत्वा कुर्याच्च कज्जलीम्द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्र वैः ॥४८॥यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रकेघर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद् बुधः ॥४९॥यामार्द्धेनोष्णतां यायाद्धान्यराशौ न्यसेत्ततःदत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ॥५०॥पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत्एवं सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत् ॥५१॥सर्वधातूनां मारणे सामान्यविधिःशिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवःम्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥५२॥अथोपधातूनां शोधनमारणप्रकाराःउपधातूनां गणनामाक्षिकं तुत्थकाभ्रौ च नीलाञ्जनशिलालकाःरसकञ्चेति विज्ञेया एते सप्तोपधातवः ॥५३॥स्वर्णमाक्षिकस्य शोधनविधिःमाक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य चमातुलुङ्गद्र वैर्वाऽथ जम्बीरोत्थद्र वैः पचेत् ॥५४॥चालयेल्लोहजे पात्रे यावत्पात्रं सुलोहितम्भवेत्तप्तं तु संशुद्धिं स्वर्णमाक्षिकमृच्छति ॥५५॥तस्य मारणविधिःकुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत्तक्रेण वाजमूत्रेण म्रियते स्वर्णमाक्षिकम् ॥५६॥रौप्यमाक्षिकशोधनविधिःकर्कोटीमेषशृङ्ग्युत्थैर्द्र वैर्जम्बीरजैर्दिनम्भावयेदातपे तीव्रे विमला शुद्ध्य्ति ध्रुवम् ॥५७॥तुत्थशोधनविधिःविष्ठया मर्दयेत् तुत्थं मार्जारककपोतयोः ॥५८॥दशांशं टङ्कणं दत्त्वा पचेन्मृदुपुटे ततःपुटं दध्ना तथा क्षौद्रै र्देयं तुत्थविशुद्धये ॥५९॥अभ्रकशोधनविधिःकृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत्भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्र वैःभावयेदष्टयामं तदेवं शुद्ध्य्ति चाभ्रकम् ॥६०॥अभ्रकमारणे प्रथमो विधिःकृत्वा धान्याभ्रकं तत्तु शोषयित्थाऽथ मर्दयेत्अर्कक्षीरैर्दिनं खल्वे चक्राकारं च कारयेत् ॥६१॥वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत्पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः ॥६२॥ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम्म्रियते नात्र संदेहः सर्वयोगेषु योजयेत् ॥६३॥मृताभ्रकस्यामृतीकरणविधिःतुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत्घृते जीर्णे तदभ्रं तु सर्वयोगेषु योजयेत् ॥६४॥मृताभ्रकगुणाःमृतं त्वभ्रं हरेन्मृत्युं जरापलितनाशनम्अनुपानैश्च संयुक्तं तत्तद्रो गहरं परम् ॥६५॥अभ्रकमारणे द्वितीयो विधिःशुद्धं धान्याभ्रकं मुस्तशुण्ठीषड्भागयोजितम्मर्दयेत्काञ्जिकेनैव दिनं चित्रकजै रसैः ॥६६॥ततो गजपुटं दद्यात्तस्मादुद्धृत्य मर्दयेत्त्रिफलावारिणा तद्वत्पुटेदेवं पुटैस्त्रिभिः ॥६७॥वलागोमूत्रमुसलीतुलसीसूरणद्र वैःमर्दितं पुटितं वह्नौ त्रित्रिवेलं व्रजेन्मृतिम् ॥६८॥अभ्रकसत्त्वप्रकारःधान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च ॥६९॥पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत्स्वभावं शीतलं चूर्णं सर्वरोगेषु योजयेत् ॥७०॥नीलाञ्जनशोधनविधिःनीलाञ्जनं चूर्णयित्वा जम्बीरद्र वभावितम्दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ॥७१॥गैरिककासीसादिशोधनविधिःएवं गैरिककासीसटङ्कणानि वराटिकातौरी शङ्खं च कङ्कुष्ठं शुद्धिमायाति निश्चितम् ॥७२॥मनः शिलाशोधनविधिःपचेत्त्र्यहमजामूत्रैर्दोलायन्त्रे मनः शिलाम्भावयेत्सप्तधा पित्तैरजायाः शुद्धिमृच्छति ॥७३॥हरितालशोधनविधिःतालकं कणशः कृत्वा तच्चूर्णं काञ्जिके क्षिपेत्दोलायन्त्रेण यामैकं ततः कूष्माण्डजैर्द्र वैः ॥७४॥तिलतैले पचेद्यामं यामं च त्रिफलाजलैःएवं यन्त्रे चतुर्यामं पाच्यं शुद्ध्य्ति तालकम् ॥७५॥रसकखिर्पिर शोधनविधिःनृमूत्रेवाऽथ गोमूत्रे सप्ताहं रसकं पचेत्दोलायन्त्रेण शुद्धिः स्यात्ततः कार्येषु योजयेत् ॥७६॥धातूनां सत्त्वपातनविधिःलाक्षामीनपयश्छागं टङ्कणं मृगशृङ्गकम्पिण्याकं सर्षपाः शिग्रुर्गुञ्जोर्णागुडसैन्धवाःयवतिक्ता घृतं क्षौद्रं यथालाभं विचूर्णयेत् ॥७७॥एभिर्विमिश्रिताः सर्वे धातवो गाढवह्निनामूषाध्माताः प्रजायन्ते मुक्तसत्त्वा न संशयः ॥७८॥अथ रत्नानां शोधनमारणप्रकाराःतत्रादौ वज्रशोधनविधिःकुलत्थकोद्र वक्वाथैर्दोलायन्त्रे विपाचयेत्व्याघ्रीकन्दगतं वज्रं त्रिदिनं शुद्धिमृच्छति ॥७९॥वज्रशोधने द्वितीयो विधिःतप्तं तप्तं तु तद्वज्रं खरमूत्रैर्निषेचयेत्पुनस्तप्यं पुनः सेच्यमेवं कुर्यात्त्रिसप्तधा ॥८०॥वज्रमारणे प्रथमो विधिःमत्कुणैस्तालकं पिष्ट्वा यावद्भवति गोलकम्तद्गोले निहितं वज्रं तद्गोलं वह्निना धमेत् ॥८१॥सिञ्चयेदश्वमूत्रेण तद्गोले च क्षिपेत्पुनःरुद्ध्वा ध्मातं पुनः सेच्यमेवं कुर्यात्त्रिसप्तधा ॥८२॥एवं च म्रियते वज्रं चूर्णं सर्वत्र योजयेत् ॥८३॥द्वितीयो विधिःहिङ्गुसैन्धवसंयुक्ते क्वाथे कौलत्थजे क्षिपेत्तप्तं तप्तं पुनर्वज्रं भूयाच्चूर्णं त्रिसप्तधा ॥८४॥तृतीयो विधिःमण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत्सुधीःस भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत्तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत् ॥८५॥वैक्रान्तस्य संशोधनमारणविधिःवैक्रान्तं वज्रवच्छोद्ध्यं नीलं वा लोहितं तथाहयमूत्रेण तत्सेच्यं तप्तं तप्तं द्विसप्तधा ॥८६॥ततस्तु मेषशृङ्ग्युक्तपञ्चाङ्गे गोलके क्षिपेत्पुटेन्मूषापुटे रुद्ध्वा कुर्यादेवं च सप्तधा ॥८७॥वैक्रान्तं भस्मतां याति वज्रस्थाने नियोजयेत् ॥८८॥अवशिष्टरत्नानां शोधनविधिःस्वेदयेद्दोलिकायन्त्रे जयन्त्याः स्वरसेन चमणिमुक्ताप्रवालानां यामकं शोधनं भवेत् ॥८९॥तेषामेव मारणविधिःकुमार्यास्तण्डुलीयेन स्तन्येन च निषेचयेत्प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः ॥९०॥मौक्तिकानि प्रवालानि तथा रत्नान्यशेषतःक्षणाद्विविधवर्णानि म्रियन्ते नात्र संशयः ॥९१॥उक्तमाक्षिकवन्मुक्ताः प्रवालानि च मारयेत्वज्रवत्सर्वरत्नानि शोधयेन्मारयेत्तथा ॥९२॥शिलाजतुनः प्रथमः शोधनविधिःशिलाजतु समानीय ग्रीष्मतप्तशिलाच्युतम्गोदुग्धैस्त्रिफलाक्वाथैर्भृङ्गद्रा वैश्च मर्दयेत्आतपे दिनमेकैकं तच्छुष्कं शुद्धतां व्रजेत् ॥९३॥द्वितीयो विधिःमुख्यां शिलाजतुशिलां सूक्ष्मखण्डप्रकल्पिताम्निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः ॥९४॥मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम्स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः ॥९५॥उपरिस्थं घनं यत्स्यात्तत्क्षिपेदन्यपात्रकेधारयेदातपे धीमानुपरिस्थं घनं नयेत् ॥९६॥एवं पुनः पुनर्नीत्वा द्विमासाभ्यां शिलाजतुभूयात्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत् ॥९७निर्धूमं च ततः शुद्धं सर्वकर्मसु योजयेत्अधः स्थितं च यच्छेषं तस्मिन्नीरं विनिक्षिपेत् ॥९८॥विमर्द्य धारयेद्घर्मे पूर्ववच्चैव तन्नयेत् ॥९९॥मण्डूरस्य शोधनमारणविधिःअक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैःसेचयेत्तप्ततप्तं तत्सप्तवारं पुनः पुनः ॥१००॥चूर्णयित्वा ततः क्वाथैर्द्विगुणैस्त्रिफलाभवैःआलोड्य भर्जयेद्वह्नौ मण्डूरं जायते वरम् ॥१०१॥क्षारकल्पनाक्षीरवृक्षस्य काष्ठानि शुष्काण्यग्नौ प्रदीपयेत्नीत्वा तद्भस्म मृत्पात्रे क्षिप्त्वा नीरे चतुर्गुणेविमर्द्य धारयेद्रा त्रौ प्रातरच्छं जलं नयेत् ॥१०२॥तन्नीरं क्वाथयेद्वह्नौ यावत्सर्वं विशुष्यतिततः पात्रात्समुल्लिख्य क्षारो ग्राह्यः सितप्रभः ॥१०३॥चूर्णाभः प्रतिसार्यः स्यात्पेयः स्यात्क्वाथवत्स्थितःइति क्षारद्वयं धीमानुक्तकार्येषु योजयेत् ॥१०४॥इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे धातुशोधनमारणनामैकादशोऽध्यायः N/A References : N/A Last Updated : March 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP