संस्कृत सूची|संस्कृत साहित्य|संहिता|शार्ङ्गधर संहिता|मध्यखण्डम्| दशमोऽध्यायः मध्यखण्डम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः मध्यखण्डम् - दशमोऽध्यायः संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : Ayurvedsamhitasanskritsharangdhar samhitaआयुर्वेदशार्ङ्गधर संहितासंस्कृतसंहिता आसवारिष्टादिसन्धानकल्पना Translation - भाषांतर द्र वेषु चिरकालस्थं द्र व्यं यत्संधितं भवेत्आसावारिष्टभेदैस्तु प्रोच्यते भेषजोचितम् ॥१॥आसवारिष्टयोर्भेदःयदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवःअरिष्टः क्वाथसाध्यः स्यात्तयोर्मानं पलोन्मितम् ॥२॥अनुक्तमानारिष्टेषु जलादिमानव्यवस्थाअनुक्तमानारिष्टेषु द्र वद्रो णे तुलां गुडम्क्षौद्रं क्षिपेद् गुडादर्द्धं प्रक्षेपं दशमांशिकम् ॥३॥ज्ञेयः शीतरसःसीधुरपक्वमधुरद्र वैःसिद्धः पक्वरसः सीधुः सम्पक्वमधुरद्र वैः ॥४॥सुराप्रसन्नादीनां मद्यभेदानां लक्षणानिपरिपक्वान्नसन्धानसमुत्पन्नां सुरां जगुःसुरामण्डः प्रसन्ना स्यात्ततः कादम्बरी घना ॥५॥तदधो जगलो ज्ञेयो मेदको जगलाद्घनःपक्वोऽसौ हृतसारः स्यात्सुराबीजं च किण्वकम् ॥६॥वारुणीशुक्तयोर्लक्षणेयत्तालखर्जूररसैः संधिता सा हि वारुणीकन्दमूलफलादीनि सस्नेहलवणानि चयत्र द्र वेऽभिषूयन्ते तच्छुक्तमभिधीयते ॥७॥चुक्रलक्षणम्विनष्टमम्लतां यातं मद्यं वा मधुरद्र वःविनष्टः सन्धितो यस्तु तच्च्रुकमभिधीयते ॥८॥गुडशुक्तेक्षुशुक्तद्रा क्षाशुक्तानां लक्षणानिगुडाम्बुना सतैलेन कन्दमूलफलैस्तथासन्धितं चाम्लतां यातं गुडशुक्तं तदुच्यते ॥९॥एवमेवेक्षुशुक्तं स्यान्मृद्वीकासम्भवं तथा ॥१०॥तुषाम्बुसौवीरयोर्लक्षणेतुषाम्बु सन्धितं ज्ञेयमामैर्विदलितैर्यवैःयवैस्तु निस्तुषैः पक्वैः सौवीरं सन्धितं भवेत् ॥११॥काञ्जिकसण्डाक्योर्लक्षणेकुल्माषधान्यमण्डादिसन्धितं काञ्जिकं विदुःसण्डाकी सन्धिता ज्ञेया मूलकैः सर्षपादिभिः ॥१२॥अथासवाःतत्रादावुशीरासवो रक्तपित्तादौउशीरं बालकं पद्मं काश्मरीं नीलमुत्पलम्प्रियङ्गुं पद्मकं लोध्रं मञ्जिष्ठां धन्वयासकम् ॥१३॥पाठां किराततिक्तं च न्यग्रोधोदुम्बरं शटीम्पर्पटं पुण्डरीकं च पटोलं काञ्चनारकम् ॥१४॥जंबूशाल्मलिनिर्यासं प्रत्येकं पलसम्मितान्भागान्सुचूर्णितान्कृत्वा द्रा क्षायाः पलविंशतिम् ॥१५॥धातकीं षोडशपलां जलद्रो णद्वये क्षिपेत्शर्करायास्तुलां दत्त्वा क्षौद्र स्यैकतुलां तथा ॥१६॥मासैकं स्थापयेद्भाण्डे मांसीमरिचधूपितेउशीरासव इत्येष रक्तपित्तविनाशनःपाण्डुकुष्ठप्रमेहार्शः कृमिशोथहरस्तथा ॥१७॥कुमार्यासवः प्रमेहादौसुपक्वरससंशुद्धं कुमार्याः पत्रमाहरेत्यत्नेन रसमादाय पात्रे पाषाणमृण्मये ॥१८॥द्रो णे गुडतुलां दत्त्वा घृत भाण्डे निधापयेत्माक्षिकं पक्वलोहं च तस्मिन्नर्द्धतुलां क्षिपेत् ॥१९॥कटुत्रिकं लवङ्गं च चातुर्जातकमेव चचित्रकं पिप्पलीमूलं विडङ्गं गजपिप्पली ॥२०॥चविकं हपुषा धान्यं क्रमुकं कटुरोहणीमुस्ता फलत्रिकं रास्ना देवदारु निशाद्वयम् ॥२१॥मूर्वा मधुरसा दन्ती मूलं पुष्करसम्भवम्बला चातिबला चैव कपिकच्छुस्त्रिकण्टकम् ॥२२॥शतपुष्पा हिङ्गुपत्री आकल्लकमुटिङ्गणम्पुनर्नवाद्वयं लोध्रं धातुमाक्षिकमेव च ॥२३॥एषां चार्द्धपलं दत्त्वा धातक्यास्तु पलाष्टकम्पलं चार्द्धपलं चैव पलद्वयमुदाहृतम् ॥२४॥वपुर्वयः प्रमाणेन बलवर्णाग्निदीपनम्बृंहणं रोचनं वृष्यं पक्तिशूलनिवारणम् ॥२५॥अष्टावुदरजान्रोगान्क्षयमुग्रं च नाशयेत्विंशतिं मेहजान्रोगानुदावर्त्तमपस्मृतिम् ॥२६॥मूत्रकृच्छ्रमपस्मारं शुक्रदोषं तथाऽश्मरीम्कृमिजं रक्तपित्तं च नाशयेत्तु न संशयः ॥२७॥पिप्पल्याद्यासवः क्षयादौपिप्पली मरिचं चव्यं हरिद्रा चित्रको घनः ॥२८॥विडङ्गं क्रमुको लोध्रः पाठा धात्र्! येलवालुकम्उशीरं चन्दनं कुष्ठं लवंगं तगरं तथा ॥२९॥मांसी त्वगेलापत्रं च प्रियङ्गुर्नागकेशरम्एषामर्द्धपलान्भागान्सूक्ष्मचूर्णीकृताञ्छुभान् ॥३०॥जलद्रो णद्वये क्षिप्त्वा दद्याद् गुडतुलात्रयम्पलानि दश धातक्या द्रा क्षा षष्टिपला भवेत् ॥३१॥एतान्येकत्र संयोज्य मृद्भाण्डे च विनिक्षिपेत्ज्ञात्वागतरसं सर्वं पाययेदग्न्यपेक्षया ॥३२॥क्षयं गुल्मोदरं कार्श्यं ग्रहणीं पांडुतां तथाअर्शांसि नाशयेच्छीघ्रं पिप्पल्याद्यासवस्त्वयम् ॥३३॥लोहासवः पाण्ड्वादौलोहचूर्णं त्रिकटुकं त्रिफलां च यवानिकाम्विडङ्गं मुस्तकं चित्रं चतुःसङ्ख्यापलंपृथक् ॥३४॥धातकीकुसुमानां तु प्रक्षिपेत्पलविंशतिम्चूर्णीकृत्य ततः क्षौद्रं चतुःषष्टिपलं क्षिपेत् ॥३५॥दद्याद् गुडतुलां तत्र जलद्रो णद्वयं तथाघृतभाण्डे विनिक्षिप्य निदध्यान्मासमात्रकम् ॥३६॥लोहासवममुं मत्तर्यः पिबेद्वह्निकरं परम्पाण्डुश्वयथुगुल्मानि जठराण्यर्शसां रुजम् ॥३७॥कुष्ठं प्लीहामयं कण्डूं कासं श्वासं भगन्दरम्अरोचकं च ग्रहणीं हृद्रो गं च विनाशयेत् ॥३८॥अथारिष्टाःतत्रादौ मृदीकारिष्टोऽश प्रभृतिरोगेषुमृद्वीकायाः पलशतं चतुद्रो र्णे!ऽम्भसः पचेत्द्रो णशेषे सुशीते च पूते तस्मिन्प्रदापयेत् ॥३९॥तुले द्वे क्षौद्र खण्डाभ्यां धातक्याः प्रस्थमेव चकङ्कोलकं लवङ्गं च फलं जात्यास्तथैव च ॥४०॥पलांशकं च मरिचत्वगेलापत्रकेसराःपिप्पली चित्रकं चव्यं पिप्पलीमूलरेणुके ॥४१॥घृतभाण्डे विनिक्षिप्य चन्दनागरुधूपितेकर्पूरवासितो ह्येष ग्रहण्या दीपनः परः ॥४२॥अर्शसां नाशने श्रेष्ठ उदावर्त्तस्य गुल्मनुत्जठरकृमिकुष्ठानि व्रणास्तु विविधास्तथा ॥४३॥कुटजारिष्टो ज्वरादौतुलां कुटजमूलस्य मृद्वीकाऽद्धतुलां तथामधूकपुष्पकाश्मर्यौ भागान्दशपलोन्मितान् ॥४४॥चतुद्रो र्णे!ऽम्भसः पक्त्वा क्वाथे द्रो णावशेषितेधातक्या विंशतिपलं गुडस्य च तुलां क्षिपेत् ॥४५॥मासमात्रं स्थितो भाण्डे कुटजारिष्टसञ्ज्ञितःज्वरान्प्रशमयेत्सर्वान्कुर्यात्तीक्ष्णं धनञ्जयम् ॥४६॥विडङ्गारिष्टो विद्र ध्यादौविडङ्गं ग्रन्थिकं रास्ना कुटजत्वक्फलानि च ॥४७॥पाठैलवालुकं धात्री भागान्पञ्चपलान्पृथक्अष्टद्रो णेऽम्भसः पक्त्वा कुर्याद् द्रो णावशेषितम् ॥४८॥पूते शीते क्षिपेत्तत्र क्षौद्रं पलशतत्रयम्धातकीं विंशतिपलां त्रिजातं द्विपलं तथा ॥४९॥प्रियङ्गुकाञ्चनाराणां सलोध्राणां पलंपलम्व्योषस्य च पलान्यष्टौ चूर्णीकृत्य प्रदापयेत् ॥५०॥घृतभाण्डे विनिक्षिप्य मासमेकं विधारयेत्ततः पिबेद्यथाऽह तु जयेद्विद्र धिमूर्जितम् ॥५१॥ऊरुस्तम्भाश्मरीमेहान्प्रत्यष्ठीलाभगन्दरान्गण्डमालां हनुस्तम्भं विडङ्गारिष्टसञ्ज्ञितः ॥५२॥देवदार्वाद्यरिष्टः प्रमेहादौतुलाऽद्ध देवदारु स्याद्वासा च पलविंशतिःमज्जिष्ठेन्द्र यवा दन्ती तगरं रजनीद्वयम् ॥५३॥रास्ना कृमिघ्नं मुस्तं च शिरीषं खदिरार्जुनौभागान्दशपलान्दद्याद्यवान्या वत्सकस्य च ॥५४॥चन्दनस्य गुडूच्याश्च रोहिण्याश्चित्रकस्य चभागानष्टपलानेतानष्टद्रो णेऽम्भसः पचेत् ॥५५॥द्रो णशेषे कषाये च पूते शीते प्रदापयेत्धातक्याः षोडशपलं माक्षिकस्य तुलात्रयम् ॥५६॥व्योषस्य द्विपलं दद्यात् त्रिजातस्य चतुष्पलम्चतुष्पलं प्रियङ्गोश्च द्विपलं नागकेशरम् ॥५७॥सर्वाण्येतानि सञ्चूर्ण्य घृतभाण्डे निधापयेत्मासादूर्ध्वं पिबेदेनं प्रमेहं हन्ति दुर्जयम् ॥५८॥वातरोगान्ग्रहण्यर्शो मूत्रकृच्छ्राणि नाशयेत्देवदार्वादिकोऽरिष्टः कण्डूकुष्ठविनाशनः ॥५९॥खदिरारिष्टः कुष्ठादौखदिरस्य तुलाऽद्ध तु देवदारु च तत्समम्वाकुची द्वादशपला दार्वी स्यात्पलविंशतिः ॥६०॥त्रिफला विंशतिपला ह्यष्टद्रो णेऽम्भसः पचेत्कषाये द्रो णशेषे च पूते शीते विनिक्षिपेत् ॥६१॥तुलाद्वयं माक्षिकस्य तुलैका शर्करा मताधातक्या विंशतिपलं कङ्कोलं नागकेशरम् ॥६२॥जातीफलं लवङ्गैलात्वक्पत्राणि पृथक्पृथक्पलोन्मितानि कृष्णाया दद्यात्पलचतुष्टयम् ॥६३॥घृतभाण्डे विनिक्षिप्य मासादूर्ध्वं पिबेन्नरःमहाकुष्ठानि हृद्रो गं पाण्डुरोगार्बुदे तथा ॥६४॥गुल्मं ग्रन्थिं कृमीन्कासं श्वासं प्लीहोदरं जयेत्एष वै खदिरारिष्टः सर्वकुष्ठनिवारणः ॥६५॥बब्बूलारिष्टः क्षयकासादौतुलाद्वयं तु बब्बूल्याश्चतुद्रो र्णे! जले पचेत्द्रो णशेषे रसे शीते गुडस्य त्रितुलां क्षिपेत् ॥६६॥धातकीं षोडशपलां कृष्णां च द्विपलां तथाजातीफलानि कङ्कोलमेलात्वक्पत्रकेशरम् ॥६७॥लवङ्गं मरिचं चैव पलिकान्युपकल्पयेत्मासं भाण्डे स्थितस्त्वेष बब्बूलारिष्टको जयेत्क्षयं कुष्ठमतीसारं प्रमेहश्वासकासकम् ॥६८॥द्रा क्षाऽरिष्टः पुष्ट्यादौद्रा क्षातुलाऽद्ध द्विद्रो णे जलस्य विपचेत् सुधीःपादशेषे कषाये च पूते शीते विनिक्षिपेत् ॥६९॥गुडस्य द्वितुलां तत्र त्वगेलापत्रकेशरम्प्रियङ्गुर्मरिचं कृष्णा विडङ्गं चेति चूर्णयेत् ॥७०॥पृथक्पलोन्मितैर्भागैस्ततो भाण्डे निधापयेत्समन्ततो घट्टयित्वा पिबेञ्जातरसंततः ॥७१॥उरःक्षतं क्षयं हन्ति कासश्वासगलामयान्द्रा क्षाऽरिष्टाह्वयः प्रोक्तो बलकृन्मलशोधनः ॥७२॥रोहितकारिष्टो गुदजग्रहण्यादौरोहितकतुलामेकां चतुद्रो र्णे! जले पचेत्पादशेषे रसे शीते पूते पलशतद्वयम् ॥७३॥दद्याद् गुडस्य धातक्याः पलषोडशिका मतापञ्चकोलं त्रिजातं च त्रिफलां च विनिक्षिपेत् ॥७४॥चूर्णयित्वापलांशेन ततोभाण्डेनिधापयेत्मासादूर्ध्वं च पिबतां गुदजा यान्ति संक्षयम् ॥७५॥ग्रहणीपाण्डुहृद्रो गप्लीहगुल्मोदराणि चकुष्ठशोफारुचिहरो रोहितारिष्टसञ्ज्ञितः ॥७६॥दशमूलारिष्टो वातादौपर्ण्यौ बृहत्यौ गोकण्टो बिल्वोऽग्निमन्थकोऽरलुः ॥७७॥पाटला काश्मरी चेति दशमूलमिहोच्यतेदशमूलानि कुर्वीत भागैः पञ्चपलैःपृथक् ॥७८॥पञ्चविंशत्पलं कुर्याच्चित्रकं पौष्करं तथाकुर्याद्विंशपलं लोध्रं गुडूची तत्समा भवेत् ॥७९॥पलैः षोडशभिर्धात्री रविसङ्ख्यैर्दुरालभाखदिरो बीजसारश्च पथ्या चेति पृथक्पलैः ॥८०॥अष्टभिर्गणितः कुष्ठं मञ्जिष्ठा देवदारु चविडङ्गं मधुकं भार्ङ्गी कपित्थोऽक्ष पुनर्नवा ॥८१॥चव्यं मांसी प्रियङ्गुश्च सारिवा कृष्णजीरकम्त्रिवृता रेणुकं रास्ना पिप्पली क्रमुकः शटी ॥८२॥हरिद्रा शतपुष्पा च पद्मकं नागकेशरम्मुस्तमिन्द्र यवः शुण्ठी जीवकर्षभकौ तथा ॥८३॥मेदा चान्या महामेदा काकोल्यौ ऋद्धिवृद्धिकेकुर्यात्पृथग्द्विपलिकान्पचेदष्टगुणे जले ॥८४॥चतुर्थाशं शृतं नीत्वा मृद्भाण्डे संनिधापयेत्चतुःषष्टिपलां द्रा क्षां पचेन्नीरे चतुर्गुणे ॥८५॥त्रिपादशेषं शीतं च पूर्वक्वाथे शृतं क्षिपेत्द्वात्रिंशत्पलिकं क्षौद्रं दद्याद् गुणचतुःशतम् ॥८६॥त्रिंशत्पलानि धातक्याः कङ्कोलं जलचन्दनम्जातीफलं लवङ्गं च त्वगेलापत्रकेशरम् ॥८७॥पिप्पली चेति संचूर्ण्य भागैर्द्विपलिकः पृथक्शाणमात्रां च कस्तूरीं सर्वमेकत्र निक्षिपेत् ॥८८॥भूमौ निखातयेद्भाण्डं ततो जातरसं पिबेत्कतकस्य फलं क्षिप्त्वा रसं निर्मलतां नयेत् ॥८९॥ग्रहणीमरुचिं श्वासं कासं गुल्मं भगन्दरम्वातव्याधिं क्षयं छर्दिं पाण्डुरोगं च कामलाम् ॥९०॥कुष्ठान्यर्शांसि मेहांश्च मन्दाग्निमुदराणि चशर्करामश्मरीं मूत्रकृच्छ्रं धातुक्षयं जयेत् ॥९१॥कृशानां पुष्टिजननो वन्ध्यानां गर्भदः परःअरिष्टो दशमूलाख्यस्तेजः शुक्रबलप्रदः ॥९२॥इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे आसवारिष्टादिसन्धानकल्पना नाम दशमोऽध्यायः N/A References : N/A Last Updated : March 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP