मध्यखण्डम् - द्वितीयोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


पानीयं षोडशगुणं क्षुण्णे द्र व्यपले क्षिपेत्
मृत्पात्रे क्वाथयेद् ग्राह्यमष्टमांशावशेषितम्
तज्जलं पाययेद्धीमान्कोष्णं मृद्वग्निसाधितम् ॥१॥

क्वाथपर्यायनामानि
शृतः क्वाथः कषायश्च निर्यूहः स निगद्यते ॥२॥

क्वाथपानसमयः
आहाररसपाके च सञ्जाते द्विपलोन्मितम्
वृद्धवैद्योपदेशेन पिबेत्क्वाथं सुपाचितम् ॥३॥

क्वाथे सितामधुनोः प्रक्षेपपरिमाणम्
क्वाथे क्षिपेत्सितामंशैश्चतुर्थाष्टमषोडशैः
वातपित्तकफातंके विपरीतं मधु स्मृतम् ॥४॥

चूर्णद्र व्याणां प्रक्षेपपरिमाणम्
जीरकं गुग्गुलं क्षारं लवणं च शिलाजतु
हिङ्गु त्रिकटुकं चैव क्थाथे शाणोन्मितं क्षिपेत् ॥५॥

द्र वद्र व्याणां प्रक्षेपपरिमाणम्
क्षीरं घृतं गुडं तैलं मूत्रं चान्यद् द्र वं तथा
कल्कं चूर्णादिकं क्वाथे निक्षिपेत्कर्षसम्मितम् ॥६॥

पाकसमये क्वाथपात्रपिधाननिषेधः
सपिधानमुखे पात्रे जलं दुर्जरतां व्रजेत्
तस्मादावरणं त्यक्त्वा क्वाथादीनां विनिश्चयः ॥७॥

सर्वज्वरे दाहादौ च गुडूच्यादिक्वाथः
गुडूचीधान्यकारिष्टरक्तचन्दनपद्मकैः
गुडूच्यादिगणक्वाथः सर्वज्वरहरः स्मृतः
दीपनो दाहहृल्लासतृष्णाच्छर्द्यरुचीर्जयेत् ॥८॥

सर्वज्वरे नागरादिपाचनक्वाथः
नागरं देवकाष्ठं च धान्यकं बृहतीद्वयम्
दद्यात्पाचनकं पूर्वं ज्वरितानां ज्वरापहम् ॥९॥

सर्वज्वरे क्षुद्रा दिक्वाथः
क्षुद्रा किराततिक्तं च शुण्ठी छिन्ना च पौष्करम्
कषाय एषां शमयेत्पीतश्चाष्टविधं ज्वरम् ॥१०॥

वातज्वरे क्वाथः
गुडूच्यादि क्वाथः
गुडूचीपिप्पलीमूलनागरैः पाचनं स्मृतम्
दद्याद्वातज्वरे पूर्णलिङ्गे सप्तमवासरे ॥११॥

शालपर्ण्यादिक्वाथः
शालपर्णी बला द्रा क्षा गुडूची सारिवा तथा
आसां क्वाथं पिबेत्कोष्णं तीव्रवातज्वरच्छिदम् ॥१२॥

काश्मर्यादिक्वाथः
काश्मरीसारिवाद्रा क्षात्रायमाणाऽमृताभवः
कषायः सगुडः पीतोवातज्वरविनाशनः ॥१३॥

पित्तज्वरे क्वाथाः
कट्फलादिपाचनक्वाथः
कट्फलेन्द्र यवापाठातिक्तामुस्तैः शृतं जलम्
पाचनं दशमेऽह्नि स्यात्तीव्रे पित्तज्वरे नृणाम् ॥१४॥

पर्पटादिक्वाथः
पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः ॥१५॥

प्रियङ्गुश्च कृतः क्वाथ एषां शर्करया युतः
पिपासादाहपित्तास्रयुतं पित्तज्वरं जयेत् ॥१६॥

द्रा क्षादिक्वाथः
द्रा क्षा हरीतकी मुस्तं कटुकी कृतमालकः
पर्पटश्च कृतः क्वाथ एषां पित्तज्वरापहः
तृण्मूर्च्छादाहपित्तासृक्शमनो भेदनः स्मृतः ॥१७॥

पर्पटक्वाथप्रशंसौ तत्र विशेषश्च
एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः
किं पुनर्यदि युज्येत चन्दनोशीरबालकैः ॥१८॥

अथ कफज्वरे क्वाथाः
तत्र बीजपूरकादिपाचनक्वाथः
बीजपूरशिफापथ्यानागरग्रन्थिकैः शृतम्
सक्षारं पाचनं श्लेष्मज्वरे द्वादशवासरे ॥१९॥

भूनिम्बादिक्वाथः
भूनिम्बनिम्बपिप्पल्यः शटी शुण्ठी शतावरी
गुडूची बृहती चेति क्वाथो हन्यात्कफज्वरम् ॥२०॥

पटोलादिक्वाथः
पटोलत्रिफलातिक्ताशटीवासाऽमृताभवः
क्वाथो मधुयुतः पीतो हन्यात्कफकृतं ज्वरम् ॥२१॥

अथ द्वन्द्वजज्वरे क्वाथाः
तत्र वातपित्तज्वरे पञ्चभद्र क्वाथः
पर्पटाब्दामृताविश्वकैरातैः साधितं जलम्
पञ्चभद्र मिदं ज्ञेयं वातपित्तज्वरापहम् ॥२२॥

कफवातज्वरादौ लघुक्षुद्रा दिक्वाथः
क्षुद्रा शुण्ठीगुडूचीनां कषायः पौष्करस्य च ॥२३॥

कफवाताधिके पेयो ज्वरे वाऽपि त्रिदोषजे
कासश्वासारुचिकरे पार्श्वशूलविधायिनि ॥२४॥

वातकफज्वरे आरग्वधादिक्वाथः
आरग्वधकणामूलमुस्तातिक्ताभयाकृतः
क्वाथः शमयति क्षिप्रं ज्वरं वातकफोद्भवम्
आमशूलप्रशमनो भेदी दीपनपाचनः ॥२५॥

पित्तश्लेष्मज्वरेऽमृताद्यष्टकक्वाथः
अमृतारिष्टकटुकामुस्तेन्द्र यवनागरैः
पटोलचन्दनाभ्यां च पिप्पलीचूर्णयुक्शृतम् ॥२६॥

अमृताष्टकमेतच्च पित्तश्लेष्मज्वरापहम्
छर्द्यरोचकहृल्लासदाहतृष्णाविनाशनम् ॥२७॥

पित्तश्लेष्मज्वरादौ पटोलादिक्वाथः
पटोलं चन्दनं मूर्वातिक्तापाठाऽमृतागणः
पित्तश्लेष्मज्वरच्छर्दिदाहकण्डूविषापहः ॥२८॥

सर्वज्वरे कण्टकार्यादिक्वाथः
कण्टकारीद्वयं शुण्ठी धान्यकं सुरदारु च
एभिः शृतं पाचनं स्यात्सर्वज्वरविनाशनम् ॥२९॥

अथ सन्निपातज्वरे क्वाथाः
तत्र दशमूलक्वाथः
शालिपर्णीपृश्निपर्णीबृहतीद्वयगोक्षुरैः ॥३०॥

विल्वाग्निमन्थश्योनाककाश्मरीपाटलायुतैः
दशमूलमिति ख्यातं क्वथितं तज्जलं पिबेत् ॥३१॥

पिप्पलीचूर्णसंयुक्तं वातश्लेष्मज्वरापहम्
सन्निपातज्वरहरं सूतिकादोषनाशनम् ॥३२॥

हृत्कण्ठग्रहपार्श्वार्त्तितन्द्रा मस्तकशूलहृत् ॥३३॥

अभयादिक्वाथः
अभयामुस्तधान्याकरक्तचन्दनपद्मकैः
वासकेन्द्र यवोशीरगुडूचीकृतमालकैः ॥३४॥

पाठानागरतिक्ताभिः पिप्पलीचूर्णयुक्शृतम्
पिबेत्त्रिदोषज्वरजित्पिपासाकासदाहनुत् ॥३५॥

प्रलापश्वासतन्द्रा घ्नं दीपनं पाचनं परम्
विण्मूत्रानिलविष्टम्भवमिशोषारुचिच्छिदम् ॥३६॥

पिप्पल्यादिक्वाथः
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
वचासातिविषाऽजाजीपाठावत्सकरेणुकैः ॥३७॥

किराततिक्तकं मूर्वा सर्षपा मरिचानि च
कटुकं पुष्करं भार्ङ्गी विडङ्गं कर्कटाह्वयम् ॥३८॥

अर्कमूलं बृहत्सिंही श्रेयसी सदुरालभा
दीप्यकं चाजमोदा च शुकनासादिहिङ्गुभिः ॥३९॥

एतानि समभागानि गणोऽष्टाविंशको मतः
कषायमुपभुञ्जीत वातश्लेष्मज्वरापहम् ॥४०॥

हन्ति वातं तथा शीतं स्वेदजं प्रबलं कफम्
प्रलापं चातिनिद्रा ं! च रोमहर्षारुची तथा ॥४१॥

महावातेऽपतन्त्रे च सर्वगात्रे च शून्यताम्
अयं सर्वज्वरान्हन्ति सन्निपातांस्त्रयोदश ॥४२॥

अष्टादशाङ्गक्वाथः
किरातकटुकीमुस्ताधान्येन्द्र यवनागरैः
दशमूलमहादारुगजपिप्पलिकायुतैः ॥४३॥

कृतः कषायः पार्श्वार्त्तिसन्निपातज्वरं जयेत्
कासश्वासवमीहिक्कातन्द्रा हृद्ग्रहनाशनः ॥४४॥

कट्फलादिक्वाथः
कट्फलाम्बुदभार्ङ्गीभिर्धान्यरोहिषपर्पटैः
वचा हरीतकीशृङ्गीदेवदारुमहौषधैः
हिक्काकासं ज्वरं हन्ति श्वासश्लेष्मगलग्रहान् ॥४५॥

जीर्णज्वरे गुडूचीक्वाथः पित्तज्वरे पर्पटक्वाथश्च
क्वाथो जीर्णज्वरं हन्ति गुडूच्याः पिप्पलीयुतः ॥४६॥

तथा पर्पटजः क्वाथः पित्तज्वरहरः परः
किं पुनर्यदि युज्येत चन्दनोदीच्यनागरैः ॥४७॥

जीर्णज्वरे निदिग्धिकादिक्वाथः
निदिग्धिकाऽमृताशुण्ठीकषायं पाययेद्भिषक्
पिप्पलीचूर्णसंयुक्तं श्वासकासार्दितापहम्
पीनसारुचिवैस्वर्यशूलाजीर्णज्वरच्छिदम् ॥४८॥

प्रसूतिदोषे देवदार्वादिक्वाथः
देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम् ॥४९॥

कट्फलंमुस्तभूनिम्बतिक्तधान्या हरीतकी
गजकृष्णा च दुःस्पर्शा गोक्षुरुर्धन्वयासकम् ॥५०॥

बृहत्यतिविषा छिन्ना कर्कटं कृष्णजीरकम्
क्वाथमष्टावशेषं तु प्रसूतां पाययेत्स्त्रियम्
शूलकासज्वरश्वासमूर्च्छाकम्पशिरोर्त्तिजित् ॥५१॥

अथ विषमज्वरे क्वाथाः
तत्र शीतपूर्वविषमज्वरे बृहत्क्षुद्रा दिक्वाथः
क्षुद्रा धान्यकशुण्ठीभिर्गुडूचीमुस्तपद्मकैः
रक्तचन्दनभूनिम्बपटोलवृषपौष्करैः ॥५२॥

कटुकेन्द्रा यवारिष्टभार्ङ्गीपर्पटकैः समैः
क्वाथं प्रातर्निषेवेत सर्वशीतज्वरच्छिदम् ॥५३॥

विषमज्वरे मुस्तादिक्वाथः
मुस्ताक्षुद्रा मृताशुण्ठीधात्रीक्वाथः समाक्षिकः
पिप्पलीचूर्णसंयुक्तो विषमज्वरनाशनः ॥५४॥

सन्ततादिज्वरे पटोलादिक्वाथः
पटोलेन्द्र यवादारुत्रिफलामुस्तगोस्तनैः
मधुकामृतवासानां क्वाथं क्षौद्र युतं पिबेत् ॥५५व

सन्तते सतते चैव द्वितीयकतृतीयके
एकाहिके वा विषमे दाहपूर्वे नवज्वरे ॥५६

एकाहिकज्वरे पटोलादिक्वाथः
पटोलत्रिफलानिम्बद्रा क्षाशम्याकवासकैः
क्वाथः सितामधुयुतो जयेदैकाहिकं ज्वरम् ॥५७॥

तृतीयकज्वरे गुडूच्यादिक्वाथः
गुडूचीधान्यमुस्ताभिश्चन्दनोशीरनागरैः ॥५८॥

कृतं क्वाथं पिबेत्क्षौद्र सितायुक्तं ज्वरातुरः
तृतीयज्वरनाशाय तृष्णादाहनिवारणम् ॥५९॥

चातुर्थिकज्वरे देवदार्वादिक्वाथः
देवदारुशिवावासाशालिपर्णीमहौषधैः
चातुर्थिकज्वरे श्वासे कासे मन्दानले तथा
धात्रीयुतं शृतं शीतं दद्यान्मधुसितायुतम् ॥६०॥

ज्वरातीसारे गुडूच्यादिक्वाथः
गुडूचीधान्यकोशीरशुण्ठीबालकपर्पटैः
बिल्वप्रतिविषापाठारक्तचन्दनवत्सकैः ॥६१॥

किरातमुस्तेन्द्र यवः क्वथितं शिशिरं पिबेत्
सक्षौद्रं रक्तपित्तघ्नं ज्वरातीसारनाशनम् ॥६२॥

नागरादिक्वाथः
नागरं कुटजो मुस्तं भूनिम्बातिविषाऽमृताः
एभिः कृतं पिबेत्क्वाथं ज्वरातीसारनाशनम् ॥६३॥

आमशूले धान्यपञ्चकक्वाथः
धान्यबालक बिल्वाब्दनागरैः साधितं जलम्
आमशूलहरं ग्राहि दीपनं पाचनं परम् ॥६४॥

आमवाते धान्यनागरजक्वाथः
धान्यनागरजः क्वाथः पाचनो दीपनस्तथा
एरण्डमूलयुक्तश्च जयेदामानिलव्यथाम् ॥६५॥

सामरक्तातीसारे वत्सकादिक्वाथः
वत्सकातिविषाबिल्वमुस्तबालकजः शृतः
अतीसारं जयेत्सामं चिरजं रक्तशूलजित् ॥६६॥

सर्वातीसारे कुटजाष्टकक्वाथः
कुटजातिविषापाठाधातकीलोध्रमुस्तकैः
ह्रीबेरदाडिमयुतैः कृतः क्वाथः समाक्षिकः ॥६७॥

पेयो मोचरसेनैव कुटजाष्टकसंज्ञकः
अतीसाराञ्जयेद्दाहरक्तशूलामदुस्तरान् ॥६८॥

चिरजातीसारे ह्रीबेरादिक्वाथः
ह्रीबेरधातकीलोध्रपाठालज्जालुवत्सकैः
धान्यकातिविषामुस्तागुडूचीबिल्वनागरैः ॥६९॥

कृतः कषायः शमयेदतीसारं चिरोत्थितम्
अरोचकामशूलास्रज्वरघ्नः पाचनः स्मृतः ॥७०॥

बालातिसारे धातक्यादिक्वाथः
धातकी बिल्वरोध्राणि बालकं गजपिप्पली
एभिः कृतं शृतं शीतं शिशुभ्यः क्षौद्र संयुतम्
प्रदद्यादवलेहं वा सर्वातीसारशान्तये ॥७१॥

वातजग्रहण्यां शालिपर्ण्यादिक्वाथः
शालिपर्णीबलाबिल्वधान्यशुण्ठीकृतः शृतः
आध्मानशूलसहितां वातजां ग्रहणीं जयेत् ॥७२॥

सामग्रहण्यां चातुर्भद्र कक्वाथः
गुडूच्यतिविषाशुण्ठीमुस्तैः क्वाथः कृतो जयेत्
आमानुषक्तां ग्रहणीं ग्राही पाचनदीपनः ॥७३॥

सर्वातिसारेष्विन्द्र यवादिक्वाथः
यवधान्यपटोलानां क्वाथः सक्षौद्र शर्करः
योज्यः सर्वातिसारेषु बिल्वाम्रास्थिभवस्तथा ॥७४॥

कृमिरोगे त्रिफलादिक्वाथः
त्रिफला देवदारुश्च मुस्ता मूषकपर्णिका
शिग्रुरेतैः कृतः क्वाथः पिप्पलीचूर्णसंयुतः ॥७५॥

विडङ्गचूर्णयुक्तश्च कृमिघ्नःकृमिरोगहा ॥७६॥

कामलादौ फलत्रिकादिक्वाथः
फलत्रिकामृतातिक्तानिम्बकैरातवासकैः
जयेन्मधुयुतः क्वाथः कामलां पाण्डुतां तथा ॥७७॥

पाण्डुशोथादौ पुनर्नवादिक्वाथः
पुनर्नवाऽभयानिम्बदार्वीतिक्तापटोलकैः ॥७८॥

गुडूचीनागरयुतैः क्वाथो गोमूत्रसंयुतः
पाण्डुकासोदरश्वासशूलसर्वाङ्गशोथहा ॥७९॥

रक्तपित्तादौ वासादिक्वाथः
वासाद्रा क्षाऽभयाक्वाथः पीतः सक्षौद्र शर्करः
निहन्ति रक्तपित्तार्त्तिश्वासकासान्सुदारुणान् ॥८०॥

रक्तपित्तादौ वासकक्वाथः
रक्तपित्तक्षयं कासं श्लेष्मपित्तज्वरं तथा
केवलो वासकक्वाथः पीतः क्षौद्रे ण नाशयेत् ॥८१॥

कासे क्वाथद्वयम्
वासाक्षुद्रा ऽमृताक्वाथः क्षौद्रे ण ज्वरकासहा
कासघ्नःपिप्पलीचूर्णयुक्तः क्षुद्रा शृतस्तथा ॥८२॥

श्वासकासयोः क्षुद्रा दिक्वाथः
क्षुद्रा कुलत्थवासाभिर्नागरेण च साधितः
क्वाथः पुष्करचूर्णाढ्य श्वासकासौ निवारयेत् ॥८३॥

रेणुकादिक्वाथः
रेणुकापिप्पलीक्वाथो हिङ्गुकल्केन संयुतः
पानादेव हि पञ्चापि हिक्कां नाशयति क्षणात् ॥८४॥

छर्द्यां क्वाथत्रयम्
बिल्वत्वचोगुडूच्या वा क्वाथः क्षौद्रे ण संयुतः
जयेत्त्रिदोषजां छर्दिं पर्पटः पित्तजां तथा ॥८५॥

गृध्रस्यां क्वाथद्वयम्
हिङ्गुपुष्करचूर्णाढ्यं दशमूलशृतं जयेत्
गृध्रसीं केवलः क्वाथः शेफालीपत्रजस्तथा ॥८६॥

सप्तधातुगतवाते रास्नापञ्चकक्वाथः
रास्नाऽमृतामहादारुनागरैरण्डजैः शृतम्
सप्तधातुगते वाते सामे सर्वाङ्गजे पिबेत् ॥८७॥

जङ्घावातादौ रास्नासप्तकक्वाथः
रास्नागोक्षुरकैरण्डदेवदारुपुनर्नवा
गुडूच्यारग्वधश्चैव क्वाथमेषां विपाचयेत् ॥८८॥

शुण्ठीचूर्णेन संयुक्तं पिबेज्जङ्घाकटीग्रहे
पार्श्वपृष्ठोरुपीडायामामवाते सुदुस्तरे ॥८९॥

सर्ववातरोगे महारास्नादिक्वाथः
रास्ना द्विगुणभागा स्यादेकभागास्ततः परे
धन्वयासबलैरण्डदेवदारुशटीवचाः ॥९०॥

वासको नागरं पथ्या चव्या मुस्ता पुनर्नवा
गुडूची वृद्धदारुश्च शतपुष्पा च गोक्षुरः ॥९१॥

अश्वगन्धा प्रतिविषा कृतमालः शतावरी
कृष्णा सहचरश्चैव धान्यकं बृहतीद्वयम् ॥९२॥

एभिः कृतं पिबेत्क्वाथं शुण्ठीचूर्णेन संयुतम्
कृष्णाचूर्णेन वा योगराजगुग्गुलुनाऽथवा ॥९३॥

अजमोदादिना वाऽपि तैलेनैरण्डजेन वा
सर्वाङ्गकम्पे कुब्जत्वे पक्षाघातेऽवबाहुके ॥९४॥

गृध्रस्यामामवाते च श्लीपदे चापतानके
अन्त्रवृद्धौ तथाऽध्माने जङ्घाजानुगतेऽदिते ॥९५॥

शुक्रामये मेढ्ररोगे वन्ध्यायोन्यामयेषु च
महारास्नादिराख्यातो ब्रह्मणा गर्भकारणम् ॥९६॥

स्तनादिगतवाते एरण्डसप्तकक्वाथः
एरण्डो बीजपूरश्च गोक्षुरो बृहतीद्वयम्
अश्मभेदस्तथा बिल्व एतन्मूलैः कृतः शृतः ॥९७

एरण्डतैलहिङ्ग्वाढ्यः सयवक्षारसैन्धवः
स्तनस्कन्धकटी मेढ्रहृदयोत्थां व्यथां जयेत् ॥९८॥

वातशूले नागरादीन्द्र यवयोः क्वाथौ
नागरैरण्डजः क्वाथः क्वाथ इन्द्र यवस्य च
हिंगुसौवर्चलोपेतो वातशूलनिवारणः ॥९९॥

पित्तशूले त्रिफलादिक्वाथः
त्रिफलाऽरग्वधक्वाथः शर्कराक्षौद्र संयुतः
रक्तपित्तहरो दाहपित्तशूलनिवारणः ॥१००॥

कफशूले एरण्डक्वाथः
एरण्डमूलं द्विपलं जलेऽष्टगुणिते पचेत्
तत्क्वाथो यावशूकाढ्यः पार्श्वहृत्कफशूलहा ॥१०१॥

हृद्रो गादौ दशमूलक्वाथः
दशमूलकृतः क्वाथः सयवक्षारसैन्धवः
हृद्रो गगुल्मशूलानि कासं श्वासं च नाशयेत् ॥१०२॥

मूत्रकृच्छ्रादौ हरीतक्यादिक्वाथः
हरीतकीदुरालम्भाकृतमालकगोक्षुरैः
पाषाणभेदसहितैः क्वाथो माक्षिकसंयुतः
विबन्धे मूत्रकृच्छ्रे च सदाहे सरुजे हितः ॥१०३॥

अश्मरीरोगादौ वीरतर्वादिगणक्वाथः
वीरतरुर्वृक्षवन्दा काशः सहचरत्रयम्
कुशद्वयं नलो गुन्द्रा बकपुष्पोऽग्निमन्थकः ॥१०४॥

मूर्वा पाषाणभेदश्च स्योनाको गोक्षुरस्तथा
अपामार्गश्च कमलं ब्राह्मी चेति गणो वरः ॥१०५॥

वीरतर्वादिरित्युक्तः शर्कराऽश्मरिकृच्छ्रहा
मूत्राघातं वायुरोगान्नाशयेन्निखिलानपि ॥१०६॥

शर्कराऽश्मर्यादौ एलादिक्वाथः
एलामधुकगोकण्टरेणुकैरण्डवासकाः ॥१०७॥

कृष्णाऽश्मभेदसहिताः क्वाथ एषां सुसाधितः
शिलाजतुयुतः पेयः शर्कराऽश्मरिकृच्छ्रहा ॥१०८॥

मूत्रकृच्छ्रादौ गोक्षुरक्वाथः
समूलगोक्षुरक्वाथः सितामाक्षिकसंयुतः
नाशयेन्मूत्रकृच्छ्राणि तथा चोष्णसमीरणम् ॥१०९॥

अथ प्रमेहे क्वाथाः
वरादिः वत्सकादिक्वाथौ
वरादार्व्यब्ददारूणां क्वाथः क्षौद्रे ण मेहहा
वत्सकत्रिफलादार्वीमुस्तको बीजकस्तथा ॥११०॥

फलत्रिकादिक्वाथः
फलत्रिकाब्ददार्वीणां विशालायाः शृतं पिबेत्
निशाकल्कयुतं सर्वप्रमेहविनिवृत्तये ॥१११॥

प्रदरे दार्व्यादिक्वाथः
दार्वी रसाञ्जनं मुस्तं भल्लातः श्रीफलं वृषः
कैरातश्च पिबेदेषां क्वाथं शीतं समाक्षिकम्
जयेत्सशूलं प्रदरं पीतश्वेतासितारुणम् ॥११२॥

योनिरोगव्रणादौ न्यग्रोधादिक्वाथः
न्यग्रोधप्लक्षकोशाम्रवेतसा बदरी तुणिः
मधुयष्टी प्रियालश्च लोध्रद्वयमुदुम्बरः ॥११३॥

पिप्पलश्च मधूकश्च तथा पारिसपिप्पलः
शल्लकी तिन्दुकी जम्बूद्वयमाम्रतरुः शिवा ॥११४॥

कदम्बककुभौ चैव भल्लातकफलानि च
न्यग्रोधादिगणक्वाथं यथालाभं च कारयेत् ॥११५॥

अयं क्वाथो महाग्राही व्रण्यो भग्नं च साधयेत्
योनिदोषहरो दाहमेदोमेहविषापहः ॥११६॥

अथ मेदोदोषे योगत्रयम्
बिल्वोऽग्निमन्थः स्योनाकः काश्मरी पाटला तथा
क्वाथ एषां जयेन्मेदोदोषं क्षौद्रे ण संयुतः ॥११७॥

क्षौद्रे ण त्रिफलाक्वाथः पीतो मेदोहरः स्मृतः
शीतीभूतं तथोष्णाम्बु मेदोहृत्क्षौद्र संयुतम् ॥११८॥

उदररोगे चव्यादिक्वाथः
चव्यचित्रकविश्वानां साधितो देवदारुणा
क्वाथस्त्रिवृच्चूर्णयुतो गोमूत्रेणोदराञ्जयेत् ॥११९॥

शोथोदरे पुनर्नवाऽदिक्वाथः
पुनर्नवाऽमृतादारुपथ्यानागरसाधितः
गोमूत्रगुग्गुलुयुतः क्वाथः शोथोदरापहः ॥१२०॥

यकृत्प्लीहगुल्मोदरे पथ्याऽदिक्वाथः
पथ्यारोहितकक्वाथं यवक्षारकणायुतम्
पिबेत्प्रातर्यकृत्प्लीहगुल्मोदरनिवृत्तये ॥१२१॥

शोथे पुनर्नवादिक्वाथः
पुनर्नवा दारुनिशा निशा शुण्ठी हरीतकी ॥१२२॥

गुडूची चित्रको भार्ङ्गी देवदारु च तैः शृतः
पाणिपादोदरमुखप्राप्तं शोफं निवारयेत् ॥१२३॥

वृषणशोथे फलत्रिकक्वाथः
फलत्रिकोद्भवं क्वाथं गोमूत्रेणैव पाययेत्
वातश्लेष्मकृतं हन्ति शोथं वृषणसम्भवम् ॥१२४॥

अन्त्रवृद्धौ रास्नादिक्वाथः
रास्नाऽमृताबलायष्टीगोकण्टैरण्डजः शृतः
एरण्डतैलसंयुक्तो वृद्धिमन्त्रभवां जयेत् ॥१२५॥

गण्डामालायां काञ्चनारत्वक्क्वाथः
काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन नाशयेत्
गण्डमालां तथा क्वाथः क्षौद्रे ण वरुणत्वचः ॥१२६॥

श्लीपदमेदोरोगयोः शाखोटकत्वक्क्वाथः
शाखोटवल्कलक्वाथं गोम्रूत्रेण युतं पिबेत्
श्लीपदानां विनाशाय मेदोदोषनिवृत्तये ॥१२७॥

अन्तर्विद्र धौ क्वाथद्वयम्
पुनर्नवावरुणयोः क्वाथोऽन्तर्विद्र धीञ्जयेत्
तथा शिग्रुभवः क्वाथो हिङ्गुसैन्धवसंयुतः ॥१२८॥

अपक्वान्तर्विद्र धौ वरुणादिगणक्वाथः
वरुणादिगणक्वाथमपक्वे मध्यविद्र धौ
ऊषकादिरजोयुक्तं पिबेच्छमनहेतवे ॥१२९॥

वरुणादिगणः
वरुणो बकपुष्पश्च बिल्वापामार्गचित्रकाः
अग्निमन्थद्वयं शिग्रुद्वयं च बृहतीद्वयम् ॥१३०॥

सैरेयकत्रयं मूर्वा मेषशृङ्गी किरातकः
अजशृङ्गी च बिम्बी च करञ्जश्च शतावरी ॥१३१॥

वरुणादिगणक्वाथः कफमेदोहरः स्मृतः
हन्ति गुल्मं शिरः शूलन्तथाभ्यन्तरविद्र धीन् ॥१३२॥

भगन्दरे खदिरादिक्वाथः
खदिरत्रिफलाक्वाथो महिषीघृतसंयुतः
विडङ्गचूर्णयुक्तश्च भगन्दरविनाशनः ॥१३३॥

उपदंशे पटोलादिक्वाथः
पटोलत्रिफलानिम्बकिरातखदिरासनैः
क्वाथः पीतो जयेत्सर्वानुपदंशान्सगुग्गुलुः १३४

वातरक्तेऽमृतादिक्वाथः
अमृतैरण्डवासानां क्वाथ एरण्डतैलयुक्
पीतः सर्वाङ्गसञ्च्रारिवातरक्तं जयेद् ध्रुवम् ॥१३५॥

वातरक्ते पटोलादिक्वाथः
पटोलं त्रिफला तिक्ता गुडूची च शतावरी
एतत्क्वाथो जयेत्पीतो वातास्रं दाहसंयुतम् ॥१३६॥

श्वेतकुष्ठेऽवल्गुजचूर्णयुग्धात्र्! यादिक्वाथः
क्वाथोऽवल्गुजचूर्णाढ्यो धात्रीखदिरसारयोः
जयेत्सुशीलितो नित्यं श्वित्रं पथ्याशिनां नृणाम् ॥१३७॥

वातरक्तकुष्ठादौ लघुमञ्जिष्ठाऽदिक्वाथः
मञ्जिष्ठा त्रिफला तिक्ता वचा दारुनिशाऽमृता
निम्बश्चैषां कृतः क्वाथो वातरक्तविनाशनः
पामाकपालिकाकुष्ठरक्तमण्डलजिन्मतः ॥१३८॥

सर्वकुष्ठे बृहन्मञ्जिष्ठादिक्वाथः
मञ्जिष्ठामुस्तकुटजगुडूचीकुष्ठनागरैः
भार्ङ्गीक्षुद्रा वचानिम्बनिशाद्वयफलत्रिकैः ॥१३९॥

पटोलकटुकीमूर्वाविडङ्गासनचित्रकैः
शतावरीत्रायमाणाकृष्णेन्द्र यववासकैः ॥१४०॥

भृङ्गराजमहादारुपाठाखदिरचन्दनैः
त्रिवृद्वरुणकैरातवाकुचीकृतमालकैः ॥१४१॥

शाखोटकमहानिम्बकरञ्जातिविषाजलैः
इन्द्र वारुणिकानन्तासारिवापर्पटैः समैः ॥१४२॥

एमिः कृतं पिबेत्क्वाथं कणागुग्गुलुसंयुतम्
अष्टादशसु कुष्ठेषु वातरक्तार्दिते तथा ॥१४३॥

उपदंशे श्लीपदे च प्रसुप्तौ पक्षघातके
मेदोदोषे नेत्ररोगे मञ्जिष्ठादिः प्रशस्यते ॥१४४॥

शिरोरोगे नेत्ररोगादौ च पथ्यादिषडङ्गक्वाथः
पथ्याऽक्षधात्रीभूनिम्बनिशानिम्बामृतायुतैः ॥१४५॥

कृतः क्वाथः षडङ्गोऽय सगुडः शीर्षशूलहृत्
भ्रूशङ्खकर्णशूलानि तथाऽधशिरसो रुजम् ॥१४६॥

सूर्यावर्त्तं शङ्खकं च दन्तपातं च तद्रुजम्
नक्तान्ध्यं पटलं शुक्रं चक्षुःपीडां व्यपोहति ॥१४७॥

नेत्ररोगे वासादिक्वाथः
वासाविश्वामृतादार्वीरक्तचन्दनचित्रकैः
भूनिम्बनिम्बकटुकापटोलत्रिफलाऽम्बुदैः ॥१४८॥

यवकालिङ्गकुटजैः क्वाथः सर्वाक्षिरोगहा
वैस्वर्यं पीनसं श्वासं नाशयेदुरसः क्षतम् ॥१४९॥

नेत्ररोगेऽमृतादिक्वाथः
अमृतात्रिफलाक्वाथः पिप्पलीचूर्णसंयुतः
सक्षौद्र ः! शीलितो नित्यं सर्वनेत्रव्यथां जयेत् ॥१५०॥

व्रणक्षालनादौ पञ्चवल्कलक्वाथः
अश्वत्थोदुम्बरप्लक्षवटवेतसजं शृतम्
व्रणशोथोपदंशानां नाशनं क्षालनात्स्मृतम् ॥१५१॥

अथ प्रमथ्याऽदिकषायभेदानाह
तत्र प्रमथ्यापरिभाषा
प्रमथ्या प्रोच्यते द्र व्यपलात्कल्कीकृताच्छृतात्
तोयेऽष्टगुणिते यस्याः पानमाहुः पलद्वयम् ॥१५२॥

रक्तातिसारे मुस्तकादिप्रमथ्या
मुस्तकेन्द्र यवैः सिद्धा प्रमथ्या द्विपलोन्मिता
सुशीता मधुसंयुक्ता रक्तातीसारनाशिनी ॥१५३॥

यवागूपरिभाषा
साध्यं चतुष्पलं द्र व्यं चतुःषष्टिपले जले
तत्क्वाथेनार्धशिष्टेन यवागूं साधयेद्घनाम् ॥१५४॥

ग्रहण्यामाम्रादियवागूः
आम्राम्रातकजम्बूत्वक्कषाये विपचेद् बुधः
यवागूं शालिभिर्युक्तां तां भुक्त्वा ग्रहणीं जयेत् ॥१५५॥

यूषपरिभाषा
कल्कद्र व्यपलं शुण्ठी पिप्पली चार्धकार्षिकी
वारिप्रस्थेन विपचेत्स द्र वो यूष उच्यते ॥१५६॥

सन्निपातादौ सप्तमुष्टिकयूषः
कुलत्थयवकोलैश्च मुद्गैर्मूलकग्रन्थिकैः
शुण्ठीधान्याकयुक्तैश्च यूषः श्लेष्मानिलापहः ॥१५७॥

सप्तमुष्टिक इत्येष सन्निपातज्वरं जयेत्
आमवातहरः कण्ठहृद्वक्त्राणां विशोधनः ॥१५८॥

पानादिकल्पना
क्षुण्णं द्र व्यपलं साध्यं चतुःषष्टिपले जले
अर्द्धशिष्टं च तद्देयं पाने भक्तादिसंविधौ ॥१५९॥

पिपासाज्वरघ्नषडङ्गपानम्
उशीरपर्पटोदीच्यमुस्तनागरचन्दनैः
जलं शृतं हिमं पेयं पिपासाज्वरनाशनम् ॥१६०॥

उष्णोदकविधिः
अष्टमेनांशशेषेण चतुर्थेनार्धकेन वा
अथवा क्वथनेनैव सिद्धमुष्णोदकं वदेत् ॥१६१॥

उष्णोदकसमयः
श्लेष्मामवातमेदोघ्नं बस्तिशोधनदीपनम्
कासश्वासज्वरहरं पीतमुष्णोदकं निशि ॥१६२॥

क्षीरपाकविधिः
क्षीरमष्टगुणं द्र व्यात्क्षीरान्नीरं चतुर्गुणम्
क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत् ॥१६३॥

पञ्चमूलीशृतपयः
सिर्वज्वराणां जीर्णानां क्षीरं भैषज्यमुत्तमम्
श्वासात्कासाच्छिरः शूलात्पार्श्वशूलात्सपीनसात्
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः ॥१६४॥

त्रिकण्टकादिशृतपयः
त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्
वर्चोमूत्रविबन्धघ्नं कफज्वरहरं पयः ॥१६५॥

अन्नप्रक्रिया तत्र यवागूकृशरासाधनविधिः
अथान्नप्रक्रियाऽत्रैव प्रोच्यते नातिविस्तरा
यवागूः षड्गुणजले सिद्धा स्यात्कृशरा घना ॥१६६॥

तण्डुलैर्मुद्गमाषैश्च तिलैर्वा साधिता हिता
यवागूर्ग्राहिणीबल्या तर्पणी वातनाशिनी ॥१६७॥

विलेपीसाधनविधिः
विलेपी घनसिक्था स्यात्सिद्धा नीरे चतुर्गुणे
बृंहणी तर्पणी हृद्या मधुरा पित्तनाशिनी ॥१६८॥

पेयायूषसाधनविधिः
द्र वाधिका स्वल्पसिक्था चतुर्दशगुणे जले
सिद्धा पेया बुधैर्ज्ञेया यूषः किञ्चिद् घनः स्मृतः ॥१६९॥

पेयायूषयोर्गुणाः
पेया लघुतराज्ञेया ग्राहिणी धातुपुष्टिदा
यूषो बल्यस्ततः कण्ठ्यो लघुपाकः कफापहः ॥१७०॥

भक्तसाधनविधिः
जले चतुर्दशगुणे तण्डुलानां चतुष्पलम्
विपचेत्स्रावयेन्मण्डं स भक्तो मधुरो लघुः ॥१७१॥

मण्डसाधनविधिः
नीरे चतुर्दशगुणे सिद्धो मण्डस्त्वसिक्थकः
शुण्ठीसैन्धवसंयुक्तः पाचनो दीपनः परः ॥१७२॥

अष्टगुणमण्डः
धान्यत्रिकटुसिन्धूत्थमुद्गतण्डुलयोजितः
भृष्टश्च हिङ्गुतैलाभ्यां स मण्डोऽष्टगुणः स्मृतः ॥१७३॥

दीपनः प्राणदो बस्तिशोधनो रक्तवर्धनः
ज्वरजित्सर्वदोषघ्नो मण्डोऽष्टगुण उच्यते ॥१७४॥

वाट्यमण्डः
सुकण्डितैस्तथा भृष्टैर्वाट्यमण्डो यवैर्भवेत्
कफपित्तहरः कण्ठ्यो रक्तपित्तप्रसादनः ॥१७५॥

लाजमण्डः
लाजैर्वा तण्डुलैभृष्टैर्लाजमण्डः प्रकीर्त्तितः
श्लेष्मपित्तहरो ग्राही पिपासाज्वरजिन्मतः ॥१७६॥

इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे क्वाथकल्पना नामद्वितीयोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP