संस्कृत सूची|संस्कृत साहित्य|संहिता|शार्ङ्गधर संहिता|मध्यखण्डम्| तृतीयोऽध्यायः मध्यखण्डम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः मध्यखण्डम् - तृतीयोऽध्यायः संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : Ayurvedsamhitasanskritsharangdhar samhitaआयुर्वेदशार्ङ्गधर संहितासंस्कृतसंहिता फाण्टादिकल्पना Translation - भाषांतर क्षुण्णे द्र व्यपले सम्यग्जलमुष्णं विनिक्षिपेत्मृत्पात्रे कुडवोन्मानं ततस्तु स्रावयेत्पटात् ॥१॥स स्याच्चूर्णद्र वः फाण्टस्तन्मानं द्विपलोन्मितम्सितामधुगुडादींश्च क्वाथवत्तत्र निक्षिपेत् ॥२॥वातपित्तज्वरादौ बृहन्मधूकपुष्पादिफाण्टःमधूकपुष्पं मधुकं चन्दनं सपरूषकम्मृणालं कमलं लोध्रं गम्भारीं नागकेशरम् ॥३॥त्रिफलां सारिवां द्रा क्षां लाजान्कोष्णजले क्षिपेत्सितामधुयुतः पेयः फाण्टो वाऽसौ हिमोऽथवा ॥४॥वातपित्तज्वरं दाहं तृष्णामूर्च्छाऽरतिभ्रमान्रक्तपित्तं मदं हन्यान्नात्र कार्या विचारणा ॥५॥ज्वरादावाम्रादिफाण्टःआम्रजम्बूकिसलयैर्वटशुङ्गप्ररोहकैःउशीरेण कृतः फाण्टः सक्षौद्रो ज्वरनाशनःपिपासाच्छर्द्यतीसारान्मूर्च्छां जयति दुस्तराम् ॥६॥दाहपित्तादौ लघुमधूकपुष्पादिफाण्टःमधूकपुष्पगम्भारीचन्दनोशीरधान्यकैः ॥७॥द्रा क्षया च कृतः फाण्टः शीतः शर्करया युतःतृष्णापित्तहरः प्रोक्तो दाहमूर्च्छाभ्रमाञ्जयेत् ॥८॥मन्थविधिःमन्थोऽपि फाण्टभेदः स्यात्तेन चात्रैव कथ्यतेजले चतुष्पले शीते क्षुण्णं द्र व्यपलं क्षिपेत्मृत्पात्रे मन्थयेत्सम्यक्तस्माच्च द्विपलं पिबेत् ॥९॥मदात्ययादौ खर्जूरादिमन्थःखर्जूरदाडिमीद्रा क्षातिन्तिडीकाम्लिकामलैःसपरूषैः कृतो मन्थः सर्वमद्यविकारनुत् ॥१०॥छर्द्यां मसूरादिमन्थःक्षौद्र युक्ता मसूराणां सक्तवो दाडिमाम्भसामथिता वारयन्त्याशु छर्दिं दोषत्रयोद्भवाम् ॥११॥तृष्णादाहादौ यवसक्तुमन्थःप्लावितैः शीतनीरेण सघृतैर्यवसक्तुभिःनातिसान्द्र द्र वो मन्थस्तृष्णादाहास्रपित्तहा ॥१२॥इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे फाण्टादिकल्पना नाम तृतीयोऽध्यायः N/A References : N/A Last Updated : March 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP