अहिर्बुध्नसंहिता - अध्यायः ३१

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


योगाङ्गयमनियमासननिरूपणं नाम एकत्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि॥

हृद्यागस्वरूपप्रश्नः
नारदः---
प्रथमं बाह्ययागस्य हृदयाराधनं परम्।
उक्तं त्वया तत्स्वरूपं यथावद्वक्तुमर्हसि ॥१॥

तदुत्तरकथनारम्भः
अहिर्बुध्न्यः---
साधु पृष्टं त्वया तस्य स्वरूपं श्रृणु नारद।
येन प्रीणाति भगवान् सर्वलोकनमस्कृतः ॥२॥
हृद्यागलक्षणम्
यैर्बाह्ययागः क्रियते साधनैस्त्रिविधैरिह।
संकल्पसिद्धैस्तैरेव देवं प्रति समर्चनम् ॥३॥
हृदयाराधनं प्रोक्तमेतत् सर्वार्थसाधनम्।

आत्मसमर्पणस्य हृद्यागतुल्यत्वम्
यद्वा भगवते तस्मै स्वकीयात्मसमर्पणम् ॥४॥
वियुक्तं प्रकृतेः शुद्धं दद्यादात्महविः स्वयम्।
विशिष्टदैवतायास्मै चक्ररूपाय मन्त्रतः ॥५॥
प्रकृतिवियुक्तात्मस्वरूपविषयकः प्रश्नः
नारदः---
वियुक्तं प्रकृते रूपमात्मनो वक्तुमर्हसि।
केनोपायेन तत्प्राप्तिस्तन्मे ब्रूहि सुनिश्चितम् ॥६॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः---
श्रृणु तत् परमं सूक्ष्मं सर्वगं सर्वभृत् तथा।
ज्ञानरूपमनाद्यन्तमविकारि निरामयम् ॥७॥
अचक्षुःश्रोत्रमस्पर्शमपाणिचरणं ध्रुवम्।
नामजात्यादिरहितमवर्णमगुणं त्वपि ॥८॥
विश्वश्रवो विश्वचक्षुर्विश्वपाणिपदं परम्।
असक्तमचरं शान्तं स्वयंज्योतिरनौपमम् ॥९॥
दूरस्थमन्तिकचरं ज्ञानगम्यं निरञजनम्।

भूतभर्तृ समज्योतिर्ज्योतिषां तमसः परम् ॥१०॥
अक्षरं सर्वभूतस्थं तद्विष्णोः परमं पदम्।

योगकर्मणोर्विविक्तात्मस्वरूपप्राप्तिसाधनता
तत्प्राप्तिसाधनं योगः कर्म च श्रुतिचोदितम् ॥११॥
तद्विषयकः प्रश्नः
नारदः---
कीदृशं कर्म विज्ञेयं योगः कीदृश उच्यते।
याभ्यां संप्राप्यते चात्मा केवलं प्रकृतेः परः ॥१२॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः---
श्रृणुष्व प्रथमं कर्म द्विविधं तदिहोच्यते।
कर्मणां द्वैविध्यम्
एकं प्रवर्तकं प्रोक्तं निवर्तकमथापरम् ॥१३॥

प्रवर्तकनिवर्तककर्मणोः क्रमादभ्युदयनिश्रेयससाधनत्वम्
प्रवर्तकं च स्वर्गादिफलसाधनमुच्यते।
निवर्तकाख्यं देवर्षे विज्ञेयं मोक्षसाधनम् ॥१४॥
जीवपरसंयोगस्याष्टाङ्गयोगशब्दार्थता
संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः।
अष्टाङ्गः एष कथितो येनात्मा दृश्यतां गतः ॥१५॥

योगाङ्गपरिगणनम्
अष्टाङ्गान्यस्य वक्ष्यामि पृथक् तानि निशामय।
यमश्च नियमश्चैवमासनं तदनन्तरम् ॥१६॥
प्राणायामस्ततः प्रोक्तः प्रत्याहारश्च धारणा।
ध्यानं तथा समाधिश्चाप्यङ्गान्येतानि नारद ॥१७॥
यमस्वरूपनिरूपणम्
सत्यं दया धृतिः शौचं ब्रह्मचर्यं क्षमार्जवम्।
मिताहारस्तथास्तेयमहिंसेति यमा दश ॥१८॥
सत्यादीनां स्वरूपनिरूपणम्
हितरूपं वचः सत्यं यथादृष्टार्थगोचरम्।
दया दुःखासहिष्णुत्वं सर्वभूतेषु सर्वदा ॥१९॥
आपद्यपि स्वकार्येषु कर्तव्यत्वस्थितिर्धृतिः।
शौचं सर्वेन्द्रियाणां च वैधकर्मसु योग्यता ॥२०॥
ब्रह्मचर्यं स्वयोषित्सु भोग्यताबुद्धिवर्जनम्।
अविकारमनस्त्वं तु क्षमा विकृतिहेतुषु ॥२१॥
वाङ्भनः कायवृत्तीनामेकरूपत्वमार्जवम्।
मिताहारस्त्वाश्रमिणां श्रुतिचोदितभोजनम् ॥२२॥
अस्तेयमस्पृहान्येषां वित्ते वाक्कायमानसैः।
अहिंसा वाङ्भनः कायैः परपीडानिवर्तनम् ॥२३॥
नियमस्वरूपनिरूपणम्
सिद्धान्तश्रवणं दानं मतिरीश्वरपूजनम्।
संतोषस्तप आस्तिक्यं ह्रीर्जपश्च तथा व्रतम् ॥२४॥
एते तु नियमाः प्रोक्ता दश योगस्य साधकाः।
सिद्धान्तश्रवणादीनां स्वरूपनिरूपणम्
सिद्धान्तश्रवणं प्रोक्तं वेदान्तश्रवणं बुधैः ॥२५॥
दानं न्यायार्जितार्थस्य सत्पात्रे प्रतिपादनम्।
विहिते कर्मणि श्रद्धा मतिरित्यभिधीयते ॥२६॥
यथाशक्त्यर्चनं भक्त्या विष्णोरीश्वरपूजनम्।
संतोषोऽलमनेनेति प्रीतिर्यादृच्छिकेन वै ॥२७॥
कृच्छ्रचान्द्रायणाद्यैश्च तपो देहविशोषणम्।
आस्तिक्यमस्ति वेदैकगम्यं वस्त्विति निश्चयः ॥२८॥
निषिद्धकर्मकरणे व्रीडा ह्रीः प्रोच्यते बुधैः।
गुरूपदिष्टस्वाध्यायमन्त्राभ्यासो जपः स्मृतः॥ २९॥
सदाचार्योपदिष्टेपूपायत्वप्रग्रहो व्रतम्।
अथासनानां स्वास्थ्यहेतुत्वम्
आसनानि प्रवक्ष्यामि मुख्यानि विविधानि च ॥३०॥
आस्थायैषामन्यतमं योगिनो यान्ति निर्वृतिम्।

मुख्यासनपरिगणनम्
चक्रं पद्मासनं कूर्मं मायूरं कौक्कूटं तथा ॥३१॥
वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा।
मुक्तासनं गोमुखं च मुख्यान्येतानि नारद ॥३२॥
चक्रासनम्
सव्योरुं दक्षिणे गुल्फे दक्षिणं दक्षिणेतरे।
निदध्यादृजुकायस्तु चक्रासनमिदं परम् ॥३३॥
पद्मासनम्
ऊर्वोरुपरि संस्थाप्य उभे पादतले सुखम्।
पद्मासनमिदं प्रोक्तं सर्वकिल्बिषनाशनम् ॥३४॥
कूर्मासनम्
गुदं निपीड्य गुल्फाभ्यां व्युत्क्रमेण समाहितः।
एतत् कूर्मासनं प्रोक्तं योगसिद्धिकरं परम् ॥३५॥
मयूरासनम्
निवेश्य कूर्परौ सम्यङ् नाभिमण्डलपार्श्वयोः।
अवष्टभ्य भुवं पाणितलाभ्यां व्योम्नि दण्डवत् ॥३६॥
समोन्नतशिरः पादो मायूरासनमिष्यते।
एतत् सर्वविषघ्नं च सर्वव्याधिनिवारणम् ॥३७॥

कुक्कुटासनम्
पद्मासनमधिष्ठाय जान्वन्तरविनिः सृतौ।
करौ भूमौ निवेश्यैतद्व्योमस्थं कुक्कुटासनम् ॥३८॥
वीरासनम्
एकत्रोरौ तु संस्थाप्य पादमेकमथेतरम्।
ऊरुं पादे निवेश्यैतद्वीरासनमुदाहृतम् ॥३९॥
स्वस्तिकासनम्
उभे पादतले कृत्वा जानूर्वोरन्तरे दृढम्।
ऋजुकायः समासीत स्वस्तिकं तत् प्रचक्षते ॥४०॥
भद्रासनम्
सीवन्याः पार्श्वयोर्गुल्फौ निवेश्याग्रपदे दृढम्।
बद्ध्वा कराभ्यां तत् प्रोक्तं भद्रासनमघापहम् ॥४१॥
सिंहासनम्
सीवन्याः पार्श्वयोर्गुल्पौ व्युत्क्रमेण निवेश्य च।
करौ जान्वोर्निधायोभौ प्रसार्य निखिलाङ्गलीः ॥४२॥
नासाग्रन्यस्तनयनो व्यात्तवक्त्र ऋजुः सुधीः।
एतत् सिंहासनं प्रोक्तं सर्वदेवाभिपूजितम् ॥४३॥

मुक्तासनम्
मेढ्रादुपरि विन्यस्य सव्यगुल्फमिहेतरम्।
गुल्फं विन्यस्य पाणी चाप्यङ्गमध्ये निवेश्य च ॥४४॥
मुक्तासनमिदं प्रोक्तं स्थिता यत्र मुमुक्षवः।
गोमुखासनम्
उभयोर्गुल्फयोः कृत्वा पृष्ठपार्श्वावुभावपि ॥४५॥
व्युत्क्रमेणाथ पाणिभ्यां विन्यस्ताभ्यां विगृह्य च।
पृष्ठगाभ्यां पदाङ्गुष्ठावेतद् गोमुखमुच्यते ॥४६॥
प्राणायामसिद्धये नाडीशुद्ध्यावश्यकता
प्राणायामप्रसिद्ध्यर्थं नाडीशुद्धिमनन्तरम्।
देहस्थवायुभिः कुर्यात् साग्निभिश्च तपोधन ॥४७॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां योगाङ्गयमनियमासननिरूपणं नामैकत्रिंशोऽध्यायः
आदितः श्लोकाः १८७२

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP