अहिर्बुध्नसंहिता - अध्यायः ७

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


शुद्धेतरसृष्टिवर्णनं नाम सप्तमोऽध्यायः
प्रकृतिपुरुषकालानां समष्टिः

अहिर्बुध्न्यः----
अन्यूनानतिरिक्तं यद् गुणसाम्यं तमोमयम्।
तत् सांख्यैर्जगतो मूलं प्रकृतिश्चेति कथ्यते ॥१॥
क्रमावतीर्णो यस्तत्र चतुर्मनुयुगः पुमान्।
समष्टिः पुरुषो योनिः स कूटस्थ इतीर्यते ॥२॥
यत् तत् कालमयं तत्त्वं जगतः संप्रकालनम्।
स तयोः कार्यमास्थाय संयोजकविभाजकः ॥३॥

भगवत्संकल्पचोदितात् त्रितयादस्मात् महदाद्युत्पत्तिः
मृत्पिण्डीभूतमेतत्तु कालादित्रितयं मुने।
विष्णोः सुदर्शनेनैव स्वस्वकार्यप्रचोदितम् ॥४॥
महदादिपृथिव्यन्ततत्त्ववर्गोपपादकम्।

प्रकृतिः स्वरूपतः स्वभावतश्च परिणामिनी
पयोमृदादिवत् तत्र प्रकृतिः परिणामिनी ॥५॥

पुरुषः स्वरूपतोऽपरिणामी
पुमानपरिणामी सन् संनिधानेन कारणम्।
कालस्य प्रकृतिपुरुषपाचकत्वम्
कालः पचति तत्त्वे द्वे प्रकृतिं पुरुषं च ह ॥६॥

प्रकृतेर्महत्तत्त्वोत्पत्तिः
पुरुषाधिष्ठितात् तस्माद्विष्णुसंकल्पचोदितात्।
कालेन कलिताच्चैव गुणसाम्यान्महामुने ॥७॥
महान् नाम महत्तत्त्वमव्यक्तादुदितं मुने।

महत्तत्त्वपर्यायाः
विद्या गौर्यवनी ब्राह्मी वधूर्वृद्धिर्मतिर्मधुः ॥८॥
अख्यातिरीश्वरः प्राज्ञेत्येते तद्वाचका मुने।
महतस्त्रैविध्यम्
कालो बुद्धिस्तथा प्राण इति त्रेधा स गीयते ॥९॥
तमःसत्त्वरजोभेदात् तत्तदुन्मेषसंज्ञया।
कालस्त्रुटिलवाद्यात्मा बुद्धिरघ्यवसायिनी ॥१०॥
प्राणः प्रयतनाकार इत्येता महतो भिदाः।

तत्र सात्त्विकस्य चातुर्विध्यम्
धर्मो ज्ञानं विरागश्चाप्यैश्वर्यमिति संज्ञया॥ ११॥
महतः सात्त्विकं रूपं चतुर्धा प्रविभज्यते ।

तामसस्यापि चातुर्विध्यम्
अधर्माज्ञानावैराग्यमनैश्वर्यं च तामसम् ॥१२॥

महत्तत्त्वे मनूनामवस्थितिः
विद्याया उदरेऽष्टौ ते सुदर्शनसमीरिताः।
मनवो गर्भतां यान्ति सर्वज्ञाः सर्वदर्शिनः ॥१३॥
तत्र बुद्ध्युत्पत्तिः
बोधनं नाम वैद्यं तदिन्द्रियं तेषु जायते।
येनार्थानध्यवस्येयुः सदसत्प्रविभागिनः ॥१४॥
महतोऽहंकारोत्पत्तिः
विद्याया उदरे तत्राहंकृतिर्नाम जायते।
संकल्पाच्चोदिता विष्णोश्चोदितायाः सुदर्शनात् ॥१५॥

अहंकारपर्यायाः
अहंकारोऽभिमानश्च प्रजापतिरहंकृतिः।
अभिमन्ता च बोद्धा चेत्यस्याः पर्यायवाचकाः ॥१६॥
अहंकारस्य त्रैविध्यम्
तस्य वैकारिकं नाम रूपं सात्त्विकमुच्यते।
तैजसं राजसं रूपं भूतादिर्नाम तामसम् ॥१७॥

अहंकारस्य रूपभेदाः
कामः क्रोधश्च लोभश्च मानश्चावमतिस्तृषा।
इत्यहंकृतिरूपाणि दर्शितानि मुने तव ॥१८॥
अहंकारे मनूनामवस्थितिः
नानाविभवयुक्तायामुत्पन्नायामहंकृतौ।
तदन्तर्गर्भमायाति मनूनां तच्चतुर्युगम् ॥१९॥
अहंकारात् मनउत्पत्तिः
सुदर्शनेरितं विष्णोराहंकारिकमिन्द्रियम्।
मनो नाम मनूनां तज्जायते चिन्तनात्मकम् ॥२०॥
मनस्वी बुद्धिमांश्चापि गर्भो मनुमयस्तथा।
भूतादेः शब्दतन्मात्रोत्पत्तिः
भूतादेः शब्दतन्मात्रं तामसादथ जायते ॥२१॥
तस्मादाकाशोत्पत्तिः
वियच्च शब्दतन्मात्राज्जायते शब्दलक्षणम्।
आकाशस्य गुणकर्मणी
शब्दैकगुणमाकाशमवकाशप्रदायि च ॥२२॥
आकाशे मनूनां स्थितिः
तदन्तर्गर्भतां यान्ति विष्णुसंकल्पचोदिताः।

मनवोऽष्टौ महाबुद्दे तदा वैकारिकात् पुनः ॥२३॥
श्रोत्रवाचोरुत्पत्तिः
श्रोत्रं वागिति विज्ञानकर्मेन्द्रिययुगं मुने।
समीक्षयैव देवस्य मनुषु प्रतिजायते ॥२४॥
मनूनां तद्वैशिष्ट्यम्
श्रोत्रवानथ वाग्मी च गर्भो मनुमयस्तथा।
अथ स्पर्शतन्मात्रोत्पत्तिः
सुदर्शनेरिताद्विष्णोर्भूतादेः स्पर्शमात्रकम् ॥२५॥
तस्माद्वायूत्पत्तिः
जायते स्पर्शवान् वायुस्तस्मादपि च जायते।
वायोः क्रियाभेदाः
शोषणं प्रेरणं चेष्टा व्यूहनं च समूहनम्॥ २६॥
क्रियाभेदा इमे तस्माज्जायन्ते वायुतो मुने।
त्वक्पाण्योरुत्पत्तिः
वैकारिकादहंकारात् त्वक्पाणिद्वितयं मुने ॥२७॥
ज्ञानकर्मेन्द्रियद्वन्द्वं संकल्पात् तस्य जायते।
वायौ मनूनां स्थितिः
तदन्तर्गर्भतां याति तदा मनुमयः पुमान् ॥२८॥

तेषां त्वक्पाणिवैशिष्ट्यम्
चेष्टमानस्तदा गर्भो विष्णुसंकल्पचोदितः।
त्वक्पाणिद्वयवानासीत् स्पर्शादानादिसिद्धये ॥२९॥

रूपतन्मात्रजेजसोरुत्पत्तिः
तामसादथ भूतादेः सुदर्शनसमीरितात्।
जायते रूपमात्रं तु ज्योतिस्तस्माच्च रूपवत् ॥३०॥
तेजसः क्रियाभेदाः
रूपं व्यक्तिस्तथा पाकः कान्तिर्दीप्तिरितीदृशाः।
जायन्ते तैजसा भेदा भेदाद्वैकारिकात् तथा ॥३१॥
चक्षुः पादयोरुत्पत्तिः
सुदर्शनेरिताज्जातं चक्षुः पादयुगं मुने।
तेजसि मनूनां स्थितिः
तदन्तर्गर्भतां यान्ति ते सुदर्शनचोदिताः ॥३२॥
तेषां चक्षुःपादवैशिष्ट्यम्
मनवो रूपवन्तस्ते कान्तिदीप्त्यादिशालिनः।
चक्षुष्मन्तः पादवन्तो वीक्षणाटनयोगिनः ॥३३॥
रसतन्मात्राम्भसोरुत्पत्तिः
तामसादथ भूतादेर्विष्णोरिक्षानियोजितात्।

जायते रसमात्रं तु जायन्तेऽम्भांसि वै ततः ॥३४॥
तत्क्रियाभेदाः
जायन्तेऽथ गुणास्तेषां रसस्नेहद्रवादयः।
रसनोपस्थेन्द्रियोत्पत्तिः
अथ वैकारिकात् तस्माद् विष्णुसंकल्पचोदितात् ॥३५॥
रसनोपस्थमित्येतज्जायते दृक्क्रियात्मकम्।
अप्सु मनूनां स्थितिः
तदन्तर्गर्भतां यान्ति विष्णुसंकल्पचोदिताः ॥३६॥
मनवस्ते महाबुद्धे विष्णुकर्माधिकारिणः।
तेषां रसनोपस्थवैशिष्ट्यम्
सरसाः स्नेहवन्तश्च रुधिरादिद्रवान्विताः ॥३७॥
जायन्ते रसनावन्तः पुंस्त्रीव्यञ्जनभेदिताः।
गन्धतन्मात्रमह्योरुत्पत्तिः
सुदर्शनेरितात् तस्माद्भूतादेस्तदनन्तरम् ॥३८॥
जायते गन्धनन्मात्रं तस्माद्गन्धवती मही।
पार्थिवगुणभेदाः
काठिन्यं गौरवं स्थैर्यमित्याद्याः पार्थिवा गुणाः ॥३९॥

घ्राणपाय्वोरुत्पत्तिः
वैकारिकादहंकारात् सुदर्शनसमीरितात्।
घ्राणं पायुरिति द्वन्द्वं ज्ञानकर्मात्मकं मुने ॥४०॥
पृथिव्यां मनूनां स्थितिः
भुवस्ते गर्भतां यान्ति विष्णुसंकल्पचोदिताः।
तेषां घ्राणपायुवैशिष्ट्यम्
गुरवः स्थिरसंघाता अस्थिदन्तादिसंयुताः ॥४१॥
घ्राणवन्तः पायुमन्तः संपूर्णावयवा मुने।
संकल्पाद्युत्पत्तिः
संकल्पश्चैव संरम्भः प्राणाः पञ्चविधास्तथा ॥४२॥
मनसोऽहंकृतेर्बुद्धेर्जायन्ते पूर्वमेव तु।
एवं मनूनां सर्वावयवपूर्णता
एवं संपूर्णसर्वाङ्गाः प्राणापानादिसंयुताः ॥४३॥
सर्वेन्द्रिययुतास्तत्र देहिनो मनवो मुने।
सृष्टिप्रलयकालयोस्तुल्यपरिमाणत्वम्
यो यादृग्वर्णितः पूर्वं कालस्तत्प्रतिसंचरे ॥४४॥

सर्गे स एव विज्ञेयो वैष्णवैस्तत्त्वचिन्तकैः।
विद्याविपरिणामोऽयं सप्तधा वीक्षया हरेः ॥४५॥
महाभूतानि तान्याहुर्विभागान् सप्तधा मुने।

मनुविभागः
मनवोऽपि विभज्यन्ते सुदर्शनसमीरिताः ॥४६॥
युगशो युगशः पूर्वं पश्चात् पुंस्त्रीविभेदतः।
स्वयमागतविज्ञानाः सर्वज्ञाः सर्वदर्शिनः ॥४७॥
आत्मन्यध्यक्षमीशानमनिरुद्धं दधत्यथ।
मनुभिर्गर्भोत्पादनम्
ततो ह्यध्यक्षवन्तस्ते तत्संकल्पेन चोदिताः ॥४८॥
गर्भानादधते स्त्रीषु मनवस्ते शतं शतम्।
तेषां ब्राह्मणादिसंज्ञा
ब्राह्मणाः क्षत्रिया वैश्वयाः शूद्राश्चेति धतुर्विधाः ॥४९॥
मानवा मनुयोषिद्भ्यो जायन्ते द्वन्द्वलक्षणाः।
तदुत्पन्नानां मानवमानवादिसंज्ञा
मनुभिः संस्कृतास्ते तु स्वासु पत्नीषु मानवः ॥५०॥
जनयन्ति बहून् पुत्रांस्ते स्युर्मानवमानवाः।

तेषां भगवत्कैंकर्यकारित्वम्
तेषां गोत्राण्यनेकानि यैरिदं सकलं ततम् ॥५१॥
चातुर्वर्ण्यमया एते भगवत्कर्मकारिणः।
भागवतकैंकर्यकारिणां मोक्षसंपत्तिः
तेषां ये कर्म कुर्वन्ति साधवः शतवार्षिकम् ॥५२॥
विवेकज्ञानमासाद्य ते विशन्ति हरिं परम्।
अन्येषां संसारप्राप्तिः
युगादियुगनिर्ह्रासाद्ये कर्मान्तरकारिणः ॥५३॥
फलाभिध्यायिनो यान्ति तत्प्रसूतां गतिं तु ते।
कर्महेतुकदेवादिसृष्टिः
या सा सा विद्या पुरा प्रोक्ता मनुगर्भवती मुने ॥५४॥
गर्भवत्येव सा देवान् नानागुणविभेदितान्।
दैत्यदानवरक्षांसि गन्धर्वोरगकिंनरान् ॥५५॥
इति नानाविधा योनीर्विष्णोः संकल्पचोदिता।
स्वसंकल्पेन सृजति ते चान्यांस्तेऽपि चापरान् ॥५६॥
मनुगर्भदशायां तु पितृदेवर्षिमानवाः।
इति सृष्टास्तया शश्वद्विद्याया ब्रह्मणा स्वयम् ॥५७॥

मनूनां देवादीनां च कूटस्थपुरुषव्यष्टिरूपत्वम्
कूटस्थो यः पुरा प्रोक्तः पुमान् व्योम्नः २०परादधः।
मनवो देवताद्याश्च तद्व्यष्ट्य इतीरिताः ॥५८॥
जीवानां भगवद्विभूतित्वम्
जीवभेदा मुने सर्वे विष्णुभूत्यंशकल्पिताः।
महतो मेघात्मना परिणामः
अथ व्यक्तेषु मनुषु प्रजातेषु पुनः पुनः ॥५९॥
विद्यैवांशेन केनापि धेनुर्भवति शाश्वती।
धेतुरित्युच्यते विद्या मेघभावमुपागता ॥६०॥
पयः क्षरति वर्षाख्यमन्नादिपरिणामवत्।
जीवानां ज्ञानभ्रंशहेतुकथनम्
तत्तु वैद्यं पयः प्राश्य सर्वे मानवमानवाः ॥६१॥
ज्ञानभ्रंशं प्रपद्यन्ते सर्वज्ञाः स्वत एव ते।
ततः शास्त्रप्रवृत्तिः
ततः प्रवर्त्यते शास्त्रं मनुभिः पूर्वजैस्तदा ॥६२॥
तदादिष्टेन मार्गेण ते यान्ति परमां गतिम्।
लेशतः सृष्टिरुक्तेयं भूतेः शुद्धेतरा मुने ॥६३॥

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP