अहिर्बुध्नसंहिता - अध्यायः १५

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


अधिकारिनिरूपणं नाम पञ्चदशोऽध्यायः
ध्यातो धृतात्मभिश्चक्रमध्यस्थो मधुसूदनः।
पायादपायात् संसाररूपकूपात्तु नः परः॥
अधिकारिविषयः प्रश्नः
नारदः---
देवदेव नमस्तेऽस्तु वृषकेतन शंकर।
त्वत्प्रसादाच्छ्रुतं दिव्यं रहस्यं ज्ञानमुत्तमम् ॥१॥
प्रश्नशेषं मम ब्रूहि यत् पृष्टोऽसि मया पुरा।
पुरुषार्था हि ये प्रोक्ताश्चत्वारः सकलाश्रयाः ॥२॥
के हि तानधिकुर्वन्ति तन्मे विस्तरतो वद।
तत्प्रतिवचने प्रथमं सात्त्विकरीतिप्रतिपादनम्
अहिर्बुध्न्यः---
ये हि ते मनवो नाम विद्यागर्भाः पुरोदिताः ॥३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदिताः।
मानवास्तत्प्रसूता ये तथा मानवमानवाः ॥४॥

मुखबाहूरुपादेभ्यो ब्राह्मणाद्याः समुत्थिताः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इत्यपि ते स्मृताः ॥५॥
द्वितये ते यथायोगमधिकुर्वन्ति तानिमान्।
मनुसन्ततिजानां पाञ्चरात्राधिकारः
ये पुरा कथिताः पञ्च सिद्धान्ताः सर्वसंमताः ॥६॥
मनुसन्ततिजास्तत्र सात्त्वतं त्वधिकुर्वते।
तेषां तन्निष्ठया भगवत्प्राप्तिः
त्रयोदशविधं कर्म गुणैः सांयमिकैर्युतम् ॥७॥
कुर्वाणाः पञ्चकालस्थास्ते यान्ति पुरुषोत्तमम्।
तेषु त्रैवर्णिकानां चातुराश्रम्यम्
विहितं चातुराश्रम्यं त्रयाणां तत्र नारद ॥८॥
ब्रह्मचारी गृहस्थो वा वनस्थो भिक्षुरित्यपि।
तेषां शुश्रूषया शूद्रस्य भगवत्प्राप्तिः
शूद्रः शुश्रूषया तेषां भगवत्कर्मसाधनात् ॥९॥
अरागरोषलोभः सञ्छनैर्याति हरेः पदम्।
अन्यतमाश्रमस्थानामपि तेषां मोक्षसिद्धिः
सद्ब्रह्मयाजिनस्ते वै शुद्धाः स्वाध्यायतत्पराः ॥१०॥

अनन्ययाजिनो विप्रा आसृष्टेरधिकारिणः।
मातापितृभ्यां तरुणाः प्राग्बुद्धेः साधु पालिताः ॥११॥
आचार्यनयसंपन्नास्ते शुश्रूषणतन्पराः।
सम्यक् सप्तपदार्थज्ञा नियमस्थाः समाहिताः ॥१२॥
प्रकृतिज्ञानसंपन्नाः प्रमादपरिवर्जिताः।
त्यक्तकामाः सुधृतयः शुचयः संयतेन्द्रियाः ॥१३॥
सिद्धा नाम महाभागाः समाप्तज्ञाननिश्चयाः।
धिया समाप्तकर्माणश्चरणैरन्विताः शुभैः ॥१४॥
आसमाप्तेः समास्थाय चतर्णामेकमाश्रमम्।
पाञ्चकालिकमच्छिद्रं कुर्वाणाः शतवार्षिकम् ॥१५॥
विवेकजां परां प्राप्य कर्मणोऽन्ते ८शुभां धियम्।
प्रद्योतमानविज्ञाना निर्धूतप्राकृतोद्यमाः ॥१६॥
सहस्रार्चिषमीशानं लक्ष्मीपतिमनाविलम्।
क्षेत्रज्ञं सर्वभूतानां वासुदेवं विशन्ति ते ॥१७॥
गार्हस्थ्यस्याश्रमान्तरोपजीव्यत्वम्
अग्निमान् बहुमात्रावानेकः कौटुम्ब आश्रमः।
व्रतादिनिरताः शुद्धास्त्रयोऽन्येऽनग्नयः स्मृताः ॥१८॥
कौटुम्बमुपजीवन्ति ते त्रयो ह्यूर्ध्वरेतसः।

सात्त्विकरीतिनिगमनम्
गदिता सात्त्विकी ९रीतिरिति ते लेशतो मुने ॥१९॥
अथ त्रय्यादिरीतिकथनारम्भः
एवं विस्तरतो मेऽद्य रीतिमन्यां निशामय।
मुखबाहुरुपज्जानां त्रय्याद्यधिकारः
ये हि ब्रह्ममुखादिभ्यो वर्णाश्चत्वार उद्गताः ॥२०॥
ते सम्यगधिकुर्वन्ति त्रय्यादीनां चतुष्टयम्।
त्रयीनिष्ठानां फलसिद्धिः; सांक्यादिनिष्ठानां क्रमात् पञ्चरात्रारोहणं च
त्रयीस्था एव सिध्यन्ति सांख्यादिष्वपि च त्रिषु॥
आरोहन्तीच्छया तेऽपि सात्त्वतं शासनं परम्।
पाशुपतनिष्ठानां त्रयीधर्माननुष्ठातृत्वम्
प्राप्ताः पाशुपतं ये हि धर्मं ब्राह्मणपूर्वकाः ॥२२॥
न धर्ममनुतिष्ठन्ति त्रयीस्थं ते पुनर्मुने।
पञ्चरात्रं प्रविश्येव नान्यं धर्मं वितन्वते ॥२३॥
सांख्यानां नैष्कर्म्यम्
निष्कर्माणः स्मृताः सांख्याः प्रसंक्यानैकतत्पराः।
योगनिष्ठानां वैदिककर्मानुष्ठातृत्वम्
नित्यनैमित्तिकैर्युक्तो योगी योगाङ्गवाञ्छया ॥२४॥

कुर्यादलब्धलाभाय लब्धवृद्धय एव च।
ब्रह्मिष्ठो वैदिकं कर्म नित्यं नैमित्तिकं तथा ॥२५॥
त्रय्यादिमार्गगा रीतिर्नारदैषा प्रदर्शिता।
वर्णाश्रमतद्धर्माणां निरूपणम्
वर्णाश्रमविभागं मे धर्मैः सह निशामय ॥२६॥
चत्वारो वर्णाः
वर्णाश्चत्वार उद्दिष्टा ब्राह्मणादिक्रमेण ये।
आद्यानां त्रयाणां वेदाध्ययनं द्विजातित्वं च
अधीयीरंस्त्रयो वर्णाः पूर्वे भूत्वा द्विजातयः ॥२७॥
शूद्रस्य द्विजशुश्रूषा, एकजातित्वं च
चतुर्थ एकजातिस्ताञ्छुश्रूषेतानहंकृतः।
याजनाध्यापनप्रतिग्रहा ब्राह्मणस्यैव
ब्राह्मणो नाम यो वर्ण आद्यो ब्रह्ममुखोद्गतः ॥२८॥
स त्रीनध्यापयेदेतान् ब्राह्मणादीननुक्रमात्।
याजयेच्च यथाकामं वृत्त्यर्थमनसूयया ॥२९॥
त्रिभ्यश्च प्रतिगृह्णीयादेष वैशेषिको विधिः।
शस्त्रधारणादिकं क्षत्रियस्य
शस्त्राणां धारणं नित्यं क्षत्रजातेर्विशेषणम् ॥३०॥

क्षतत्राणां यथाशास्त्रं प्रजानां परिपालनम्।
कृष्यादिकं वैश्यस्य
विशो वैशेषिकी वृत्तिः कृषिगोरक्षवाणिजम् ॥३१॥
इज्याध्ययनदानानि त्रयाणां तुल्यानि
इज्याध्ययनदानं तु द्विजातीनामिदं समम्।
नित्यं धर्मार्थमेवैतत् तत्र हिंसादिवर्जनम् ॥३२॥
शुश्रूषा शूद्रस्य धर्मो वृत्त्यर्था च
शुश्रूषैव तु शूद्रस्य धर्मो वृत्त्यर्थमेव च।
श्रेष्ठा ब्राह्मणशुश्रूषा कनिष्ठे त्वपरे स्मृते ॥३३॥
चतुर्णां सामान्यधर्माः
अहिंसा सत्यमक्रोधः स्वदारनिरतिर्दया।
चतुर्ष्वेतेषु धर्मोऽयं सामान्येन विधीयते ॥३४॥
ब्राह्मणोत्तमक्षत्रिययोस्चातुराश्रम्यम्
ब्रह्मणश्चातुराश्रम्यं क्षत्रस्य तु कथंचन।
क्षत्रियवैश्ययोराद्यमाश्रमत्रयम्
त्रयं चाद्यं क्षत्रविशोर्नियतं धर्मलक्षणम् ॥३५॥

त्रैवर्णकानां प्रागुपनयनात् कामचारः
आचार्यजन्मनः पूर्वमव्रतास्ते द्विजातयः।
उपनयने द्वितीयं जन्म
आचार्याज्जन्म सावित्र्यां द्वितीयं दिव्यमिष्यते ॥३६॥
यज्ञदीक्षायां तृतीयम्
ते त्रयो यज्ञदीक्षायां जन्म प्राप्य तृतीयकम्।
तेषां स्वाध्यायनिष्ठानां देवतुल्यत्वम्
ब्राह्मणाः सवनस्थार्याः सवनान्ते यथाक्रमम् ॥३७॥
स्वाध्याये वर्तमानास्ते देवाः सर्वेऽपि ते त्रयः।
आश्रमधर्माः
इति ते कथिता वर्णा आश्रमानपि मे श्रृणु ॥३८॥
उपकुर्वाणब्रह्मचारिधर्माः
आचार्याज्जन्म संप्राप्य तदन्ते नियतं वसन्।
तद्धर्मकारी तन्निष्ठस्तद्भक्तस्तत्परायणः ॥३९॥
तन्निवेदितसर्वार्थो भिक्षार्थी तत्कुलाद्बहिः।
कर्मशेषण चाचार्यादिच्छन् स्वाध्यायमत्वरः ॥४०॥

उपासीत बहिः संध्ये नित्यस्नाय्यनसूयकः।
कुर्वन्निन्द्रियसंरोधं भूतानामनुकम्पकः ॥४१॥
वह्निं समिद्भिरिन्धान उभे संध्ये समाहितः।
धर्मज्ञसमयस्थं चाप्याचरन्नात्मनो व्रतम् ॥४२॥
उपकुर्वाणको नाम स्वाध्याये सिध्यति द्विजः।
समाप्तब्रह्मचर्यस्येच्छया आश्रमान्तरप्राप्तिः
वेदस्नायी व्रतस्नायी गुरवे दक्षिणां ददत् ॥४३॥
प्राप्यानुज्ञां गुरोरिच्छेच्चतुर्णामेकमाश्रमम्।
नैष्ठिकब्रह्मचारिधर्माः
यदीच्छेद् ब्रह्मचर्यं स ब्रह्मचारी स्वमाश्रमम् ॥४४॥
आचार्यमेव सेवेत युक्त आ देहपातनात्।
जिज्ञासुर्ब्रह्मचारी स लभेत ज्ञानमुत्तमम् ॥४५॥
अन्यथा पुण्यलोपः स्यादिति वेदानुशासनम्।
गृहस्थधर्माः
अथ चेद्रोचयेत् कर्तुं गार्हस्थ्यं धर्ममुत्तमम् ॥४६॥
लब्धानुज्ञो गुरोः स्नात्वा संप्राप्य विधिवत् स्त्रियम्।
तया सह चरेद्धर्मं नित्यं स्वाध्यायतत्परः ॥४७॥
श्राद्धकृत् सत्यवादी च नित्यं चैवातिथिप्रियः।

संकोचिनीं चरन् वृत्तिमनसूयुरलोलुपः ॥४८॥
स्नातकव्रतशाली च पञ्चयज्ञपरायणः।

गृहस्थस्यापि पाञ्चरात्रधर्मावश्यकता
पञ्चकालरतो नित्यं दयाक्षान्तिधृतिस्थितिः ॥४९॥
अक्रोधसत्यह्रीविद्याशौचास्तेयदमस्थितः।
अनायासो ह्यकृपणः शास्त्रीये मङ्गले रतः ॥५०॥
मनसा कर्मणा वापि यज्ञान् सर्वान् समाचरेत्।

निष्कामकर्मिणो गृहस्थस्यापि मोक्षप्राप्तिः
अकामहतया बुद्ध्या त्यक्ताहंकारलोभया ॥५१॥
सत्तर्कव्यवसायाभ्यां लोचनाभ्येत्यसंभवम्।
श्रौतस्मार्तक्रियानित्यो नित्यनैमित्तिके रतः ॥५२॥
ईदृग्गृहस्थो जिज्ञासुः प्राप्य ज्ञानमनुत्तमम्।
प्राप्तवेदान्तविज्ञानो वैष्णवं श्रयते पदम् ॥५३॥

सकामस्य गृहस्थस्य ब्रह्मलोकप्राप्तिः
केवलो धर्मनित्योऽसौ ब्रह्मलोके महीयते।
वानप्रस्थधर्माः
गार्हस्थ्यादथवा पूर्वं वानप्रस्थयं श्रयेत् पदम् ॥५४॥

गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः।
अपत्यस्यैव चापत्यं वनं चाथ समाश्रयेत् ॥५५॥
ग्राम्याहारं परित्यज्य वन्याहारोपयोगवान्।
बहिरात्मनि वाप्यग्निं जुह्वद्यज्ञपरायणः ॥५६॥
वत्सरे वत्सरे त्रीणि तपांसि विधिवच्चरेत्।
वानप्रस्थस्यापि निष्कामकर्मिणो मोक्षप्राप्तिः
कुर्वन् वनस्थः शास्त्रार्थानकामहतया धिया ॥५७॥
सेवमानो व्रतस्थश्च तास्ता दीक्षाः समाहितः।
वृत्तिसंकोचकृच्छुभ्रस्तत्त्वजिज्ञासया युतः ॥५८॥
संप्राप्य तत्त्वविज्ञानं वैष्णवं श्रयते पदम्।
सकामस्य तस्य ब्रह्मलोकप्राप्तिः
केवलो धर्मनित्यश्च महाप्रस्थानमाचरन् ॥५९॥
वीतशोकभयो वन्यो ब्रह्मलोके महीयते।
संन्यासिधर्माः
काषायवसनं प्राप्य द्वाभ्यामादित एव वा ॥६०॥
द्वयोरेकस्य वा पश्चात् पारिव्राज्यं समाचरेत्।
प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् ॥६१॥

लब्धानुज्ञो गुरोर्वाय कर्मश्रान्तो महाव्रती।
समारोप्याग्निमानग्नींश्चतुर्थाश्रममावसेत् ॥६२॥
विमुक्तः सर्वदोषेभ्यो विरक्तो विषयेषु च।
उच्चावचां विचिन्वंश्च गतिमस्यान्तरात्मनः ॥६३॥
अन्वीक्षमाणः सूक्ष्मं च परमात्मानमात्मना।
प्रसंख्यानपरो नित्यं वेदान्तज्ञानतत्परः ॥६४॥
समाधिस्थश्च सततमुग्रव्रतपरोऽपि वा।
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ॥६५॥
विद्वेषमनुरागं वा द्वयोरप्यविचिन्तयन्।
वायुभूतः खवत् स्वस्थ उर्वीस्थिरमना मुनिः ॥६६॥
वारिवच्चार्द्रचेतास्तु शुचिर्ज्वलनवत् सदा।
गाङ्गो ह्रद इवाक्षोभ्यः शून्यागारसमाकृतिः ॥६७॥
धियालोचितसर्वार्थो धिया त्यक्तपरिग्रहः।
धिया स्वीकृतसच्छास्त्रो धिया तृप्तः सुशुद्धया ॥६८॥
दत्तसर्वाभयो योगी सर्वैर्दत्ताभयस्तथा।
स्वाध्यायाद्योगमासीनो योगात् स्वाध्यायमामनेत् ॥६९॥
अब्रुवन् केनचित् किंचित् प्राप्ते कालेऽप्यविब्रुवन्।
समः सर्वेषु भूतेषु मातृवत् पितृवत् सदा ॥७०॥
आत्मज्योतिरात्मरतिः प्रसीदन्नात्मनि स्वयम्।

प्रज्ञाप्रासादमारूढो विमुक्तः सर्वतो जनैः ॥७१॥
भूमिष्ठानिव शैलस्थः पश्यन् सर्वानवस्थितान्।
कैश्चिन्मूक इति प्रोक्तः कैश्चिद्धीर इतीप्सितः ॥७२॥
कैश्चित् कः स्विदिति प्रोक्तः कैश्चिद् घोर इतीरितः।
उपेक्षाकरुणामैत्रीमुदितालिङ्गितः सदा ॥७३॥
विवेकबोधसंतोषैर्नित्यं परिजनैर्वृतः।
भैक्षाशी तुष्टिसंपूर्णो धर्मैरीदृग्गुणैर्युतः ॥७४॥
संन्यासिनः परमपुरुषोपासनान्मोक्षप्राप्तिः
प्रदीप इव शान्तार्चिः परिव्राड् ध्यानमास्थितः।
देहसंस्कारनाशेन वैष्णवं श्रयते पदम् ॥७५॥
अध्यायार्थनिगमनम्
इति वर्णाश्रमा ये ते तुल्यवैशेषिकैर्युताः।
धर्मास्ते लेशतः प्रोक्ताः किं भूयः श्रोतुमिच्छसि॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अधिकारिनिरूपणं नाम पञ्चदशोऽध्यायः
आदितः श्लोकाः ९००

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP