अहिर्बुध्नसंहिता - अध्यायः ५

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


शुद्धसृष्टिवर्णनं नाम पञ्चमोऽध्यायः

अहिर्बुधन्यः---
कार्यकारणवर्गस्य प्रलयोऽयं प्रदर्शितः।
सुदर्शनमयीं सृष्टिं तस्य वक्ष्यामि ते मुने ॥१॥

प्रलयावस्थब्रह्मस्वरूपम्

प्रसुप्ताखिलकार्यं यत् सर्वतः समतां गतम्।
नारायणः परं ब्रह्म सर्वावासमनाहतम् ॥२॥
पूर्णस्तिमितषाड्गुण्यमसमीराम्बरोपमन्।

शक्तिरूपाया लक्ष्म्याः क्वचिदुन्मेषः
तस्य स्तैमित्यरूपा या शक्तिः शून्यत्वरूपिणी ॥३॥
स्वातन्त्र्यादेव कस्माच्चित् क्वचित् सोन्मेषमृच्छति।
आत्मभूता हि या शत्तिः परस्य ब्रह्मणो हरेः ॥४॥
देवी विद्युदिव व्योम्नि क्वचिदुद्द्योतते तु सा।
शक्तिर्विद्योतमाना सा शक्तिरित्युच्यतेऽम्बरे ॥५॥

शक्तेर्विविधभावव्यञ्जकत्वम्
व्यनक्ति विविधान् भावान् शुद्धाशुद्धान् समूर्तिकान्।
तस्या उन्मेषमृच्छन्त्याः स्वातन्त्र्यं यत् स्वनिर्मितम्॥ ६॥

प्रेक्षणात्मा स संकल्पस्तत् सुदर्शनमुच्यते।
सा क्रिया तद्धरेर्वीर्थं तत् तेजश्च बलं च तत् ॥७॥
व्यज्यन्ते ये च ते भावाः स्वभित्तिपरिवर्तिताः।
सा भूतिर्विष्णुशक्तिः सा शक्तेः कोट्यंशकल्पिता॥ ८॥
बहुभिर्द्वन्द्वभावैः सा शक्तिर्भूतमयी स्थिता।
शुद्धाशुद्धविभागेन चेत्यचेतनरूपतः॥ ९॥
७काल्यकालविभेदेन व्यक्ताव्यक्तविभागतः।
व्यङ्ग्यव्यञ्जनरूपेण८ वाच्यवाचकभेदतः ॥१०॥
भोग्यभोक्तृविभेदेन देहदेहिविभेदतः।
अन्यैश्चैवंप्रकारैः सा द्वन्द्वभेदैर्विभज्यते ॥११॥
एवं प्रकारभेदेन या शक्तिर्हेतुतां गता।
तां विजानीहि देवर्षे दिव्यां सौदर्शनीं कलाम् ॥१२॥
समीर्यते यथा वह्निर्मेघो वापि समीरणात्।
तथा सुदर्शनेनैव विभूतिः प्रेर्यते कला ॥१३॥
आनुलोम्येन सर्गे तु प्रातिलोम्येन संहृतौ।
यथा संप्रेर्यमाणा सा सुदर्शननभस्वता ॥१४॥

दधाति विविधान् भावांस्तथा मे गदतः श्रृणु।

शुद्धसृष्टिप्रपञ्चनम्
तत्र शुद्धमयं सर्गं विभूतेः प्रथमं श्रृणु ॥१५॥
यत् तत् षाड्गुण्यमित्युक्तं ज्ञानैश्वर्यबलादिकम्।
युगैस्तस्य त्रिभिः शुद्धा सृष्टिर्भूतेः प्रवर्तते ॥१६॥

गुणयुग्मत्रयात् व्यूहत्रयाविर्भावः

तत्र ज्ञानबलद्वन्द्वाद्रूपं सांकर्षणं हरेः।
ऐश्वर्यवीर्यसंभेदाद्रूपं प्राद्युम्नमुच्यते ॥१७॥
शक्तितेजः समुत्कर्षादानिरुद्धी तनुर्हरेः।
एते शक्तिमया व्यूहा गुणोन्मेषस्वलक्षणाः ॥१८॥

व्यूहत्रयेऽपि षाड्गुण्यानुवृत्तिः
षाड्गुण्यविग्रहा देवाः पुरुषाः पुष्करेक्षणाः।
तत्र तत्रावशिष्टं यद् गुणानां द्वियुगं मुने ॥१९॥
अनुवृत्तिं भजत्येव तत्र तत्र यथायथम्।

त्रिधा चातुरात्म्यस्थितिः
व्याप्तिमात्रं गुणोन्मेषो मूर्तीकार इति त्रिधा ॥२०॥
चातुरात्म्यस्थितिर्विष्णोर्गुणव्यतिकरोद्भवा।

संकर्षणस्य कृत्यम्

तत्र ज्ञानमयत्वेन देवः संकर्षणो बली ॥२१॥
व्यनक्त्यैकान्तिकं मार्गं भगवत्प्राप्तिसाधनम्।

प्रद्युम्नस्य कृत्यम्
वीर्यैश्वर्यमयो देवः प्रद्युम्नः पुरुषोत्तमः ॥२२॥
स्थितः शास्त्रार्थभावेन भगवत्प्राप्तिवर्त्मना।

अनिरुद्धस्य कृत्यम्
शास्त्रार्थस्य फलं यत् तद् भगवत्प्राप्तिलक्षणम् ॥२३॥
प्रापयत्यनिरुद्धः सन् साधकान् पुरुषोत्तमः।
शास्त्रशास्त्रार्थतत्साध्यफलनिर्वाहका इमे ॥२४॥
पुरुषाः पुण्डरीकाक्षा व्यूहा शक्तिमया हरेः।

परवासुदेवेन सह व्यूहस्य चातुरात्म्यम्
भगवान् वासुदेवश्च व्यूहाश्चैते त्रयो मुने॥ २५॥
चातुरात्म्यमिदं विद्धि व्यक्ताव्यक्तस्वलक्षणम्।

गुणोन्मेषस्वरूपप्रदर्शनम्

गुणाः शक्तिमया ये ते ज्ञानैश्वर्यबलादयः ॥२६॥
तेषां युगपदुन्मेषः स्तैमित्यविरहात्मकः।
संकल्पकल्पितो विष्णोर्यः स तद्व्यक्तिलक्षणः॥ २७॥

भगवान् वासुदेवः स परमा प्रकृतिश्च सा।
शक्तिर्या व्यापिनो विष्णोः सा जगत्प्रकृतिः परा ॥२८॥
शक्तेः शक्तिमतो भेदाद् वासुदेव इतीर्यते।

सिसृक्षोर्वासुदेवात् संकर्षणाविर्भावः
सर्वशक्तिमयो देवो वासुदेवः सिसृक्षया ॥२९॥
विभजत्यात्मनात्मानं यः स संकर्षणः स्मृतः।

तत्र दृष्टान्तः
भानावुदयशैलस्थे प्रभा यद्वद्विजृम्भते ॥३०॥
उदयस्थे तथा देवे प्रभा संकर्षणात्मिका।

तस्य षोडशशतवर्षप्रतीक्षणम्
अव्यापृता शतान्येषा शक्तिस्तिष्ठति षोडश ॥३१॥
संकर्षणात्मिका साक्षाद् विज्ञानबलवारिधिः।
अनन्तो भगवान् विष्णुः शक्तिमान् पुरुषोत्तमः ॥३२॥
पूर्णस्तिमितषाड्गुण्यो निस्तरङ्गार्णवोपमः।
षण्णां युगपदुन्मेषाद् गुणानां स्वप्रचोदितात् ॥३३॥
अनन्त एव भगवान् वासुदेवः सनातनः।
तत्र ज्ञानबलोन्मेषात् स्वसंकल्पप्रचोदितात् ॥३४॥
अनन्त एव भगवान् देवः संकर्षणोऽच्युतः।

प्रद्युम्नाविर्भावः
स्थित्वा षोडश वर्षाणि देवः शक्तिमयोऽच्युतः ॥३५॥
२८अनन्त एव भगवान् प्रद्युम्नः पुरुषोत्तमः।
अंशांशेनोदिता शक्तिः प्राद्युम्नी भगवत्प्रभा ॥३६॥
अव्यापृता शतान्येषा तूष्णीं तिष्ठति षोडश।

अनिरुद्धाविर्भावः
ततः शक्तिमयो देवः प्रद्युम्नः पुरुषोत्तमः ॥३७॥
शतानि षोडश स्थित्वा स्वसंकल्पप्रचोदितः।
अनन्त एव भगवाननिरुद्धो भवत्युत ॥३८॥
अंशांशेनोदिता शक्तिरानिरुद्धी हरेः प्रभा।
अव्यापृता शतान्येषा तूष्णीं तिष्ठति षोडश ॥३९॥

व्यूहस्य षोडशशतवर्षानन्तरं सृष्टौ व्यापृतिः
शतानि षोडश स्थित्वानिरुद्धः शक्तिमानसौ।
तदा व्याप्रियते सृष्टौ पूर्वाभ्यां सह नारद ॥४०॥
व्यूहा एते विशालाक्षाश्चात्वारः पुरुषोत्तमाः।

व्यूहानां हेयप्रतिभटत्वमनादित्वं च
निर्दोषा निरनिष्ठाश्च निरवद्याः सनातनाः ॥४१॥
अनन्तमक्षरं चैतच्चातुरात्म्यं महामुने।
निस्तरङ्गदशायां ते निः सत्ताः सक्तचिन्मयाः ॥४२॥

शक्त्यात्मका गुणोन्मेषदशायां ते व्यवस्थिताः।
तत्र स्थूलदशायां ते व्यक्तिभावमुपागताः ॥४३॥
जगतामुपकाराय सच्चिदानन्दलक्षणाः।

चातुरात्म्यस्य मनआलम्बनार्थत्वम्
मनआलम्बनायैषा चातुरात्म्यव्यवस्थितिः ॥४४॥

व्यूहात् व्यूहान्तराविर्भाव
आम्नासिषुरमुष्याश्च रहस्याम्नायवेदिनः।
व्यूहान्तरविभावादीन् भेदाम् संकल्पकल्पितान् ॥४५॥
द्वादश व्यूहान्तराणि

व्यूहान्तरं दश द्वे च केशवाद्याः प्रकीर्तिताः।
वासुदेवात् केशवादित्रयम्
केशवादित्रयं तत्र वासुदेवाद् विभाव्यते ॥४६॥
संकर्षणात् गोविन्दादित्रयाविर्भावः
संकर्षणाच्च गोविन्दपूर्वं त्रितयमद्भुतम्।
प्रद्युम्नात् त्रिविक्रमादित्रयाविर्भावः
त्रिविक्रमाद्यं त्रितयं प्रद्युम्नादुदितं मुने ॥४७॥
अनिरुद्धात् हृषीकेशादित्रयाविर्भावः
हृषीकेशादिकं तत्त्वमनिरुद्धान्महामुने।

व्यूहान्तरस्य त्रैविध्यम्
पराः स्वकार्णान्तः स्थाः सूक्ष्मास्ते द्विभुजाः स्मृताः॥ ४८॥
चतुर्भुजास्ते विज्ञेयाः स्थूलास्त्रिभुवनेश्वराः।
चक्राद्यायुधविन्यासो यन्त्रतन्त्रेऽभिधास्यते ॥४९॥
विभवा एकोनचत्वारिंशत्
विभवाः पद्मनाभाद्यास्त्रिंशच्च नव चैव हि।
पद्मानाभो ध्रुवोऽनन्तः शक्त्यात्मा मधुसूदनः ॥५०॥
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः।
क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा ॥५१॥
एकाम्भोनिधिशायी च भगवान् कमठेश्वरः।
वराहो नारसिंहश्च पीयूषहरणस्तथा ॥५२॥
श्रीपतिर्भगवान् देवः कान्तात्मामृतधारकः।
राहुजित् कालनेमिघ्नः पारिजातहरस्तथा॥ ५३॥
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः।
न्यग्रोधशायी भगवानेकश्रृङ्गतनुस्तथा ॥५४॥
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥५५॥
ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः।
वेदविद्भगवान् कल्की पातालशयनः स्मृतः ॥५६॥

त्रिंशच्च नव चैवेते पद्मनाभादयो मताः।

तेषामुत्पत्त्यादिकं सात्त्वतादौ ज्ञेयम्
यतश्चैषां समुत्पत्तिर्यो व्यापारो यदायुधम् ॥५७॥
या मूर्तिर्यादृशी चैव यत्र चैते व्यवस्थिताः।
भूषणानि विचित्राणि वासांसि विविधानि च ॥५८॥
बाह्यान्तः करणानां च त्रयो वर्गाः सवृत्तयः।
संकल्पनिर्मिता शक्तिर्या तत्तत्कार्यगोचरा।
सात्त्वते शासने सर्वं तत्तदुक्तं महामुने ॥५९॥
अध्यायार्थोपसंहारः
इतीयं शुद्धसृष्टिस्ते विष्णोः संकल्पकल्पिता।
भूत्यंशो लेशतः प्रोक्तः श्रृणु सृष्टिमथेतराम् ॥६०॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शुद्धसृष्टिवर्णनं नाम पञ्चमोऽध्यायः
आदितः श्लोकाः ३३०

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP