अहिर्बुध्नसंहिता - अध्यायः २९

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


काम्याराधनविधिनिरूपणं नाम एकोनत्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
भगवदाराधनस्यानुषङ्गिकफलसाधनत्वकथंताप्रश्नः
नारदः---
एतदाराधनैः कस्य कथं देवादयः सुराः।
अन्ये चोक्ता वशं यान्ति तन्मे ब्रूहि यथातथम् ॥१॥
तत्प्रतिवचनारम्भः
अहिर्बुध्न्य---
क्षत्रियस्य विशेषेण जयार्थित्वान्महामुने।
येनार्चनविशेषेण विश्वे वश्या भवन्ति हि ॥२॥
श्रृणुष्व तं समासेन कथयामि यथातथम्।
तत्तदाराधनविशेषाणां तत्तद्दिग्विजयसाधनत्वम्
यदीच्छेद्विजयं दिक्षु सर्वासु च महीपतिः ॥३॥
आराधनविशेषैस्तु तत्तद्विजयमाप्नुयात्।
तत्र प्राचीदिग्विषये
नृपेभ्यो विजयाकाङ्क्षी प्राच्येभ्यश्चेन्महीपतिः ॥४॥
आराधयेद्विशिष्टैस्तु द्रव्यैर्देवं सुदर्शनम्।
सितपुष्पैः सितैर्वस्त्रैरङ्गरागैः सितैरपि ॥५॥
शाल्योदनैश्च दध्याढयैरर्चयित्वा सुदर्शनम्।
मण्डपे मण्डिते शुद्धे पूर्वोक्ते देवसंनिधौ ॥६॥
प्रासादलक्षणे कुण्कडे चतुष्कोणपरिस्तृते।
तत्र वह्निमथादाय काष्ठैः प्रज्वाल्य बैल्वकैः ॥७॥
आसीनः प्राङ्मुखो भूत्वा शुचिस्तत्र समाहितः।
तस्मिन् फलानि बैल्वानि सर्पिः सिक्तानि नारद ॥८॥
नियुतं मूलमन्त्रेण जुहुयाज्ज्वलितेऽनले।
होमैरेभिः समुद्रान्ता प्राची वश्या भवेन्मही ॥९॥
फलानां कोटिहोमेन बैल्वानां वशमेष्यति।
प्लक्षद्वीपस्य देशस्तु प्राच्यः सहमहीपतिः ॥१०॥
कोटिद्वयेन चैतेषां शाल्मलो वशमेष्यति।
देशः ३प्राच्यः स भूपालः स्वदेश इव नारद ॥११॥
कुशः क्रौञ्चस्तथा शाकः पुष्करद्वीपसंज्ञितः।
एकद्वित्रिचतुःपञ्चषट्कैः प्राच्याः क्रमेण वै ॥१२॥
कोटीनां फलहोमानां वशं यास्यन्ति भूपतेः।
द्वीपानामपि चैतेषां प्राची माघवती पुरी ॥१३॥
दशकोट्या तु होमानां वशं यास्यति सा द्रुवम्।

पालनार्थं तु लोकानामेकेनांशेन वासवः ॥१४॥
तत्रैव वर्तते सोऽपि साहाय्यं ८तस्य यास्यति।
स्त्रीभिरन्नैश्च पानैश्च वाजिभिः परमैर्गजैः ॥१५॥
यथा स्वस्मिन् पुरे राजा विहरत्यविशङ्कया।
चिन्तितोपनतैरेव तैर्द्रव्यै रंस्यते नृपः ॥१६॥
अस्य प्रभावतः सर्वे विष्टब्धाः सर्वसागराः।
गन्तुं योग्या भविष्यन्ति स्यन्दनेन यथा स्थली ॥१७॥
हारं च वासवस्यस्य चक्रवर्तित्वलक्षणम्।
सर्वरत्नमयं दिव्यमुपनेष्यति च स्वयम् ॥१८॥
दक्षिणदिग्विषये
दक्षिणाशाजयाशा चेदजनिष्ट महीपतेः।
पूर्वोक्ते मण्डपे देवं दक्षिणामभिमुखं नयेत् ॥१९॥
रक्तमाल्याम्बरधरं रक्तचन्दनरञ्चितम्।
रक्ताम्बरधरं देवमभ्यर्च्योक्तेन वर्त्मना ॥२०॥
गुडौदनं हविस्तस्मै निवेद्य तिलमिश्रितम्।
अर्धचन्द्रोपमं कुण्डं कृत्वा प्रासादलक्षणम्॥ २१॥
कुशैः पुष्पैश्च लाजैश्च परिष्कृतमविक्षतम्।
दक्षिणाभिमुखस्तत्र समासीनोऽग्रतो विभोः ॥२२॥

मन्त्रेण वह्निमादाय काष्ठैः प्रज्वाल्य स्वादिरैः।
पद्मानां चैव रक्तानां नियुतैर्होममाचरेत् ॥२३॥
ततः सा दक्षिणा पृथ्वी सागरान्ता वशा भवेत्।
सोपहाराश्च राजानस्तत्रत्या द्वारि वारिताः ॥२४॥
प्रतीक्षमाणाः स्थास्यन्ति कालं तस्य महात्मनः।
ततो दक्षिणदिग्भागे षट्सु द्वीपेषु संमताः ॥२५॥
एकद्वित्रिचतुः पञ्चषकड्भिर्वश्याः सभूभुजः।
रक्तपद्माहुतीनां च कोटीनां तु यथाक्रमम् ॥२६॥
एषा दक्षिणतो रम्या याम्या संयमिनी पुरी।
सा रक्तपद्महोमानां दशकोट्या वशा भवेत् ॥२७॥
यमोऽपि तस्य भावेन प्रसन्नः प्रीतमानसः।
राज्ञो मनीषितं यत् तन्नान्यथा वर्तयिष्यति ॥२८॥
अकालमरणं किंचित् तद्देशे न भविष्यति।
ये पुर्यां संयमिन्यां च यमस्य वशवर्तिनः ॥२९॥
१ते सर्वे तस्य वशगा भविष्यन्ति न संशयः।
दिव्ये रक्ताङ्गदे रम्ये सार्वभौमत्वलक्षणे ॥३०॥
यमस्तु स्वयमादाय प्रीतस्तस्मै प्रयच्छति।
पश्चिमदिग्विषये
पश्चिमाशां प्रति यदा जिगीषुर्नृपतिस्तदा ॥३१॥
मण्डपेऽलंकृते देवं पश्चिमाभिमुखं नयेत्।
चित्रमालाधरं चित्रैरंशुकैः समलंकृतम् ॥३२॥
चित्राङ्गरागैश्चित्राभिर्भूषाभिरुपशोभितम्।
मध्वोदनं हवि कृत्वा देवायैतन्निवेदयेत् ॥३३॥
पद्मोपमानं प्रासादं कुण्डं कृत्वा स्वलंकृतम्।
तत्राधायाग्निमासित्वा देवस्य पुरतो वशी ॥३४॥
काष्ठैः शमीमयैरग्निं प्रज्वाल्याथ समाहितः।
मध्वक्तैः करवीरैस्तु नियुतं जुहुयान्मनुम् ॥३५॥
ततः ससागरा पृथ्वी जम्बूद्वीपस्य पश्चिमा।
वर्तिष्यते वशे तस्य राज्ञः सनृपतिस्तदा ॥३६॥
करवीराहुतीनां च कोट्या कोटिद्वयेन च।
कोटित्रयचतुःपञ्चषट्कैस्ते च यथाक्रमम् ॥३७॥
षट् द्वीपखण्डाः पाश्चात्त्या वशं यास्यन्ति भूपतेः।
सुखाख्या वारुणी रम्या पुरी परमभास्वरा ॥३८॥
सदा संनिहितैर्भोज्यैर्लेह्यैः पेयैश्च पूरिता।
दिव्यपादपसंयुक्तेर्नन्दनारुपशोभिता ॥३९॥

सदोत्फुल्लाम्बुजाढ्याभिः सरसीभिः परिष्कृता।
आक्रीडपर्वतैर्युक्ता नानारत्नविभूषितैः ॥४०॥
प्रासादैर्मण्डपैस्तुङ्गैर्मण्डिता सा हिरण्मयैः।
एवंविधा पुरी तस्य राज्ञो भोग्या भविष्यति ॥४१॥
वरुणोऽपि स्वयं छत्रं मणिविद्रुमभूषितम्।
मुक्तादामभिराकीर्णममृतस्यन्दि वन्दितम् ॥४२॥
चिह्निं तच्चक्रवर्तीनां राज्ञे प्रीतः प्रदास्यति।
उत्तरदिग्विषये
उदीचीं दिशमुद्युक्तो जेतुं यदि महीपतिः ॥४३॥
चक्राब्जविष्टरे देवमुत्तराभिमुखं नयेत्।
पीताम्बराणि बिभ्राणं पीतपुष्पैरलंकृतम् ॥४४॥
विद्रुमाभरणैर्युक्तं कुङ्कुमक्षोदरञ्चितम्।
घृतौदनं हविः कृत्वा तेनाभ्यर्च्य सुदर्शनम् ॥४५॥
कुर्यात् तस्याग्रतः कुण्डं वृत्तप्रासादलक्षणम्।
उदङ्मुखोऽग्निमाधाय कुण्कडे मण्डपसंश्रिते ॥४६॥
काष्ठैरौदुम्बरैर्वह्निं प्रज्वाल्य ज्वलितेऽनले।
नन्द्यावर्तप्रसूनैस्तु नियुतं जुहुयात् पुरः ॥४७॥
तेनेदं भारतं वर्षं काञ्चनाचलसंयुतम्।
सराजकं तस्य वशे भविष्यति न संशयः ॥४८॥

लक्षद्वयेन होमानां वर्षं किंपुरुषाह्वयम्।
सभूपं भूपतेस्तस्य वशमेष्यत्यसंशयम् ॥४९॥
लक्षत्रयेण वश्यं स्याद्धरिवर्षं सराजकम्।
होमलक्षचतुष्केण भद्राश्वं वशमेष्यति ॥५०॥
पञ्चषट्सप्तभिर्होमलक्षाणां पृथिवीपतेः।
इलावृतं केतुमालं रम्यकं च वशे भवेत् ॥५१ ।
हिरण्मये मेरुवर्षे अष्टाभिर्नवभिस्तथा।
वशे भविष्यतो होमलक्षाणां समहीश्वरे ॥५२॥
षण्णां प्लक्षमुखानां तु द्वीपानां भोगभूमयः।
उक्तसंख्यायुतैर्होमैर्वशमेष्यन्ति नारद ॥५३॥
सर्वेषां द्वीपवर्षाणामुत्तरत्र पुरी वरा।
विभावरीति विख्याता सोमस्य परमाद्भुता ॥५४॥
दशकोट्या वशे तस्य होमानां सा भविष्यति।
ये तस्यां देवतावर्गाः सोमस्य वशवर्तिनः॥ ५५॥
ते सर्वे भूपतेस्तस्य वर्तिष्यन्ते वशे मुने।
तस्य प्रभावतः सोमः स्वयमादाय चामरे ॥५६॥
स्वज्योत्स्नासंचयप्रख्ये रत्ननालसमन्विते।
विश्वाधिराज्यचिह्ने ते सुभ्रे शीतलदर्शने ॥५७॥

प्रीतः प्रदास्यति श्रीमानस्मै विस्मितकर्मणे।
विदिशां विषये
महादिशां जयात् सिद्धो विदिशां वशिनो जयः ॥५८॥
उपहारान् प्रदास्यन्ति तत्तद्दिक्पालकाः परे।
ऊर्ध्वलोकस्य विषये
ऊर्ध्वलोकजयोद्योगो यद्यवर्तिष्ट भूपतेः ॥५९॥
देवं मण्डपरत्ने तु प्राङ्मुखासनमर्हयेत्।
गन्धवन्माल्यसंवीतं मुक्ताभूषणभूषितम् ॥६०॥
दिव्यचन्दनलिप्राङ्गं क्षौमैः कल्पितवाससम्।
एवमभ्यर्च्य विधिना पायसं खण्डसंमितम्॥ ६१॥
आज्याढ्यं हविरावेद्य सर्वपक्वफलान्वितम्।
प्रासादकुण्डमष्टाश्रं सर्वमङ्गलसंयुतम् ॥६२॥
कारयित्वास्त्रमन्त्रेण वह्निमादाय मन्त्रवित्।
कृष्णागुरुमयैः काष्ठैर्ज्वलयेज्जातवेदसम् ॥६३॥
तत्राज्यहोमं कुर्याद्वै शतकोटिसमन्वितम्।
अन्तरिक्षं ततस्तेन होमेन वशमेष्यति ॥६४॥
तल्लोकवासिनः सर्वे सिद्धगन्धर्वकिंनराः।
यक्षाः किंपुरुषाश्चैव चारणाः साङ्गनागणाः ॥६५॥

वीणावेणुमृदङ्गैश्च वाद्यैस्तालैश्च सर्वशः।
तस्यापदानचरितगर्भा भोगवलीः पराः ॥६६॥
गायन्तः परिवार्यैनं हर्षयिष्यन्ति भूपतिम्।
कोटिकोट्या तु होमानां स्वर्गो वश्यो भविष्यति॥ ६७॥
तत्र देवैर्महेन्द्रोऽपि देव्या शच्या समन्वितः।
आरुह्यैरावतं नागमप्सराणां गणैः सह ॥६८॥
तमभ्येत्य महात्मानमवरुद्य मुदान्वितः।
मणिपीठं समारोप्य वाचयित्वा च मङ्गलम्॥ ६९॥
नृतैर्गीतैश्च वाद्यैश्च दिव्यदुन्दुभिनिस्वनैः।
शङ्खकाहलनादैश्च सह तीर्थाहृतैर्जलैः।
वासवश्चक्रवर्तित्वे राजानमभिषेक्ष्यति ॥७०॥
मणिमुकुटमथास्भै वारणं दिव्यमेकं
हयमनिलसमानं पुष्पकाभं विमानम्।
सरसिजपरिक्लृप्तां काञ्चनीं दिव्यमाला-
मपि च हरुषजुष्टो दास्यति ४२स्वात्मसाम्यम्॥ ७१॥
हयमेधशतेन याजयित्वा
नृपतिं सर्वमहीपतिं विधाय।
शतमप्सरसः प्रदाय तस्मै
त्रिदिवं यास्यति वृत्रहा सदेवः ॥७२॥

नागलोकस्य विषये
नागलोकेषु जाता चेज्जिगीषा चक्रवर्तिनः।
पद्मरागमयैर्दिव्यैर्भूषणैरुपशोभितम् ॥७३॥
रक्तचन्दनलिप्ताङ्गं देवं पद्मैः समर्चयेत्।
पिष्टौदनं गुडाढ्यं च हविस्तस्मै निवेद्य च ॥७४॥
प्रासादलक्षणे कुण्डे षट्कोणे ज्वलितानले।
अपूपानां तु कोटीनां कोट्या होमं समाचरेत् ॥७५॥
तेन तक्षकमुख्यानं नागानां परमा पुरी।
वक्ष्या भवेद्भोगवती स्वपुरीवास्य भूपतेः ॥७६॥
तस्य प्रभावमवलोक्य स नागराजो
रत्नानि भास्वरतराणि महान्ति भान्ति।
द्वे कुण्डले मणिमये च सहाङ्गनाभि-
रादाय सत्यमुपयास्यति सार्वभौमम् ॥७७॥
सामान्यपरिभाषा
उक्तानामप्यनुक्तानां श्रृणु नारद लक्षणम्।
सामान्यं येन सिद्धिः स्यादिप्सितार्थस्य मन्त्रिणः॥ ७८॥
एकद्वित्रिचतुः पञ्चषट्सप्ताष्टनवात्मकाः।

विहारास्त्रिचतुः पञ्च समुखान्तायतोच्छ्रिताः ॥७९॥
दिग्विदिक्षु तथा मध्ये नवकाः परिकीर्तिताः।
दिक्षु मध्ये तथा पञ्च शेषाः प्राङ्मुखपङ्क्तयः ॥८०॥
एकद्व्यादियुगाश्चैव शान्तिपुष्ट्योः प्रकीर्तिताः।
एकत्र्याद्ययुजश्चैव क्षुद्रेषु नवकं विना ॥८१॥
पलाशौदुम्बराश्वत्थखदिराद्याश्च यज्ञियाः।
दूर्वाद्याश्च तिलाद्याश्च प्रशस्ताः शुभकर्मणि ॥८२॥
कारस्करादयः क्षुद्रे कटुबीजादयस्तथा।
सहस्राद्या लक्षमध्याः कोट्यन्ता होमजातयः ॥८३॥
एको द्वौ बहवो वापि यथद्धर्या ऋत्विजः स्मृताः।
एकस्मिन् वह्निकुण्डे चेज्जुहुयुः प्रागुदङ्मुखाः ॥८४॥
वासुदेवालयोद्यानमन्दिरेषु शुभा क्रिया।
अशुभा तु श्मशानादावथ कालविधिक्रमः ॥८५॥
युक्षु कुर्याद् दिनर्क्षेषु शुभामन्यामथान्यथा।
व्यस्तैरथ समस्तैर्वा यद्वा कामविकल्पितैः ॥८६॥
समिदाज्यादिभिर्लक्षकोटिहोमादयः स्मृताः।
एवमभ्यूह्य कुर्वीत मन्त्रेणेष्टस्य साधनम् ॥८७॥


अनुक्तमिव यत् किंचित् तान् स्वगृह्योक्तमाचरेत्।
अपूर्वो वा भवेद्धोमो नाघारादिसमन्वितः ॥८८॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां काम्याराधनविधिनिरूपणं नामैकोनत्रिंशोऽध्यायः
आदितः श्लोकाः १७८४

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP