अहिर्बुध्नसंहिता - अध्यायः ९

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


अशुद्धजगदाधारनिरूपणं नाम नवमोऽध्यायाः
प्रथमं पौरुषचक्रम्

अहिर्बुध्न्यः----
आधारः कथितः शुद्धः शुद्धा सा येन धार्यते।
भूतिर्व्यूहादिरूपेण या सा देवी प्रवर्तते ॥१॥
पुमाद्यवनिपर्यन्ता यथा शुद्धेतरात्मिका।
सा येन धार्यते चक्रं तत्संकल्पमयं श्रृणु ॥२॥
त्रयरं तत् पौरुषं चक्रं पुरुषो येन धार्यते।
शक्त्यादिचक्राणि
चक्रं त्रिंशदरं प्रोक्तं शक्तिः सा येन धार्यते ॥३॥
तादृशं नैयतं चक्रं नियतिर्येन धार्यते।
षडरं कालचक्रं तत् स कालो येन धार्यते ॥४॥
सत्त्वं रजस्तमश्चैव धार्यन्ते यैर्महामुने।
तानि त्वाधारचक्राणि त्र्यराणीति विदुर्बुधाः ॥५॥
चक्रमेकादशारं तु बुद्धिः सा येन धार्यते।

अष्टारं तन्महाचक्रमहंकारस्य धारकम् ॥६॥
एकारं वैयतं चक्रं द्व्यरं तद्वायुधारकम् ।
त्र्यरं तैजसमाख्यातमाप्यं चतुररं मुने ॥७॥
पञ्चारं पार्थिवं चक्रं पृथिवी येन धार्यते।
गुणचक्राण्यरैः सर्वाण्यङ्कितानि त्रिभिस्त्रिभिः ॥८॥
एकादशविधं चक्रमैन्द्रियं द्वियुगारकम्।
इयमाधारशक्तिस्ते प्रोक्ता प्रातिस्विकी मुने ॥९॥
महाविभूतिचक्रम्
एकधारं महच्चकं महाभूतिकरं श्रृणु।
महाकेतुपटी यद्वद्वितता व्योम्नि धार्यते ॥१०॥
अनिशं पावमानेन पवमानेन वै मुने।
संकर्षणादिभूम्यन्ता विष्णुशक्तिमयी तथा ॥११॥
निरालम्बे पटे भूतिः संकल्पेनैव धार्यते।
तत्संकल्पमयं चक्रमनन्तारं महामुने ॥१२॥
दिव्यं महाविभूत्याख्यमवाङ्भनसलङ्घितम्।
अप्रमेयमनाद्यन्तं भावाभावस्वलक्षणम् ॥१३॥
अनन्तारमपर्यन्तं पर्यन्तकुलसंकुलम्।
ब्रह्मण्डकोटिकोट्योघकोट्यर्बुदविभावितम् ॥१४॥

महाभूतसहस्रौघसहस्रौघविभावनम्।
ज्योतिरिङ्गमसच्छायैरिन्द्रियैः कोटिकोटिशः ॥१५॥
अङ्कितं क्षुद्रमेघाभैर्ब्रह्मण्डैरनुचित्रितम्।
महाभूतमयीभिस्तु क्वचिदद्भिरिवाततम् ॥१६॥
विप्रड्भिरिव वर्षाणां विततं वैष्णवं पदम्।
महाभूतैः क्वचिद्दीप्तं ज्योतिर्भिरयुतायुतैः ॥१७॥
वीजितं भूतपवनैर्व्यजनोत्थैरिव क्वचित्।
क्षुद्रावकाशसंकाशैराकाशैः कोटिकोटिशः ॥१८॥
छिद्रितं विविधाकारैरहंकारैरहंकृतम्।
अमहद्भिर्महद्भिश्च कोटिकोटिविभागिभिः ॥१९॥
अङ्कितं विविधाकारैस्तमोभिर्बहुलं कृतम्।
क्वचिद्विविधसंतापचलनैरयुतायुतैः ॥२०॥
रजोभी रञ्जितं क्षुद्रैर्विशदैर्लघुभिः क्वचित्।
अङ्कितं बहुभिः सत्त्वैर्विमलैः कोटिकोटिशः ॥२१॥
त्रिविधैः षट्प्रकारैश्च द्विषट्कप्रविभागिभिः ।
चतुर्विंषतिसंभेदैस्त्रिंशदर्धद्वयोज्ज्वलैः ॥२२॥
षष्टिषट्कसमाकीर्णैः कोटिकोटिविभागिभिः।
कालैरनेकसाहस्रैरयुतायुतसंकुलैः ॥२३॥

कीर्णं नियतिरूपेण नानानियमनात्मना।
कोटिकोटिसहस्रौघकोटिकोटिगुणेन च ॥२४॥
शक्त्या नानाविधाकारमधुकोशनिभात्मना।
निष्यन्दमानतत्त्वौधस्वरूपमधुविप्रुषा ॥२५॥
कोटिकोटिसहस्रौघनियुतायुतरूपया।
स्निग्धं क्वचिदिवात्यर्थं पुंसा क्वचिदिवास्थितम् ॥२६॥
शुक्लरक्तासिताकारकर्मकल्पितरूपिणा।
अनेकमशकाकीर्णोदुम्बरप्रतिमात्मना ॥२७॥
नानाजीवविभेदेन नानाफलविधाजुषा।
शुभाशुभोभयाकारवासनाजटिलात्मना ॥२८॥
अनेकक्लेशकोशेन पुरुषेणास्थितं क्वचित्।
निर्मलानन्दसंबोधमहासत्तामयेन च ॥२९॥
नित्यैर्मुक्तैर्निराबाधैर्निर्मलानन्दलक्षणैः।
साक्षात् पश्यद्भिरीशानं नारायणमनामयम् ॥३०॥
देव्या लक्ष्म्या समासीनं पूर्णषाड्गुण्यदेहया।
नित्योदितैर्नित्यतृप्तैरतिक्रान्तैस्तमो महत् ॥३१॥
आत्मभिः शोभितेनैवं वरेण नियताङ्कितम्।
षाड्गुण्यविग्रहैर्व्यूहैः पुरुषैः पुष्करेक्षणैः ॥३२॥

आस्थितं जगदुत्पत्तिस्थितिसंहृतिकारिभिः।
इति व्याप्तवतीमेतां विभूतिं वैष्णवीं पराम् ॥३३॥
चित्राम्बरधरां सम्यग्दधदात्मानमात्मना।
संकल्पो वैष्णवो योऽयं मणीन् सूत्रमिवास्थितः ॥३४॥
तदनन्तारमव्यक्तं महच्चक्रं सुदर्शनम्।
भावितं स्मृतिमात्रेण भावयत्यखिला गतीः ॥३५॥

संहृतिचक्रम्
यो जिहीर्षामयो नित्यः संकल्पो वैष्णवः परः।
अनन्तारमपर्यन्तं तत्संहृतिसुदर्शनम् ॥३६॥
एक एव तु संकल्पो रूपैर्नानोपगीयते।
अनन्तमपरिच्छेद्यमप्रमेयमनूपमम् ॥३७॥
अतरङ्गार्णवाकारमनभ्राम्बरसंनिभम्।
एकं तत् परमं ब्रह्म षाड्गुण्यस्तिमितं महत् ॥३८॥
भावाभावमयी तस्य शक्तिरेकानपायिनी।
तद्धर्मधर्मिणी दिव्या ज्योत्स्नेव हिमदीधितेः ॥३९॥
तस्य संकल्पसंकल्पो रूपव्याप्रियमाणता।
स्तैमित्यस्थितिसंकल्पस्तिमितं तत् सुदर्शनम् ॥४०॥

चलनचक्रम्

प्रभवे चाप्यये वापि स्थितौ वापि महामुने।
चलत्तापूर्वरूपं यः संकल्पस्तत्र वर्तते ॥४१॥
चलनं नाम तच्चक्रं सुदर्शनमयं महत्।
तस्य त्रैविध्यम्
भेदास्त्रयोऽस्य विज्ञेयास्तन्त्रविज्ञानपारगैः ॥४२॥
महासृष्टिमयं तत्र समासव्यासलक्षणम्।
नानाशक्तिसमाकीर्णं तच्च ते कथितं पुरा ॥४३॥
महासंहारचक्रं च समासव्यासलक्षणम्।
तादृगेवात्र विज्ञेयं तच्च ते दर्शितं पुरा ॥४४॥
स्थितिचक्रं तु यन्मध्ये समासव्यासलक्षणम्।
तस्य वक्ष्यामि विस्तारं यत्प्रमाणतया स्थितम्॥ ४५॥
यथा ह्योको नटो भावैर्नानारूपैर्विभज्यते।
तथा संकल्प एवैकस्तैस्तैर्भेदैर्विभज्यते ॥४६॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अशुद्धजगदाधारनिरूपणं नाम नवमोऽध्यायः
आदितः श्लोका ५६६

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP