परमेश्वरसंहिता - षड्‌विंशोऽध्यायः

परमेश्वरसंहिता


सनकः ---
पञ्चरात्रार्थतत्वज्ञ! भगवन्! भविनां प्रिय!।
मय्यनुग्रहबुद्धया त्वमग्निमध्यगतार्चनम् ॥१॥
यथाविधि समाचक्ष्व सर्वसिद्धिप्रसाधनम्।
शाण्डिल्य :---
मुनीन्द्र! सकलप्राज्ञ! सिद्धिमोक्षप्रदं शुभम् ॥२॥
कुण्डमध्यगतं यागं श्रृणु वक्ष्ये समाहितः।
होमार्थं मण्टपं कुर्याद्विततं वह्निदिग्गतम् ॥३॥
धूमर्निगमनोपेतं गवाक्षगणमण्डितम्।
तन्मध्ये वेदिका कार्या चतुरश्रा चतुष्करा ॥४॥
द्वादशाङ्‌गुलमानोच्चा प्रासादासनलक्षणा।
चक्राब्जलक्षणं कुण्डं तदूर्ध्वे कल्पयेच्छुभम् ॥५॥
मध्ये सूत्रत्रयं दद्यात् प्राक्‌प्रत्यग्दक्षिणोत्तरम्।
हस्तद्वयेन, तन्मध्ये चतुरश्रं प्रकल्प्य च ॥६॥
एकादशाङ्‌गुलायामं सूत्रं संस्थाप्य मध्यतः।
खातार्थं वृत्तमापाद्य बहिरावृतियोगतः ॥७॥
त्यजेदङ्‌गुलमोष्ठस्य, द्व्यङ्‌गुलं कर्णिकावनेः।
अङ्‌गुलं केसराणां च, द्व्यङ्‌गुलं पत्रसन्ततेः ॥८॥
तदग्रस्याङ्‌गुलं ज्ञेयं, नाभेरेकाङ्‌गुलोन्नतम्।
द्व्यङ्‌गुलं स्यादरक्षेत्रं नेमेरेकाह्‌गुलं भवेत् ॥९॥
द्व्यङ्‌गुलं मेखलायाः स्यादेवमावृतियोगतः।
मानमाखातपर्यन्तं मेखलान्तं हृदि स्थितम् ॥१०॥
कृत्वाऽथ नेमिपर्यन्तं क्षेत्राणां वृत्ततां नयेत्।
मेखला सर्वबाह्यस्था स्यात्तुर्याश्रा यथा भवेत् ॥११॥
समेखलं द्विहस्तं तन्निर्माणमधुना श्रृणु।
खातार्थमन्तरावृत्तादन्तरं निखनेत् समम् ॥१२॥
त्रिपादमर्धं पादं वा बाह्यतो दशनच्छदात्।
साधयेत् कर्णिकादीनि नेम्यन्तानि यथाक्रमम् ॥१३॥
द्बादशांगुलमानोच्चा कार्या स्यात् कर्णिकान्तरा।
विस्तारसदृशोच्छ्राया बाह्यतः केसरान्विता ॥१४॥
यथाभिमतसङ्ख्यानि पझपत्राणि साधयेत्।
पझसङ्ख्यासमं क्षेत्रं महापझसमन्ततः ॥१५॥
केसरभ्रमकुण्डेन पत्राग्रभ्रमणावधि।
पक्षमध्यमसूत्राणि प्राक्प्रत्यग्दिक्षु पातयेत् ॥१६॥
दळमध्यगसूत्रेण दळमध्योर्ध्वगामिना।
दळमध्यप्रसादार्थं लाञ्छयेदर्धचन्द्रवत् ॥१७॥
चन्द्रश्रृङ्गं च मध्यं च पत्राग्रे सङ्गतानि च।
पक्षसूत्रेण पत्राग्रं जनयेत् कुलिशाग्रवत् ॥१८॥
दळसङ्ख्यासमेतानि स्वक्षेत्राणि च साधयेत्।
विभज्य दळवत् क्षेत्रं सूत्राण्यास्फालयेत्तथा ॥१९॥
अष्टधा वाऽथ षोढा वा कृत्वैकैकं क्रभेण तु।
सन्त्यज्य पार्श्वगौ भागौ बाह्यसूत्रस्य मध्यतः ॥२०॥
स्थापिताभ्यां च सूत्राभ्यां गदाभ्‌यामग्रमध्यमात्।
मत्स्यवल्लाञ्छनं कुर्याद्यावन्मूलभ्रमावधि ॥२१॥
प्रथयो नेमिभूमिष्ठाः कार्याश्चोर्ध्वेऽथवा बहिः।
संसाधयेदथामद्यादिष्टकाभिर्मृदा सह ॥२२॥
मेखलावधिपर्यन्तं नीचान्यङ्गानि मीलयेत्।
विस्तारोच्छ्रायतुल्यानि समानि सुदृढानि च ॥२३॥
कर्णिकाकेसरोर्ध्वस्था योनिः पिप्पलपत्रवत्।
जिह्वया संस्पृशन्त्योष्ठं कार्या योन्युपमाश्रिता ॥२४॥
केसरावनिमाक्रम्य पृष्ठतोर्ध्वाङ्‌गुलेन तु।
पार्श्वयोर्मध्यसूत्रस्य बालचन्द्रद्वयोपमा ॥२५॥
प्रोन्नता कर्णिकाबूमैः पृष्ठतश्चाङ्‌गुलेन तु।
आमूलादग्रपर्यन्तं क्रमान्निम्ना गजोष्ठवत् ॥२६॥
कोणेषु चैवं कुण्डस्य कार्यं शङ्खचतुष्टयम्।
एवमेतत् समुद्दिष्टं बहुधा मानतो भवेत् ॥२७॥
आद्बादशाङ्‌गुलान्मानादेकैकाङ्‌गुलवर्धनात्।
द्विचतुर्हस्तपर्यन्तमेकाशीत्यधिकं शतम् ॥२८॥
एतेष्वेकतरं प्रोक्तमन्येषामेवमेव हि।
तत्साधनं विहा(धा?)य तत् अह्गव्यूहं प्रकल्प्य च ॥२९॥
ततो यथोचितस्थाने होमद्रव्याणि विन्यसेत्।
संस्कृत्य विधिवत् कुण्डं वह्निमुत्पादितं तथा ॥३०॥
संस्कृताज्यस्य विप्रुड्‌भिः संस्पृशेदिन्धनादिकम्।
सन्तर्पणं तथाग्नेश्च तस्मिन्मन्त्रासनादिकम् ॥३१॥
यन्त्रविष्टरसंस्थानमन्तराहवनं तथा।
हृदयादवतारं च महायन्त्रस्य विष्टरे ॥३२॥
समिद्भिश्चाथ नित्याभिः काम्यैश्च हवनं तथा।
स्विष्टकृद्धवनं चाथ प्रायश्चित्ताहुतिं त्वपि ॥३३॥
पूर्णाहुतिं प्रधानं च यन्त्रस्थस्य विसर्जनम्।
हृदयस्थे प्रविश्याथ मण्टपं यजनास्पदम् ॥३४॥
समर्पणं च होमस्य पितॄणां तर्पणं त्वपि।
बलिदानं च भूतानामिष्टशिष्टोदनस्य च ॥३५॥
प्रदानं यज्ञशीलानां कारिणां भावितात्मनाम्।
अनुयागं च विधिवन्नैवेद्यप्राशनादिकम् ॥३६॥
पूर्ववत् सकलं कुर्याद्भोगमोक्षप्रसिद्धये।
अनेन यन्त्रराजेन शान्तिकादिषु कर्मसु ॥३७॥
ध्यानेन पूजितेनैव हुतेन जपितेन च।
समीहितानि पूर्यन्ते भक्तानां भावितात्मनाम् ॥३८॥
एकरूपमिदं ध्यानं वर्णितं शान्तिकादिषु।
होमे स्वाहान्तिमो मन्त्रः स्वभावादधिकः सदा ॥३९॥
शान्तिके पौष्टिके वौषट्‌पूर्णायामपि तादृशः।
आप्यायने वषट्‌प्रोक्तो हुमन्तो वश्यकर्मणि ॥४०॥
फडन्तं क्षयविद्वेषप्रोत्सादनविधौ सदा।
हुमन्तं चारिविद्वेषे मोहने हुंफडन्तिमम् ॥४१॥
स्तम्भने वषडन्तं सस्यान्नमोन्तो मोक्षकर्मणि।
अथो हिताय लोकानां राज्ञामपि विशेषतः ॥४२॥
पृच्छते नारदायैतदहिर्बुध्न्येन विस्तरात्।
यथोपदिष्टं विधिवत्तथा तत्र निरीक्ष्य च ॥४३॥
प्रयोक्तव्यं तु बहुधा, शान्तिकामी यथेच्छया।
कुर्यादेकमुखं यन्त्रं स्थाप्य संपूजयीत च ॥४४॥
नैमित्तिकानि काम्यानि नित्यानि यजनानि वै।
विशेषेणैव कार्याणि विना स्वापं महोत्सवम् ॥४५॥
न कर्मबिम्बानि तथा नित्यनैमित्तिकादिषु।
स्थितं यन्त्रं समाराध्यं स्थापितं मन्त्रवित्तमैः ॥४६॥
दिव्याद्यायतनाड्गत्वे स्थापिते सति कुत्रचित्।
चलस्थिरविबागेन हविरन्तं समर्चयेत् ॥४७॥
द्वादश्यादिषु कालेषु पुण्येषु विविधेष्वपि।
इति सम्यक् समुद्दिष्टं महायन्त्रार्चनं परम् ॥४८॥
अदीक्षितानां विधिवदशिष्याणां दुरात्मनाम्।
गोपनीयं प्रयत्नेन त्वभक्तानां जनार्दने ॥४९॥
भावभक्तिसमेतानां वाच्यवाचकयोर्गुरौ।
शास्त्रे ज्ञानक्रियोपेते सात्विके वेदसंमिते ॥५०॥
आस्तिक्यं जायते येषां तेषामेतत् प्रकाशय।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्‍डे सुदर्शनमहायर्न्त्राचने अग्रिकार्यविधिर्नाम षड्विंशोऽध्यायः॥

N/A

References : N/A
Last Updated : January 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP