परमेश्वरसंहिता - द्वितीयोऽध्यायः

परमेश्वरसंहिता


शाण्डिल्यः --
अथाधिकारसिद्ध्यर्थं स्नानं वक्ष्यामि पूर्वतः।
येन भक्तोऽभिषिक्तस्तु स्यादर्हो यागहोमयोः ॥१॥
स्नानं तु द्विविधं कुर्यान्मलसंकरशुद्धये।
सामान्यविधिना स्नात्वा विशेषविधिना ततः ॥२॥
सामान्यं लौकिकं स्नानं विशिष्टं मन्त्रसंस्कृतम्।
तच्चापि शौचपूर्वं स्यात्तदादौ कथयामि ते ॥३॥
ब्राह्मं मुहूर्तमासाद्य उदयात्पूर्वमेव च।
मन्त्रज्ञः प्रयतः कुर्याद्विधिदृष्टेन कर्मणा ॥४॥
संप्रबुद्धः प्रभाते तु उत्थाय शयने स्थितः।
नाम्नां संकीर्तनं कुर्यात् षोडशानां प्रयत्नतः ॥५॥
ओं नमो वासुदेवाय नमः संकर्षणाय ते (च)।
प्रद्युम्नाय नमस्तेऽस्तु अनिरुद्धाय ते नमः ॥६॥
क्रमशः केशवादीनां यावद्दामोदरं द्विज!।
नमो नमः केशवाय नमो नारायणाय च ॥७॥
माधवाय नमश्चैव गोविन्दाय नमस्ततः।
विष्णवेऽथ नमस्कुर्यान्नमस्ते मधुसूदन ॥८॥
नमस्त्रिविक्रमायाथ वामनाय नमस्ततः।
श्रीधराय नमश्चाथ(श्चैव) हृषीकेशाय ओं नमः ॥९॥
नमस्ते पद्मनाभाय नमो दामोदराय च।
दिव्यानामवताराणां दशानामथ कीर्तनम् ॥१०॥
एकश्रृङ्गादिकानां तु विहितं क्रमशः प्रभोः।
नमस्ते मीनरूपाय कमठाय नमो नमः ॥११॥
नमोऽस्त्वादिवराहाय नारसिंहाय ते नमः।
नमो वामनरूपाय नमो रामत्रयाय च ॥१२॥
कुठारज्याहलास्त्राय नमः कृष्णाय वेधसे।
कल्कि(न्‌)विष्णो नमस्तेऽस्तु पूर्वं सप्रणवं द्विज! ॥१३॥
यथास्थितक्रमेणैव भेदांस्त्वेतान् हरेर्विभोः।
नमस्कुर्यात् प्रभाते तु यागान्ते तु दिनक्षये ॥१४॥
शब्देनोच्चतरेणैव संहृ(तु)ष्टिजननेन तु।
स्तोत्राणि चाथ मन्त्राणि उदीर्यान्यानि वै ततः ॥१५॥
इत्येवमादिभिः स्तोत्रैरभिष्टूय श्रियः पतिम्।
इदं विज्ञापयामास हरये वरदायिने ॥१६॥
हरिर्हरिर्ब्रुवंस्तल्पादुत्थाय भुवि विन्यसेत्।
नमः क्षितिधरायोक्त्वा वामपादं महामते! ॥१७॥
बहिर्निर्गमनार्थं तु सञ्चाल्यादौ तमेव हि।
जलसंपूर्णपात्रं च अस्त्रमन्त्रोद्धृतं मुने! ॥१८॥
देवाग्निगिरिगोष्ठेषु नद्यां वा न श्मशानके।
वल्मीके मूषिकास्थाने वृक्षमूले सुरालये ॥१९॥
जलान्तरे च मार्गे च न गृह्णीयात् कदाचन।
देशे मनोरमे ग्राह्या विहाय चतुरङ्गुलम् ॥२०॥
प्राण्यङ्गतुषभस्मास्थिकाष्ठलोष्टविवर्जितम्।
परशौचावशिष्टं यच्छ्रेयःकामैः सदा नरैः ॥२१॥
अनङ्गारामनूषारां तथा कृष्णामवालुकाम्।
शस्त्रादिनाऽस्त्रजप्तेन निखनेच्छुभदेशगाम् ॥२२॥
मृदं दोषविनिर्मुक्तां ततस्तेनैव चाहरेत्।
स्नानोपकरणं चान्यच्छमीशाखाः सपल्लवाः ॥२३॥
अर्कन्यग्रोधखदिरकरञ्जककुभादिकम्।
शरजोदुम्बराश्वत्थप्लक्षदर्भांश्च वैणवान् ॥२४॥
आम्राङ्कुरमपामार्गमर्जुनं धातकीं शमीम्।
अन्यानि च पवित्राणि तेषु संपन्नमाहरेत् ॥२५॥
यथावसरमेतद्वै नृपवत् संप्रयोज्य च।
कूपस्नानं न कुर्वीत तटाकादिषु सत्सु च ॥२६॥
तेषु नाल्पोदके स्नायात्तीर्थेषु बहुवारिषु।
एतेष्वपि तु न स्नायात् सत्यां सरिति साधकः ॥२७॥
सरित्स्वपि च सर्वासु विशिष्टाः स्युः समुद्रगाः।
तासामपि विशिष्टाः स्युः सर्वाः प्राक्स्रोतसः सदा ॥२८॥
नदीनामपि सर्वासां दक्षिणं तीरमुत्तमम्।
प्राक्स्रोतसः स्रवन्त्यस्तु यत्र चोदङ्मुखस्थिताः ॥२९॥
प्राक्तीरं तत्र तीर्थं स्यात् सर्वपापप्रणाशनम्।
कूपाद्दशगुणा वापी वाप्या दशगुणा नदी ॥३०॥
नद्यां स्नानफलं स्नातुस्तथा तस्याः समुद्रगाः।
तथा दशगुणं तस्याः प्राक्स्रोताः कुरुते फलम् ॥३१॥
प्राक्स्रोतसोदङ्‌मुखायाः प्राक्तीरेऽनन्तकं फलम्।
पूर्वं तु क्षालिते तीरे संप्रोक्ष्य स्थापयेत् पृथक् ॥३२॥
जलसंपूर्णपात्रं च अस्त्रमन्त्रोद्धृतं मुने!।
शौचार्थं मृदमाहृत्य जलकूले निधाय वै ॥३३॥
मनोरमे शुचौ देशे तृणान्निक्षिप्य भूतले।
दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ॥३४॥
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः।
न कुर्याद्भुवि विण्मूत्रे संभवद्दीर्घजन्तुषु ॥३५॥
न चाप्सु न गिरौ चापि चत्वरेषु चतुष्पथे।
न राजमार्गे नो वीथ्यां न देवायतने क्वचित् ॥३६॥
न श्मशाने न चैत्ये च न भस्मनि न गोव्रजे।
न ग्राममध्ये विप्रेन्द्र! कुर्वीताप्यन्यथाविधि ॥३७॥
आत्मच्छायां तरुच्छायां न मेहेत कदाचन।
अवकुण्ठ्योत्तमाङ्गं तु न पश्येद्दिग्गणं मलम् ॥३८॥
तथा ज्योतींष्यपश्यंश्च देवतायतनानि च।
पुरीषं गुदसंयुक्तं काष्ठपर्णतृणादिभिः ॥३९॥
वामहस्तेन सम्मार्ज्य तेन हस्ततलेन तु।
गृहीतशिश्नश्चोत्थाय जलकूलं समाश्रयेत् ॥४०॥
ऊरुद्वयान्तरस्थेन गुदं मृद्दायिनाऽपि च।
दाक्षिण्यजानोर्बाह्यं च दीयमानजलेन च ॥४१॥
वामेन दक्षिणेनैव पाणिना कुक्कुटासनी।
अस्पृष्टतीर्थः शौचार्थं मृद्भिरभ्युद्धृतैर्जलैः ॥४२॥
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः।
तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः ॥४३॥
पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धये।
मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् ॥४४॥
अर्धप्रसृतिमात्रं तु प्रथमा मृत्तिका स्मृता।
द्वितीया च तृतीया च तदर्धा परिकीर्तिता ॥४५॥
बिडालपदमात्रं तु तदूर्ध्वा परिकीर्तिता।
पञ्चापाने मृत्तिकाः स्युस्तथैवान्तरमृत्तिकाः ॥४६॥
दश वामकरे देयाः सप्त तूभयहस्तयोः।
पादाभ्यां तिसृभिः शुद्धिर्जङ्घाशुद्धिश्च पञ्चभिः ॥४७॥
नियोजयेत्ततो विप्र! कट्यां वै सप्त मृत्तिकाः।
स्वदेहस्वेददोषघ्ना बाह्यकर्दमशान्तये ॥४८॥
भक्तानां श्रोत्रियाणां च वर्षास्वेवं निरूपितम्।
प्रावृ(ट्‌सू)डुक्तात्तु वै तस्मादेकमृद्व्यपनोदनम् ॥४९॥
शरद्ग्रीष्मवसन्तेषु नित्यं कार्यं क्रियापरैः।
एतस्मादपि चैकैका परिलोप्या तु मृत्तिका ॥५०॥
हेमन्ते शिशिरे विप्र! श्रोत्रियैः संयमस्थितैः।
पथि शौचं प्रकर्तव्यं देशकालानुरूपतः ॥५१॥
गन्धलेपमपास्यैवं मनः शुद्ध्या विशुध्यति।
विहिताः पादशौचे तु बिडालपदसंमिताः ॥५२॥
मृदश्चतुर्द्विजेन्द्राणां त्रिर्द्विरेका क्रमात्ततः।
वर्णानां शूद्रनिष्ठानां कटिशौचे तथैव हि ॥५३॥
सप्त सप्त च ऊरुभ्यां कराभ्यां त्रितयं पुनः।
सर्वेषामेव सामान्यं पाणिशौचमुदाहृतम् ॥५४॥
अन्तर्जानुगतं कृत्वा भुजयुग्मं द्विजोत्तम!।
चतुर्धा मणिबन्धस्थं तोयं कृत्वा सुनिर्मलम् ॥५५॥
बुद्बुदाद्यैर्विनिर्मुक्तं पिबेद्विप्रो हृदा ततः।
एकैकां ह्रासयेन्मात्रां वर्णत्रयमनुक्रमात् ॥५६॥
पाणिना क्षालितेनैव पुनराचामयेद्बुधः।
एवं प्रक्षाल्य विधिवदाचम्य प्रयतः शुचिः ॥५७॥
प्राङ्मुखोदङ्मुखो वाऽपि उपविश्यासनं(ने) ततः।
अर्कादिभिरपामार्गैः कारयेद्दन्तधावनम् ॥५८॥
प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम्।
भक्षयेद्दन्तधवनं दन्तमांसान्यबाधयन् ॥५९॥
द्वादशाङ्गुलमात्रं तु वक्रग्रन्थिविवर्जितम्।
पयोभिः सह तर्जन्या ब्रह्म(न्‌)द्वादशसंख्यया ॥६०॥
काष्ठालाभे तु रोगे वा कर्तव्यं दन्तधावनम्।
षोडशाङ्गुलदीर्घैस्तु वक्रग्रन्थिविवर्जितैः ॥६१॥
हेमादिनिर्मितैर्वाऽपि कुशदर्भादिभिस्तथा।
जिह्वानिर्लेहनं चैव गण्डूषं मुखधावनम् ॥६२॥
कुर्यादाचमनं विप्र! शुद्धेन सलिलेन च।
विना विविधसंपर्कैः पञ्चाङ्गस्नानमाचरेत् ॥६३॥
मुखं करद्वयोपेतं पादौ कटितलावधि।
स्त्रीसङ्गाद्युपघातेषु स्नानं कुर्याद्यथाविधि ॥६४॥
अधोत्तमाङ्गात् पादान्तं शिरसाऽभ्यञ्जयेद्द्विज!।
अङ्गान्युद्वर्त्य चास्त्रेण चरणान्तान्यनुक्रमात् ॥६५॥
गोमयेन मृदा विप्र! निर्मलीकृत्य विग्रहम्।
नरामरप्रयुक्तां प्राक् स्नानार्थं चाहरेत् खलीम् ॥६६॥
माषचूर्णादिना देहं निर्हृत्य कवचं स्मरन्।
शुद्ध्यर्थं प्रथमं स्नात्वा मन्त्रस्नानं समाचरेत् ॥६७॥
स्नायाद्राजोपचारेण दिव्यैर्गन्धैः पुराऽऽहृतैः।
हृन्मन्त्रेण च विप्रेन्द्र! वामहस्ततले ततः ॥६८॥
मृदाऽऽमलकमानेन क्रमशोऽभिनिधाय च।
प्रान्तपर्वावधौ मध्ये मणिबन्धसमीपतः ॥६९॥
अस्त्रमन्त्रेण मूलेन क्रमात् पञ्चाङ्गमन्त्रितम्।
कृत्वा नियोज्य दिक्ष्वप्सु सर्वाङ्गालेपनं क्रमात् ॥७०॥
अध ऊर्ध्वे च तन्मन्त्रं मुद्राबन्धेन संयुतम्।
तेन स्नानहरा विघ्ना दिग्विदिक्परिसंस्थिताः ॥७१॥
प्रयान्ति विह्वलीभूता यावत्तन्नोपसंहृतम्।
मृद्भागो मूल्मन्त्रेण मन्त्रितो यः पुरा स्थितः ॥७२॥
तमुच्चरन् समादाय तोयमध्ये विनिक्षिपेत्।
तेन तद्‌द्विजशार्दूल! तत्क्षणादेव जायते ॥७३॥
गङ्गातोयेन संपूर्णं यामुनेन शुभेन च।
प्रयागं चक्रतीर्थं च प्रभासं पुष्कराणि च ॥७४॥
भवन्ति सन्निधीभूता मन्त्रस्यास्य प्रभावतः।
ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरेत्(रन्)॥ ७५॥
सनमस्कं भवेत्तेन विष्णुतीर्थस्य सन्निधौ।
अन्यतीर्थे यदा स्नानं कुर्यात्तत्र च योजयेत् ॥७६॥
केवलं मूलमन्त्रं तु विष्णुतीर्थपदं विना।
तीर्थान्तरेष्विदं नाम न संकीर्तयते सुधीः ॥७७॥
नित्यसन्निधितीर्थस्य यद्यन्यस्याभिधां स्मरेत्।
स्नातस्य तत्र तीर्थं तदभिशापं क्षणं(णात्) सृजेत्॥
निर्झराम्बुतटाकादौ सामान्यस्नानकर्मणि।
गङ्गादीनां नदीनां च तीर्थानां च प्रकीर्तनम् ॥७९॥
मन्त्रस्नानं(न) क्रमैः सम्यग्विष्णुतीर्थाय कीर्तयेत्।
ततोऽङ्गमन्त्रजप्तं च भागं पाणितले स्थितम् ॥८०॥
तोयेनालोड्य मसृणं तापयेदर्करश्मिभिः।
मेघच्छन्ने स्वकं मन्त्रं सूर्यवत् खस्थितं स्मरेत् ॥८१॥
दर्शयित्वा करौ तस्य ताभ्यां सर्वाऽङ्गकं स्पृशेत्।
अपास्य प्रोच्चरन् वर्म मृल्लेपं वारिणाऽङ्गगम् ॥८२॥
दर्भपुञ्जीलमादाय दक्षिणेन करेण तु।
जले त्वावर्त्य तन्मन्त्रं सकृद्वा बहुशो द्विधा ॥८३॥
ततः कुम्भाभिषेकं वा पाणिकुम्भोदराम्बुना।
स(सं)हिता(कृदा)वर्तितेनैव अभिषेकं तु मूर्धनि ॥८४॥
श्रोत्रदृग्वदनं नासां स्वकराङ्गुलिभिः क्रमात्।
स्थगयित्वा निमज्याथ साङ्गं मन्त्रमथोच्चरन् ॥८५॥
सकृद्वा बहुशः शक्त्या ध्यायेज्ज्योतिर्मयं हरिम्।
देवं हृत्पुष्करान्तस्थं नेत्रयोरथ चान्तरे ॥८६॥
सर्वपापनिरासार्थं कृत्वैवमघमर्षणम्।
प्राणायामैस्त्रिभिर्द्वाभ्यामेकेन नियतेन वा ॥८७॥
समुत्थायाचरेत् पश्चात् सन्निरीक्ष्यार्कमण्डलम्।
मन्त्रमूर्तिर्महातेजाः समुत्तीर्य जलान्तरात् ॥८८॥
स्नानवस्त्रं परित्यज्य परिधायाम्बरान्तरम्।
शिखयाऽथ शिखाबन्धं कृत्वाऽऽचम्य यथाविधि ॥८९॥
अङ्गुष्ठमूलं ब्राह्मं तु अङ्गुल्यग्रं तु दैविकम्।
पैतृकं हस्तमध्यं तु तीर्थं दक्षिणहस्तजम् ॥९०॥
ब्राह्मेण तु पिबेत्तोयं पैतृकेन तु मार्ज्रयेत्।
दैविकेन स्पृशेदङ्गान् येषां तृप्तिं यदीच्छति ॥९१॥
त्रिधा चतुर्धा वा विप्र! द्विरामृज्य मुखं पुनः।
वामहस्ततलं प्रोक्ष्य पादयोश्च तले शुभे ॥९२॥
तलेन हृदयं स्पृष्ट्वा मुखमङ्गुलिभिस्तथा।
अङ्गुष्ठानामिकां कृत्वा नेत्रे स्पृष्ट्वा च वारिणा ॥९३॥
तेनैव तर्जनीं कृत्वा तथा द्वे नासिकापुटे।
कनिष्ठिकां तथा कृत्वा तेनैव श्रवणं स्पृशेत् ॥९४॥
तथैव मध्यमां कृत्वा बाहुदेशावुभौ स्पृशेत्।
तेनैव नाभिदेशं च सवैर्युक्तैः शिरः स्पृशेत्॥ ९५॥
एतदाचमनं प्रोक्तं सर्वकर्मसु सर्वदा।
सजलं दक्षिणं हस्तं कृत्वा घ्राणाग्रगं मुने!॥ ९६॥
स्मरन् हृन्मन्त्रमाघ्राय सन्धार्य कवचं लपन्।
विरेच्य समुदीर्यास्त्रं तोयक्षेपेण वै सह ॥९७॥
ततस्तु हस्तयोर्देहे न्यासं कुर्याद्यथाग(क्र)मम्।
हृदा वामकरे तोयमादाय गलितं च तत् ॥९८॥
विबुधानूर्ध्वदेहस्थान् ह्लादयेच्छिखया क्षिपन्।
स्मरन्नस्त्रं क्षिपेद्भूमौ दुष्टदोषप्रशान्तये ॥९९॥
अन्तरान्तरयोगेन ह्यूर्ध्वान्तं प्रागधस्ततः।
जलाञ्जलिमथादाय स(स्व)मन्त्रेण हरिं स्मरन् ॥१००॥
सूर्यमण्डलमध्यस्थं तर्पयेत्तेन वारिणा।
सकुशोर्ध्वकरश्चाथ विनिमीलितदृग्जपन् ॥१०१॥
सूर्यं निरीक्षयेन्मन्त्रं यदर्ध्येणार्चितं पुरा।
ततोपविश्य सन्तर्प्य आ(सा)धारासनपूर्वकम् ॥१०२॥
साङ्गं सपरिवारं च मन्त्रं तदनु वै क्रमात्।
इन्द्रादीन् विष्णुपूर्वांश्च वासुदेवादिकानपि ॥१०३॥
मूर्तीर्द्वादशशक्तीश्च परमात्मानमेव च।
पृथिव्यादीनि भूतानि ऋषींश्च पितृभिस्सह ॥१०४॥
आदौ नाम द्वितीयान्तं तर्पयामीति चोच्चरन्।
एष मन्त्रस्तु निर्दिष्टस्तर्पणेषु यथाक्रमम् ॥१०५॥
तिलोदकैस्तर्पयित्वा स्वपितॄंश्च पितामहान्।
प्रपितामहसंज्ञांश्च सदाराननुतर्पयेत् ॥१०६॥
तर्पयेत्सर्वपितॄणां दक्षिणाभिमुखेन तु।
देवानां च तदन्येषां प्राङ्मुखो वाऽप्युदङ्मुखः ॥१०७॥
पवित्रकं त्यजेत् पश्चात् पुनराचम्य मन्त्रवित्।
सायं प्रातर्दिशो वन्द्याद्ध्यात्वा नारायणं प्रभुम् ॥१०८॥
करशुद्धिसमोपेतं दिग्बन्धं चावकुण्ठनम्।
प्राणायामादिकं कुर्याद्भुतशुद्धिसमन्वितम् ॥१०९॥
मन्त्रन्यासं ततः कृत्वा मुद्रां बध्वा स्मरेद्धरिम्।
जलमध्येऽपि यागस्य भोगैश्चैवासनादिकैः ॥११०॥
ततो मन्त्री समभ्यर्च्य पत्रपुष्पफलैर्विभुम्।
संभवे सति पुष्पाणां विहितं तत्र चार्चनम् ॥१११॥
औदकेनोपचारेण भावनाभावितेन च।
तर्पयेदम्भसा प्राग्वद्धोमभावनयाऽखिलम् ॥११२॥
एवं कृत्वा जगन्नाथं समिद्दानं समाचरेत्।
जुहुयाच्च यथाशक्ति ततस्तिलघृतादि यत्‌ ॥११३॥
न्यूनातिरिक्तशान्त्यर्थं सर्वकर्मसमाप्तये।
पूर्णाहुत्यवसानान्तं कुर्याद्वै जलतर्पणे ॥११४॥
स्तुत्वा च प्रणमेद्विप्र! अष्टाङ्गेनाथ दण्डवत्।
दूर्वां सिद्धार्थकोपेतां शिखामन्त्राभिमन्त्रिताम् ॥११५॥
चूड्योत्तमाङ्गे शिरसा उपसंहृत्य सासनम्।
वाच्यं जलात् स्वहृद्व्योम्नि मनसा निष्कलात्मना ॥११६॥
कृत्वाभिगमनं कृत्यं सन्यसेच्च विचक्षणः।
कुर्याद्भोगार्जनं पश्चान्यायोपायसमार्जितम् ॥११७॥
मूलेन वाऽस्त्रमन्त्रेण पुष्पमूलफलादिकम्।
अवपन्नं त्वभिमतमनाप्तं भावदूषितम् ॥११८॥
व्यामिश्रहीनसंस्पृष्टं शुक्तं लीढं च वर्जयेत्।
सम्यक् पूरकयुक्त्या तु धिया वाचकमुच्चरन् ॥११९॥
अपामार्गशमीशाखायुग्मं संभ्राम्य मूर्धनि।
सव्यापसव्ययोगेन पृष्ठतोऽस्त्रं पठन्‌ क्षिपेत् ॥१२०॥
स्नानवस्त्रं च निष्पीड्य ततश्चाचम्य वाग्यतः।
इत्युक्तमौदकं स्नानमथ मान्त्रं निबोध मे ॥१२१॥
तोयाभावे च यत्कुर्याद्दुर्गे(ष्टे)काले तु शीतले।
गमने क्षिप्रसिद्धौ वा गुरुकार्येऽस्वतन्त्रताम् ॥१२२॥
प्राप्तां वा वीक्ष्य विप्रेन्द्र! निशाभागे दिनस्य वा।
प्रक्षाल्य पादावाचम्य प्रोद्धृतेन च वारिणा ॥१२३॥
स्थानं दश दिशः प्राग्वत् संशोध्योपविशेत्ततः।
प्राणायामगणं कुर्याद्भुतशुद्धिं ततस्तनौ ॥१२४॥
मूलमन्त्रादितः कुर्यात् सर्वमन्त्रगणेन तु।
केवलादुदकस्नानात् संस्कारपरिवर्जितात् ॥१२५॥
प्रयागादिषु तीर्थेषु यत्फलं कुरुते द्विज!।
स्नानाच्छतगुणं तस्मान्मन्त्रस्नानस्य सत्तम्! ॥१२६॥
ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत्।
खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ॥१२७॥
तत्पादोदकजां धारां पतमानां हि मूर्धनि।
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥१२८॥
तया संक्षालयेत् सर्वमन्तर्देहगतं मलम्।
तत्क्षणाद्विरजा मन्त्रीजायते स्फटिकोपमः ॥१२९॥
ध्यानस्नानं परं मन्त्रस्नानाच्छतगुणं स्मृतम्।
सध्यानस्नानमित्युक्तं दिव्यस्नानादिकं श्रृणु ॥१३०॥
सहातपेन वर्षेण स्नानं दिव्यमनन्तरम्।
समिधां दीपितानां च गोमयस्य हुत(शुभ)स्य च ॥१३१॥
सितेन भस्मनाऽङ्गेषु ललाटादिषु च क्रमात्।
यदूर्ध्वपुण्ड्रकरणं मन्त्रोच्चारणपूर्वकम् ॥१३२॥
दाहनं तु भवेत्स्नानं शोधनं परमं स्मृतम्।
गच्छत्सु गोषु वातोत्थै रजोभिर्भूमिसंभवैः ॥१३३॥
स्पर्शनं वपुषः स्नानं वायव्यं तदुदाहृतम्।
प्रशस्ते पर्वताग्रादौ जातया श्वेतमृत्स्नया ॥१३४॥
उच्चार्य केशवादीनि नामान्यङ्गे यथाक्रमम्।
ललाटादौ यद्विधानमूर्ध्वपुण्ड्रस्य तत्स(त्क्ष)मम् ॥१३५॥
पार्थिवस्नानमित्येवं सर्वपापहरं शुभम्।
तस्मादेकतमं कार्यं स्नानं श्रद्धापरेण तु ॥१३६॥
स्नानाचमनशौचेन प्राणायामेन देशिकः।
अन्तर्बहिः शरीरस्य साधकस्तु विशुध्यति ॥१३७॥
स्नानपूर्वाः क्रियाः सर्वाः फलसंसिद्धिहेतवः।
तस्मात्स्नानं प्रकुर्वीत देवर्षिपितृतर्पणम् ॥१३८॥
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे साधकस्नानविधिर्नाम
द्वितीयोऽध्यायः ॥

N/A

References : N/A
Last Updated : January 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP