परमेश्वरसंहिता - दशमोऽध्यायः

परमेश्वरसंहिता


सनकः ---
पूर्वं तु भगवद्यागवेलायामुक्तमर्चनम्।
प्रासादावयवस्थानां लोकादीनां समासतः ॥१॥
तेषां स्वरूपं नामानि स्थानान्यपि विशेषतः।
विस्तराच्छ्रोतुयिच्छामि प्रबूहि वदतां वर! ॥२॥
शाण्डिल्यः ---
अनेकभेदभिन्नेषु प्रासादेषु महामते!।
विस्तरेण समस्तेषु वृतायतपुरस्सरम् ॥३॥
वक्ष्ये लोकाध्वतत्वानां देवतानां च संस्थितिम्।
सन्निरोघ्य च भूलोकं पादक्षितितलेऽखिलम् ॥४॥
एवं प्रासादपीठेषु भुवर्लोकं यथास्थितम्।
स्मरेज्जङ्‌घावधिर्यावत् स्वर्लोकं तत्तदूर्ध्वगम् ॥५॥
आरभ्य प्रस्तरोद्देशात् महच्छिखरभूमिगम्।
जनोलोकं च तद्वेद्यां तपःसंज्ञ तदण्डकम् ॥६॥
सत्यसंज्ञं च यल्लोकं तच्छिखायां तु संस्मरेत्।
भावयेच्च पुरा व्याप्तिमेवं वै साप्तलौकिकीम् ॥७॥
ततश्चाध्वमयीं व्याप्तिं भावयेत्तु यथाक्रमम्।
कुम्भाधारोपलान्तस्थमध्वषट्‌कं स्मरन् यजेत् ॥८॥
बीजभूतं तदन्तस्थामध्वव्याप्तिमनुस्मरेत्।
बीजतश्चाङ्कुरीभूता परस्ताद्व्यक्तिमेति सा ॥९॥
प्रासादपीठपर्यन्तं कुम्भाधारोपलात्तु वै।
भुवनाध्वा यथावस्थो भावनीयस्तु सर्वतः ॥१०॥
गर्भोच्छ्रायावधिर्यावत् पदाध्वानं विलोकयेत्।
मन्त्राध्वा शुकनासान्तं तत्त्वाद्व्य वेदिकावधि ॥११॥
कलाद्वा तु गलान्तं च वर्णाध्वा च तदूर्ध्वतः।
एवं कृत्वाध्वकीं व्याप्तिं ततस्तत्वानि विन्यसेत् ॥१२॥
संयोज्य पार्थिवं तत्वं पादक्षितितले द्विज!।
तोयतत्वं न्यसेत् पीठे जङ्‌घायां तैजसं स्मरेत् ॥१३॥
ग्रीवोद्देशावधिर्यावद्वायुतत्वं तदूर्ध्वतः।
आकाशं शिखरस्थं स्यात्तदुद्देशात् क्रमेण तु ॥१४॥
न्यसेच्छब्दादितन्मात्रं यावत् पादतलान्तिमम्।
पार्श्वतो नासिके श्रोत्रे त्वक् सुधा समुदाहृता ॥१५॥
गवाक्षे चक्षुषी स्यातां जिह्वा भद्राख्यवेदिका।
घ्राणस्तु शुकनासा स्यादास्यं द्वारमुदाहृतम् ॥१६॥
विज्ञेयाः पाणयः स्तम्भाः पादाः पादशिला घटाः।
पायुः स्याज्जलनिर्याणमुपस्थं तु तदन्तरम् ॥१७॥
मनोऽन्तर्व्योमविज्ञेयं गर्वो ब्रह्नशिलागतः।
बुद्धिस्तु पिण्डिका ज्ञेया प्रकृतिः स्यात्तदन्तरम् ॥१८॥
पञ्चविंशतमो ज्ञेयः प्रतिमा पुरुषः परः।
एवं न्यस्तेषु तत्वेषु न्यस्तव्या देवताः क्रमात् ॥१९॥
घटाधारोपलस्याधस्त्वनन्तो नाम नागराट्।
सहस्रसंख्यासंख्यातफणामण्डलमण्डितः ॥२०॥
तदूर्ध्वे संस्थितं चक्रं सहस्रारोपशोभितम्।
या शिला कलशाधारसंज्ञा तां विद्धि सर्वगा ॥२१॥
सामर्थ्यशक्तिः सामान्या निष्कला पारमेश्वरी।
तदूर्ध्वसंस्थिताः कुम्भा नव संख्यास्तु ये द्विज! ॥२२॥
तेषां विदिकस्थितानां च चतुर्णां मध्यतो न्यसेत्।
पझासनगतां लक्ष्मीं निधिभिः परिवारिताम् ॥२३॥
चतुर्णामपि चान्येषां रत्नराट् कौस्तुभाभिधः।
स्वमन्त्रेण स्वनाम्ना च निधिनाथैः समन्वितः ॥२४॥
भगवान् सर्वशक्त्यात्मा एकस्मिन् परिचिन्तयेत्।
षडक्षरेण मन्त्रेण निष्कलं शब्दविग्रहम् ॥२५॥
तत्र मध्यमकुम्भस्य पिधाने मध्यतो न्यसेत्।
शक्तिर्वै या परा देधी विश्वसन्धारणक्षमा ॥२६॥
प्रभा सर्वेश्वरी दिक्षु ज्ञानशक्तिः स्मृता च सा।
विदिग्व्यक्तिसमूहे च स्मरेदानन्दलक्षणा ॥२७॥
क्रियाख्या याऽऽच्युती शक्तिः शुद्धवर्गस्य जन्मदा।
पिधाननवके त्वस्मिन्नामद्यादीशगोचरम् ॥२८॥
स्मर्तव्याः सर्वतो व्याप्ताः क्रमेणैव महामते!।
ज्ञानभासा निवसती तथाऽनन्तबला प्रभा ॥२९॥
सर्वगा ब्रह्नवदना द्योतकी सत्यविक्रमा।
संपूर्णा चेति कथिताः शक्तयो विश्वधारिकाः ॥३०॥
शक्त्यष्टकं तु न्यस्तव्यं तद्बहिर्दिग्विदिक्षु च।
प्रागादीशानदिङ्‌निष्ठं क्रमेणैव शिलाष्टके ॥३१॥
बलवीर्यवती नित्या अनन्ताख्या स्थिरा ध्त्रुवा।
स्त्याख्या धृतिसंज्ञा च स्थितिर्नाम्ना द्विजाष्टमी ॥३२॥
शिलानामन्तरे भूमौ षट्‌कं क्रमेण तु।
न्यस्तव्यं पूर्ववर्णाच्च वर्णानां सावसानकम् ॥३३॥
क्षार्णेन चिन्तयेद्व्याप्तिं तद्वहिश्चाङ्गुलीयकम्।
ततो मसूरकाधारे धर्माद्यं यद्‌द्विरष्टकम् ॥३४॥
तदूर्ध्वं कोणदेशेषु यदा पझचतुष्टयम्।
कल्पितं तु तदा विप्र! कमलोपरि संस्थिताः ॥३५॥
मूर्तयो वासुदेवाद्याः पावकादीशपश्चिमम्।
अथोपानतलोद्देशे चक्रं कालानलप्रभम् ॥३६॥
अधिष्ठानप्रदेशे तु पझं धामत्रयाश्रितम्।
सर्वाभिः शक्तिभिर्युक्तस्तन्मद्ये चिन्मयः पुमान् ॥३७॥
पीठस्य दिक्‌चतुष्के तु पूर्वाद्युत्तरपश्चिमम्।
अनन्तविहगाम्भोजचक्राक्याः क्रमशः स्थिताः ॥३८॥
ततश्चरणपझे तु प्रागादौ दिक्‌चतुष्टये।
वासुदेवादयः स्थाप्याः पुरुषाद्यास्तु वा क्रमात् ॥३९॥
सर्वाधारमयं चक्रं शाखामूलं समाश्रितम्।
ज्ञानक्रियात्मके तत्वे शाखयोर्युगले स्थिते ॥४०॥
परभेश्वर आद्यस्तु द्वारस्योर्ध्व उदुम्बरे।
संस्थितः सर्वतो व्यापी तत्पृष्टे मध्यदेशतः ॥४१॥
चतुष्पात् सकलो धर्मः स्थितः सत्ववतां वरः।
यदा कवाटौ द्वारस्य कल्पितौ द्विजसत्तम! ॥४२॥
कालबैश्वानरो देवो ह्यपां पतिरुभाविमौ।
दक्षिणोत्तरयोगेन कवाटपरिसंस्थितौ ॥४३॥
कल्पितौ शुकनासौ वा यदा साङ्गौ महामते!।
इच्छाप्राणौ तयोः स्थाप्यावग्नीषोमौ गवाक्षयोः ॥४४॥
ततो जङ्‌घाद्विषट्‌के तु तथैवान्तरभूमिषु।
कालो वियन्नियन्ता च शास्त्रं नानाह्गलक्षणम् ॥४५॥
विद्याधिपतयश्चैव सरुद्रः सगणः शिवः।
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः ॥४६॥
मुनयः सप्तपूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः।
जीमूताश्चाखिला नागा अप्सरोण उत्तमः ॥४७॥
ओषध्यश्चैव पशवो यज्ञाः साङ्गाखिलास्तु ये।
विद्याश्चैवापरा विद्या पावकश्चैवमारुतः ॥४८॥
चन्द्रार्कौ वारिवसुधे इत्येते देवतागणाः।
चतुर्विंशतिसंख्याता घ्यातव्यास्तु यथाक्रमम् ॥४९॥
मूर्तयः केशवाद्यास्तु जङ्घाग्रपरिसंस्थिताः।
पार्श्वयोः शुकनासाया भित्तिमूलसमाश्रितम् ॥५०॥
गणेशं योगनिद्रां च न्यसेद्वा दक्षिणादितः।
तदूर्ध्वं प्रस्तरोद्देशकपोततलसंस्थितम् ॥५१॥
नासिकानवकं यच्च यास्तदन्तरभूमयः।
तस्मिंस्तासु च सर्वासु ह्येते स्थाप्याः क्रमेण तु ॥५२॥
चक्रशह्खौ गदापझे लाङ्गलं मुसलं शराः।
शार्ङ्गं च खङ्गखेटौ तु दण्डः परशुरीतिहा ॥५३॥
पाशाङ्‌कुशौ मुद्गरं च वज्रं शक्तिसमन्वितम्।
प्रासादे चतुरश्रे च चतुरश्रायतेऽपि च ॥५४॥
गरुडं प्रस्तरस्योर्ध्वे न्यसेत् कोणचतुष्टये।
तदूर्ध्वं वेदिकायां तु भावनीया महामते! ॥५५॥
एते पूर्वादियोगेन एकश्रृङ्गतनुस्ततः।
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ॥५६॥
नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः ॥५७॥
वेदविद्भगवान् कल्की पातालशयनः प्रबुः।
ततो ग्रीवातले घ्येयः कूर्मः पातालधारकः ॥५८॥
वराहो नारसिंहश्चाप्यमृताहरणस्तु वै।
श्रीपतिर्दिव्यदेहोऽथ कान्तात्माऽमृतधारकः ॥५९॥
राहुजित् कालनेमिघ्नः पारिजातहरो महान्।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ॥६०॥
न्यग्रोधशायी भगवानित्येते द्विजसत्तम!।
ततस्तु शिखरोद्देशं त्रिधाकृत्य यथासमम् ॥६१॥
यावत्तु कलशाधारवेदिका द्विजसत्तम!।
अधोभागे क्रमाद्‌घ्येयाः शिष्टा देवास्तु वैभवाः ॥६२॥
अनन्तो भगवान् देवः शक्त्यात्मा मधुसूदनः।
विद्याधिदेवः कपिलो विश्वरूपो विहङगमः ॥६३॥
क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा।
देव एकार्णवशय इति ये द्वादश स्मृताः ॥६४॥
ध्‌रुवस्तु सर्वतो व्यापी तदूर्ध्वपदसंस्थितः।
पझनाभस्तदूर्ध्वे तु व्यापकः परितिष्ठति ॥६५॥
शुकनासामुखे देवः पूजनीयः परः पुमान्।
भगवान् जगदाधारो जगदीशः सनातनः ॥६६॥
वासुदेवः परं ब्रह्न जगत्कारणमच्युतः।
लोकानध्वगणं नित्यं तत्वाद्यमपि देवताः ॥६७॥
प्रासादोपरि विन्यस्ताः समाक्रम्य च संस्थिताः।
यत्र प्रासाददेहे तु शुकनासा न कल्पिता ॥६८॥
तत्राग्रतो नासिकायां वासुदेवं तु संस्मरेत्।
नासिकात्रितये शिष्टे अच्युताद्यास्त्रयः स्थिताः ॥६९॥
अथवा पुरुषाद्यास्तु नराद्या वा द्विजोत्तम!।
वराहाद्यास्तु वा यद्वा धर्ममूर्त्यादयः क्रमात् ॥७०॥
यद्वा परशुरामाद्याः स्मर्तव्याः क्रमयोगतः।
एते तु शक्तिभिः सर्वे युक्ता वा केवलास्तु वा ॥७१॥
द्रुमैः पत्रलतायुक्तैर्भूषिते वेदिकातले।
विन्यसेत् षडरं चक्रं तेजोज्वालासहस्रधृक् ॥७२॥
ततः सामलसारेषु वासुदेवादिकान् स्मरेत्।
तदग्रदेशे चक्राणि घ्यातव्यानि यथाक्रमम् ॥७३॥
अमलं शान्तसंज्ञं तु तथा शान्तोदितोदितम्।
नराद्यं कृष्णपर्यन्तं शुकनासाघटे तु वै ॥७४॥
अन्तर्मण्डलकोणेषु वन्ह्यादीशानपश्चिमम्।
वराहरूपी भगवान् शेषमूर्तिधरः प्रभुः ॥७५॥
नृसिंहरूपी पुरुषस्तथा नारायणो विभुः।
प्रासादाङ्गेषु विप्रेन्द्र! क्रमान्निगदितेषु च ॥७६॥
देवताधारभूतेषु यद्यदङ्गं न कल्पितम्।
यत्र वा तत्तदधिकं यत्रापि च समाचरेत् ॥७७॥
तत्तत्स्थाने स्वबुध्द्या तु देवतान्यासमूहतः।
यद्वा ह्यनवक्लप्ताङ्गे देवतेष्टिं तु वर्जयेत् ॥७८॥
लोकाः सप्त तथाद्वानस्तत्वसङ्‌घाश्च देवताः।
ध्यातव्यास्तु निराकाराः साधकैर्द्विजसत्तम! ॥७९॥
विमानेऽपि तथा सिद्धविबुधैश्च प्रतिष्ठिते।
किन्तु तत्र विप्रानाङ्गमूर्तिनां लाञ्छनादिकम् ॥८०॥
तासां स्थानानि विप्रेन्द्र! कल्पितानि यथाविधि।
विमानावयवांश्चापि संपरीक्ष्यैव यत्नतः ॥८१॥
पूजयेत् सावधानेन चेतसा ध्यानपूर्वकम्।
लाञ्छनाद्येषु मूर्तीनां प्रासादावयवेष्वपि ॥८२॥
अनभिव्यक्तरूपेषु लक्षणादेः परीक्षणात्।
स्वप्नादेश्चापि विप्रेन्द्र! देशिकेन्द्रोपदेशतः ॥८३॥
यथावत् संपरीक्षेत् प्रयत्नेन द्विजोत्तम!।
लक्षणादिषु हीनेषु विपर्यस्तेष्वपि द्विज! ॥८४॥
न लक्षणादिकं कुर्यादन्यथा द्विजसत्तम!।
लक्षणं न परीक्षेत् ह्यन्यथाकरणेञ्छया ॥८५॥
अन्यथाकरणार्थं तु लक्षणाद्ये परीक्षिते।
क्षयत्यायुः कृते तस्मिन् लक्षणैर्नरकं व्रजेत् ॥८६॥
तस्मात् सर्वप्रयत्नेन स्वयंव्यक्तादिकेऽपि च।
विमाने संस्थितानां तु मूर्तीनां लक्षणादिकम् ॥८७॥
स्थानान्यपि च तासां वै विमानावयवानपि।
यथास्थितं परीक्ष्यैव कृत्वा मूर्तिविनिर्णयम् ॥८८॥
स्वेन स्वेन विशेषेण लाञ्छनाद्येन वै स्फुटम्।
स्वेन स्वेन तु मन्त्रेण पूजनं च समाचरेत् ॥८९॥
प्रासादेषु स्वयंव्यक्तं श्रेष्ठं सर्वेषु सत्तम!।
तद्रूपी भगवान् देवः स्वग्रमेवावतिष्ठते ॥९०॥
तत्र सन्निहितः साक्षाद्भगवान् भक्तवत्सलः।
जाते जीर्णादिदोषेऽपि न त्यजन्ति कदाचन ॥९१॥
स्वं स्वं प्रदेशमेतास्तु मन्त्राणां शक्तयः पराः।
प्रासादान्तः स्थिताश्चापि स्वयंव्यक्तपुरस्सराः ॥९२॥
आकारास्तु विभोः सम्यग्‌ज्ञेयाः पूर्वोक्तयोगतः।
नास्त्रैर्मन्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ॥९३॥
तेऽपि लाञ्छनबृन्दं तु धारयन्त्यङ्घ्रिगोचरे।
लालाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ॥९४॥
तनूरुहचये मूर्ध्नि, कर्मिणां प्रतिपत्तये।
तत्तल्लाञ्छनबृन्दं तु परीक्ष्यैवं विशेषतः ॥९५॥
तत्तदाकारनियतैर्वाचकैः संप्रपूजयेत्।
येषां लाञ्छनबृन्दं तु न व्यक्तं चरणादिषु ॥९६॥
तानर्चयेद् द्विषट्‌कार्णपुरोगाणां महामते!।
व्यापकानां तु मन्त्राणामेकेनाबिमतेन तु ॥९७॥
इति ज्ञात्वा यथावच्च यः पूजयति मन्त्रवित्।
स पूजाफलमाप्नोति ह्यन्यथा विपरीतभाक् ॥९८॥
एतान्युक्तानि सर्वाणि लोकादीनि क्रमेण तु।
समाराधनकालेषु देवस्यामिततेजसः ॥९९॥
द्वार्स्थदेवार्चनं कृत्वा पूजयेत्तदनन्तरम्।
नमस्कारपदान्तेन स्वानाम्ना प्रणवादिना ॥१००॥
अर्घ्यालभनमाल्यैश्च धूपेन द्विजसत्तम!।
अग्रतो देवदेवस्य द्वारदेशस्य बाह्यतः ॥१०१॥
अन्तर्मण्डलदेशे तु गत्वा वा पूजयेत् क्रमात्।
एवं प्रासादभेदे तु यस्मिन् साधकसत्तमैः ॥१०२॥
एककालं द्विकालं वा त्रिकालं वार्चनं द्विज!।
नित्यशः क्रियते तत्र सदा संन्निहितो विभुः ॥१०३॥
अत एव द्विजश्रेष्ठ! तदर्चनपुरस्सरम्।
कुर्यादाराधन विष्णोः साधकः सिद्धिलालसः ॥१०४॥
य एवं कुरुते भक्त्या ह्ननन्यपरया सदा।
सोऽचिराल्लभते कामानिह लोके परत्र च ॥१०५॥
मोक्षार्थी कुरुते यस्तु स याति परमं पदम्।
सनकः ---
प्रासादानां स्वयंव्यक्तपूर्वाणां तु विशेषतः ॥१०६॥
प्रासादं तु स्वयंव्यक्तमत्यर्थं त्वं प्रशंससि।
कीदृशं तत्स्वरूपं स्यादन्येषां वापि कीदृशम् ॥१०७॥
कीदृशी च महत्तास्य ज्ञातुमिच्छामि सांप्रतम्।
शाण्डिल्यः ---
यदिदं दृश्यते विष्णोर्मायया निर्मितं जगत् ॥१०८॥
कालादिबहुभिर्भेदैर्भिन्नं नानास्वरूपकैः।
तदीये प्रभवो ह्यह्नि प्रलयश्च निशागमे ॥१०९॥
दिव्यं युगसहस्रं हि तदीयं विद्धि वासरम्।
रात्रिश्च तावती ज्ञेया एवं रात्रिक्षये सति ॥११०॥
प्रवर्तमाने त्वहनि काले सन्ध्याख्यलक्षणे।
स्वकारणमनुज्झित्य कार्यार्थं मुनिपुङ्गव! ॥१११॥
ज्ञानयोगप्रभावेन अमेयमहिमावृतम्।
प्रेरितं नाभिरन्ध्रेण तेन हार्दं कुशेशयम् ॥११२॥
विज्ञप्तिमात्ररूपं तु स्वस्यान्तःकरणे स्थितम्।
सहस्रार्कप्रतीकाशं सहस्रशशिकेसरम् ॥११३॥
सहस्रवह्निगर्भं च हेमनालं महाप्रभम्।
तन्मध्ये मानसो ब्रह्या तेन सृष्टश्चतुर्मुखः ॥११४॥
जगद्विभवकृद्विप्र! विद्यादेहः सनातनः।
सर्वसंस्कारसंपूर्णो वेदवेदाङ्गपारगः ॥११५॥
अणिमाद्यष्टकोपेतः सिसृक्षाशक्तिभिर्युतः।
न तस्य विदितश्चासौ यदा यातः सगर्वताम् ॥११६॥
अस्मीति प्रत्ययं लब्ध्वा रजसा कलुषीकृतः।
तस्मिंश्चान्तर्हिते तस्य पौष्करस्य मतिस्तदा ॥११७॥
विपर्यस्ता ततः सृष्टौ प्रवृत्तिर्नाभवदद्विज!।
कार्याकार्यविशेषज्ञो नाभूदुद्विग्नचेतनः ॥११८॥
ततः प्रसन्नचेतास्तु तपस्तेपे सुदुश्चरम्।
अचिरात् पुण्डरीकाक्षं द्रष्टुकामः प्रजापतिः ॥११९॥
ततस्तु तप्यमानस्य ब्रह्नणो द्विजसत्तम!।
हरेः स्तोत्रार्थमुद्‌भूता बुद्धिर्बुद्धिमतांवर! ॥१२०॥
ततो जगौ परं जप्यं साञ्जलिप्रग्रहो विभुः।
ब्रह्ना ---
"नमस्ते ब्रह्नहृदय! नमस्ते ब्रह्नपूर्वज! ॥१२१॥
योगार्धनयनश्रेष्ठ! सांख्ययोगनिधे! विभो!।
व्यक्ताव्यक्तकराचिन्त्य! क्षेमं पन्थानमास्थित! ॥१२२॥
विश्वभुक्! सर्वभूतानामन्तरात्मन्नयोनिज!।
अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयम्भुवे ॥१२३॥
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्।
चाक्षुषं यद्‌द्वितीयं मे जन्मेहासीत् पुरातनम् ॥१२४॥
त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत्।
तत्वतः श्रावणं चापि चतुर्थं जन्म मे विभो! ॥१२५॥
नासिक्यं वापि मे जन्म त्वत्तः पञ्चममुच्यते।
अण्डजं चापि मेजन्म त्वत्तः षष्ठं विनिर्मितम् ॥१२६॥
इदं च सप्तमं जन्म पझजं त्वमितप्रभ!।
सर्गे सर्गे ह्यहं पुत्रस्तृतीयगुणवर्जित! ॥१२७॥
प्रथमः पुण्डरीकाक्षः प्रधानगुणकल्पितः।
त्वमीश्वर! प्रभावश्च भूतानां च प्रभावनः ॥१२८॥
त्वं पञ्चकालकर्तॄणां गतिस्त्वं पाञ्चरात्रिक!।
त्वया हि निर्मितोऽहं वै वेदचक्षुर्वचोऽतिग! ॥१२९॥
स्रष्टुं जगदिदं सर्वं चेतनाचेतनात्मककम्।
का शक्तिर्मम देवेश! जगत् स्रष्टं जगत्प्रभो!" ॥१३०॥
एवं स्तुतः स भगवान् पुरुषः सर्वतोमुखः।
स्वरूपं दर्शयामास तस्मै दिव्यमनुत्तमम् ॥१३१॥
तं दृष्ट्वा महता युक्तो हर्षेण कमलासनः।
आनन्दाश्रुसमाविष्टः प्रणम्य प्राञ्जलिः स्थितः ॥१३२॥
ततस्तु पुण्डरीकाक्षस्तमुवाच जगत्पतिः।
"सृज प्रजाः पुत्र! सर्वा मुखतः पादतस्तथा ॥१३३॥
क्षेयस्तव विधास्यामि बलं तेजश्च सुव्रत!।
वेदं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ॥१३४॥
तेन सर्वं कृतयुगं स्थापयस्व यथाविधि।
प्रजानामपि सर्वासां संवृत्ते सर्गकर्मणि ॥१३५॥
दिव्यस्य महतो धाम्नः साक्षाद्व्यक्तस्य चान्तरे।
स्वयंव्यक्तेन दिव्येन ह्याकारेणामलेन च ॥१३६॥
अनन्तभोगिशयने शयानः पङ्कजेक्षणः।
प्रकाशयिष्यति पुरो वासुदेवः परात्परः ॥१३७॥
तमाराधय देवेशं विमानाभ्यन्तरस्थितम्।
सर्वेषामपि लोकानां सृष्टिस्थित्यन्तकारणम् ॥१३८॥
वासुदेवं तुपरमं पुमांसं भक्तवत्सलम्।
द्वादशाक्षरमन्त्रेण भोगैः सांस्पर्शिकादिकैः ॥१३९॥
हृदयङ्गमसंज्ञैश्च विविधैरोपचारिकैः।
स्वाधिकारप्रवृत्यर्थं लोकानां हितकाम्यया ॥१४०॥
महोपनिषदाख्येन शास्त्रेणोक्तप्रकारतः।
यत्पौष्कराक्यया लोके प्रथिमानं प्रयास्यति ॥१४१॥
पौष्करस्य तवोक्तत्वात् प्रथित तु तथा भवेत्।
महाविभूतिरिति च तद्वक्ष्याम्यपरे युगे" ॥१४२॥
अस्मिन्नादौ कृतयुगे समतीते तु मानुषे।
ततो ब्रह्ना नमस्चक्रे देवाय हरिमेधसे ॥१४३॥
व्रह्ना चाग्र्यं स जग्राह सनिषत्संहितान्वितम्।
कर्मारम्भादिभिर्मन्त्रैर्द्विषट्‌कार्णसमन्वितैः ॥१४४॥
दिव्यैः समन्वितं विप्र! द्वादशाध्यात्मसंयुत्म्।
अनिच्छातोऽधिकारीणां तत्प्राप्त्येकफलप्रदम् ॥१४५ ।
चातुरात्म्यैकनिष्ठं च वासुदेवमुख्रोद्गतम्"।
एवं स भगवान् देव आद्यं वेदं सनातनम् ॥१४६॥
उपदिश्य ततो विप्र! ब्रह्नणेऽमिततेजसे।
दत्वा श्रेयो बलं तेजः सृष्टिकर्मप्रवर्तकम् ॥१४७॥
जगाम तमसःपारं यत्राव्यक्तं व्यवस्थितम्।
ततोऽथ वरदो देवो ब्रह्ना लोकपितामहः ॥१४८॥
असृजत् स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान्।
एवं सृष्ट्वा जगत् सर्वं भूयश्च कमलासनः ॥१४९॥
कदा द्रक्ष्याम्यहं देवं लोकानां हितकारिणम्।
वा सुदेवं विमानान्तःशयानं पीतवाससम् ॥१५०॥
इति चिन्तासमाविष्टस्तपस्तेपे सुदुश्चरम्।
प्रादुरासीत् ततो दिव्यं विमानं परमाद्‌भुतम् ॥१५१॥
प्रकाशयद्दिशः सर्वाः प्रकाशेनामलेन च।
उपानजगतीयुक्तं पीठाङ्घ्रिप्रस्तरादिकैः ॥१५२॥
ग्रीवाशिखरतत्संस्थवेदीघटशिखान्तिमैः।
दिव्यैरवयवैर्युक्तं दिव्यालङ्कारशोभितम् ॥१५३॥
वृत्तायतं तु परितः शुकनासापरिष्कृतम्।
तं दृष्ट्वा महदार्श्चयमानन्दाश्रुपरिप्लुतः ॥१५४॥
पुलकाचितसर्वाङ्गः प्रीतिविस्फारितेक्षणः।
ससम्भ्रमं समुत्थाय प्रणम्य प्राञ्जलिः स्थितः ॥१५५॥
पीठाद्येषु शिखान्तेषु विमानावयवेषु च।
भूराद्यं सत्यपर्यन्तं लोकानां सप्तकं क्रमात् ॥१५६॥
अध्वनां भुवनाध्वादिषट्‌कं वर्णाध्वपश्चिमम्।
धरादिपुरुषान्तं च तत्वबृन्दं द्विजोत्तम! ॥१५७॥
सत्तास्वरूपमास्थाय संस्थितं सन्ददर्श ह।
ततस्तु देवताबृन्दं क्रमेण समलोकयत् ॥१५८॥
पीठस्याधारभागे तु ह्यनन्तो नाम नागराट्‌।
चक्रं सामर्थ्यशक्त्यादिशक्तिसङ्‌घं तथैव च ॥१५९॥
ज्ञानभासादिकानां तु शक्तीनामष्टकं तथा।
बलवीर्यवती पूर्वमष्टकं स्थितिपश्चिमम् ॥१६०॥
अकारादि क्षकारान्त वर्णचक्रं द्विजोत्तम!।
ततः पीठप्रदेशाच्च धर्माद्यं च द्विरष्टकम् ॥१६१॥
चक्रं कालानलज्योतिः पझं धामत्रयाश्रितम्।
चिन्मयः पुरुषो मध्ये सर्वाभिः शक्तिभिर्युतः ॥१६२॥
दिक्‌चतुष्के ह्यनन्ताद्यं ततश्चरणवर्गके।
वासुदेवादिकं दिक्षु शाखामूले सुदर्शनम् ॥१६३॥
ज्ञानक्रियात्मके तत्वे शाखयोः परमेश्वरम्।
आद्यं तूदुम्बरे ह्यूर्ध्वे तत्पृष्ठे धर्म एव च ॥१६४॥
कवाटयोस्तु कालाग्निं वरुणं तु ततो द्विज!।
स्तम्भयोः शुकनासाया इच्छाप्राणौ गवाक्षयोः ॥१६५॥
अग्नीषोमौ ततो जङ्घा द्विषट्‌केऽन्तरभूमिषु।
कालादिवसुधान्तं च जङ्‌घाग्रे केशवादिकम् ॥१६६॥
नासिकानां तु नवके कपोतस्थेऽन्तरेऽपि च।
चक्राद्यायुधसंघातं सत्तारूपेण संस्थितम् ॥१६७॥
शुकनासामुखे देवं वासुदेवं जगत्पतिम्।
नासिकात्रितये शिष्टे ह्यच्युताद्यं क्रमात् स्थितम् ॥१६८॥
सशक्तिकं तु पत्राद्यैर्भूषिते वेदिकातले।
सुदर्शनं तु षडरं घटानां तु चतुष्टये ॥१६९॥
वासुदेवादिकान् विप्र! रथाङ्गानां तदग्रतः।
अमलाद्यं चतुष्कं तु क्रमेणोदितपश्चिमम् ॥१७०॥
अध्यक्षाद्यादिमूर्त्यन्तं शुकनासाघटेषु वै ।
सर्वलोकमयं विप्र! सकलाध्वमयं तथा ॥१७१॥
सर्वतत्वमयं चैव सर्वदेवमयं तथा।
इति क्रमेण सन्दृश्य विमानं हृष्टचेतनः ॥१७२॥
ततः प्रदक्षिणीकृत्य चतुर्धा प्रणिपत्य च।
सर्वाङ्गैर्दण्डबद्‌भूमौ भक्त्या तु पुरुषोत्तमम् ॥१७३॥
ततः कृतार्थमात्मानं मन्यमानः प्रविश्य च।
अभ्यन्तरं विमानस्य गर्भभूमौ तु मध्यतः ॥१७४॥
आत्मप्रमाणरचिते मृदुस्पर्शे मनोहरे।
शुद्धस्फटिकसंकाशे दीप्यमानेऽतिभास्वरे ॥१७५॥
फणामण्डलमध्यस्थैर्मणिभिर्दीपिते तथा।
अनन्तभोगशयने शयानं पीतवाससम् ॥१७६॥
निष्केवलेन सत्वेन संपन्नं रुचिरप्रभम्।
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ॥१७७॥
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम्।
प्रयत्नेन विनाऽज्ञाननाशकृद्‌ध्यायिनां महत् ॥१७८॥
स्रग्वस्त्राभरणैर्युक्तं स्वानुरूपैरनूपमैः।
चिन्मयैः स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैः ॥१७९॥
दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्‌मुखम्।
रेखोत्थितैश्च कल्हारैः पादपझतलेऽङ्कितम् ॥१८०॥
निमग्नजनसन्तापशमनव्यापृताननम्।
करुणापूर्णहृदयं जगदुद्धरणोद्यतम् ॥१८१॥
स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम्।
घनकुञ्चितनीलालि गलिताञ्जनसन्निभैः ॥१८२॥
कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः।
किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः ॥१८३॥
ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनम्।
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारणम् ॥१८४॥
सुभ्‌रूललाटं सुनसं सुस्मिताधरविद्रुमम्।
सौन्दर्यचन्द्रसंकाशविलसद्गण्डमण्डलम् ॥१८५॥
पूर्वकर्मानलार्तानां ध्यायिनां खेदशान्तये।
स्वदन्तेन्दुचयोत्थेन ह्‌लादयन् गोगणेन तु ॥१८६॥
मुखसौन्दर्यनिष्यन्दचिबुकस्थलशोभितम्।
सविलासस्मिताधारं बिब्राणं मुखपङ्कजम् ॥१८७॥
कम्बुग्रीवं महाबाहुं श्रीवत्साङ्कितवक्षसम्।
सिंहस्कन्धं विशालाक्षं दीर्घबाहुं महोरसम् ॥१८८॥
शङ्खचक्राङ्कितारक्तकरद्वयविभूषितम्।
दक्षिणं भोगिभोगाभमुपधाय महाभुजम् ॥१८९॥
प्रसारितोतरकरं कटिदेशस्य पार्श्वतः।
कौस्तुभेनाङ्कितोरस्कं लक्ष्मीभूषितवक्षसम् ॥१९०॥
आब्रह्नस्तम्बपर्यन्तजगद्वासतनूदरम्।
ईषत्कुञ्चितवामाङ्‌घ्रिपङ्कजं पङ्कजेक्षणम् ॥१९१॥
प्रसार्य दक्षिणं पादमीषदुत्तानशायिनम्।
अनेकरत्नखचितकिरीटमकुटोज्ज्वलम् ॥१९२॥
उद्यदादित्यसंकाशैर्विचित्रैर्मणिसंचयैः।
विराजमानया सम्यक् स्फुरच्चूलिकयोज्ज्वलम् ॥१९३॥
रत्नावतंसप्रभया दीप्तश्रवणशेखरम्।
ललाटान्तसमालम्बि बालालङ्कारभूषितम् ॥१९४॥
ललाटतिलकेनैव सुन्दरेण विराजितम्।
अनेकरविसङ्काशलसन्मकरकुण्डलम् ॥१९५॥
प्रभूतमणिमुक्ताढ्चग्रैवेयकविराजितम्।
वज्रवैडूर्यमाणिक्यपझरागादिशोभितैः ॥१९६॥
हारैरनेकैर्विविधैरुपशोभितवक्षसम्।
उद्यदादित्यसंकाशकौस्तुभेन विराजितम् ॥१९७॥
भ्राजयन्त्या जगत् सर्वं स्वतेजोभिर्निरन्तरम्।
मालया वैजयन्त्या च भ्राजमानमहोरसम् ॥१९८॥
नानारत्नविचित्नेण मुक्तादामविलम्बिना।
स्फुरता ब्रह्नसूत्रेण काञ्चनेन सुशोभितम् ॥१९९॥
द्युतिमद्भिर्महारत्नै राचितेन सुवर्चसा।
काञ्चनेनाथसूत्रेण उदरे कृतबन्धनम् ॥२००॥
नानामाणिक्यविलसत्कटिसूत्रेण शोभितम्।
अनेकरत्नसन्दर्भरशनादाममण्डितम् ॥२०१॥
अनेककोटिमार्ताण्डविलसत्पीतवाससम्।
अनेकरत्नसंभिन्ननू पुरादि विभूषितम् ॥२०२॥
एवमन्यैश्च विविधैः केयूरकटकादिकैः।
यथार्हैर्भूषणै रम्यैर्ज्वलद्भिः परिभूषितम् ॥२०३॥
प्रावृड्‌जलदसंकाशं भिन्नाञ्जनचयप्रभम्।
अभिन्नपूर्णषाड्‌गुण्यविभवेनोपबृंहितम् ॥२०४॥
योगिध्येयमजं नित्यं जगञ्जन्मादिकारणम्।
अनादिनिधनं देवं साक्षाल्लक्ष्मीपतिं प्रभुम् ॥२०५॥
अप्राकृततनुं शान्तं वासुदेवं परात् परम्।
जनलोकगतैःसिद्धैः सनकाद्यैरभिष्टुतम् ॥२०६॥
नेत्राभ्यामनिमेषाभ्यां तृषिताभ्यां पिबन्निव।
उदैक्षत प्रहृष्टात्मा प्रणिपत्य मुहुर्मुहुः ॥२०७॥
स्तुत्वा च विविधैस्स्तोत्रैर्हर्षगद्गदया गिरा।
तदादाय महद्दिव्यं विमानं शिरसा ततः ॥२०८॥
जगाम भवनं विप्र! स्वकीयं कमलासनः।
तत्र संपूजयामास द्विषट्‌कब्रह्मविद्यया ॥२०९॥
महता विभवेनैव ब्रह्मा लोकपितामहः।
अत्रान्तरे तु विप्रेन्द्र! पौष्करस्य महात्मनः ॥२१०॥
जिज्ञासायां तु जातायां शास्त्रे पौष्करसंज्ञके।
प्रादुर्भूतस्तदा विप्र! वासुदेवो जगत्पतिः ॥२११॥
महोपनिषदं शास्त्रं ग्राहयामास पद्मजम्।
योमूलवेदो विख्यातस्तादृक् तस्मात् परिस्रुतम् ॥२१२॥
सिद्धिमोक्षप्रदं विप्र! सर्वशास्त्रार्थगर्भितम्।
नानाव्यूहसमोपेतं मूर्त्यन्तरसमन्वितम् ॥२१३॥
नानाविभवसंयुक्तं प्रादुर्भावान्तरान्वितम्।
लक्ष्म्यादिशङ्खचक्राख्यगारुत्म सदिगीश्वरैः ॥२१४॥
सगणैरस्त्रनिष्ठैस्तु संपूर्णं द्विजसत्तम!।
बीजैः पिण्डात्मकैश्चैव पदैःसंज्ञामयैर्द्विज! ॥२१५॥
मन्त्रव्यूहैस्तु विविधैर्ध्यानैश्च विविधैर्युतम्।
तत्वसंख्यासमाख्यातैर्मण्डलैर्भद्रकादिभिः ॥२१६॥
तथा चतुर्दशव्यूहैरजेककजगर्भितैः।
षड्विंशैररकैर्युक्तैश्चक्राब्जैर्नवभिस्तथा ॥२१७॥
द्य्वरकादिसहस्रारपर्यन्तैश्च सकारणैः।
तथाष्टादशभिर्विप्र! मिश्रचक्राभिधानकैः ॥२१८॥
आवार्यावरकेणैव रूपेण परिसंस्थितैः।
महाख्यनवनाभेन बिम्बभेदस्थितेन च ॥२१९॥
घण्टास्रुक्स्रुवपूर्वैस्तु क्रियाङ्गैर्विविधैरपि।
नानालक्षणसंयुक्तैः कुण्डैश्च परिभूषितम् ॥२२०॥
वत्सरोत्सवपर्यन्तैः स्थापनाद्यैश्च कर्मभिः।
नित्यैर्नैमित्तिकैःकाम्यैः परिपूर्णं द्विजोत्तम! ॥२२१॥
स्वयंव्यक्तादिभेदोत्थैः प्रासादैश्च समन्वितम्।
तस्याधिकारवृत्त्यर्थं लोकानां हितकाम्यया ॥२२२॥
ततस्तदुक्तमार्गेण विविधैर्भोगसञ्चयैः।
नित्यैर्नैमित्तिकैः काम्यैर्विविधैश्च महोत्सवैः ॥२२३॥
तत्र प्रतिदिनं कुर्वन् पूजां लोकपितामहः।
व्यापारान् जगतां चक्रे विविधान् लोकपूजितः ॥२२४॥
ततो मन्वन्तरे विप्र! प्राप्ते वैवस्वताभिधे।
इक्ष्वाकुर्नामनृपतिः सूर्यवंशसमुद्भवः ॥२२५॥
महात्मा सततं योगी सर्वभूतहिते रतः।
द्रष्टुकामः प्रसन्नात्मा वासुदेवं जगत्पतिम् ॥२२६॥
तापसं वेषमास्थाय तपश्चर्तुं गतो वनम्।
प्रविश्य तु तपस्तेपे शाकमूलफलाशनः ॥२२७॥
ग्रीष्मे पञ्चाग्निमध्यस्थो नयन् कालं महातपाः।
वार्षिके तु निरालम्बो हैमन्ते तु सरोजले ॥२२८॥
इन्द्रियाणि समस्तानि नियम्य हृदये पुनः।
मनो विण्णौ समाविश्य मन्त्रं वै द्वादशाक्षरम् ॥२२९॥
जपतो वायुभक्षस्य तस्य राज्ञो महात्मनः।
आविर्बभूव भगवान् ब्रह्या लोकपितामहः ॥२३०॥
तमागतमथालोक्य पझयोनिं चतुर्मुखम्।
प्रणम्य भक्तिभावेन स्तुत्या च परितोषयन् ॥२३१॥
"नमो हिरण्यगर्भाय, जगत्स्रष्ट्रे महात्मने।
वेदशास्त्रार्थविदुषे, चतुर्वक्त्राय ते नमः" ॥२३२॥
इति स्तुतो जगत्स्रष्ट्रा ब्रह्ना प्राह नृपोत्तमम्।
तपस्यभिरतं शान्तं त्यक्तराज्यमहासुखम् ॥२३३॥
"लोकप्रकाशको राजन् सूर्यस्तव पितामहः।
वसूनामपि सर्वेषां सदा मान्यो मनुः पिता ॥२३४॥
कृतवन्तौ तपः पूर्वं तीव्रं पितृपितामहौ।
तावतीत्य तपस्तेऽद्य वर्तते निस्पृहस्य वै ॥२३५॥
किमर्थं राज्यभोगं तु त्यक्त्वा सर्वं नृपोत्तम!।
तपः करोषि घोरं त्वमाचक्ष्व च महामते!" ॥२३६॥
इत्युक्तो ब्रह्नणा राजा तं प्रणम्याब्रवीद्वचः।
"द्रष्टुमिच्छंस्तपश्चर्याबलेन मधुसूदनम् ॥२३७॥
करोम्यत्र तपो ब्रह्नन्! शङ्खचक्रगदाधरम्"।
इत्युक्तः प्राह राजानं पझजन्मा हसन्निव ॥२३८॥
"न शक्यस्तपसा राजन् द्रष्टुं नारायणो विभुः।
मादृशैश्च न दृश्योऽजः केशवः क्लेशनाशनः ॥२३९॥
त्वादृशैः किं पुनस्त्वीशो माधवस्त्विति भावय।
पुरातनीं पुण्यकथां कथयामि निबोध मे ॥२४०॥
अहं पुरा महाराज! वासुदेवं सनातनम्।
द्रष्टुकामः प्रजासर्गे तपश्चर्यां सुदारुणाम् ॥२४१॥
अकार्षं तपसश्चान्ते भगवान् भक्तवत्सलः।
प्रसन्नः प्रादुरासीन्मे पश्यतः पझलोचनः ॥२४२॥
प्रणम्य पुण्डरीकाक्षमस्तौषं विविधैः स्तवैः।
तत्र श्रेयो बलं तेजो दत्वा स्रष्टुं जगद्विभुः ॥२४३॥
अथोपदिष्टवान् मह्यमाद्यं वेदं सनातनम्।
सदागमाख्यं मूलं तु परब्रह्नप्रकाशकम् ॥२४४॥
दिव्यं सिद्धिप्रदं चैव शान्तिकृद्विश्वकर्मिणाम्।
सर्गस्योत्तरकाले तु विमाने दिव्यलक्षणे ॥२४५॥
अनन्तभोगशयने शयानः पद्मलोचनः।
प्रादुर्भविष्यति पुरस्तं पूजय विशेषतः ॥२४६॥
द्वादशार्णेन मन्त्रेण पौष्करेणोक्तमार्गतः।
वक्ष्यमाणेन विधिना यथावत् कमलोद्भव! ॥२४७॥
इत्युक्त्वान्तर्दधे देवः परमात्मा जगत्प्रभुः।
प्रादुरासीत्ततो दिव्यं विमानं परमाद्‌भुतम् ॥२४८॥
शास्त्रं चापि मया लब्धं महोपनिषदाख्यकम्।
तत्रस्थं देवदेवेशं वासुदेवं जगत्पतिम् ॥२४९॥
पूजयामि विधानेन तदुक्तेन नृपोत्तम!।
तदहं ते प्रयच्छामि केशवानन्दमन्दिरम् ॥२५०॥
विसृज्येदं तपो घोरं पुरं व्रज निजं नृप!।
प्रजानां पालनं धर्मस्तपश्चेव महीभृतः ॥२५१॥
विमानं प्रेषयिष्यामि दिवः सिद्धं नृपोत्तम!।
संयुक्तं पञ्चकालज्ञैः सद्ब्रह्ननिरतैर्द्विजैः ॥२५२॥
तत्राराधय देवेशं बाह्यान्तरखिलैः शुभैः।
वासुदेवमनन्ताहौ शयानं पुरुषोत्तमम् ॥२५३॥
द्विषट्‌कार्णेन मन्त्रेण पौष्करोक्तविधानतः।
क्रतुभिर्विविधैश्चैव यजन् देवं नृपोत्तम! ॥२५४॥
निष्कामो नृपशार्दूल! प्रजा धर्मेण पालय।
प्रसादाद्वासुदेवस्य मुक्तिस्ते भविता नृप!" ॥२५५॥
इत्युक्त्वा पौष्करं शास्त्रमुपदिश्य यथाक्रमम्।
तस्मै तु भूमिपालाय विधातान्तरभूत् पुनः ॥२५६॥
इक्ष्वाकुश्चिन्तयन्नास्ते पझयोनेर्वचो द्विज!।
आविर्बभूव पुरतो विमानं तन्महीभृतः ॥२५७॥
ब्रह्नदत्तं द्विजयुतं माधवानन्तयोः शुभम्।
तं दृष्ट्वा परया भक्त्या नत्वा च पुरुषोत्तमम् ॥२५८॥
ऋषीन् प्रणम्य वृद्धांश्च तदादाय ययौ पुरम्।
पौरैर्जनैश्च नारीभिर्दृष्टं शोभासमन्वितैः ॥२५९॥
लाजानि विक्षिपद्भिश्च ततो राजा स्क्कं गृहम्।
स्वमन्दिरे विशाले तु विमानं वैष्णवं शुभम् ॥२६०॥
संस्थाप्याराधयामास भावितात्मा नृपोत्तमः।
पौष्करोक्तविधानेन तैर्द्विजैरर्चितं हरिम् ॥२६१॥
मानुष्यः शोभनाङ्ग्यस्तु घृष्ट्वा तु हरिचन्दनम्।
मालाः कृत्वा सुगन्धाढ्याः प्रीतिं तस्य वितेनिरे ॥२६२॥
पौराः कर्पूरश्रीखण्डकुङ्कुमाद्यं ददुस्तथा।
पुष्पाणि विष्णुयोग्यानि ददुरानीय भूपतेः ॥२६३॥
तत्तत्कर्मार्थबिम्बानि प्रतिष्ठाप्य यथाविधि।
स्वे स्वे यथोदिते स्थाने सन्निवेश्य सुविस्तृतम् ॥२६४॥
ततोऽष्टाष्टकसंख्यैस्तु भोगैः सर्वैरकृत्रिमैः।
प्रधानैः साङ्गभोगैस्तु विविधैरौपचारिकैः ॥२६५॥
सांस्पर्शिकैस्तथा विप्र! हृदयङ्गमसंज्ञितैः।
अर्चयित्वा जगन्नाथं वासुदेवं परात्‌परम् ॥२६६॥
त्रिसन्ध्यं परया भक्त्या जप्यैः स्तोत्रैश्च वैष्णवैः।
कारयामास देवस्य सुचिरं वत्सरोत्सवम् ॥२६७॥
तथा च वत्सरीयाणि नानानैमित्तिकान्यपि।
प्रितष्ठां तत्प्रकारं च स्थानभेदं तथैव च ॥२६८॥
उत्सवादिप्रकारं च वक्ष्याम्युपरि विस्तृतम्।
भोगैश्च तोषयित्वा तं सर्वदेवमय हरिम् ॥२६९॥
निष्कामो दानधर्मैश्च परं ज्ञानमवाप्तवान्।
यजन् यज्ञान् महीं रक्षन् स कुर्वन् केशवार्चनम् ॥२७०॥
उत्पाद्य पुत्रान् पित्रर्थं चिरात् त्यक्त्वा कलेबरम्।
ध्यायन्निष्कल्मषं देवं प्राप्तवान् वैष्णवं पदम् ॥२७१॥
ततश्चैतत् क्रमाल्लेभे देवः सर्वेश्वरः स्वयम्।
रामो राजीवनयनो भ्रातृभेदैस्त्रिभिः सह ॥२७२॥
निहन्ता राक्षसानां यो मनुष्योऽहमिति स्मरन्।
दशेन्द्रियाननं घोरं यो मनोरजनीचरम् ॥२७३॥
विवेकशरजालेन शमं नयति देहिनाम्।
कृतकृत्यस्तु यो वेत्ति स्वभावं दिव्यमुत्तमम् ॥२७४॥
ददौ विभीषणायासौ प्रियाय प्रियकारिणे।
शास्त्रोपदेशपूर्वं तु विमानं दिव्यलक्षणम् ॥२७५॥
सोऽपि तच्छिरसा गृह्य ययौ देशं स्वकं प्रति।
रवौ मध्यन्दिने प्राप्ते कवेरतनया तटे ॥२७६॥
चन्द्रपुष्करिणीमध्येऽनन्तपीठेऽवतारयत्।
दक्षाध्वरे च रुद्रेण परिभूतो निशाकरः ॥२७७॥
मूर्ध्नि तस्य कृतावासो यत्र तप्त्वा महत्तपः।
यस्मिंस्तु पुण्डरीकाक्षो देवो वामनरूपधृक् ॥२७८॥
प्राप्तवान्नयसंस्कारं यत्र तु स्वयमेव हि।
विमानप्रवरं दिव्यं श्रीरह्गमिति शब्दितम् ॥२७९॥
प्रतिष्ठास्यति चात्रेति विनिश्चित्य जगत्पतिः।
गणेशं योगनिद्रां च रक्षाहेतोः समादिशत् ॥२८०॥
तत्रावतार्य तन्मध्ये विमानं तद्विभीषणः।
तत- संपूजयामास तैर्द्विजैरर्चितं हरिम् ॥२८१॥
रमणीयैस्तु विविधैर्भोगैः सांस्पर्शिकादिकैः।
तदुद्धर्तुमसौ यत्नमकरोद्बलवानपि ॥२८२॥
न शशाक मनागस्मादेतच्चलयितुं तदा।
अथापतद्धरण्यां वै विलपन् स च दुःखितः ॥२८३॥
आर्तं विभीषणं दृष्ट्वा विलपन्तमनाथवत्।
उवाच भगवान् रङ्गी स्वरेण महता तदा ॥२८४॥
श्रीभगवानुवाच ---
"आर्य! धर्मज्ञ! देशोऽयं रमणीयो हि मे मतः।
अस्मिन्नेव शयानोऽहं रंस्ये त्वामभिवीक्ष्य च ॥२८५॥
एतैरेकान्तिभिः सार्धं मदाराधनतत्परैः।
विभीषणानुजानीहि कुरुष्व च मम प्रियम् ॥२८६॥
एतानाराधकान् विप्रान् पञ्चकालपरायणान्।
क्षेत्रारामगृहाद्यैस्तु सुसमृद्धान् कुरुष्व च ॥२८७॥
मा भूस्त्वं दुर्मना याहि क्षिप्रं लङ्कां निशाचर!।
तत्र त्वं सुसमृद्धार्थः श्रियं भुङ्‌क्ष्वानपायिनीम्" ॥२८८॥
इत्युक्तः सुसमृद्धार्थान् क्षेत्रारामगृहादिभिः।
कृत्वा चैकायनांस्तांस्तु पञ्चकालपरायणान् ॥२८९॥
ततस्तु प्रययौ चार्तो लङ्कामेव विभीषणः।
मर्त्यानां भाग्यवैषम्याद्ब्राह्नणानां हिताय च ॥२९०॥
देवानां च प्रतिष्ठायै रेमे तत्र नदीतटे।
रङ्गधामनि रङ्गेशः शयानस्तु द्विजोत्तम! ॥२९१॥
तद्धामोभयतोऽगच्छत् परिरभ्य सरिद्वरा।
यथा पतिं चिरं प्राप्तं भुजाभ्यां प्रियमङ्गना ॥२९२॥
दिव्यं ह्येतन्महद्धाम दिव्यास्तत्र निवासिनः।
दिव्या चेयं नदी तद्वद्दिव्यतीर्थमिदं सरः ॥२९३॥
अनन्तशक्तियुक्तं तद्विमानं हि स्वयम्भवम्।
किह्गरा विष्णुभूतेशा बलिनः कामरूपिणः ॥२९४॥
ते च रक्षन्ति तं देशं सर्वे ह्यनिमिषेक्षणाः।
ये निष्य(प)न्दा निराहाराः सात्विकाश्च वसन्ति ते ॥२९५॥
प्रव्याहरन्तो मधुरां वाणीं कर्णसुखावहाम्।
न तत्र वसतां पीडा क्षुत्पिपासाद्युपस्थिता ॥२९६॥
नाध्यात्मिकादिपीडा वा न जरा नाविवेकिता।
त्रैकाल्यज्ञानसंपन्नाः सर्वकामविवर्जिताः ॥२९७॥
पदार्थसप्तकज्ञानसंपूर्णा नान्ययाजिनः।
द्वादशाध्यात्मनिरताः पञ्चकालपरायणः ॥२९८॥
तमर्चयन्तोऽहरहस्तत्रैव निवसन्ति हि।
षट्‌कर्मनिरताश्चापि ब्रह्नण्याहितचेतसः ॥२९९॥
चरन्ति तत्र विमलाः पुरुषाः संशितव्रताः।
देवासुरमुनीन्द्राद्याः सदा देवाभिकाङ्क्षिणः ॥३००॥
वसन्ति तत्र चास्थाय चित्रां स्थावररूपताम्।
अप्युन्मत्तः प्रसान्तः स्याद्वधिरोऽपि सुबोधवान् ॥३०१॥
तस्य देशस्य माहात्म्यं सम्यग्ज्ञातुं न शक्यते।
ब्रह्नणापि मुनिश्रेष्ठ! किं पुनः खलु मादृशैः ॥३०२॥
तदेतत् परमं धाम श्रीरङ्गमिति शब्दितम्।
दिव्यलक्षणसंयुक्तं स्वयंव्यक्तमिति श्रुतम् ॥३०३॥
अत्र सन्निहितः साक्षाद्भगवान् पुरुषोत्तमः।
भक्तानां पुण्डरीकाक्षः परमात्माऽच्युतो हरिः ॥३०४॥
विविधेष्वपि चान्येषु नित्यं स्थानेषु यद्यपि।
वासुदेवस्तु मन्त्रज्ञात्मा स्थितः सन्निहितः स्वयम् ॥३०५॥
तथापि वलवत्त्वेन सन्निधिं भजतेऽत्र वै।
ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णतां व्रजेत् ॥३०६॥
स्वरूपमजहन्नेव तथैवात्र जगत्पतिः।
दोषैः स दिग्विभागाद्यैस्त्वन्यथात्वं न याति च ॥३०७॥
नित्यसन्निधिमाहात्म्यात् कालं कल्पक्षयावधि।
उत्तरोत्तरता चैव जगत्यस्मिन् हि वर्तते ॥३०८॥
भूत्या कान्त्या च कीर्त्या च क्रियया चाप्रमयेया।
दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह ॥३०९॥
मुक्तिकामाश्च भविनः फलकामाश्च सत्तम!।
यथाभिमतसंप्राप्तिमिहैवायान्त्यनश्वरीम् ॥३१०॥
इह कर्मपराः सर्वे सायं प्रातस्तु मध्यतः।
कुर्वते सर्वकर्माणि विमानाभिमुखाः सदा ॥३११॥
एवं तु पुष्करक्षेत्रे तोताद्रिशिखरेऽपि च।
क्ष्माङ्गे पुराणसंज्ञे तु मधुभाण्डाभिधेऽपि च ॥३१२॥
स्थितः संनिहितो देवः स्वयंव्यक्तो जगत्पतिः।
भगवान् पुण्डरीकाक्षो लोकानां हितकाम्यया ॥३१३॥
देवदेवो जगन्नाथ एवं क्षेत्रेषु केषुचित्।
स्थापितो विबुधाद्यैस्तु सन्निधत्ते द्विजोत्तम! ॥३१४॥
केषुचिन्मनुजेन्द्रैस्तु भक्तिबृंहितमानसैः।
स्थापितो विधिवद्विप्र! सन्निधत्ते जगत्पतिः ॥३१५॥
एवं भगवदाकारैर्नानासंस्थानलक्षणैः।
नानाविशेषरूपैश्च नानाकार्यवशेन तु ॥३१६॥
विश्वमापूरितं सर्वं सर्वानुग्रहकाम्यया।
स्वयंव्यक्तं तथासिद्धविबुधैश्च प्रतिष्ठितम् ॥३१७॥
मुनिमुख्यैस्तु गन्धर्वैर्यक्षैर्विद्याधरैरपि।
रक्षोभिरसुरैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ॥३१८॥
दिव्यशास्त्रोक्तविधिना पूजयेच्छास्त्रकोविदः।
स्थापितं मनुजैर्देवं मुनिवाक्योक्तमार्गतः ॥३१९॥
पूजयेद् द्विज! तत्रापि ज्ञानिभिस्तत्त्बदर्शिभिः।
वासुदेवैकनिष्ठैस्तु देवतान्तरवर्जितैः ॥३२०॥
व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः।
स्थापितं मनुजेन्द्रैस्तु ह्यनुवेधादिकोविदैः ॥३२१॥
अर्चयेद्देवदेवेशं दिव्यशास्त्रोक्तवर्त्मना।
मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ॥३२२॥
तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति।
मुनिमार्गं परित्यज्य दिव्यमार्गेण पूजयेत् ॥३२३॥
भवेत् सन्निधिमाहात्म्यं कालं कल्पक्षयावधि।
दिव्यमार्गेण पूजाद्यं वर्तते यत्र नित्यशः ॥३२४॥
तत्र दिव्यं परित्यज्य न कदाचिन्महामते!।
मुनिवाक्योक्तमार्गेण कुर्यात् संपूजनादिकम् ॥३२५॥
कुर्याद्वा यदि संमोहाद्विप्रः संमूढचेतनः।
संप्रयात्यचिरातस्य भक्तिर्बीजेन वै सह ॥३२६॥
समन्त्रं कर्मतन्त्रं च सिद्धयश्च पराङ्‌मुखाः।
इहैव शीघ्रं विप्रेन्द्र! देहान्ते गतसन्ततिः ॥३२७॥
घोरं प्रयाति नरकं राजा राष्ट्रं च नश्यति।
तस्मात् सर्वप्रयत्नेन दिव्यमार्गं तु न त्यजेत् ॥३२८॥
तामसेन तु मार्गेण पूजनं यत्र वर्तते।
तत्रापि राजसेनैव पूजन सिद्धिदं भवेत् ॥३२९॥
राजसेन तु पूजाद्यं वर्तते यत्र नित्यशः।
तत्रापि सात्विकेनैव पूजनं शुभदं सदा ॥३३०॥
सात्विकेन तु पूजाद्यं वर्तते यत्र चान्वहम्।
तत्र राजसमार्गेण न कुर्यात् पूजनादिकम् ॥३३१॥
यत्र राजसमार्गेण प्रवृत्तं त्वर्चनादिकम्।
तत्र तामसमार्गेण न कुर्यादर्चनादिकम् ॥३३२॥
विविधानां राजसानामन्योन्यं स्याभ संकरः।
सर्वत्रपौरुषे वाक्ये तद्‌ग्राह्यमविरोधि यत् ॥३३३॥
सनकः ---
केवलं तद्विधानेन न कुर्यात् स्थापनादिकम्।
दिव्याद्यायतनानां च षूजार्थं यत् त्वयोदितम् ॥३३४॥
शास्त्रं दिव्यादिभेदेन श्रोतुमिच्छामि तत्वतः।
यज्ज्ञात्वा विनिवर्तेयं शास्त्रसाङ्कर्यदोषतः ॥३३५॥
शाण्डिल्यः ---
वासुदेवेन यत्‌ प्रोक्तं शास्त्रं भगवता स्वयम्।
अनुष्टुप्‌छन्दोबन्धेन समासव्यासभेदतः ॥३३६॥
तथैव ब्रह्नरुद्रेन्द्रप्रमुखैश्च प्रवर्तितम्।
लोकेष्वपि च दिव्येषु तद्दिव्यं विद्धि सत्तम! ॥३३७॥
ब्रह्नरुद्रमुखैर्देवैः ऋषिभिश्च तपोधनैः।
स्वयं प्रणीतं यच्छास्त्रं तद्विद्धि मुनिभाषितम् ॥३३८॥
एतत्तु त्रिविधं विद्धि सात्विकादिविभेदतः।
विज्ञाय पुण्डरीकाक्षादर्थजालं यथास्थितम् ॥३३९॥
तद्बोधकं प्रणीतं यच्छास्त्रं तत् सात्विकं स्मृतम्।
तस्माज्ज्ञातेऽर्थजाते तु किञ्चित्‌ समवलम्ब्य च ॥३४०॥
स्वबुद्धयुन्मुषितस्यैव ह्यर्थजातस्य बोधकम्।
यत् प्रणीतं द्विजश्रेष्ठ! तथा विज्ञाय तत्वतः ॥३४१॥
ग्रन्थविस्तरसंयुक्तं शास्त्रं सर्वेश्वरेश्वरात्।
तत्संक्षेपप्रसादेन स्वविकल्पविजृम्भणैः ॥३४२॥
व्रह्नादिभिः प्रणीतं यत्‌ तथा तदृषिभिर्द्विज!।
ब्रह्नादिभ्यः परिश्रुत्य तत् संक्षेपात्मना पुनः ॥३४३॥
स्वविकल्पात् प्रणीतं यत् तत् सर्वं विद्धि राजसम्।
तत् स्याद् द्वेधा पञ्चरात्रवैस्वानसविभेदतः ॥३४४॥
केवलात् स्वविकल्पोक्तैः कृतं यत् तामसं तु तम्।
केवलं मनुजैर्यत्तु कृतं तत् पौरुषं भवेत् ॥३४५॥
सनक :---
यैर्लिङ्गैर्वदतांश्रेष्ठ! भगवद्वाक्यपूर्वकम्।
भेदं जानामि तत्वेन तानि विस्तरतो वद ॥३४६॥
शाण्डिल्य :---
यदर्थाढ्यमसन्दिग्धं स्वच्छमल्पाक्षरं स्थिरम्।
चातुरात्म्यस्वरूपेण संस्थितस्य विभोः सदा ॥३४७॥
स्वाभाविकं परत्वं तु यत्र यत्र समीरितम्।
अन्यासां मन्त्रमूर्तीनां यत्र चौपाधिकं तु यत् ॥३४८॥
तुर्यादिजाग्रत्पर्यन्तः पदभेदः प्रकाशितः।
भक्तानामनुकम्पार्थं यत्र वै चतुरात्मनः ॥३४९॥
शक्तीशस्य विभोर्यत्र विभवः संप्रकाशितः।
अङ्गलाञ्छनभूषाणां शक्तीनां विहगेशितुः ॥३५०॥
लयादिभेदभिन्नं तु स्वरूपं यत्र भाषितम्।
बीजपिण्डपदाद्येन चातुर्विध्येन सत्तम! ॥३५१॥
मन्त्राः प्रवर्तिता यत्र यत्र स्थापनकर्मणि।
अनुवेधक्रिया प्रोक्ता यत्र वै नित्यपूजनम् ॥३५२॥
मूलमूर्तौ तु संपूर्णं प्रोक्तं प्राधान्यतो द्विज!।
तत्र कर्तुमशक्यं यत् स्नानाद्यं तावदेव तु ॥३५३॥
बिम्बान्तरे तदर्थं तु कर्मबिम्बपुरस्सरे।
विहितं दर्पणाद्येषु तदभावान्महामते! ॥३५४॥
क्ष्माजलानलवाय्वाख्यनाभसीयेन वै द्विज!।
धारणापञ्चकेनैव धारणाद्वितयेन च ॥३५५॥
दहनाप्यायनाख्येन यत्र शुद्धिश्च भौतिकी।
आगमश्रुतिमूलत्वं स्वस्य यद्धयुपपादकम् ॥३५६॥
तत् पारमेश्वरं वाक्यमाज्ञासिद्धं हि मोक्षदम्।
एवमादेयवाक्योत्थ आगमो यो महामते! ॥३५७॥
सन्मार्गदर्शनं कृत्स्नं विधिवादं च विद्धि तत्।
तत्प्रामाण्यात्तु यत्किञ्चित् समभ्यूह्य यथार्थतः ॥३५८॥
पूर्वापराबिरोधेन निर्वाह्यमविचारतः।
सर्वेषां रञ्जकं गूढं निश्चयीकरणाक्षमम् ॥३५९॥
पारमेश्वरवाक्योक्तमर्थजालं यथास्थितम्।
प्रत्यभिज्ञापकं यद्यत् सात्विकं मुनिभाषितम् ॥३६०॥
प्रशंसकं यत् सिद्धीनां संप्रवर्तकमप्यथ।
मूलमूर्तिमनादृत्य कर्मार्चायां तु पुष्कलम् ॥३६१॥
नित्यसंपूजनं प्रोक्तं प्राधान्येन तु यत्र वै।
ब्रह्नरुद्रादिबिम्बानां प्रमाणं लक्षणं तथा ॥३६२॥
स्थापनं यत्र निर्दिष्टं यत्र वै जगतां पतेः।
पूजनं तु समुद्दिष्टं प्राकृतानां जडात्मनाम् ॥३६३॥
तत्वानामपि विप्रेन्द्र! दिशां कालस्य वाचकैः।
परमेष्ठ्यादिभिर्मन्त्रैः पञ्चभिर्यत्र वै क्रमात् ॥३६४॥
स्थापनादिप्रतिष्ठान्तं पञ्चकं समुदीरितम्।
यागपूर्वा हरिस्तोमपर्यन्ताः सप्त कीर्तिताः ॥३६५॥
यागा यत्र तथा सप्त तत्क्रमादधिकारिणः।
उक्तं यत्र प्रतिष्ठया षोडशन्यासकल्पनम् ॥३६६॥
एतज्जानीहि तत् सर्वं राजसं मुनिभाषितम्।
भगवन्तं समुद्दिश्य ह्यङ्गभावं विनैव तु ॥३६७॥
ब्रह्नरुद्रमुखानां तु विबुधानां तथैव च।
मातॄणामपि दुर्गायाः स्वातन्त्र्येण तु यत्र वै ॥३६८॥
मन्त्रं ध्यानं प्रमाणं च लक्षणं स्थापनं तथा।
निर्दिष्टं तामसं नाम मुनिवाक्यं तु विद्धि तत् ॥३६९॥
अनर्थकमसंबद्धमल्पार्थं शब्दडम्बरम्।
अनिर्वाहकमाद्योक्तेर्वाक्यं तत् पौरुषं स्मृतम् ॥३७०॥
हेयं चानर्थसिद्धीनामाकरं नरकावहम्।
पारमेश्वरवाक्यार्थैर्यद्विरोधि न तद् द्विज! ॥३७१॥
संग्राह्यं सात्विकाद्येषु मुनिवाक्येषु यत्नतः।
यद्दिव्यापेक्षितं विप्र! संग्राह्यमविरोधि तत् ॥३७२॥
सात्विकादिक्रमात्तेषु समभ्यूह्य महामते!।
प्रसिद्धार्थानुपादाय सङ्गतार्थं विलक्षणम् ॥३७३॥
अपि चेत् पौरुषं वाक्यं ग्राह्यं तन्मुनिवाक्यवत्।
सनक :---
दिव्यपूर्वाणि शास्त्राणि प्रोक्तैरेतैस्तु लिङ्गकैः ॥३७४॥
लिङ्गितानि द्विजश्रेष्ठ! व्यक्तनामान्वितानि च।
कौतूहलं हि मे श्रोतुं प्रब्रूहि गणशस्तथा ॥३७५॥
विज्ञातव्यान्यसंकीर्णं यथा च स्वल्पबुद्धिभिः।
शाण्डिल्य :---
सात्वतं पौष्करं चैव जयाख्यं च तथैव च ॥३७६॥
एवमादीनि शास्त्राणि दिव्यानीत्यवधारय।
संहिता चेश्वरस्यापि भरद्वाजस्य संहिता ॥३७७॥
सौमन्तवी तथा ह्येतत् पारमेश्वरसंज्ञितम्।
वैहायसी संहिता च शास्त्रं चित्रशिखण्डिजम् ॥३७८॥
तथा जयोत्तरं तत्र एवमादीनि तत्वतः।
सात्विकानि विजानीहि मुनिवाक्यानि सत्तम! ॥३७९॥
तन्त्रं सनत्कुमारख्यं तथा पझोद्भवाभिधम्।
सत्यापि तेजोद्रविणं मायावैभविकं तथा ॥३८०॥
इत्यादीन्यवगच्छ त्वं राजसान्येव तत्वतः।
पञ्चप्रश्नं शुकप्रश्नं तत्वसागरसंहिता ॥३८१॥
इत्यादीन्यवबुद्ध्यस्व तामसानि विशेषतः।
पूर्वोक्तलक्षणेनैव ज्ञातव्यं तत्र पौरुषम् ॥३८२॥
प्रासादानां च शास्त्राणां यथावत् संप्रकाशितम्।
भेदं दिव्यादिकं सम्यग्‌ ज्ञात्वा सर्वं समाचरेत् ॥३८३॥
यो न ज्ञात्वा तु साङ्कर्यं (र्यात्) पूजाद्यमनुतिष्ठति।
स हि सर्वस्य जगतः साङ्कर्यं कुरुते सदा ॥३८४॥
विशेषात् स्वस्य वंशस्य तस्मादापद्यपि द्विज!।
न कुर्याच्छास्त्रसाङ्कर्यं हितैषी शास्त्रकोबिदः ॥३८५॥
तत् सर्वमुक्तं यत् पृष्टं किमन्यत् कथयामि ते।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे स्वयंव्यक्तादि प्रासाददेवतानिर्णयो नाम दशमोऽध्यायः समाप्तः॥

N/A

References : N/A
Last Updated : January 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP