परमेश्वरसंहिता - त्रयोदशोऽध्यायः

परमेश्वरसंहिता


सनकः ---
शयनस्थे जगन्नाथे चातुर्मास्यस्य मध्यतः।
पवित्रारोहणं प्रोक्तं त्वया मतिमतां वर! ॥१॥
किं देवशयनं नाम; किं देवः स्वप्स्यतीत्यसौ।
देवः किमर्थं स्वपिति; किं विधानं तथा वद ॥२॥
के मन्त्राः ; के च नियमाः ; व्रतान्यस्य क्रिया तु का।
किं ग्राह्यं ; किं च मोक्तव्यं सुप्ते देवे जनार्दने ॥३॥
शाण्डिल्यः ---
श्रूयतामभिधास्यामि गुह्याद्‌गुह्यतरं तव।
पुरा तपः प्रभावेन तोषितो योगनिद्रया ॥४॥
"ममाङ्गं मानयस्वे" ति प्रार्थितो जगतांपतिः।
निरीक्ष्य चात्मनो देहे रुद्धं लक्ष्म्या उरःस्थलम् ॥५॥
शङ्खचक्रासिशार्ङ्गाद्यैर्बाहवः सुविभूषिताः।
अधोनाभेर्निरुद्धं च वैनतेयेन पक्षिणा ॥६॥
मकुटेन शिरो रुद्धं कुण्डलाभ्यां श्रवोयुगम्।
ततो ददौ सुसन्तुष्टो नेत्रयोः स्थानमादरात् ॥७॥
"चतुरो वार्षिकान् मासान् वासं प्रीता गमिष्यसि।"
योगनिद्रापि तद्वाक्यं श्रुत्वा हृष्टतनूरुहा ॥८॥
चकार लोचनावासमत्यर्थं शार्ङ्गधन्वनः।
द्वादश्यां शुक्लपक्षस्य आषाढस्य द्विजाधिप! ॥९॥
तदादौ कौमुदाख्यस्य यावन्मासस्य तद्दिनम्।
देवः सर्वेश्वरस्तां तु मानयन्नयनस्थिताम् ॥१०॥
योगनिद्रां महानिद्रां शेषाहिशयने स्वपन्।
क्षीरोदतोयबीच्यग्रैः धौतपादः समाहितः ॥११॥
लक्ष्मीकराम्बुजश्लक्ष्णमृज्यमानपदद्वयः।
प्रवृत्ते तौहिने काले प्रबुद्ध्यति जनार्दनः ॥१२॥
वासुदेवो जगन्नाथः क्रियार्थं स्वेच्छया द्विज!।
सेवमानोऽपि तां निद्रां जडतां न व्रजेत् प्रभुः ॥१३॥
यथा प्राकृतिकः सुप्तः कश्चिन्मलिनमानसः।
अकर्ता सर्वकार्याणां योगनिद्रावशीकृतः ॥१४॥
न तादृक्‌त्वे जगद्धातुरप्रमेयः सनातनः।
यतः प्रबुद्धःसर्वज्ञो नित्योऽजः परमेश्वरः ॥१५॥
तस्य निद्रादयो दोषाः सततं यान्ति वश्यताम्।
निद्रादिदोषरहिते प्रसुप्ते ह्यच्युतेऽमले ॥१६॥
निवर्तन्ते क्रियाः सर्वाश्चातुर्वर्ण्यस्य सर्वशः।
विवाहव्रतबन्धादिचूडासंस्कारदीक्षणम् ॥१७॥
यज्ञो गृहप्रवेशादिगोदानार्चाप्रतिष्ठनम्।
पुण्यानि यानि कर्माणि वर्जयेद्दक्षिणायने ॥१८॥
असङ्‌क्रान्तं तु यन्मासं दिव्ये पित्र्ये च वर्जयेत्।
मलिम्लुचमशौचं च सूर्यसङ्‌क्रान्तिवर्जितम् ॥१९॥
नैमित्तिकान् मासि मासि तथा संवत्सरोत्सवान्।
विशेषयागसंयुक्तान् सर्वसंपूरणादृते ॥२०॥
नान्यन्नैमित्तिकं काम्यं कार्यं मासचतुष्टये।
अबीष्टव्रतमाश्रित्य नेतव्यं तच्चतुष्टयम् ॥२१॥
भगवद्भक्तिनिष्णातैः कार्यं यच्चापरं श्रृणु।
विष्णोरायतनस्याग्रे कुर्याच्छयनमन्दिरम् ॥२२॥
षट्‌करादादितो यावच्चतुर्दशकरावधि।
स्तम्भयुक्तं सुधालिप्तं नानारागैः सुरञ्जितम् ॥२३॥
ऊर्ध्वं तथा भित्तिगणं पूरयेच्चित्रनिर्मितैः।
ब्रह्नरुद्रेन्द्रचन्द्रार्कबिम्बैश्चान्यैस्तु वै बुधैः ॥२४॥
अष्टयोनिगतैर्विप्र! सर्वैश्चोपनतस्थितैः।
ब्रह्नर्षिसिद्धमनुजैर्भक्तैश्चान्यैस्तथाऽसुरैः ॥२५॥
अप्सरोभिश्च विविधैस्तुवद्बद्धाञ्जलीयकैः।
सम्मुखे देवदेवस्य सर्वाभरणभूषितैः ॥२६॥
एवं तु शयनागारं कृत्वा वस्त्रादिभूषितम्।
ब्रह्नस्थानं समाश्रित्य तस्मिन् कुर्यात्ततो द्विज! ॥२७॥
एकद्विचतुरष्टाभिः स्वकीयैस्तु करैः स्थलाम्।
कोणेषु तत्समैर्दण्डैः शुभैर्यज्ञतरूद्भवैः ॥२८॥
सुश्लक्ष्णैर्वेदिका कार्या चतुर्भिस्तोरणान्विता।
वितानकं तदूर्ध्वे तु मध्ये पङ्कजभूषितम् ॥२९॥
प्रलम्बिपुष्पमालाभिर्घण्टाचामरदर्पणैः।
भूषयेद्‌बुद्‌बुदाद्यैश्च सुवर्णरजतोद्भवैः ॥३०॥
मुक्तेन्द्रनीलवैडूर्यपझरागविचित्रितैः।
सितादिवस्त्रभेदेन पताकाभिस्तथा ध्वजैः ॥३१॥
खगेन्द्रतालमकरऋश्यसंज्ञैः समुच्छ्रितैः।
पूर्वादिदिक्षु संयुक्तैः कोणे पूर्णघटैर्युतम् ॥३२॥
बीजैर्गन्धैस्त्वगेलाद्यैः पूरितैः पात्रसञ्चयैः।
राजद्भिः सत्फलोपेतैर्विविधैः परितो वृताम् ॥३३॥
विचित्रपुष्पप्रकरां चन्दनाद्यनुलेपिताम्।
विचित्रवस्त्रसञ्छन्नां कुर्याद्वेदिं जगद्‌गुरोः ॥३४॥
इत्येवं शयनागारं संपाद्यादौ मनोहरम्।
हेमरत्नविचित्राङ्गं शयनं लक्षणान्वितम् ॥३५॥
सुपर्णतालमकरऋश्यैर्दिक्‌स्थैर्विभूषितम्।
मकरास्यसमायुक्तं व्याघ्राङ्‌घ्रिसदृशाङ्‌घ्रिकम् ॥३६॥
यद्वा गर्भगृहे विष्णोर्मूलमूर्तेस्तु दक्षिणे।
शयनं कल्पयेद्विप्र! स्वगृहे वाऽनुकल्पने ॥३७॥
एवं पुरा समापाद्य यथा वित्तानुरूपतः।
संगृह्य सर्वसंभारान् दशम्यां द्विजसत्तम! ॥३८॥
संकल्प्य पूर्वविधिना पूर्वोक्तं यागमण्डपम्।
प्रविशेद्देशिकेन्द्राख्य एकादश्यां निशामुखे ॥३९॥
पूर्ववत् पूजनं कुर्यात् कलशे मण्डले क्षितौ।
संप्रविश्य ततः प्राग्वन्मूलमूर्तौ तु पूजनम् ॥४०॥
कुर्यात् स्नपनयोग्यायां यात्रामूर्तावतोऽन्यथा।
वह्नौ सन्तर्पयेन्मन्त्रं समिद्भिः सप्तभिः क्रमात् ॥४१॥
यागमण्डपमासाद्य जागरेण नयेन्निशाम्।
ब्राह्ने मुहूर्ते संप्राप्ते उत्थाय शयनात्ततः ॥४२॥
स्नातः कृताभिगमनो नित्यं निर्वर्त्य पूरयेत्।
पूर्वोक्तमण्डलं विप्र! रजोभिर्विविधैस्ततः ॥४३॥
कुम्भमण्डलयोः पूर्वं समाराध्य यथाक्रमम्।
ततो नैमित्तिकं बिम्बं पश्चिमे मण्डपस्य तु ॥४४॥
संस्थाप्य संयजेत् सम्यग्भोगैर्व्यक्तैः क्रमोदितैः।
अष्टाष्टसंख्यासंख्यातैर्विविधैरौपचनारिकैः ॥४५॥
सांस्पर्शिकैस्ततो ब्रह्नन्! हृदयङ्गमसंज्ञकैः।
एवमिष्ट्वा तु होमान्तं सविशेषं विधानतः ॥४६॥
इन्द्रादिलोकपालानां बलिं दद्याद्‌द्विजोत्तम!।
ततो विसृज्य मन्त्रेशं कुम्भमण्डलकुण्डगम् ॥४७॥
विष्वक्‌सेनं यजेत् साङ्गं भोगैर्मण्डलमध्यतः।
ततस्तां भगवद्व्यक्तिं प्रासादान्तः प्रवेशयेत् ॥४८॥
उत्सवोक्तविधानेन सर्वालङ्कारसंयुतम्।
संप्रवेश्य प्रेवद्याथ मूलमूर्तिं महामते! ॥४९॥
अर्घ्येण गन्धपुष्पाभ्यां धूपेन सुशुभेन च।
प्रपूज्यावाह्य शय्यार्थमूर्तौ वै मूलमूर्तितः ॥५०॥
तां समानीय यागार्थमण्डपे स्नापयेत् क्रमात्।
अलह्‌कृतामलङ्कारैर्नू पुरान्तैः समुज्ज्वलैः ॥५१॥
श्रीखण्डशशिबाह्‌लीकविलिप्तां पुष्पवेष्टिताम्।
प्रावृतां नेत्रवस्त्रेण मृष्टधूपैः सुधूपिताम् ॥५२॥
पूजयेद्विभवेनैव भोगपूगैस्तु पावनैः।
यद्वाह्यनुमतो विप्र! देशिको गुरुणा मुने! ॥५३॥
पूर्वमेव यजेन्मूर्तिमेनां स्नपनपूर्वकम्।
ततो निशामुखे प्राप्ते देशिकः साधकैः सह ॥५४॥
यानेनाभिमतेनैव प्रदक्षिणचतुष्टयम्।
प्रासादं संपरिक्रम्य सर्वाण्यावरणानि वा ॥५५॥
सह चैकायनैर्विप्रैर्द्विजेन्द्रैः पाञ्चकालिकैः।
सिद्धान्तनिष्ठैस्तत्कर्मनिरतैर्भगवन्मयैः ॥५६॥
मङ्गलानि प्रयुञ्जानैः पुष्पाक्षतकरैर्द्विज!।
कृत्वा द्वार्स्थार्चनं सार्घ्यैः पुष्पगन्धानुलेपनैः ॥५७॥
"लक्ष्मीनिवासेश! विभो! भोगपर्यङ्कशायन!।
ममाशु पापनिचयं विघ्नजालं विनाशय" ॥५८॥
पठन्मन्त्रमिमं सम्यक् प्रणबब्रह्नंसयुतम्।
प्रविशेच्छयनागारं हृदि मन्त्रमनुस्मरन् ॥५९॥
ततः शयनदेशे तु पश्चिमे हेमविष्टरे।
निवेश्य प्राङ्‌मुखीं मूर्तिं, यदा गर्भगृहे तदा ॥६०॥
निवेश्य द्वाराभिमुखीं स्वयं समुपविश्य तु।
पञ्चगव्येन चाभ्युक्ष्य ततः शय्यास्थलं द्विज! ॥६१॥
कुङ्‌कुमागरुकर्पूरेरुपलिप्य च चन्दनैः।
तस्मिन् मध्ये शुभं कुर्यात् स्वस्तिकं सूक्ष्मलक्षणम् ॥६२॥
शुक्लारुणैस्तथा पीतैर्धातुभिश्चासितैर्मुने!।
चतुर्विधेन रजसा कुर्याद्रत्नोद्भवेन वा ॥६३॥
मूर्धोपथानसंयुक्तं मसूरकबरान्वितम्।
गग्डोपधानसंयुक्तं चरणाधारसंयुतम् ॥६४॥
ज्योत्स्नावितानसदृशप्रच्छादनपटान्वितम्।
सुधूपितं च शयनं संस्थाप्य च तथोपरि ॥६५॥
प्रागुत्तरशिरश्शुभ्रं प्राक्‌छिरस्त्वथवा द्विज!।
मूलबिम्बे शयनगे स्थाप्यं तदनुरूपतः ॥६६॥
तद्दक्षिणेऽथ दिग्भागे देशं समवलम्ब्य वै।
तस्मिन् शुभतरे ब्रह्नन्! शयने शशिवासिते ॥६७॥
क्षीरोदार्णवमद्यस्थं सहस्रफणमौलिनम्।
हिमकुन्देन्दुधवलं नागराजं महामते! ॥६८॥
प्रणवेन स्वनाम्ना च वर्णान्तेन सबिन्दुना।
घ्यात्वार्चयित्वा स्तुत्वा च नमस्कृत्वा प्रसाद्य च ॥६९॥
निवेश्य तस्मिंस्तां मूर्तिं केवलां वा श्रिया सह।
स्वबीजं मन्त्रपूतं (वर्णं) तु "ओं लक्ष्मीपतये नमः" ॥७०॥
समुदीर्य धियाचार्य अङ्गोपाङ्गक्रमेण तु।
द्वादशाक्षरवर्णैस्तु स्वनामपदसंयुतैः ॥७१॥
दत्वा गन्धानि माल्यं च धूपं शव्यास्थितं प्रभुम्।
पूजयेत् पूर्वविधिना भोगैः सर्वैर्यथोदितैः ॥७२॥
ततस्त्वभिनवं कुण्डं संस्कृत्याभ्यन्तरे द्विज!।
तेजस्तस्मिन् समाहूय मन्त्रेणानेन विन्यसेत् ॥७३॥
"(ओं) हुताशनागच्छ विभो! कुण्डेऽस्मिन् हव्यवाहन!।
सन्निधानं घटे चास्मिन् कुरु मासचतुष्टयम्" ॥७४॥
ततश्चावाह्य देवेशं तर्पयेत् पूर्ववत् क्रमात्।
होमं समाप्य संपूज्य ह्यर्घ्याद्येः संपठेदिदम् ॥७५॥
"सुप्ते त्वयि जगन्नाथे जगत् सुप्तं भवेदिदम्।
प्रबुद्धेद त्वयि बुध्येत जगत् सर्वं चराचरम्" ॥७६॥
शाययित्वोपरि सितं दुकूलं धूपधूपितम्।
दत्वोपरि समभ्यर्च्य पुष्पधूपविलेपनैः ॥७७॥
सर्वसत्वोपसंहारां चिन्ताशक्तिं च विन्यसेत्।
दक्षिणे त्वभिमानाक्यमूर्तिं तु चमरोद्यताम् ॥७८॥
(एवं ज्ञाननिशां वामे तालवृन्तकरोद्यताम्।)
उत्तमाङ्गपदे निद्रां करसंवाहने रताम् ॥७९॥
पदारविन्ददेशस्थां लालयन्तीं कराम्बुजैः।
आदाय चरणौ दिव्यौ साक्षाच्छ्रीं निधिसंश्रिताम् ॥८०॥
आनन्दं ब्रह्नणो रूपं तस्यै देवोऽदिदेवता।
तदन्तः स्मरणानन्दजातविस्मयलोचनाम् ॥८१॥
स्वनामपदमन्त्रैस्ताः सम्पूज्याः प्रणवादिभिः।
राजती काञ्चनी मूर्तिस्ताम्रजा रीतिजाऽथवा ॥८२॥
पूर्वा पूर्वा प्रशस्ता स्याच्छयनोत्थानकर्मणि।
यदि कुर्याद्विपर्यासं राजा राष्ट्रं विनश्यति ॥८३॥
दर्भमञ्जरिजे कूर्चे सर्वाभावे तदाऽचरेत्।
एवं हि देवशयनं प्रतिष्ठाप्य द्विजोत्तम! ॥८४॥
तस्यैवाग्रे स्वयं वाचा गृह्णीयान्नियमान्नरः।
चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि ॥८५॥
स्त्री वा नरो वा तद्भक्तो धर्मार्थी सुदृढव्रतः।
गृह्णीयान्नियमानेतान् दन्तधावनपूर्वकम् ॥८६॥
तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक् पृथक्।
मधुस्वरो भवेद्विप्र! पुरुषो गुडवर्जनात् ॥८७॥
लभेत सन्ततिं दीर्घां तैलसेवाविवर्जनात्।
अभ्यह्गवर्जनाद्ब्रह्नन्! सुन्दराङ्गः प्रजायते ॥८८॥
कटुतैलपरित्यागाच्छक्रावासमावाप्नुयात्।
प्रधूकतैलत्यागेन सौभाग्यमतुलं लभेत् ॥८९॥
पुष्पादिभोगत्यागेन स्वर्गे विद्याधरो भवेत्।
योगाभ्यासी भवेद्यस्तु स ब्रह्नपदमाप्नुयात् ॥९०॥
कस्तूरीकुङ्‌कुमक्षोदचन्दनाद्यनुलेपनम्।
यो वर्जयेत् स वैरूप्यं दौर्गन्ध्यं न तु वाप्नुयात् ॥९१॥
ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्च जायते।
घृतत्यागात् स लावण्यं सर्वस्निग्धतनुर्भवेत् ॥९२॥
फलत्यागाच्च मतिमान् वहुपुत्रश्च जायते।
पादाभ्यह्गपरित्यागाच्छिरोभ्यङ्गविवर्जनात् ॥९३॥
दीप्तिमान् दीप्तकरणः साक्षाद्‌द्रव्यपतिर्भवेत्।
दधिदुग्धतक्रनियमाद्गोलोकं लभते नरः ॥९४॥
इन्द्रातिथित्वमाप्नोति स्थालीपाकविवर्जनात्।
लभते सन्ततिं दीर्घामपि पव्कमभक्षयन् ॥९५॥
भूमौ प्रस्तरशायी च विष्णोरनुचरो भवेत्।
सदा मुनिः सदा योगी मधुमांसस्य वर्जनात् ॥९६॥
एवमादिपरित्यागाद्धर्मी स्याद्धर्मनन्दनः।
एकान्तरोपवासेन ब्रह्नलोके महीयते ॥९७॥
धारणान्नखरोमाणां गङ्गास्नानं दिने दिने।
मौनव्रती भवेद्यस्तु तस्याज्ञा तुलिता भवेत् ॥९८॥
द्विषट्‌काक्षरनिष्णातः प्राप्नुयात् परमं पदम्।
नमो नारायणायेति जपन्नामशतं फलम् ॥९९॥
पादाभिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम्।
विष्णुपादाम्बुसंस्पर्शात् कृतकृत्यो भवेन्नरः ॥१००॥
विष्णोरायतने कुर्यादुपलेपनमार्जने।
कल्पस्थायी भवेद्विप्र! स नरो नात्र संशयः ॥१०१॥
प्रदक्षिणशतं यस्तु करोति स्तुतिपाठकः।
हंसयुक्तविमानेन स च विष्णुपुरं व्रजेत् ॥१०२॥
गीतवाद्यकरो विष्णोर्गान्धर्वं लोकमाप्नुयात्।
कृत्वा प्रदक्षिणं दिव्यं स्थानमप्सरसां व्रजेत् ॥१०३॥
नित्यं शास्त्रविनोदेन लोकान् यस्तु प्रबोधयेत्।
स व्यासरूपी विष्ण्वग्रे अन्ते विष्णुपुरं व्रजेत् ॥१०४॥
पुष्पमालाकुलां पूजां कृत्वा विष्णोःपुरं व्रजेत्।
प्रातःस्नायी नरो यस्तु नरकं स न गच्छति ॥१०५॥
भोजनं वर्जयेद्यस्तु स स्नानं पौष्करं लभेत्।
तीर्थाम्बुना हरेःस्नानान्निर्मलं देहमाप्नुयात् ॥१०६॥
पञ्चगव्याशनाद्विप्र! चान्द्रायणफलं लभेत्।
पर्णेषु यो नरो भुङ्‌क्ते कुरुक्षेत्रफलं लभेत् ॥१०७॥
शिलायां भोजनान्नित्यं स्नानं प्रायागजं लभेत्।
यामद्वयाशनत्यागान्न रोगैः परिभूयते ॥१०८॥
एवमादिव्रतैर्देवस्तुष्टिमाप्नोति तोषितः।
यस्मिन् देशे तु तद्भक्तो यो मासांश्चतुरः क्षिपेत् ॥१०९॥
व्रतैरनेकैर्नियमैर्महद्भिः श्रेष्ठमानसः।
कल्पस्थायी विष्णुलोके संवसेन्नात्र संशयः ॥११०॥
चतुरो वार्षिकान् मासान्नियमो येन यत्कृते।
कथयित्वा द्विजेन्द्रेभ्यो भुक्तेभ्यस्तं स दक्षिणाम् ॥१११॥
दत्वा विसर्जयेद्विप्रांस्ततो भुञ्जीत च स्वयम्।
यन्नक्तं चतुरो मासान् प्रवृत्तिं तस्य वाऽचरेत् ॥११२॥
एवं य आचरेद्विद्वान् सोऽनन्तं धर्ममाप्नुयात्।
यस्य विष्णोः समाप्येत चातुर्मास्यव्रतं द्विज! ॥११३॥
स भवेत् कृतकृत्यस्तु न पुनर्मानुषो भवेत्।
तदन्ते जन्म चासाद्य शुचीनां श्रीमता गृहे ॥११४॥
शास्त्रमेकायनं ज्ञात्वा सम्यक् कृत्वा तदुद्भवम्।
त्रयोदशविधं कर्म भगवन्तं समाप्नुयात् ॥११५॥
एवं संकल्प्य नियमानन्यान् वै शास्त्रचोदितान्।
कार्यात्र प्रत्यहं पूजा मार्जनं चोपलेपनम् ॥११६॥
मृदा धातुविकारैर्वा सुगन्धैश्चन्दनादिकैः।
प्रदानं धूपदीपानां व्यजनेनानिलोत्थितिः ॥११७॥
शशिचन्दनसंमिश्रं शीतलोदकसत् क्रिया।
कदलीफलकल्हारैः पझोत्पलविमिश्रितैः ॥११८॥
स्वेदशान्तिं समापाद्य पौनः पुन्येन पूजनम्।
वेणुवीणासमोपेतां गीतिं च मधुरस्वनाम् ॥११९॥
एवं मासद्वये याते याते मेघरवेऽम्बरात्।
ब्रह्नन्! भाद्रपदे मासि द्वादश्यां हि निशामुखे ॥१२०॥
ईषत् प्रबोधमाश्रित्य देवदेवो ह्यधोक्षजः।
स्थित्यर्थममराणां च परिवर्तनमाचरेत् ॥१२१॥
दक्षिणेनाङ्गसङ्गेन त्यक्त्वा चोत्तानशायिनीम्।
योगनिद्रां समाश्रित्य प्रकुर्वन् प्रभवाप्ययौ ॥१२२॥
वायुचक्रान्तरस्थस्य जगद्बीजचयस्य च।
मुखेन्दुमण्डलाच्चाथ अपोह्याच्छादनाम्बरम् ॥१२३॥
आस्ते चाश्वयुजे चैव द्वादश्यां परमेश्वरः।
सन्त्यज्य शयनं दिव्यं निशायां कार्तिकस्य तु ॥१२४॥
उत्थायामरनाथस्तु समाक्रम्य पतत्रिराट्।
निश्शेषभुवनग्रामवीधीनां दोषशान्तये ॥१२५॥
विचरत्यप्रमेयात्मा नन्दयंस्तु सुरादिकान्।
संहर्षयन् जगत्यस्मिन् सुकृतां धर्मपद्धतिम् ॥१२६॥
एवं भक्तजनैः कार्यं तस्य तच्चेष्टितं महत्।
विविधैरुत्सवैर्दानैर्जपजागरणस्तवैः ॥१२७॥
नृत्तगीतसमोपेतैर्विलासैर्हास्यसंयुतैः।
क्रीडमानैः सुमनसैः प्रयतैः प्रणतैर्विभोः ॥१२८॥
एकदेशस्थितैर्विप्र! अननय्मनसैः सदा।
विशेषयागपूर्वं तु परिवर्तनमाचरेत् ॥१२९॥
तद्वत् प्रभातवेलायामासनं च विधीयते।
प्रबोधनं ततः कुर्याच्छयनस्थस्य वै विभोः ॥१३०॥
द्वादश्यां शुक्लपक्षस्य कार्तिके मासि वै द्विज!।
दशम्यां विधिवत् कृत्वा संकल्पं पूर्ववद्‌बुधः ॥१३१॥
निमन्त्रणं द्विजातीनामेकादश्यां तथैव च।
पूर्ववते पूजनं कृत्वा चतुःस्थानस्थितस्य वै ॥१३२॥
रात्रौ प्रजागरं कुर्यात् सहायैः सह देशिकः।
पुण्याख्यानकथाभिस्तु स्तोत्रपूर्वैस्तु गीतकैः ॥१३३॥
सवाद्यैर्मधुरैर्नृत्तैरपहासैस्तु हर्षदैः।
जयशब्दैर्नमस्कारैः करतालसमन्वितैः ॥१३४॥
सोपवासः शुचिः स्नात्वा समाराध्य परं प्रभुम्।
भोगैः षड्रसपूर्णैस्तु सुपूर्णैरौपचारिकैः ॥१३५॥
अर्घ्यैर्विलेपनैर्माल्यैर्मृष्टधूपसमन्वितैः।
ब्राह्ने मुहूर्ते द्वादश्यां मन्त्रमूर्तिं प्रबोधयेत् ॥१३६॥
"प्रबुद्ध! त्वं जगन्नाथ! प्रबुद्ध! परमेश्वर!।
प्रबुद्ध! पुण्डरीकाक्ष! भक्तानामनुकम्पया ॥१३७॥
त्वयि प्रबुद्धे देवेश! तवाग्रे परमेश्वर!।
लौकिकानीह यज्ञानि तानि निर्वर्तयाम्यहम् ॥१३८॥
अग्रतः सर्वयज्ञानां त्वं प्रभुर्नामतः सदा।
नापरेषु जगन्नाथ! पूजितेषु सुरेषु च ॥१३९॥
मयि यज्ञसमाप्तिः स्यात् त्वयि सन्तर्पितेऽनले।
सर्वे देवानलमुखाः स चाग्निस्त्वन्मुखे कृतः । १४०॥
ब्रह्ना स्वयं ब्रह्नलोके स्वर्गे स्वर्गनिवासिनः।
सात्विका मानुषे लोके नागाद्याश्च रसातले ॥१४१॥
त्वयि प्रबोधयन्त्येते स्वार्थसंसिद्धये सदा।
त्यज योगमयीं निद्रां कृपां कुरु सनातन!" ॥१४२॥
`बोधश्च मामनिर्बोध' इति मन्त्रमुदाहरन्।
`उत्तिष्ठ ब्रह्नणस्पते उदुत्यं जातवेदसम्' ॥१४३॥
`इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्।'
`समूढमस्य पाँ सुरे स्वाहा' ॥१४४॥
जितंतेनोच्चया वाचा समस्तव्यस्तयोगतः।
शङ्खध्वनिसमोपेतैः दुन्दुभीपटहस्वनैः ॥१४५॥
वन्दिबृन्दोत्थितोच्चाभिर्नानावाग्भिर्महामते!।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥१४६॥
प्रवोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः।
अर्घ्यगन्धादिनाभ्यर्च्य प्रविशेद्यागमण्डपम् ॥१४७॥
संपूर्याभिमतं रागैर्मण्डलं चाधिवासितम्।
कुम्भमण्डलयोः पूर्वं पूजां कृत्वा विधानतः ॥१४८॥
पश्चादुत्सवमूर्तिं च यजेन्मण्डलपश्चिमे।
महास्नपनपूर्वैस्तु भोगैः पूर्णैर्यथोचितैः ॥१४९॥
होमं तु विधिवत् कृत्वा तोषयेत् परितो द्विज!।
एकायनीयशाखोत्थैः साक्षात्तत्प्रतिपादकैः ॥१५०॥
दिव्यैर्बलादिकैर्मन्त्रैर्व्यापकैः प्रणवान्वितैः।
ऋग्यजुस्सामसंभूतैर्मन्त्रैः स्तोत्रैः पृथग्विधैः ॥१५१॥
गीतकैर्विविधैर्नृत्तैर्वाद्यैस्तन्त्र्यादिभिस्तदा।
एवं प्रवृत्ते गीताद्ये यायाच्छ्य्यानिकेतनम् ॥१५२॥
प्रबोधितं तु विधिवत् स्नापयेत् पूर्ववत् प्रभुम्।
संपूज्य च तथा भक्त्या क्रमेण च महामुने! ॥१५३॥
महाविभूतिसंभारैः पुष्पधूपानुलेपनैः।
नैवेद्यैर्विविधैर्विप्र! स्तोत्रवादित्रपूर्वकैः ॥१५४॥
अग्नौ सन्तर्पयेत् पश्चात् सविशेषं यथाविधि।
पश्चादुत्सवमूर्तिं तां पूजितां यागमण्डपात् ॥१५५॥
समानीय रथाद्येषु यानेत्वभिमतेर्चिते।
स्थाप्य प्रासादपूर्वं वा भ्रामयेद्‌ग्रामपूर्वकम् ॥१५६॥
वक्राधिष्ठानपूर्वं वा संस्थाप्य भ्रामयेद्‌द्विज!।
गणिका भगवद्भक्तैः सह नागरिकैर्जनैः ॥१५७॥
परिव्राड्‌ब्रह्नचारिभिः जपस्तुतिपरायणैः।
द्विजेन्द्रप्रमुखैर्वृत्तसंयुक्तैस्तत्परायणैः ॥१५८॥
श्वेताम्बरधरैः सर्वैर्ध्वजोत्तरकरैः शुभैः।
वालव्यजनहस्तैश्च पताकोद्यतपाणिभिः ॥१५९॥
पझोत्पलकरैश्चान्यैर्द्विजैर्वेत्रलताकरैः।
लाजसिद्धार्थककरैरन्यैरक्षतपाणिभिः ॥१६०॥
सुसुगन्धतयाच्छिन्नधूपपात्रकरैस्तथा।
फलपुष्पकरैश्चान्यैस्तथा पूर्णघटोद्यतैः ॥१६१॥
अन्यैः कलशहस्तैश्च गदाचक्रधरैः सदा।
शङ्खातपत्रहस्तैश्च दण्डलाङ्गलधारिभिः ॥१६२॥
ऋङ्भन्त्रोद्धोषणपरैर्जपस्तुतिपरैस्तथा।
प्रयत्नाद्देवतासीभिर्नृत्तगीतादि चोत्सवम् ॥१६३॥
कारयेत् सर्वतो वीथीर्वाद्यैरन्यैः पृथग्विधैः।
प्रदहेत् सुरभिं धूपं पृथक् साज्यं च गुग्गुलुम् ॥१६४॥
अर्थिनश्चार्थनिचयैस्तर्पणीयाश्च शक्तितः।
देवीयब्रह्नयानस्य भ्रममाणस्य वै द्विज! ॥१६५॥
अल्पमात्रं तु यो दद्यात् पञ्चकालपरायणे।
दानं सहस्रगुणितं विस्तारं याति तत्र तत् ॥१६६॥
पुष्पमूलादिनैवेद्यैः फलमूलैर्धनैस्तथा।
ब्रह्नयानगतं देवं यः पूजयति भक्तितः ॥१६७॥
तद्दानं लक्षगुणितं विस्तारं नात्र संशयः।
सर्षपाक्षतपुष्पाणि अग्रतः पृष्ठतो विभोः ॥१६८॥
क्षेप्तव्यानि द्विजश्रेष्ठ! ऊर्ध्वे च ककुबष्टके।
एवं विधं ब्रह्नरथं वेष्णवं विघ्ननाशनम् ॥१६९॥
ग्रामे पुरे वा नगरे भ्राम्यते यत्र कुत्नचित्।
विपापोऽसौ भवेद्देशो न दुर्भिक्षभयं भवेत् ॥१७०॥
नाकालमृत्युना किञ्चित् प्राप्यते विधिना तथा।
ईतयोपद्रवाद्याश्च पर्समं यान्ति सर्वदा ॥१७१॥
नश्यन्ति तस्करास्तत्र नाधर्मः संप्रवर्तते।
धर्मयुक्तो भवेद्राजा जना धर्मपरास्तथा ॥१७२॥
भवन्ति सुखिनः सर्वे दुःखशोकविवर्जिताः।
एवं प्रदक्षिणीकृत्य क्षिप्त्वा पुष्पाञ्जलिं ततः ॥१७३॥
अवतार्य रथान्मन्त्रं चक्राधिष्ठानपूर्वकम्।
यष्टव्यमर्घ्यगन्धाद्यैर्मुद्रां बद्‌ध्वा जपेत्ततः ॥१७४॥
तर्पणीयमथाज्याद्यैर्दद्यात् पूर्णाहुतिं शुभाम्।
अर्घ्यधूपप्रधानाद्यैः क्षमयेत् पुरुषोत्तमम् ॥१७५॥
ततो यागगृहं नीत्वा प्रणिपत्य मुहुर्मुहुः।
ततः शयनमूर्तेस्तु गत्वैवं सन्निधिं गुरुः ॥१७६॥
चतुः प्रदक्षिणीकृत्य अष्टाङ्गेन नमेत् क्षितौ।
तोषयित्वा जगन्नाथं ब्रह्नयानादिषु द्विज! ॥१७७॥
संस्थाप्य भ्रामयेद्भक्त्या प्रासादं साम्प्रतं क्रमात्।
प्रविश्य गर्भगेहं तु द्वारदेशे स्थितः प्रभुम् ॥१७८॥
अर्घ्यपाद्यादिभिः पूज्य निनयेदन्तरं ततः।
मूलमूर्तिं प्रणम्याथ अर्घ्यगन्धादिभिर्यजेत् ॥१७९॥
विसर्जयेत्तु तन्मूर्तौ मन्त्रं शयनमूर्तिगम्।
पश्चादुत्सवमूर्तिं तां पूजितां यागमण्डपात् ॥१८०॥
प्रदक्षिणक्रमेणऐव गर्भगेहं प्रवेशयेत्।
मूलमूर्तिगतं देवमर्घ्याद्यैः संप्रपूज्य च ॥१८१॥
स्तुत्वा विज्ञाप्य तद्‌भूयो गुणातीतमधोक्षजम्।
"अनेनोत्सवयोगेन यागपूजादिकेन च ॥१८२॥
निर्वर्तितेन भगवंस्त्वं मम प्रीयतामिति।"
ततो विसर्जयित्वा तु कुम्भमण्डलमध्यगम् ॥१८३॥
कृत्वा यागं गणेशस्य कुर्यात्तस्य विसर्जनम्।
अनुकल्पे तु देवस्य परिभ्रमणकर्मणः ॥१८४॥
प्रागेव देवदेवेशं कुम्णमण्डलकुण्डगम्।
विसर्जयित्वा तत्पश्चात् परिभ्रमणमाचरेत् ॥१८५॥
यद्वा विघ्नेशयागं च तथैव तु समाचरेत्।
प्रागेव मुख्यकाले तु कृत्वा शयनगं विभुम् ॥१८६॥
ततो विसर्जयेद्देवं कुम्भमण्डलकुण्डगम्।
यानपात्रं तथा च्छ्त्रं प्रतिपाद्य सदक्षिणम् ॥१८७॥
शयनं स्वगुरोर्विप्र! द्विजानां तदसन्निधौ।
देवदेवस्य देवस्य मूलमूर्तिगतस्य च ॥१८८॥
कृत्वा जानुद्वयं भूमौ बद्धाञ्जलिरिदं पठेत्।
"देव! सर्वेश्वरानादे! कर्मणानेन चाखिलाम् ॥१८९॥
शुभां गतिं जनो यातु प्रीतिं च परमां भज।"
इति विज्ञाप्य देवस्य बाह्नणान् प्रीणयेत्ततः ॥१९०॥
विविधैरन्नपानाद्यैर्यथाशक्ति द्विजोत्तम!।
बन्धुभृत्यसमोपेतमनुयागमथाचरेत् ॥१९१॥
अनेन विधिना कुर्याच्छयनस्थस्य बोधनम्।
यदा तु मूलमूर्तौ तु चतुःस्थानार्चनं भवेत् ॥१९२॥
तदाप्युत्सवमूर्तौ स्यात् पूजितायां तदुत्सवम्।
कुर्याच्छयनमूर्तौ च शयनं शास्त्रकोविदः ॥१९३॥
यात्राव्यक्तेरभावे तु मूलबिम्बेऽर्चनं भवेत्।
तदा स्नपनबिम्बे तु तदीयस्नपनं भवेत् ॥१९४॥
तदा शयनमूर्तौ स्यादुत्वो द्विजसत्तम!।
तदभावे तु तत् कर्म दर्भमञ्चरिजे हितम् ॥१९५॥
विष्टरे विष्टरं कल्प्य रक्षार्थं किञ्चिदूनतः।
तदा मन्त्रेशकुम्भेस्याच्छस्त्रकुम्भे तदुत्सवम् ॥१९६॥
अथवा चक्रराजस्य विष्टरे वा समाचरेत्।
अभावे स्नपनव्यक्तेर्दर्पणे स्नपनं भवेत् ॥१९७॥
तदभावे निवेद्यैव प्रक्षिपेत् कलशान् क्रमात्।
इत्येवमुक्तं देवस्य शयनं च प्रबोधनम् ॥१९८॥
यदुक्तमेवामखिलं यथाकालमसंभवात्।
अस्वातन्त्र्यादसामर्थ्याद्वित्ताभावात्तु वा द्विज! ॥१९९॥
द्रादशीष्वखिलास्वेवं कुर्यात् संवत्सरान्तरे।
परीते तु शयानां तु चातुर्मास्ये तु संयमे ॥२००॥
भक्तैर्निर्वहणीयं तु तुलाभोगावसानकम्।
पूर्वोक्तविधिना शय्यां यो विष्णोः परिकल्पयेत् ॥२०१॥
सोऽचिराल्लभते लक्ष्मीं सौभाग्यमतुलं तथा।
पुत्रदारकुटुम्बेषु कदाचित् केनचित् सह ॥२०२॥
वियोगं नाप्नुयात् किञ्चिद्योषिद्वा पुरुषस्तथा।
अतुलं पुण्यमाप्नोति दीर्घमायुश्च विन्दति ॥२०३॥
रोगाच्च मुच्यते रोगी भीतो मुच्येत वै भयात्।
अजय्यः सर्वशत्रूणां पूज्य सर्वजनस्य च ॥२०४॥
भुक्त्वा भोगांस्तु विविधान् विष्णुलोके महीयते।
शेषशय्यागतं विष्णुं यः पूजयति भक्तितः ॥२०५॥
विभवेनाथ भक्त्या वा तस्य तुप्यति केशवः।
तस्मिन् काले तु ये किचित्तत्र तिष्ठन्ति मानवाः ॥२०६॥
याति पापं क्षयं तेषामन्ते स्वर्गं व्रजन्ति च।
इदं शय्याविधानं तु श्रृणुयाद्यस्तु वैष्णवः ॥२०७॥
त्रिविधस्य तु पापस्य क्षयस्तस्य तु वै क्षणात्।
अनेन विधिना यस्तु कुर्याद्विष्णोः प्रबोधनम् ॥२०८॥
सकामानखिलान् प्राप्य दीर्घमायुश्च विन्दति।
विधिनानेन यः कुर्यात् प्रतिसंवत्सरं द्विज! ॥२०९॥
प्रबोधनं तु देवस्य स वै जन्मनि जन्मनि।
सुखप्रबुद्धो भवति सर्वदोषविवर्जितः ॥२१०॥
सर्वेषां बान्धवादीनां वन्दनीयस्त्वसौ नरः।
विष्णोर्भक्तिपरो ब्रह्नन्! स गच्छेद्वैष्णवं पदम् ॥२११॥
दुग्धाब्धिभोगिशयने भगवाननतो
यस्मिन् दिने स्वपिति वाथ विबुध्यते वा।
तस्मिन्ननन्यमनसामुपवासभाजां
पुंसां ददाति सुगतिं गरुडांससंस्थः ॥२१२॥
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे खापशयनोत्थापनोत्सवबिधिर्नाम त्रयोदशोऽध्यायः॥

N/A

References : N/A
Last Updated : January 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP