परमेश्वरसंहिता - पञ्चविंशोऽध्यायः

परमेश्वरसंहिता


सनकः ---
भगवन्! सम्यगाख्यातं सुदर्शननृसिह्नयोः।
मन्त्ररूपं महायन्त्रं भजतामीप्सितप्रदम् ॥१॥
तस्माद्भजनरूपं च वद सानुग्रहोऽसि मे।
शाण्डिल्य :---
हिताय सर्वलोकानां यन्त्रमेतदुदाहृतमू ॥२॥
विधिना पूजितो येन सर्वं तेन समाप्यते।
मया ते श्रोतुकामाय वष्यते यजनक्रमः ॥३॥
प्राग्वत्स्नानादिकं कृत्वा प्रविश्य यजनालयम्।
प्रक्षाल्य पादावाचम्य सोत्तरीयः स्वलंकृतः ॥४॥
धृतोर्ध्वपुण्ड्रः कुसुमैः द्वार्‌सथानभ्यर्च्य पूर्ववत्।
कवाटोद्धाटनं कृत्वा प्रविश्याभ्यन्तरे विभुम् ॥५॥
प्रणिपत्य च गायत्र्या पाणिप्रक्षाळनादिमम्।
अर्चायां विष्टरे यन्त्रे कृत्वा मार्गत्रयं' ततः ॥६॥
प्रासादं शोधयित्वाऽस्य पुरतः फलकादिके।
प्रोक्षिते चास्त्रमन्त्रेण संमुखं रुचिरासने ॥७॥
समासीनः स्वपार्श्वस्थ याज्ञीयं चाधिवासनम्।
करशुद्धिं स्थानशुद्धिं कृत्वाऽस्त्रेण यथापुरम् ॥८॥
पाणिभ्यामुक्तमन्त्रेण संयुक्तेनास्त्रमुद्रया।
पूजास्थानगदान् विघ्नान् बाह्यतोऽदृश्यविग्रहान् ॥९॥
विरेच्य बन्धनं कुर्यात् दिक्षु चैव विदिक्षु च।
कवचेनावकुण्ठ्याथ प्राणानायम्य पूर्ववत् ॥१०॥
तत्वानि चोपसंहृत्य देहस्थान्यात्मना सह।
सर्वतत्वविनिर्मुक्तं विग्रहं केवलं ततः ॥११॥
शोधयेद्धारणाभिश्च शोषणाद्याभिरूर्ध्वतः।
तुर्याद्यन्ते पदे देवं सुदर्शनतनुं स्मरेत् ॥१२॥
बलात्मनाऽस्य मरुता कवचेन तनुं स्वकाम्।
शोषयित्वा, दहेद्देहं दक्षांगुष्ठाद्य(देश)षतः ॥१३॥
कल्पान्तपावकज्वाला सहस्रायुतदीधितिम्।
भावयित्वा शिखामन्त्रं तेन दग्धमनुस्मरेत् ॥१४॥
दृन्मन्त्रं पूर्णचन्द्राभममृतासारवर्षिणम्।
वामांगुष्ठाग्रतो ध्यात्वा सेचितं तेन भावयेत् ॥१५॥
विनियुक्तांस्ततो मन्त्रान् वर्माद्यां छोषणादिषु।
मन्त्रेश्वरे लयं यातानिति सञ्चिन्त्य भावयेत् ॥१६॥
आनन्दामृतसंपूर्णशीतांशुशतसप्रभम्।
तत्प्रान्तैरमृतौघैश्च बृंहितां भावयेत्तनुम् ॥१७॥
तस्मात्तत्वानि विन्यस्य संहृतानि यथाक्रमम्।
स्वात्मना तामधिष्ठाय मन्त्रन्यासं समाचरेत् ॥१८॥
अकारादिक्षकारान्तमातृकां मन्त्रमातरम्।
विनय्सेत् करयोः पूर्वं विग्रहेचक्रमाल्लपन् ॥१९॥
कृत्वैवं व्यापकन्यासमादित्यातपसप्रभः।
दक्षेतरक्रमेणैव शाखासु तलयोरपि ॥२०॥
अंगुष्ठादिकनिष्ठान्तमेकैकस्यास्चतुश्चतुः।
एवं द्विविंशकं न्यस्य तलयोर्दशकं ततः ॥२१॥
मध्ये च त्रि(दिक्) चतुष्के च पञ्चकं पञ्चकं तथा।
प्रणवद्वयमध्यस्थान्येवं न्यस्त्वा करद्वये ॥२२॥
व्यापकन्यासपूर्वं तु स्वशरीरेऽपि विन्यसेत्।
मूर्ध्नः पादतलं यावत् पाणिब्यां तपनांशुवत् ॥२३॥
व्यापयित्वा ततो न्यासं पृथगेव समाचरेत्।
केशान्ते वक्त्रवृत्ते च नेत्रयोः श्रवणद्वये ॥२४॥
घ्राणरन्ध्रद्वये गण्डद्वये दक्षेतरक्रमात्।
उत्तराधरयोगेन दन्तयोस्तच्छदद्वये ॥२५॥
मूर्ध्नि न्यसेत् स्वरानन्यान् सविसर्गाननन्तरम्।
कवर्गं दक्षिणे बाहौ सन्धिपञ्चगतं क्रमात् ॥२६॥
वामे तथा चवर्गं च पादयोर्दक्षिणादितः।
सन्धिगौ टतवर्गौ च पूर्ववत्तुन्दपार्श्वयोः ॥२७॥
पृष्ठे नाभौ च हृदये पवर्गं धातुसप्तके।
यादिसान्तानि वर्णानि हकारं हृदयान्तरे ॥२८॥
क्षकारं हृदयाकाशे न्यस्त्वैवं मातृकां पुरा।
ततः शक्त्या पडर्णं तु न्यसेत् करशरीरगम् ॥२९॥
करन्यासं पुराविद्धि तच्छृणुष्व मुनीश्वर!।
पुटीकृतेन ताराभ्यां मन्त्रेणैव शशक्तिना ॥३०॥
नखान्तं मणिबन्धाद्यं प्राग्वत् पाणिद्वयं मृजेत्।
आद्यन्ते तारशक्त्याढ्चैः षड्भिर्वर्णैः सबिन्दुकैः ॥३१॥
अङ्‌गुष्ठादिकनिष्ठान्तं न्यस्त्वा मध्यमपर्वसु।
विन्यसेत् करजाग्रेषु चरमं वर्णमेव च ॥३२॥
एवमर्णानि विन्यस्य हृदयादीनि विन्यसेत्।
मूलाग्रपर्वस्वङ्गानि वर्णन्यासक्रमेण तु ॥३३॥
पाणिभ्यामालभेद्देहमामूर्ध्नश्चरणावधि।
कृत्वैवं व्यापकन्यासमङ्गन्यासं समाचरेत् ॥३४॥
मूर्ध्नि वक्त्रे च हृदये नाभौ गुह्ये च पादयोः।
सृष्टिन्यासो भवेदेष स्यादङ्गोपाङ्गवत् स्थितिः ॥३५॥
पादयोर्गुह्यके नाभौ हृदि वक्त्रे च मूर्धनि।
पादादिश्च शिरोऽन्त्स्तु संहृतिन्यास उच्यते ॥३६॥
हृदि मूर्ध्नि शिखायां तु स्कन्धयोः करमध्यतः।
नेत्रयोर्न्यसनीयानि स्वैर्मन्त्रैरुदितैः क्रमात् ॥३७॥
हृदयादीनि विन्यस्य पश्चात् पाणितलद्वये।
विनय्सेदस्त्रसंघं च अष्टकं वा द्विरष्टकम् ॥३८॥
किरीटं कौस्तुभं मालां श्रीवत्सं च यथापुरम्।
दक्षिणोत्तरयोरंसे इच्छाशक्तिं स्वपार्श्वयोः ॥३९॥
ऊरुमूले मनस्तत्वं न्यस्त्वा मन्त्रमयं स्वकम्।
भावयेदहमित्यन्तः सुदर्शनवपुर्हरिः ॥४०॥
गायत्र्या वर्तयेद्बाह्ये स्वात्मानं चक्रमुद्रया।
चक्रज्वालावलिं विप्र! परितो मंत्रवित्तमः ॥४१॥
भावनाजनितं यागमाचरेदादिचोदितम्।
नियम्य करणग्रामं प्राग्वद् वै ज्ञानगोचरे ॥४२॥
आसनं कल्पयेन्मान्त्रमामूलाद्‌हृदयावधि।
आधारशक्तेरारभ्य चिद्भावासनपश्चिमम् ॥४३॥
पुरोक्तं बावयेदूर्ध्वे मन्त्रैश्वर्यं त्रिविष्टपम्।
साधारणमिदं ज्ञेयं सुदर्शननृसिंहयोः ॥४४॥
पृष्ठभागेऽवतीर्णाभ्यां बहिर्वा हृदयाम्बरे।
विष्टरासनसह्कल्पकार्ये भावापनोपहृत् ॥४५॥
हृत्पझकर्णिकोर्ध्वस्था शब्दब्रह्नमयी पुरा।
अक्षगर्भगतं नादं नदन्ती मन्त्रगर्भितम् ॥४६॥
शक्तिः शान्तात्मनो विष्णोः साधकैश्च वशीकृता।
शब्दशक्तिः समुद्गीता विष्टरार्कखमध्यगा ॥४७॥
वर्णत्वं समनुप्राप्ता सन्ततिर्नादरूपिणी।
अकारादिक्षकारान्तवर्णपारावसानतः ॥४८॥
निस्तरङ्गे परे व्योम्नि कलनारहिते शुभे।
तुर्यातीते पदे देवः प्रकाशानन्दबृंहितः ॥४९॥
सद्ब्रह्नवासुदेवाख्यः पूर्णषाड्‌गुण्यविग्रहः।
महाविभूतिसंपूर्णः सवशक्तिमयः प्रभुः ॥५०॥
संशान्तपरमानन्दस्वरूपः सततोदितः।
शङ्खचक्राह्कितनुर्वरदाभयपाणिकः ॥५१॥
सहस्रसूर्यसङ्काशः सहस्रेन्दुगभस्तिमान्।
स्वप्रकाशैः किरीटाद्यैः नूपुरान्तैरलंकृतः ॥५२॥
श्रीवत्सकौस्तुभोपेतो वनमालाविराजितः।
पीतकौशेयबसनः प्रसन्नवदनेक्षणः ॥५३॥
दन्तपंक्तिशशिज्योत्स्नाविद्योतितदिगन्तरः।
सेवितश्च श्रिया पुष्ट्या विशेषाब्यां समन्ततः ॥५४॥
शङ्खचक्रादिदिव्यास्त्रैः सर्वतत्त्वात्मकैः सदा।
विज्ञानभावनाभाव्यो निराशीःकर्मकारिभिः ॥५५॥
अभ्यासयोगसिद्ध्यर्थं बहिरन्तश्च नित्यशः।
बिम्बपीठादिक्लृप्तेषु वृत्तिस्थानेषु तेषु च ॥५६॥
परव्यूहादिरूपेण पूजितः सर्वमृच्छति।
ततो नित्योदितस्तत्वात् प्रकाशाह्‌लादलक्षणात् ॥५७॥
साधर्म्यलक्षणं प्राप्य भक्तानुग्रहकाम्यया।
क्रियाशक्तिमधिष्ठाय ज गदुद्धरणोद्यताम् ॥५८॥
चिदंशं प्रादुरभवत् प्रकाशानन्दबृंहितम्।
दुर्दर्शनं प्रकाशेन साधुसन्तापकारिणाम् ॥५९॥
आह्‌लादेन स्वभक्तानां सुदर्शनमितीरितम्।
षडध्वोर्ध्वगतो देवो भूत्वा कालानलात्मना ॥६०॥
भक्तानां दुरितं हन्ति चिन्तितो नृहरिर्हरिः।
येन संपूजितावेतौ तेजसातीव निर्भरौ ॥६१॥
स तेजस्वी च भू( पू )तात्मा सर्वत्र च सुखी भवेत्।
ज्ञात्वैवं मन्त्रसद्भावमारभेद्यजनक्रियाम् ॥६२॥
परस्माद्भगवत्तत्वाच्चित्स्वरूपं परात्मकम्।
मनसा मन्त्रमुच्चार्य विष्टरोर्ध्वेऽवतार्य च ॥६३॥
वाच्यवाचकभावेन द्विधा सौदर्शनं वपुः।
साकारो वाच्यरूपः स्यान्मन्त्ररूपस्तु वाचकः ॥६४॥
प्रशस्तौ तावुभौ स्यातां परापरविभागतः।
वाच्यरूपं परं विद्यादपरं मन्त्रयन्त्रितम् ॥६५॥
ज्ञात्वैवमुदयं कुर्यात् परसूक्ष्मादिभावनम्।
ज्योतीरूपं परं विद्यात् नादान्ताह्‌लादलक्षणम् ॥६६॥
चिच्छक्तिलक्षणं सूक्ष्मं शिरःपाण्यादिगर्भितम्।
लिङ्गमात्रं प्रकाशाढ्चं भाविप्रसरधर्मि यत् ॥६७॥
सः स्थूलो व्यक्तरूपः स्याद्वाच्यवाचकरूपयोः।
मन्त्राणां शब्दरूपाणां तिस्रोऽवस्थाः परादिकाः ॥६८॥
पश्यन्त्याद्याः परिज्ञेयाः स्वं परं त्वपरं त्रिधा।
आद्यस्तत्रैव तारः स्याद्‌द्वितीयो बीजसंज्ञितः ॥६९॥
तृतीयः पदमन्त्राद्यस्त्विति भाव्यो भवेन्नृभिः।
सान्निध्यं संमुखीभावः सन्निरोधोऽपि पूर्ववत् ॥७०॥
मन्त्रन्यासादिकं कृत्वा लयभोगार्चनं तथा।
सकर्णिकेसरदळसंयुक्तेष्वम्बुजेष्वपि ॥७१॥
भूपुरादिषु सर्वत्र मन्त्राणां लिङ्गरूपिणाम्।
मूर्तीनां केशवादीनां मन्त्राणामर्चनं ततः ॥७२॥
प्रागुक्तैर्विधिवन्मन्त्रैर्भोगयागवदाचरेत्।
शिरोर्ध्वे देवदेवस्य भावयेदिन्दुमण्डलम् ॥७३॥
तत्स्रुतैरमृतौघैश्च कुर्यादर्घ्यादिकल्पनम्।
षोडशैरुपचारैर्वा द्विगुणैर्वा चतुर्गुणैः ॥७४॥
राजवत्प्रीणनं कृत्वा होमं कुर्यात्तथाविधम्।
नाभिचक्रकृते कुण्डे षट्‌कोणे गुणमेखले ॥७५॥
निर्मथ्य भावनोद्भतामरणिं ज्ञानरज्जुना।
समुत्पाद्य च चिद्वह्निं सर्वसंस्कारसंस्कृतम् ॥७६॥
सदैवोर्ध्वशिखं दीप्तं शुद्धं भगवदात्मकम्।
नाबिकुण्डगतं ज्ञात्वा तेजः शक्त्‌युपबृंहितम् ॥७७॥
हृदब्जगगनोर्ध्वस्थं मूलमन्त्रं समुच्चरेत्।
प्लुतध्यानसमोपेतं सत्यान्तेऽस्मिन् लयं गते ॥७८॥
निस्तरङ्गे परे प्राप्ते ब्रह्नस्थं पूर्णवारितैः।
ध्यानस्रुवेण चाहृत्य सन्धिमार्गेऽमृताध्वना ॥७९॥
हृदयादवतीर्णस्य ज्वालाग्रावस्थितस्य च।
मन्त्रनाथस्य शिरसि वसुधारामिव क्षिपेत् ॥८०॥
चिदग्निमेवं सन्तर्प्य ज्वालाग्रावस्थितं प्रभुम्।
हृदब्जकर्णिकान्तस्थं भूयो भाव्याहुतिक्रियाः ॥८१॥
समाप्य विधिवत् पूजामपराङ्गे हरिं स्थितम्।
स्वमन्त्रेणार्चयित्वाऽथ होमान्तं भावनामृतैः ॥८२॥
तदन्ते यन्त्ररूपस्य मुखद्वयगतस्य च।
पन्त्रसंघस्य पूर्णान्तं कृत्वा सन्तर्पणं ततः ॥८३॥
विष्टरस्थं यजेद्बाह्ये त्वर्चारूपमुखद्वये।
मूर्तैरर्घ्यांदिभिर्भोगैर्विधिवत्समुपाहृतैः ॥८४॥
प्राग्वदर्घ्यादिपात्राणां पूजनं स्थापनं तथा।
दैहविन्यस्तमन्त्राणां गर्भद्वारस्थपूजनम् ॥८५॥
धातारं च विधातारं प्रचण्डं चण्डपूर्वकम्।
पूर्वपश्चिमयोर्बाह्यमण्टपद्वारयोः क्रमात् ॥८६॥
जयं च विजयं चाथ सुभद्रं चाथ भद्रकम्।
सूर्याचन्द्रमसौ पूज्यौ दक्षेतरगवाक्षयोः ॥८७॥
कृत्वैवं द्वारयागं तु प्रविश्याभ्यन्तरं ततः।
आधारशक्तेरारभ्य यन्त्रविष्टरपश्चिमम् ॥८८॥
मन्त्रमासनमब्यर्च्य गणनाथादिकं तथा ।
प्रतिष्ठितस्य देवस्य कुर्यादावाहनं ततः ॥८९॥
बिम्बहृत्कमलाकाशाच्चैतन्यममलं परम्।
प्रकाशानन्दरूपं च नित्योदितमनूपमम् ॥९०॥
कर्णिकामध्यमाश्रित्य निविष्टमनुभावयेत्।
मूलमन्त्रं समुच्चार्य प्रबुद्धं भास्वरं ततः ॥९१॥
मन्त्रन्यासं ततः कुर्याद्यथा देहे स्वके तथा।
स्थानेषु हृदयादीनि चक्राद्यस्त्रवराणि च ॥९२॥
भूषणादीनि विन्यस्य मस्तकादेः समानि च।
रत्नराशिप्रकाशानि लयाख्येनार्चयेत्ततः ॥९३॥
कर्णिकादिषु यन्त्रस्थान् भास्वद्रूपांस्तथैव च।
आसनाद्यैश्च सांस्पशैर्हृदयंगमपश्चिमैः ॥९४॥
प्रीणयित्वा विधानेन मूर्तिसङ्‌घसमन्वितम्।
जप्त्वा मन्त्रं यथाशक्ति तन्निवेद्य यथा पुरा ॥९५॥
पाश्चात्ययन्त्रमध्यस्थमेवं नरहरिं ततः।
साङ्गं सपरिवारं च सयन्त्रार्णं समर्चयेत् ॥९६॥
इति सङ्‌क्षेपतः प्रोक्तं महायन्त्रार्चनं परम्।
प्रीणयेदग्निमध्यस्थं समिद्भिः प्रागुदीरितैः ॥९७॥
अभीष्टफलसिध्यर्थं काम्यैरपि विशेषतः।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे सौदर्शनमहायन्त्र बाह्याभ्यन्तरयागनिर्णयो नाम पञ्चविंशोऽध्यायः।

N/A

References : N/A
Last Updated : January 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP