परमेश्वरसंहिता - तृतीयोऽध्यायः

परमेश्वरसंहिता

सास्त्रं दूर्वाङ्कुरं दत्वा पत्रं पुष्पं तिलांस्तु वा।
सोदकानात्मनो मूर्ध्नि शिखास्थाने च सत्तम! ॥१॥
ततः कलशपूर्वं तु अम्बुपूर्णं तु भाजनम्।
समादायाम्बरच्छन्नं पाणिना भगवद्गृहम् ॥२॥
एकान्तं निर्जनं यायान्मनोज्ञं दोषवर्जितम्।
अनुकूलं शुचिं दक्षं संयतं समये स्थितम् ॥३॥
एकायनं वैदिकं वा ब्राह्मणं चार्ध्यवाहकम्।
हृन्मध्यस्थं स्मरन्मन्त्रं प्रबुद्धानन्दविग्रहम् ॥४॥
दिगन्तरमवीक्षन् वै मौनी संरोधितानिलः।
प्राप्य स्थानं स्वमन्त्रं तं नासाग्रेण विरेचयेत् ॥५॥
उच्चरन्द्वादशार्णं तु प्रविश्यान्तः प्रदक्षिणम्।
प्रासादोद्देशमखिलं मार्जयेत् प्रोक्षयेत्ततः ॥६॥
परिचारैस्तु कर्तव्यं बलिपीठान्तमेव हि।
द्वाराद्बाह्ये यथाशास्त्रं शुद्धेन सलिलेन च ॥७॥
आजानुपादौ प्रक्षल्य हस्तौ चामणिबन्धनात्।
पूर्वोक्तेन विधानेन समाचम्योर्ध्वुण्ड्रकैः ॥८॥
चन्दनाद्यैः सुगन्धैर्वा धर्मक्षेत्रे विशेषतः।
पर्वताग्रे नदीतीरे सिन्धुतीरे तथैव च ॥९॥
वल्मीके तुलसीमूले प्रशस्ता मृत्तिका द्विज!।
वश्यार्थी रक्तया श्रीच्छन् पीतया शान्तिकामिकः ॥१०॥
श्यामया मोक्षकामी च श्वेतया चोर्ध्वपुण्ड्रकम्।
वर्तिदीपाकृतिं चैव वेणुपत्राकृतिं यथा ॥११॥
पद्मस्य मुकुलाकारमुत्पलं मुकुलाकृति।
मत्स्यकूर्माकृतिं चैव शङ्खाकारमतः परम् ॥१२॥
पुष्टिप्रदेनाङ्गुष्ठेन तर्जन्या मुक्तिसिद्धये।
वाञ्छितार्थप्रदायिन्या मुनेऽनामिकयाऽथ वा ॥१३॥
आयुष्कामी मध्यमया अङ्गुल्या च---अथ देवता।
एताभिरङ्गुलीभिस्तु कारयेन्न नखैः स्पृशेत् ॥१४॥
ललाटे वासुदेवं च हृदि संकर्षणं न्यसेत्।
प्रद्युम्नं दक्षिणे चांसे अनिरुद्धोत्तरांसके ॥१५॥
जलनिर्मथितेनैव ह्यूर्ध्वपुण्ड्रचतुष्टयम्।
ललाटे केशवं विद्यान्नारायणमथोदरे ॥१६॥
माधवं हृदये कुर्याद्गोविन्दं कण्ठकूपके।
उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते ॥१७॥
तत्पार्श्वे बाहुमध्ये तु मधुसूदन इष्यते।
त्रिविक्रमं काण्ठकूपे वामे कुक्षौ तु वामनम् ॥१८॥
श्रीधरं वामबाहौ च हृषीकेशं तु कण्ठके।
अपरे पद्मनाभं तु ककुद्दामोदरं स्मरेत् ॥१९॥
एवं द्वादशनामं(मानि) तु वासुदेवं तु मूर्धनि।
यज्ञो दानं तपो होमो भोजनं पितृकर्म च ॥२०॥
तत्सर्वं निष्फलं प्रोक्तमूर्ध्वपुण्ड्रविनाकृतम्।
तस्मात्सर्वप्रयत्नेन धारयेत्सर्वसिद्धिदम् ॥२१॥
चतुरङ्गुलमग्रं तु सदाविष्ण्वधिदैवतम्।
महाविष्ण्वधिदैवस्तु ग्रन्थिरेकाङ्गुलो भवेत् ॥२२॥
विष्ण्व(वा)धिदैवं वलयं द्वयमङ्गुलमुच्यते।
पवित्रं हस्तयुग्मे चानामिकायां नियोजयेत् ॥२३॥
दर्भैर्विना तु यत्स्नानं विना नैवेद्यमर्चनम्।
विनोदकं तु यद्दानं तत्सर्वं निष्फलं भवेत् ॥२४॥
अर्चनं जपहोमौ च दानं च पितृतर्पणम्।
अपवित्रानुपाणिश्चेत् तत्सर्वं च विनश्यति ॥२५॥
तस्मात् सर्वप्रयत्नेन सदा धार्यं पवित्रकम्।
गन्धैः स्रग्भिरलङ्कारै सोत्तरीयैश्च भूषितः ॥२६॥
कर्णभूषणहाराद्यैः कटकैरङ्गुलीयकैः।
अलाभे त्वङ्गुलीयेन अलङ्कृत्य तु साधकः ॥२७॥
वदनं नासिकारन्ध्रे स्थगयित्वाऽम्बरेण तु।
स्वश्वासोपहतं चैव न भवेच्च यथा द्विज! ॥२८॥
शुक्लवासाः सुवेषश्च शुक्लदन्तः शुचिव्रतः।
ताम्बूलशुद्धवदनो ललाटे चाक्षतैर्युतः ॥२९॥
एवमुक्तगुणैर्युक्तो बोधयेत् पुरुषोत्तमम्।
शङ्खध्वनिसमोपेतं दुन्दुभीपटहस्वनैः ॥३०॥
वन्दिबृन्दोत्थितोच्चाबिर्नानावाग्भिर्महामते!।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥३१॥
प्रवोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः।
द्वारमासाद्य तत्रस्थो दशदिग्बन्धपूर्वकम् ॥३२॥
अवकुण्ठ्याथ तर्जन्या मन्त्रं कवचमुच्चरन्।
स्थिते वा कल्पिते तत्र पूजयेद्बलिमण्डले ॥३३॥
सर्वं खगेशपूर्वं तु परिवारं हि साच्युतम्।
नमसा प्रणवाद्येन पुष्पमादाय कीर्तयेत् ॥३४॥
समस्तपरिवाराय अच्युताय नमो नमः।
वास्तुपूरुषमन्यांश्च समभ्यर्च्य यथाक्रमम् ॥३५॥
मूलमन्त्रेण साङ्गेन निरङ्गेनाथवा ततः।
न्यासं कगृत्वा त्रिराचार्यो हस्ततालं हृदा ततः ॥३६॥
मूलमन्त्रेण चोद्धाट्य कवाटं नेत्रमन्त्रतः।
नित्यदीपांस्ततोज्ज्वाल्य हस्तौ प्रक्षाल्य वारिणा ॥३७॥
प्रासादादि यदा न स्यात्तदा देशं मनोहरम्।
आसाद्य कल्पयेन्मान्त्रं गृहं तदधुनोच्यते ॥३८॥
मूलमन्त्रं पुरा ध्यायेद्ब्रह्मवत् सर्वगं ततः।
विदिक्षु दिक्षु मध्ये च ज्वलन्तं भानुकोटिवत् ॥३९॥
हृन्मन्त्रं च तदन्तस्थमाक्रम्याखिलमात्मना।
शिरोमन्त्रं च तन्मध्ये ब्रह्मनाडीस्वरूपिणम् ॥४०॥
स्तम्भभूतं तु विश्वस्य संचाराध्ववदुज्ज्वलम्।
शिखामन्त्रं च सर्वस्माद्बहिः प्रकारवत् स्थितम् ॥४१॥
वर्ममन्त्रं तु कर्मात्मा(त्म)परमात्मानुवेधयेत्।
गवाक्षद्वारभूतं च नेत्रमन्त्रं च भावयेत् ॥४२॥
स्फुरद्वह्निस्फुलिङ्गोर्मिसहस्रपरिराजितम्।
सर्वविघ्नप्रशमनं बहिरस्त्रं च भावयेत् ॥४३॥
एवं (म)मान्त्रगृहं ध्यात्वा ततो द्वारं तु चेतसा।
त्रिभागीकृत्य तन्मध्ये भागमेकं द्विधा पुनः ॥४४॥
विभज्य वामदेशेन दक्षिणेनाङ्घ्रिणा ततः।
शनैः शनै प्रविश्यान्तः सास्त्रमन्त्रेण तेन वै ॥४५॥
धरणीहननं कृत्वा भगवन्तं प्रणम्य च।
मनसा गुरुवंशं च तदाज्ञां मानसीमथ ॥४६॥
शिरसा धारयेत् स्वेष्टं फलं संकल्प्य चेतसा।
देवाय च निवेद्यै(तान्) तत् यागागारस्य मध्यतः ॥४७॥
प्रासादं विग्रहं क्लृप्त्वा वर्ममन्त्रं सविग्रहम्।
तज्जीवं भगवन्तं च ध्यात्वा यागगृहं ततः ॥४८॥
सशलाकैस्ततो दर्भैः सहदेवीविमिश्रितैः।
संमार्ज्य बहुतोयेन प्रक्षाल्याऽऽलिप्य गोमयैः ॥४९॥
गोमयं च नवं ग्राह्यं भूमिष्ठं धेनुसंभवम्।
सजलं शिथिलं शुष्कं कीठवच्च विवर्जयेत् ॥५०॥
उपलिप्तमथास्त्रेण संविध्य शकलं त्यजेत्।
पञ्चगव्येन सास्त्रेण वारा(रिणा)वा प्रोक्ष्य चन्दनैः ॥५१॥
कुङ्कुमागरुकर्पूरैः समालिप्य समन्ततः।
कुशदूर्वाक्षतांश्चैव विकिरेत् स्थानशुद्धये ॥५२॥
प्रासादं शोधयित्वा तु ततो मौनपरो द्विज!।
देवेशस्याग्रतो वाऽपि दक्षिणं भागमाश्रयेत् ॥५३॥
दर्भे चर्मणि वस्त्रे वा फलके यज्ञकाष्ठजे।
स्वासनं न्यस्यनं वार्भि(चाद्भि)श्च मूलमन्त्राभिमन्त्रितैः ॥५४॥
प्रोक्ष्य छोटिकयाऽस्त्रेण दद्यात्तच्छुद्धये पुनः।
तुर्यादीनां तु तत्रैकं भावयेदासनं त्वथ ॥५५॥
तुर्यं नामऽऽसनं पूर्वं कारणप्रणवा(न्वयः)न्वितम्।
सुषुप्तिर्नाम तद्व्याप्ताव्यक्तपङ्कजसंस्थितिः ॥५६॥
स्वप्नः शेषाहिपूर्वं तु वह्निपर्यन्तमासनम्।
क्षीरार्णवादितो भावासनान्तं जाग्रदासनम् ॥५७॥
तत्र सुप्तं(प्तिं) तुरीयं वा करशुद्धेः पुरा स्मरेत्।
स्वप्नं मानसयागात्तु पूर्वं तुर्योक्तकालतः ॥५८॥
जाग्रदासनकल्पे तु विशेषो गृह्यतामयम्।
स्वदेहमन्त्रविन्यासात् पूर्वमब्ध्यादिकं त्रयम् ॥५९॥
न्यसेदस्त्राम्बुना प्रोक्ष्य ताडयित्वाऽस्त्रपुष्पतः।
तत्रैव भगवद्योगपीठार्चायाः पुरोत्तिरम् ॥६०॥
न्यसेदाधारशक्त्यादि भावपीठान्तमासनम्।
प्रणवेनाथ तद्व्याप्तिं स्मृत्वा स्वार्णेन तेन वै ॥६१॥
अभ्यर्च्य तदुपर्यास्यपद्माद्येकतमान्वितम्।
यागोपस्करसंभूतौ भगवन्तमनुस्मरन् ॥६२॥
विनीतान् शिष्यपुत्रादीन् स्नातानाज्ञापयेत्तदा।
पात्रशुद्धिं ततः कुर्याद्यथा तच्छृणु सत्तम! ॥६३॥
अम्लकल्केन तोयेन हेमं ताम्रं च शोधयेत्।
राजतं गृहधूमेन शान्ताङ्गारेण वा पुनः ॥६४॥
भस्ममिश्रेण तोयेन लोहयुक्तं बिशोधयेत्।
शङ्खशुक्तिमयानां च लवणेव विशोधयेत् ॥६५॥
फलपत्रमयानां च मृद्भिरद्भिश्च शोधयेत्।
लेपगन्धापनोदेन शुद्धिर्भवति कारयेत् ॥६६॥
द्रव्यशुद्धिर्भवत्येवं यथावद्विधि चोदिता।
अथार्कोदयकालस्य पूर्वं कर्म समारभेत् ॥६७॥
प्रच्छन्नपटसंयुक्तं पूजाकाले प्रपूजयेत्।
पापिष्ठानाश्रमभ्रष्टान्नास्तिकान् वै न दर्शयेत् ॥६८॥
आगमार्थं च देवानां गमनार्थं च रक्षसाम्।
कुर्याद्घण्टारवं तत्र देवताह्वानलाञ्छनम् ॥६९॥
शङ्खादिघोषसंयुक्तं गेयवाद्यसमन्वितम्।
आवाहने तथाऽभ्यङ्गे स्नानारम्भावसानयोः ॥७०॥
तथा तिलकदाने च दीपे मात्रानिवेदने।
नीराजने त्वाहरणे नैवेद्यस्य महानसात् ॥७१॥
तन्निवेदनकाले तु पूर्णाहुत्यवसानके।
जलाहरणकाले च यानारोहावरोहयोः ॥७२॥
कवाटयोर्विघटने तथा बन्धे द्विजोत्तम!।
एतेषु नित्यकालेषु शङ्खमापूरयेत् त्रिधा ॥७३॥
प्रवृत्तस्यार्चने विष्णोः कृतमौनस्य तत्वतः।
तस्याविक्षिप्तबुद्धेर्वै वाग्दानं सुविरोधकृत् ॥७४॥
अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः।
शुभमव्यभिचारं यत्तत्कार्यं सर्ववस्तुषु ॥७५॥
यदङ्गसंकेतमयैरव्यक्तैर्नासिकाक्षरैः।
कृतमोष्ठपुटैर्बद्धैर्मौनं तत्सिद्धिहानिकृत् ॥७६॥
स्वयमेव स्वबुद्ध्या यत्सर्ववस्तुषु वर्तते।
शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् ॥७७॥
करशुद्धिं ततः कुर्याद्यथाव(त)दवधारय।
द्वे तले हस्तपृष्ठे द्वे सर्वाश्चाङ्गुलयस्तथा ॥७८॥
अस्त्रमन्त्रेण संशोध्य ध्यानमुद्रान्वितेन तु।
कृत्वैवं करशुद्धिं च स्थानशुद्धिं समाचरेत् ॥७९॥
ध्यात्वा देवं ज्वलद्रपं सहस्रार्कसमप्रभम्।
ज्वालाकोटिसमाकीर्णं वमन्तं ज्वलनं मुखात् ॥८०॥
तेन संपूरयेत् सर्वमाब्रह्मभवनान्तिमम्।
दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा ॥८१॥
क्ष्मामण्डलमिदं सर्वं स्मरेत् पक्वं च वह्निना।
मन्त्रजेन द्विजश्रेष्ठ! मृण्मयं भाजनं यथा ॥८२॥
स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात्।
भावयेदथ दिग्बन्धं कुर्यादास्ये तु पावकम् ॥८३॥
किरन्तमस्त्रमन्त्रं च बाहुभ्यां दक्षिणेन वा।
दिग्विदिक्षु च सर्वत्र विरेच्य स्वासनाद्बहिः ॥८४॥
शरजालचिताकारं प्राकारं बन्धयेद्बुधः।
यद्वा तु पूर्ववत् कुर्याद्दिग्बन्धं हृदयादिकैः ॥८५॥
अस्त्रेण वै विदिग्बन्धं नेत्रेण तु अथोर्ध्वतः।
आदित्यायुतदीप्तेन ज्वलत्कञ्चुकरूपिणा ॥८६॥
कवचेन तु तर्जन्या रक्षार्थमवकुण्ठयेत्।
एवं कृत्वा तु दिग्बन्धं प्राणायाममथारभेत् ॥८७॥
प्रमाथिनो दृढस्याथ चञ्चलस्य तु चेतसः।
समाधियोग्यतासिद्ध्यै प्राणादिविजयाय च ॥८८॥
तमोनि(बर्हणार्थं च)र्हरणार्थाश्च कुर्यात् प्राणायतीरथ।
शरीरे नाडिसंस्थानं तथा प्राणादिसंस्थितम् ॥८९॥
प्राणायामस्वरूपं च ज्ञात्वा यामान् समाचरेत्।
नाडीचक्रं प्रवक्ष्यामि यथावन्मुनिपुङ्गव! ॥९०॥
नाडीनां कन्दनाभिः स्यादुत्पत्तिस्थानमुत्तमम्।
द्विसप्ततिसहस्राणि नाडयोऽन्तर्व्यवस्थिताः ॥९१॥
तिर्यगूर्ध्वमधश्चैव देहं व्याप्य व्यवस्थिताः।
आग्नेयाः सौम्यरूपाश्च सौम्याग्नेयास्तथैव च ॥९२॥
आग्नेया ऊर्ध्ववदनाः सौम्यसंज्ञा अधोमुखाः।
तिर्यग्गता नाडयस्तु सौम्याग्नेया उदाहृताः ॥९३॥
नाडीनामपि सर्वासां प्रधाना दश नाडयः।
इडा च पिङ्गला चैव सुषुम्ना चोर्ध्वगामिनी ॥९४॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी।
अलम्बुसा कुहूश्चैव को(के)शिनी दशमी स्मृता ॥९५॥
सुषुम्नाख्या मध्यनाडी कन्दादूर्ध्वप्रवाहिनी।
मध्यनाड्याः सुषुम्नाया वामदक्षिणतः स्थिते ॥९६॥
इडपिङ्गलसंज्ञे द्वे ते तु नासापुटावधी।
पुरतः पृष्ठतस्तस्या गान्धारी हस्तिजिह्वके ॥९७॥
वामेतराक्ष्यवधिके कन्ददेशात् समुत्थिते।
पूषायशस्विन्याख्ये द्वे सव्यान्यश्रोत्रनिष्ठिते ॥९८॥
कन्दाद्वै पादमूलान्ता संस्थिता स्यादलम्बुसा।
कुहूर्मेढ्रान्तपर्यन्ता पादाङ्गुष्ठे तु कोशिनी ॥९९॥
शुक्लेडा पिङ्गला रक्ता गान्धारी पीतवर्णका।
हस्तिजिह्वा कृष्णरूपा पूषा स्यात् कृष्णपीतका ॥१००॥
यशस्विनी श्यामवर्णा बभ्रुवर्णा ह्यलम्बुसा।
कुहूररुणसंकाशा कोशिनी ह्यञ्जनप्रभा ॥१०१॥
एवं दशप्रधानास्तु नाडयः परिकीर्तिताः।
वायवो दश संप्रोक्ताः शरीरे नाडिषु स्थिताः ॥१०२॥
प्राणोऽपानः समानश्च उदानो व्यान एव च।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥१०३॥
इडाख्या वहति प्राणं गान्धार्याख्या अपानकम्।
अलम्बुसा समानं तु कुहूर्व्यानं द्विजोत्तम! ॥१०४॥
उदानं तु सुषुम्नाख्या पिङ्गला नागसंज्ञितम्।
पूषा वायुं तु कूर्माख्यं कृकरं तु यशस्विनी ॥१०५॥
हस्तिजिह्वा देवदत्तं कोशिनी तु धनञ्जयम्।
विद्रुमाभौ प्राणनागाविन्द्रकोपोपमावुभौ ॥१०६॥
कूर्मापानौ खसंकाशौ समानकृकरावुभौ।
कॢञ्जल्कसदृशौ देवदत्तोदानौ धनंजयः ॥१०७॥
व्यानश्च फेनवर्णाभः सर्वशास्त्रेषु निश्चयः।
अथ प्राणायतिः--सा च निश्वासोच्छ्वासयोर्गतेः ॥१०८॥
स्तम्भनं तत्र निश्वासो बाह्यवातोपयोगिना।
घ्राणेनानयनं वायोरन्तः कोष्ठानिलस्य च ॥१०९॥
बहिर्निष्कासनं नास्या उच्छ्वासो बुद्धिपूर्वकम्।
अभ्यन्तरा स्तम्भवृत्तिर्वायोरन्तः प्रपूरणम् ॥११०॥
बाह्यं तु तद्वत् प्रथमं प्राणसंरोधनं विदुः।
अभ्यन्तराद्‌द्वितीयस्तु स्तम्भवृत्तिस्तृतीयकम् ॥१११॥
बाह्या तत्राधमा प्राणधारणा मध्यमा मता।
अभ्यन्तरा स्तम्भवृत्तिरुत्तमा धारणा मता ॥११२॥
सदा निश्वासरूपा तु बाह्या रेचकमुच्यते।
अभ्यन्तरा समुच्छ्वासरूपा संपूरकस्तथा ॥११३॥
श्वासोच्छ्वासनिरोधात्मा स्तम्भवृत्तिस्तु कुम्भकः।
एकद्वित्रिभिरुद्घातैर्मृदुमध्यमतीक्ष्णकाः ॥११४॥
क्रमेणैते भवन्त्यत्र प्राणादेर्नाभिदेशतः।
उद्गतस्याहतिः पूर्वमुद्‌घातः स्याद्‌द्वितीयकम् ॥११५॥
निवृत्तिरुदरादूर्ध्वं तस्य चाथ तृतीयकम्।
अन्यत्र निग्रहोऽस्येह(स्यैव) मृदुः पूर्वोऽथ मध्यमः ॥११६॥
द्वितीयस्तु तृतीयोऽथ तीक्ष्णस्स्वेदादिकारणम्।
प्राणायामगणं कुर्यात् पूर्वमस्त्रेण रेचकम् ॥११७॥
तत्र द्वादशमात्रस्तु रेचकः पूरकः स्मृतः।
चतुर्विशतिमात्रस्तु षट्‌त्रिंशन्मात्रकं विदुः ॥११८॥
कुम्भकं चाथ भूयोऽपि केवलानिलनिःसृतिः।
या सा प्राणायतिः साऽपि रेचकाख्या विधीयते ॥११९॥
मात्राव्यतिक्रमान्न्यूना विपर्यासे तु साऽस(ध)मा।
तस्मान्मात्राविशेषेण ज्ञातव्या प्राणजिष्णुना ॥१२०॥
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम्।
कुर्यादङ्गुलिविस्फोटं सा मात्रा परिकीर्तिता ॥१२१॥
प्राणायमगणं कुर्यात् पूर्वमस्त्रेण रेचकम्।
पूरकं हृदयेनाथ नेत्रमन्त्रेण कुम्भकम् ॥१२२॥
प्रागुक्तेनाचरेद्भूयो रेचकं द्विजसत्तम!।
वामेतराङ्गुलीभ्यां तु पिदधद्वामनासिकाम् ॥१२३॥
नाभिदेशस्थितं ध्यायेन्मूलमन्त्रेण वै हरिम्।
वासनादोषसंमिश्रान् दशप्राणान् सगर्भकान् ॥१२४॥
अगर्भश्च सगर्भश्च प्राणायामो द्विधा मतः।
जपध्यानं विनाऽगर्भः सगर्भस्तद्युत(त्सम)श्च यः ॥१२५॥
अगर्भाद्गर्भसंयुक्तः प्राणायामः शताधिकः।
आकृष्यास्त्रं समुच्चार्य दक्षिणघ्राणतो बहिः ॥१२६॥
रेचयेद्वातचक्रं तु दशनाडीष्ववस्थितम्।
मात्रयैकैकयाऽन्योन्यं मोचयित्वाऽत्र पूषि(र्वि)काम् ॥१२७॥
द्वाभ्यां तु पिङ्गलां द्वाभ्यां बहिर्नाभ्यास्तु रेचयेत्।
विरेच्यैवं हरिं तावत् संस्थाप्यादाय पावकम् ॥१२८॥
वातचक्रस्थितं ध्यायेत्तमेवान्तः प्रवेशयेत्।
दक्षिणाङ्गुष्ठतो द्वारं पिदधद्वामनासया(सिकाम्) ॥१२९॥
हरिं सवातचक्रं तं मात्राभ्यामिडयोच्चरन्।
हृन्मन्त्रमन्तः संवेश्य तं ध्यात्वा हृदये स्थितम् ॥१३०॥
मात्राचतुष्टयेनाथ तेन वातेन पिङ्गलाम्।
द्वाभ्यां सुषुम्नां गान्धारीं द्विद्विकाभिस्तु पूषिकाम् ॥१३१॥
द्वाभ्यां द्वाभ्यां हस्तिजिह्वालम्बुसे च यशस्विनीम्।
कोशिनीं च कुहूं चैव क्रमात् संपूरयेत् (यन्) गतीः ॥१३२॥
नासापुटादिकादूर्ध्वं नेत्रेणासीत कुम्भवत्।
षट्‌त्रिंशद्भिस्तु मात्राभिरथ नाभ्यग्निमिश्रितैः ॥१३३॥
परिभ्रमद्भिः सर्वत्र तैर्वातैर्दोषसंहतीः।
ध्यात्वा निरस्ता नाडीश्च शोधितास्तु शनैः शनैः ॥१३४॥
केवलं वातचक्रं तु बहिः प्राग्वद्विरेचयेत्।
यद्वा षोडशमात्रा स्याद्रेचके द्विगुणः स्मृतः ॥१३५॥
पूरकः कुम्भकोऽपि स्यात् सचतुःषष्टिमात्रकः।
नाडीस्ता मोचयेत् प्राग्वत् षण्मात्राभिस्तु पिङ्गलाम् ॥१३६॥
नाडीस्तु दश तन्त्रीभिः पञ्चमात्राभिरर्जयेत्।
प्राणायाममिदं प्रोक्तमुत्तमादिविभेदतः ॥१३७॥
त्रिप्रकारे विधानेऽत्र यथासंभवमाचरेत्।
प्राणायामत्रयं कृत्वा पञ्च वा सप्त वाऽथवा ॥१३८॥
भवेत् प्राणजयः पुंसः प्राणायामः स उच्यते।
ततस्तु कायशुद्ध्यर्थं वर्णं भौमादि विन्यसेत् । १३९॥
भूतशुद्धिं श्रृणु मुने! यथावदनुपूर्वशः।
पृथ्व्यप्तेजोनिलाकाशं शरीरं भूतपञ्चकम् ॥१४०॥
इन्द्रजालोपमं विद्धि ज्ञानाद्यैरुज्ज्ञितं गुणैः।
मलिनं चास्वतन्त्रं च रेतोरक्तोद्भवं क्षयि ॥१४१॥
यावन्न शोधितं सम्यग्धारणाभिर्निरन्तरम्।
तावदेतदयोग्यं स्यान्मन्त्रन्यासादिवस्तुषु ॥१४२॥
पञ्चभिर्धारणाभिर्वा द्वाभ्या वा शोधयेत्तनुम्।
सुषुम्नादक्षिणद्वारान्निर्गमय्य हरिं बहिः ॥१४३॥
सहस्ररविसङ्काशं वृत्तमण्डलमध्यगम्।
तप्तकाञ्चनवर्णाभमासीनं परमे पदे ॥१४४॥
मन्त्रात्मानं तु तं ध्यात्वा ह्युपरि द्वादशाङ्गुले।
प्रभाचक्रं तु तदधस्तत्वाधिष्ठातृसंयुतम् ॥१४५॥
निष्कलं मन्त्रदेहं तु ध्यात्वा तु तदधःक्रमात्।
तुर्यश्रां पीतलां भूमिं चिन्तयेद्वज्रलाञ्छिताम् ॥१४६॥
शब्दाद्यैः पञ्चभिर्युक्तां नगद्रुमसमाकुलाम्।
पुरप्राकारसुसरिद्‌द्वीपार्णवपरिष्कृताम् ॥१४७॥
संविशन्तीं स्मरेद्बाह्यात् पूरकेण स्वविग्रहे।
प्रोच्चरंश्चैव तन्मन्त्रं विश्रान्तामथ चिन्तयेत् ॥१४८॥
जान्वोः पादतलं यावत्तया व्याप्तं क्रमेण तु।
कुम्भकेन द्विजश्रेष्ठ! मन्त्रमूर्तौ स्वके ततः ॥१४९॥
शनैः शनैर्लयं यातां गन्धशक्तौ च मन्त्रराट्।
गन्धशक्तिं च तां पश्चाद्रेचकेन बहिः क्षिपेत् ॥१५०॥
तोयाख्ये च महाधारे, ततस्तोयं च वैभवम्।
ससमुद्रसरित्स्रोतोरसषटकं च सौषधिम् ॥१५१॥
यान्यन्यान्यम्बुभूतानि भूतानि भुवनान्तरे।
अर्धचन्द्रसमाकारं कमलध्वजशोभितम् ॥१५२॥
वारुणं विभवं बाह्ये ध्यात्वा तेनाथ विग्रहम्।
संपूर्य पूरकाख्येन करणेन शनैः शनैः ॥१५३॥
ऊरुमूलाच्च जान्वन्तं शारीरं मण्डलं स्वकम्।
तेनाखिलं तु संव्याप्तं कुम्भकेन स्मरेद्‌द्विज! ॥१५४॥
तन्मध्ये वारुणं मन्त्रं धारणाख्यं विचिन्त्य च।
अम्मयं विभवं सर्वं तन्मन्त्रे विलयं गतम् ॥१५५॥
ततस्तं रसशक्तौ च सा शक्तिर्वह्निमण्डले।
रेचकेन विनिक्षिप्य ततो वाह्नं च वैभवम् ॥१५६॥
त्रिकोणभुवनाकारं दीप्तिमद्भिर्विभूषितम्।
विद्युच्चन्द्रार्कनक्षत्रमणिरत्नैश्च धातुभिः ॥१५७॥
स्वप्रकाशशरीरैस्तु अशरीरैश्च खेचरैः।
चिह्नितं स्वस्तिकैर्दीप्तैर्ध्यात्वैवं विभवं महत् ॥१५८॥
तैजसं मुनिशार्दूल! तन्मन्त्रं चाथ संस्मरेत्।
तन्मण्डलान्तरस्थं तु प्रोच्चरन् वै तमेव हि ॥१५९॥
प्रविष्टं पूर्ववद्ध्यायेत्तेनैव करणेन तु।
आनाभेः पायुपर्यन्तं व्याप्तं कृत्वाऽवधार्य च ॥१६०॥
तं विप्र! विभवं सर्वं तैजसं परिभावयेत्।
तन्मन्त्रविग्रहे शान्तं तन्मत्रं चानलात्मकम् ॥१६१॥
रूपशक्तौ लयं यातं शक्तिः संविन्मयी च सा।
तया मन्त्रशरीरं स्वं स्वशक्त्या विलयीकृतम् ॥१६२॥
रेचकेन तु तां शक्तिं वाय्वाधारे बहिः क्षिपेत्।
ततस्तु वायवीयं वै विभवं बाह्यतः स्मरेत् ॥१६३॥
वृत्तं राजोपलाभं तु बिम्बैर्युक्तं तु(स्व)तैजसैः।
पूर्णं नानाविधैर्गन्धैरनेकैस्तद्गुणैस्तथा ॥१६४॥
स्वमन्त्रेण समाक्रान्तं धारणाख्येन संस्मरेत्।
तथा स्वरूपं तन्मन्त्रं ध्यात्वोच्चार्य समाहरेत् ॥१६५॥
पूर्वोक्तकरणेनैवं घ्राणाग्रेण शनैः शनैः।
आकण्ठं नाभिदेशान्तं तेन व्याप्तं तु भावयेत् ॥१६६॥
प्रागुक्तकरणेनैव वायव्यं विभवं तु तम्।
अधिष्ठातृलयं यातं स्मृत्वा तं च महामते! ॥१६७॥
स्पर्शाख्यायां महाशक्तौ तां शक्तिमविनश्वरीम्।
व्याप्तिं नित्यामनित्यां च स्वशक्तिविभावान्विताम् ॥१६८॥
शब्दाख्ये तु महाधारे निक्षिपेद्व्योममण्डले।
ध्यात्वाऽथ विभवं सर्वं व्योमाख्यं विग्रहाद्वहिः ॥१६९॥
नानाशब्दसमाकीर्णं नीरूपं चाञ्जनप्रभम्।
अविग्रहैः शब्दमयैः पूर्णं सिद्धैरसंख्यकैः ॥१७०॥
तन्मध्ये धारणामन्त्रं व्योमाख्यं संस्मरेद्‌द्विज!।
धारयन्तं स्वमात्मानं स्वसामार्थ्येन सवदा ॥१७१॥
शब्दमात्रमरूपं तु व्यापकं विभवेष्वपि।
धिया च संपरिच्छिन्नं कृत्वा विन्यस्य विग्रहे ॥१७२॥
प्रागुक्तकरणेनैव तेन व्याप्तं च भावयेत्।
आकण्ठाद्ब्रह्नरन्ध्रान्तं व्योमाख्यविभवेन च ॥१७३॥
सन्धार्य कुम्भकेनैव यावत्कालं तु योगिना।
ध्यायेत् परिणतं पश्चात् स्वमन्त्रे तु महामुने! ॥१७४॥
व्योमाख्यं धारणामन्त्रं शक्तौ पिरणतं स्मरेत्।
(घ्राणोपस्थौ धरण्यां च रसनापायुतोयके ॥१७५॥
दृष्टिपादौ हुतवहे त्वक्करौ वायुमण्डले।
वाक्च्छ्रुती व्योमतत्वे तु लयस्यादौ सह स्मरेत्) ॥१७६॥
तां शक्तिं ब्रह्मरन्ध्रेण प्रयान्तीमनुभावयेत्।
युक्तां शक्तिचतुष्केण गन्धाद्येनाविनश्वरीम् ॥१७७॥
आश्रयेन्निष्कलं मन्त्रं तत्वाधिष्ठातृसंयुतम्।
समन्त्रं विभवं भौतमेवमस्तं नयेत् क्रमात् ॥१७८॥
चैतन्यं जीवभूतं यत् प्रस्फुरत्तारकोपमम्।
भावनीयं तु विश्रान्तं निःसृतं भूतपञ्जरात् ॥१७९॥
निष्प्रपञ्चे परे मन्त्रे पञ्चशक्त्याख्यविग्रहे।
अनेन क्रमयोगेन जीव आत्मानमात्मना(म्) ॥१८०॥
ईक्षेत तद्धृदाकाशे अचलं सूर्यवर्चसम्।
स्फुरद्‌द्युतिभिराकीर्णमीश्वरं व्यापकं परम् ॥१८१॥
ततो मन्त्रशरीरस्थः समाधिं चाभ्यसेत् परम्।
गन्धतन्मात्र पूर्वाभिर्युक्तत्वात् पञ्चशक्तिभिः ॥१८२॥
हेयं चेत्थमिदं बुद्ध्वा यदा तत्स्थानबृंहितः।
अतृप्तोऽकृतकृत्यश्च मन्त्रहृत्पद्मसेवनात् ॥१८३॥
षट्‌पदो ह्यात्मतत्वश्च ज्ञानरज्ज्ववलम्ब्य च।
हृत्कोटरोर्ध्वान्निर्यान्तं स्वात्मानं स्वात्मना स्मरेत् ॥१८४॥
भारूपनाडिमार्गेण मन्त्रवह्नेः शिखा हि सा।
पद्मसूत्रप्रतिकाशा सुषुम्ना चोर्ध्वगामिनी ॥१८५॥
तद्ब्रह्मरन्ध्रगां स्मृत्वा सुपथा तेन सत्तम!।
शनैःशनैःस्वमात्मानं रेचयेज्ज्ञानवायुना ॥१८६॥
मान्त्रं करणषट्‌कं च एवमव्यापकं त्यजेत्।
प्राप्नुयाच्च तदूर्ध्वात्तु यः परात् प्रभुविग्रहात् ॥१८७॥
उदितो द्विजशार्दूल! तेजः पुञ्जो ह्यनूपमः।
तत्प्रभाचक्रनाभिस्थस्वानन्दानन्दनन्दितः ॥१८८॥
एवं पदात्पदस्थस्य ह्यात्मतत्वस्य वै ततः।
तत्वनिर्मुक्तदेहस्य केवलस्य चिदात्मनः ॥१८९॥
उदेति महदानन्दः सा शक्तिर्वैष्णवी परा।
अलुप्तकर्मकर्तारं जीवं कृत्वा तमात्मसात् ॥१९०॥
यत्रोदिता च तत्रैव पुनरेवावतिष्ठते।
तच्च संकल्पनिर्मुक्तमवाच्यं विद्धि सत्तम! ॥१९१॥
एवं स्वस्थानमासाद्य त्यक्त्वा भौतं च विग्रहम्।
तत्र स्थितो दहेत् पिण्डं शक्तितन्मात्रवर्जितम् ॥१९२॥
षाट्‌कौशिकमसारं च निर्दण्ड(ग्ध)तृणरूपिणम्।
इच्छानिर्मथनोत्थेन मन्त्रजेन तु वह्निना ॥१९३॥
तेनाङ्‌घ्रिदेशादारभ्य तं पिण्डं ज्वलितं स्मरेत्।
दक्षिणाङ्‌घ्रेरथाङ्गुष्ठप्रान्तदेशे शिखाक्षरम् ॥१९४॥
ध्यात्वा युगान्तहुतभुग्रूपज्वालाशतावृतं।
तेन स्वविग्रहं ध्यायेत् प्रज्वलन्तं समन्ततः ॥१९५॥
नाभिकन्दान्तरोद्देशे नेत्रमन्त्रेण पावकम्।
ध्यायेज्ज्वालागणोपेतं निनयेत्तेन भस्मसात् ॥१९६॥
दहनेन स्वकं देह हृन्मन्त्रं भावयंस्ततः।
देहजां भावयेज्ज्वालां मन्त्रनाथे लयं गताम् ॥१९७॥
भस्मराशिसमप्रख्यं शान्ताग्निं तमनुस्मरेत्।
(साहलादेन सुसूक्ष्मेण व्यापिनोंकारपूर्विणा ॥१९८॥
नमोऽन्तेन तु तद्भस्मपातं ध्यानान्वितस्ततः।)
तद्वाचकेन तद्भस्म यातं ध्यात्वा इतस्ततः ॥१९९॥
ततः समन्त्रं तद्बिम्बं पूर्णचन्द्रायुतोपमम्।
ध्यात्वा तन्निःसृतेनैव त्वमृतौघेन चाम्बरात् ॥२००॥
प्लावयेद्देहजां भूतिं सर्वं ध्यायेत् सुधात्मकम्।
तत्राधारमयीं शक्तिं मध्ये विन्यस्य वैष्णवीम् ॥२०१॥
बीजभूतां च सर्वस्य तदुत्थं चाम्बुजं स्मरेत्।
षडध्वं तत्वभूतं च सितं तेजोमयं शुभम् ॥२०२॥
मण्डलत्रितयाकीर्णं स्फुरत्किरणभास्वरम्।
मन्त्रात्मानं च तन्मध्ये ध्यायेन्नारायणं प्रभुम् ॥२०३॥
निष्कलं केवलं शुद्धं पञ्चसन्मन्त्रविग्रहम्।
तन्मन्त्रशक्तिभिर्भूयो भावयेन्मूर्छितं द्विज! ॥२०४॥
व्योमादिपञ्चभूतीयं मान्त्रमीश्वरपञ्चकम्।
तेभ्योऽथ प्रसरन्तं च व्योमाद्यं विभवं स्मरेत् ॥२०५॥
संयोगजनितं पिण्डं ध्यायेद्विभवपञ्चकात्।
सहस्रसूर्यसंकाशं शतचन्द्रगभस्तिमत् ॥२०६॥
निर्मलस्फटिकप्रख्यं जरामरणवर्जितम्।
जनित्वैवं स्वपिण्डं तु परमं भोगमोक्षयोः ॥२०७॥
साधनं मुनिशार्दूल! सहजं सर्वदेहिनाम्।
तमासाद्य क्रमेणैव सिसृक्षालक्षणेन च ॥२०८॥
स्वपदान्निस्तरङ्गाच्च कृत्वा शक्त्या सहोदयम्।
स्वानन्दं च महानन्दात् स्वानन्दस्याप्यपाश्रयात् ॥२०९॥
मारीचं नाभसं चक्रं तस्माद्रूपं स्वकं च यत्।
सूर्यकोटिकराभासं प्रस्फुरन्तं स्वभाससा ॥२१०॥
कदम्बगोलका(आ)कारं निशाम्बुकणनिर्मलम्।
एवमात्मानमानीय स्वस्थानात् स्वात्मना द्विज! ॥२११॥
विशेन्मन्त्रशरीरं स्वं ब्रह्मरन्ध्रेण पूर्ववत्।
ज्योत्स्नानाडीपथेनैव पुर्यष्टककजान्तरम् ॥२१२॥
स्ववाचकं भावयन् वै ध्वनिना निष्कळेन तु।
ततस्तु निष्कलान्मन्त्राद्यावद्भौतं च विग्रहम् ॥२१३॥
पञ्चकं चाभिमानं तु आसाद्यालोकविग्रहम्।
स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम् ॥२१४॥
ततः स्वमन्त्रं तद्बिम्बमाकृष्य हृदि विन्यसेत्।
निस्तरङ्गा परा शक्तिर्महानन्दमयी च सा ॥२१५॥
स्वानन्दाच्च प्रभाचक्रं रूपमात्मीयभास्वरम्।
सौषुम्नस्तादृशो मार्गः पिण्डमन्त्रश्च निष्कलः ॥२१६॥
सत्याद्यो मन्त्रशक्त्योघो धारणेश्वरपञ्चकम्।
तेषां विभवसङ्घो यः पिण्डस्तत्सामुदायिकः ॥२१७॥
स्मरेल्लोलीकृतं सर्वमपृथक् च पृथक् स्थितम्।
स्थूलसूक्ष्मपराख्येन त्रिविधेन तु सत्तम! ॥२१८॥
करणेनोदिता सम्यक् शुद्धिरेषा च भौतिकी।
शोधितैः पञ्चभिर्भूतैः पृथिव्याद्यैः खपश्चिमैः ॥२१९॥
घ्राणजिह्वाक्षित्वक्‌छ्रोत्ररूपज्ञानेन्द्रियाणि च।
उपस्थपायुपादाख्यपाणिवागात्मकानि च ॥२२०॥
कर्मेन्द्रियाणि पञ्चैव शोधितानि भवन्ति हि।
तत्रापि पूरकादीनां काल आयामवत्स्मृतः ॥२२१॥
धारणापञ्चकेनैवं मुख्यकल्पे प्रकीर्तिता।
अनुकल्पे तु तां वक्ष्ये यथावद्विनिबोध मे ॥२२२॥
क्ष्माजलानलवाय्वाख्यनाभसीयं महामते!।
धारणापञ्चकं चैव संक्षिप्तं विहितं द्वयम् ॥२२३॥
दहनाप्यायनाच्चैव यदा देहात् स्वशुद्धये।
नाभिक्षेत्रगतं ध्यायेन्मारुतं कवचेन तु ॥२२४॥
नयेद्देहगतं तेन शोषभावं रसं द्विज!।
नाभिकन्दान्तरोद्देशे नेत्रमन्त्रेण पावकम् ॥२२५॥
ध्यायेज्ज्वालागणोपेतं निनयेत्तेन भस्मसात्।
दहनेन स्वकं देहं हृन्मन्त्रं भावयंस्ततः ॥२२६॥
तिष्ठेद्गगनमाश्रित्य शिरोमन्त्रेण भावयेत्।
जलं मुक्ताफलस्वच्छं तदुद्भूतमथ स्मरेत् ॥२२७॥
शिखामन्त्रेण कमलं वसुधागुणलक्षणम्।
तदधिष्ठातृभावेन नयेदात्मनि सत्तम! ॥२२८॥
ध्यायेत्तदुत्थितं कोशं भूततत्वमयं वपुः।
हृदयादीन् स्मरन् पञ्चतत्वानां कारणात्मनाम् ॥२२९॥
ततः समाचरेन्न्यासं तस्मिन् ध्यानोत्थिते पुरे।
मुख्यानुकल्पभेदेन भूतशुद्धिः प्रक्रीर्तिता ॥२३०॥
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे समाधिव्याख्यानं नाम तृतीयोऽध्यायः॥

N/A

References : N/A
Last Updated : January 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP