TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चमत्कारचन्द्रिका - अष्टमो विलासः

श्रीहरिची माला आणि श्रीराधाचा मुक्ताहार यांची ही कथा आहे.


अष्टमो विलासः
चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता अष्टमो विलासः
उभयालङ्कारनिरूपणम् शब्देभ्यो य इवादिभ्य उपमादिः प्रतीयते । विशिष्टार्थः कवीनां ता उभयालङ्कृतयो मताः ॥१॥
उपमा रूपकं साम्यं संशयोक्तिरपढद्धठ्ठड़;नु नुतिः ।
समाध्युक्तिः समासोक्तिरुत्प्रेक्षाप्रस्तुतस्तुतिः ॥२॥
सतुल्ययोगितो लशः ससहोक्ति स्समुच्चयः ।
आक्षेपार्थान्तरन्यासौ सविशेषा परिष्कृतिः ॥३॥दीपनक्रमपर्यायातिशयश्लेषभावनाः ।
संस्टष्टिरिति निर्दिष्टास्ताश्चतुर्विंशतिर्बुधैः ॥४॥
प्रसिद्धेरनुरोधेन सादृश्यं यत्र धर्मतः ।
प्रतीतं कथितं वा स्यादर्थयोरुपमा हि सा ॥५॥
पदवाक्यप्रपञ्चाख्यैर्भेदैस्त्रेधा भवेदियम् ।
पदोपमा द्विधा तत्र समासात् प्रत्ययादपि ॥६॥
तत्राद्या च चतुर्भेदा ज्ञेया सर्वसमास्गा ।
अन्तर्गतद्योतकार्था तुल्यधर्मार्थगर्भिता ॥७॥
अन्तर्भूतोभयार्था चेत्यासां लक्ष्यं प्रदश्र्यते ॥८॥
आशाकाशावकाशप्रसृमरयशसो भाग्यसौभाग्यराशेः रैचर्तेयान्वयेन्दो रघुपतिसदृशः कौमुदीकान्तकान्तेः । बाहौ शेषाहिदीर्घे जलजकरतले भाति विश्वंभरेयं क्रुध्यत्कालाहिदंष्ट्रां मुखविकटमुखीं खड्ड्डत्ध्;गरेखां दधाने ॥१॥
अत्र क्रुधयदित्यादिपदे उपमानस्याहिदंष्ट्रामुखस्य तुल्यधर्मस्य विकटत्वस्य खड्ड्डत्ध्;गमुखस्योपमेयस्य चस्वस्वशब्दैरभिधानेन द्योतकार्थस्य प्रतिभानात् सर्वमुपमानोपमेयतुल्यधर्मद्योतकं समासे संभवतीति सर्वसमासा नामेयं पदोपमा । शेषाहिरिवदीर्घः शेषाहिदीर्घ इत्यत्र द्योतकार्थ उपमानानि सामान्यवचनैरिति समासेनोक्त इति सेयमन्तर्गतद्योतकार्था नाम समासपदोपमा । जलजमिव ताम्रं करतलं यस्यायं जलजकरतल इत्यत्रान्यपदार्थंसमास एवद्योतकतुल्य धयोरन्तर्मर्भूतत्वादियमन्तर्भूतोभयार्था नाम समासपदोपमा । चतुर्धा विद्यतेऽन्यापि प्रत्ययार्थप्रभेदता  । प्रत्ययोऽप्युपमानोपमेयद्योतकतुल्यभाक् ॥९ ॥तत्रोपमानार्थप्रत्यया यथा राज्ञा श्रीसिङ्गभूपालबाहुना बहुराहुणा । कल्पपादपकल्पेन पालिता ललितेन भूः ॥२॥
अत्र यद्यपि राहुरिव राहुः कल्पपादप इव कल्पपादप इति चाभेदोपचारव्यावृत्त्या राहुकल्पशब्दयोरुपमानभाविनोरप्युपमेये बाहौ वृत्तिः । ताभ्यां च यद्यपि स्वार्थे एव बहुच्कल्पप्प्रत्ययौ भवतः तथापि यथा शूरादिभ्य उत्पद्यमानास्तरबादयः शौर्यस्यैवातिशयमवगमयन्ति न पुनःशौयश्रियस्य तद्वदिमावपि गुणभूतमेवोपमानार्थं ब्रुवाते इति सेयमुपमाना र्थप्रत्यया नाम प्रत्ययोपमा । उपमेयार्थप्रत्ययो यथा कल्याणाचलकार्मुकोपम समित्संरंभजृम्भानिधे श्रीसिङ्गक्षितिनाथमण्डड्डत्ध्;नमणे दुर्वारदोंर्विक्रम् । पारावारबिराविणीषु विजयप्रस्थानभेरीषु ते काकक्रोशि कुरङ्गधावि च कुलं विद्वेषिणां जायते ॥३॥
अत्र पारावारा इव रुदन्ति पारावारविराविण्य इत्यत्र कर्तर्युपमान इति सामानाधिकरण्येन कर्तव्ये च प्रत्यये उपमेयार्थप्रत्यया नाम पदोपमा । अनयैव भङ्गया काकक्रोशिकुरङ्गधावीत्यत्रापि द्रष्टव्यम् । द्योतकार्थप्रत्यया यथा कल्याणशैलवदुपाश्रितपारिजाते श्रीसिङ्गभूपतिलके कटकप्रदीपे ।
पुण्यक्रियाभिरनुवासरमेधमाना रेचर्लसन्ततिवदेति मही प्रतिष्ठाम् ॥४॥
अत्र कल्याणशैलो मेरुः तद्वदित्यत्र तत्र तस्येवितीबार्थे वतिः । रेचर्लसन्ततिवदित्यत्र तु तेन तुल्यं क्रिया चेद्वतिंरिति द्योतकार्थ एव न पुनस्तुल्यक्रियार्थ इति द्योतकार्थप्रत्यया नाम पदोपमा । तुल्यधर्मार्थप्रत्यया यथा उद्दण्डड्डत्ध्;प्रतिगण्ढभैरवविभो रज्यत्कटाक्षे रुषा गेहीयन्ति विरोधिनां गिरिगुहा स्तल्पायते शाद्वलम् । सौधीयन्ति तटे च ते कपिचमूचारं चरन्तो वने पश्यन्ति प्रभुदर्शमुग्रशबरानेणीसुतीयन्ति च ॥५॥
अत्र गेहानीवाचरन्ति गेहीयन्तीत्यत्र क्यच् प्रत्यय उपमानादाचार इति क्रियाविशेषलक्षणे तुल्यधर्मार्थ एव समुत्पन्न इति सेयं तुल्यधर्मार्थप्रत्यया नाम पदोपमा । सैवाधिकरणक्यचा यथा अत्र सैध इव आचरति सौधीयन्तीत्यत्राधारक्यच्प्रत्ययोऽपि तुल्यधर्मार्थ एवेति सेयं तादृशी । सैव क्रियया यथा उद्दण्डड्डत्ध्;प्रतिगण्जभैरव भवद्बाणा रणे विद्बिषां भेतालन्ति हलाहलन्ति दहनज्वालन्ति कालन्ति च । श्रीसिङ्गक्षितिपाल पालितगुण त्वत्कीर्तिविस्फूर्तयो नीहारन्ति हरन्ति निर्जरवराहारन्ति हारन्ति च ॥६॥
अत्र भेतालन्तीत्यादिषु क्रियासु तदिवाचरतीत्याचारलक्षणतुल्यधर्मार्थे क्विबुप्तन्न इति सेयमपि तुल्यधर्मार्थप्रत्यया नाम पदोपमा । मिथः पदार्थयोस्साम्यात्तथा वाक्यार्थयोरपि ।
वाक्योपमा द्विधा ज्ञेया तत्राद्या द्विविधा मता ॥१० ॥
पूर्णा लुप्तेति पूर्णात्र चतुरङ्गसुसङ्गता ॥११॥
यथा यथा राकाचन्द्रे सकलजगदानन्दजनने सरोजे गौरे बा सुरभितदशाशापरिषदि ।
महारत्नोल्लासिन्युरसि दनुजारेरिव रुचिं परां धत्ते सिङ्गक्षितिप भवती श्रीरतितराम् ॥७॥ अत्रोपमानोपमेयद्योतकतुत्यधर्मरूपैश्चतुर्भिरङ्गैः सङ्गतेरियं पदार्थसाम्यवती पूर्णा वाक्योपमा ।
लुप्ता तु त्रिविधा तुल्यद्योतकोभयलोपतः ॥१२॥
अत्र तुल्यधर्मलोपवती यथा श्रीसिङ्गधरणीपाल तव कीर्तिपरंपरा ।
स्पर्धते चन्द्रिकापूरैर्दृप्ता बलवदाश्रयात् ॥८॥
अत्र तुल्यधर्मस्य धवलिमादेरनभिधानेऽपि प्रसिद्धिबलेनोपमानोपमेयभावस्य प्रतीतेरियं तुल्यधर्मवती वाक्योपमा । सैव द्योतकलोपवती यथा श्रीसिङ्गधरणीपाल रत्नसानुर्भवानपि ।
झ्योतिर्विराजत्कटकौ कल्याणाकारशोभिनौ ॥९॥
अत्र इवादिद्योतकमन्तरेणापि रत्नसानुनायकरत्नयोरुपमानोपमेययोरितरेतरयोगिनैकशेषेण तद्विशेषणयोस्समुदायेनन च द्वयोः सादृश्यं प्रतीयत इतीयं द्योतकलोपवती नाम पदार्थसाम्यवती वाक्योपमा । नात्र श्लेषशङ्का । सिद्धसादृश्ययोः तन्त्रेणाभिधानं श्लेषः । सादृस्यं पुनरुपमानोपमेयभावविवक्षा । तेन श्लेषस्य द्योतकलोपोपमायाश्च विविक्तविषयता व्यक्त्तैव । उभयलोपवती यथा न कर्पूरा न नीहारा न च शारदचन्द्रिकाः ।
किन्तु स्फुरन्ति श्रीसिङ्गधरणीपालकीर्तः ॥१०॥
अत्र तुल्यधर्मद्योतकाभ्यां विनापि नायककीर्तिषु कर्पूरादिभ्रान्तिप्रत्याख्यानेनैव तदुपमानोपमेयभावप्रतीतेरियमुभयलोपवती नाम पदार्थसाम्यवती वाक्योपमा । केचिदेनां त्रिलोपवतीमपि मन्यनेते । उपमानोपमेययोरन्यतरकथने कस्य साधम्र्यमित्यसंमतमित्यस्माकम् । वाक्यार्थगामिन्युपमा चतुर्धैकेवशब्दिका । अनेकद्योतकेवादिशून्यावैधग्र्यवत्यपि ॥१३॥
एकद्योतका यथा सिंहासने राजति सिङ्गभूपो वक्षस्थलान्दोलिततारहारः । आलम्बदीर्घस्तभकाभिराम- स्तटे सुमेरोरिव कल्पवृक्षः ॥११॥
अत्र मेरुतट सिंहासनयोः कल्पवृक्षनायकयोस्तबकहारयोश्च परस्परमुपमानोपमेय भावविवक्षायां विशेषणविशेष्यभावकल्पनया द्वयोरेव वाक्यार्थयोः कल्पितत्वादेकेनैव द्योतकशब्देन तयोः परस्परमुपमानोपमेयभावोऽभिहित इति सेयमेकद्योतका नाम वाक्यार्थसाम्यवती वाक्योपमा । अनेकद्योतका यथा श्रीसिङ्गधरणीपालो भास्वानिव महोदयः । हन्ति ध्वान्तमिवारातिव्रातं व्योम्नीव सङ्गरे ॥१२॥
अत्र वाक्यद्वयैकतापत्तिकामनया कर्तुः कर्मणोऽधिकरणाच्चोपमानात् पृथक् पृथग् द्योतकशब्दः कृत इति सेयमनेकद्योतका नाम वाक्यार्थसाम्यवती वाक्योपमा । द्योतकहीना यथा देवानां दिवि रक्षणाय मघवा जागर्ति दंभोलिना साधूनां भूवि सिङ्गभूपतिरयं खड्ड्डत्ध्;गेन शातास्रिणा । रत्नादौ प्रथमो मुदा विहरते रम्भादिभिर्वैभवा- द्राजाद्रावितरोऽपि रोपितयशाश्शुद्धान्तकान्ताजनैः ॥१३॥
अत्र सुरनायकयोः स्वर्लोकभूलोकयोः देवभूदेवानां दम्भोलिकरवालयोश्च तुल्यैकश्रिया समावेशादिवादिद्योतकमन्तरेणापि वाक्यार्थानामुपमानोपमेयभावो गम्यत इत्ययं द्योतकशून्या नाम वाक्यार्थसाम्यवती वाक्योपमा । वैधम्र्यवती यथा अविवेकी न सुरभिव च्चिन्तामणिरिव न याति काठिन्यम् ।
श्रीसिङ्गभूपतिलको शिव शिव भूलोकसौभाग्यम् ॥१४॥
अत्रोपमानोपमेयद्योतकेषु स्त्सु योयमविवेको नाम धर्मः सोऽयमुपमान एव कविना नियम्यत इतीयं वैधम्र्यवती नाम वाक्योपमा । यत्रोक्तिभढद्धठ्ठड़१४;ग्या वाक्यार्थे सादृश्यमवगम्यते ।
वाक्यार्थयोर्विस्तरतः सा प्रपञ्चोपमा यथा ॥१४॥
सेयं द्वेधा हि रूपेण प्रकृताप्रकृतेति च ।
तयोः प्रकृतरूपा र्याच्चतुर्धा सकलोपमा ॥१५॥
एकदेशोपमा चान्ये मालिका मेखलेति च ॥१६॥
तत्र सकलोपमा यथा मैनाकप्रमुखैरिव क्षितिधरैरुद्भ्रान्तदन्तावलैः कल्लोलैरिव घोटकैर्भटवरैर्मातङ्गनक्रैरिव । रैचर्लीयकुलेन्दुना स्वपतिना दैत्यारिणेव स्फुटं सेना सिन्धुरिव प्रयाति नितरां केनापि दुर्लङ्घताम् ॥१५॥
अत्र सिन्धोः सेनायाश्च दुर्लङ्घतयाभिधीयमानसादृश्ययोरुपमानोपमेयभावविवक्षायां यथा मैनाकादिशैलानां मातङ्गादीनां समुद्रसेनाधर्माणां प्रतीतसादृश्यानां पृथक् पृथग् द्योतकशब्दयोगादतिविस्तरेणावयविनोरवयवानां च यथोचितं साकल्येन वाक्यार्थयोरौपम्ये भङ्गिः सेयं साकल्यवती नाम प्रकृतिरूपा प्रपञ्चोक्तिः । एकदेशवती यथा विलसति सिङ्गनृपालो नावकिसलयसंपुटैरिवाङ्गुलीभिः ।
कुसुमैरिव नखरुचिभि- र्विटपयुगलेनेव बाहुयुगलेन ॥१६॥
अत्र कल्पवृक्षनायकयोरुपमानोपमेयभावे वक्तव्ये कल्पवृक्षलक्षणमुपमानं परित्यज्य तदेकदेशेन सहोपमेयैकदेशो बाहुयुगलाशंसावयवैः (किसलय) किसलयकुसुमैस्सह भुजयुगाङ्गान्यङ्गुल्यः नखरुचयश्च पृथक् पृथग् द्योतकशब्दप्रयोगाद्विस्तरेणोपमितानीतीयमेकदेशवती नाम प्रकृतरूपा प्रपञ्चोपमा । मालिका यथा कर्पूरैरिव कौमुदैरिव कुलैः काशैरिव स्वर्णदी- कल्लोलैरिव कैतकैरिव दलैः कादम्बयूथैरिव । श्रीगन्धैरिव शारदैरिव गनैः शीतांशुबिंबैरिव व्याप्तं सिङ्गनरेन्द्रकीर्तिविभवैः त्रैलोक्यमालोक्यते ॥१७॥
अत्र नायककीर्तिरेकैकप्रकर्षप्रतीतये मालिकाप्रकारेण कर्पूरादिभिरुपमीयत इतीयं मालिका नाम प्रकृतरूपा प्रपञ्चोपमा । मेखला यथा प्रज्ञेव कीर्तिरमला तव सिङ्गभूप प्रज्ञापि खङ्ग इव तीव्रतरा विभाति ।
खङ्गः प्रताप इव शात्रवचित्तदाही प्रान्तान् दिशां भजति कीर्तिरिव प्रतापः ॥१८॥
अत्राभिधीयमानसादृस्यानां प्रज्ञादीनां रशनान्यायेन संकलय्य सप्रपञ्चतया कथनात्सेयं मेखला नाम प्रकृतरूपा प्रपञ्चोपमा । उक्ता विकृत रूपेति यान्या सापि चतुर्विधा ।
विपर्यासोभयोत्पाद्यानन्वयाख्याभिरङ्किता ॥१७॥
तासु विपर्यासोपमा यथा कोणे कुत्रचिदासतां करिणिकि क्रोडड्डत्ध्;ादयः केचन प्राचीनास्तदुपाश्रयान्वयममी दोषान्न भाषामहे ।
केयूरं स्मरगस्मरस्य शयनं शौरेर्गिरां शासिता श्रीसिङ्गक्षितिनायकेन समतां शेषाहिरेवार्हति ॥१९॥
अत्र प्रतीयमाने धरणीधौरेयत्वे शेषादीनामुपमानत्वं नायकस्योपमेयत्वमिति मर्वादायां वर्णनीयस्यातिशयं विवक्षता केनापि वक्ता विपर्यासादुपमानोपमेयभावः कल्पित इति सेयं विपर्यासोपमा नाम विकृतरूपा प्रपञ्चोपमा । उभयोपमा यथा श्रीसिङ्गभूपालक साधुरक्षा- मासधुशिक्षां च वितन्वतस्ते ।
अनीकिनीसिन्धुरिवानुरुन्धे दुर्लंघ्यतां सिन्धुरनीकिनीव ॥२०॥
अत्र वाहिनीनाथनायकवाहिन्योरन्योन्यमुपमानोपमेयभावविवक्षायामेकतरपक्षे प्रसिद्धिवैकृतमितीयमुभयोपमा नाम विकृतरूपा प्रपञ्चोपमा । उत्पाद्योपमानो यथा कालापां यदकल्पपादपमहाशाखा समालंबते श्रीसिङ्गक्षितिपालबाहुरनया तुल्यः कृपाणोज्ज्वलः ।
हेमाद्रेरुपरि स्थिते यदि विधौ पाश्चात्यगौरान्धता तच्छत्रं कृतशातकुम्भकलशं जातोपमानं भवेत् ॥२१॥
अत्र कल्पपादपशाखायाः कालाहिसंकल्पमुत्पाद्यानया सकृपाणो नायकपाणिरुपमीयत इति सेयमुत्पाद्योपमा नाम विकृतरूपा प्रपञ्चोपमा । एवमुत्तरार्धेऽपि योजनीयम् । अनन्वयोपमा यथा श्रीसिङ्गभूपतिरिव भाति श्रीसिङ्गभूपतिः ।
अखर्वप्रत्यर्थिमदवारणवारणे ॥२२॥
अत्रोपमानोपमेयभाव एकस्यैवानन्वित इतीयमनन्वया नाम विकृता प्रपञ्चोपमा । उपमेयतया यस्मिन् उपचारप्रयोगतः ।
उपमानं विरुध्योत रूपकं तन्निरूपितम् ॥१८॥
प्राधान्यात्तदिदं त्रेधा शब्दार्थोभयसंभवात् ।
शब्दप्रधानं प्रकृतं विकृतं चेति तद् द्विधा ॥१९॥
आद्यन्तविकृतैश्शब्दैग्र्रथितं तच्चतुर्विधम् ।
समस्तं व्यस्तमुभयं सविशेषणमित्यपि ॥२०॥
तत्र समासवद्रूपकं यथा धारा सिङ्गमहीपालकरवालपयोमुचः ।
निर्वापयति वीराणां प्रतापदवपावकम् ॥२३॥
अत्र सादृश्यादि विवक्षायामभेदोपचारेणोपमेयस्य करवालस्य पयोमुगिव पयोमुगिति पयोमुक्पयोदनिरूपणीयत्वे सामान्येवाद्य प्रयोगादुपमार्थस्तिरोभूतः समासश्च कृत इति तदिदं समस्तं नाम प्रकृतिशब्दप्रधानरूपकम् । व्यस्तं यथा श्रीसिङ्गक्षितिनायकस्य यशसां चन्द्रेण सान्द्रा रुचिः यत्प्राप्ता तपनं प्रतामपभितो लोके तदत्यद्भुतम् । एवं नातिचमत्कृतं तदनयोरत्यन्तमाश्लिष्यतो- रापत्यातिथयो भवन्ति यदमी प्रत्यर्थिपृथ्वीभूजः ॥२४॥
अत्र यशसो चन्द्रेण प्रतापं तपनमिति द्वयोरुपमानयोरुपमेयशब्दसामानाधिकरण्यादुपमानार्थस्तिरोहितः समासश्च कृत इति समस्तं नाम प्रकृतशब्दप्रधानंरूपकम् । समासासमासरूपमुभयं यथा श्रीसिङ्गभूपाल भवत्कृपाणो दंष्ट्रा भुजादण्डड्डत्ध्;भुजङ्गमस्य ।
विरोधिराजन्यकमिन्दुबिम्बं हीनं यशश्चन्द्रिकमाविधत्ते ॥२५॥
अत्र भुजाभुजङ्गमस्य समस्तत्वं दंष्ट्रेत्यसमस्तमिति तदिदमुभयं नाम प्रकृतिशब्दप्रधानं रूपकम् । सविशेषणं यथा अन्तंरुद्धान्तसञ्चारश्रीसिङ्गनृपमन्दरम् ।
भवति द्विषतां सैन्यं पीयूषमधनांभुधिः ॥२६॥
अत्र नायकमन्दरक्षुभितविशेषणमिव विशिष्टैरेव वाहिनीनाथवैरिवाहिन्यो रूपणमिति सविशेषणं नामेदं प्रकृतिशब्दप्रधानरूपकम् । अत्र परम्परा यथा गुणकेतुदुकूलपट्टिका त्रिजगत्सौधसुधावलेपनम् ।
तव सिङ्गमहीपते यशः सुजनांभोनिधिपूर्वचन्द्रमाः ॥२७॥
अत्र गुणानां केतुतया रूपणं प्रथमम् । तत्संबन्धितया दुकूलपट्टिका द्वितीयम् । तस्या यशसा तृतीयम् । इति सेयं परंपरा नाम विकृतशब्दप्रधानरूपकम् । तदिदं वैधम्र्येणापि संभवति । यथा वदन्दि गिरि कुलिशधारा कलिमलददहन नवपयोधरधारा ।
विलसति कटाक्षरेखा तव सिङ्गक्षितिप कल्पवृक्षसुरेखा ॥२८॥
एतदेव रुपकस्य रुपकहेतुतया रूपकहेदुरुपकमिति केचिदाचक्षते । तदपि नाम वैकृतमेव । मेखला यथा राज कुमार द्विरदैर्द्विरदं शिलाभिश्शिला शिखा सौधैः ।
सौधविमानैर्ललितैः कलिता राजाद्रिराजधानीयम् ॥२९॥
अत्र राजकुमारद्विरदादीनां रूपकाणां रशना न्यायादुत्तरोत्तरसंकलन्या रूपितत्वादियं मेखला नाम विकृतशब्दप्रधानं रूपकम् । तदिदं शृङ्खलेति केचिदाचक्षते । तन्नामभेमात्रम् । मालिका यथा चूडड्डत्ध्;रत्नं नृपषरिषदामर्थिनां पारिजातो रक्षालासः सुचरितवतां भाग्यराशेर्निधानम् । लीलारङ्गो वरतनुदृश्म (?) र्गला दुर्नयानां सिङ्गक्षोणीतलपतिरयं राजते राजशैले ॥३०॥
अत्र एकस्मिन्नव नायके मालिकाप्रकारेण रूपकाणां निरूपणादिदं मालिका नाम विकृतशब्द प्रधानं रुपकम् । रूपकरूपकं यथा कृपाणवत्र्लीभुजगो श्रीसिङ्गधरणीभुजः । अशेषं ग्नसते वैरिराजरत्नेन्दुमण्डड्डत्ध्;लम् ॥३१॥ अत्र वल्लीत्वेनारोपितस्य कृपाणस्य भुजगतया रूपणादिदं रूपकरूपकं नाम विकृतशब्दप्रधानरूपकम् । तदेतच्चतुष्टयमपि परंपरादिवैकृतेन निबद्धमिति विकृतमित्युच्यते । अर्थप्रधानं प्राधान्यादङ्गिनोऽङ्गस्य च द्विधा । चतुर्धाङ्गिप्रधानस्य रूपकाद्यैर्निरूपितम् ॥२१॥
सकलं विकलं युक्तमयुक्तमिति भेदतः ॥२२॥
तत्र सकलं यथा निष्यन्दमानसरसोक्तिमरन्दसारं विस्तारिलोचनपलाशविशेषरम्यम् ।
श्रीसिङ्गभूप भवदीयमुखारविन्द- मध्यास्यते कमलया परमादरेण ॥३२॥
अत्र नायकमुखारविन्दावयविनोपमानोपमेयौ कथितसादृश्यैः सरसोक्तिमरन्दलोचनपलाशैः स्वावयवैस्सह यथाविवक्षितं साकल्येन रूपिताविति तद्योग्यवस्त्वाधारत्वकथनादस्यैव प्राधान्यमिति च तदिदं सकलं नामाङ्गिप्रधानमर्थप्रधानं रुपकम् । विकलं यथा श्रीसिङ्गभूपालमुकं स्मितज्योत्स्रामनोहरम् । भुज्यन्नाननुसंधत्ते विकसन्नयनोत्पलान् ॥३३॥
अत्र स्मितज्योत्स्नयोरवयवयोः निरूपणं निरूप्यावयवेन पूर्णेन्दुलक्षणस्योपमानस्यानभिधानात् तदिदं विकलं नामाङ्गिप्रधानं रूपकम् । राजहंसोपसेव्येन राजकीर्तिबिसश्रिया ।
पझाकरेण भवता भूयते सिङ्गभूपते ॥३४॥
अत्रारोप्यमाणयोः परस्परसंगतेर्योग्यत्वादिदं युक्त्तं नामाङ्गिप्रघानं रूपकम् । अत्र यद्यपि पझाकर इति गौणवृत्तिव्र्यपाश्रयत इति शद्ब एव विशेषणैरलङ्कियते तथापि पझाया आकर इति श्लेषसामथ्र्येन मुख्यस्येव भवति शद्भार्थस्य प्राधान्यमवगम्यत इत्यर्थप्रधानमेवैतत्  ।अयक्त्तं यथा कीत्र्यमृतं शुचि दधती धारागरलेन विदधती भीतिम् ।
श्रीसिङ्गभूप विलसति तावककरवालकालिन्दी ॥३५॥
अत्रारोप्यमाणयोः सुधागरलयोः स्वभाव विरुद्धत्वेन परस्परसंगत्ययोगत्वादयुक्त्तं नामाङ्गिप्रधानं रुपकम् । भेदा अङ्गप्रधानस्य चतुरश्चतुरा विदुः ।
सहजाहार्यतद्योगतद्वैषम्यैरुपाधिभिः ॥२३॥
तत्र सहजाङ्गप्रधानं यथा आरूडड्डत्ध्;स्तनमञ्जरीपरिकरा हासप्रसूनाचिता रागाञ्चत्सुकुमारबाहुलतिकास्ताम्राधराग्रछदाः  । सामन्तक्षितिपैरुपायनतया सेवातुरैरर्पिताः श्रीसिङ्गक्षितिपालमादरमयं कुर्वन्ति कन्यालताः ॥३६॥
अत्र कन्यापक्षे पयोधर मन्दस्मितभुजादरलक्षणानां लतापक्षे मञ्जरीप्रसूनद्विरेफपत्र्लवरूपाणां चावयवानां नायकोत्सुकीकरणे प्राधान्यमिति सहजाङ्गप्रधानरूपकमिदम् । आहार्यप्रधानं यथा आशाप्रान्तपचेलिमं प्रसरणप्रौढप्रतापातप- स्फायद्बान्धवपुणडड्डत्ध्;रीकपरितोल्लासानुकूलोदयः । उद्दण्डड्डत्ध्;प्रतिगण्डड्डत्ध्;भैरवजनप्रस्थानदर्पात्ययो वैरिक्ष्मापति कीर्तिकेतकदलद्रोहाय संनह्यते ॥३७॥
अत्र नायकविजययात्रापक्षे प्रतापबन्धुवैरिकीर्तिलक्षणानां शरत्पक्षे आतपपुण्डड्डत्ध्;रीककेतकप्रसूनानां चावयवतया कल्पितत्वादाहार्याणां संनहने प्राधान्यमित्याहार्याङ्गप्रधानं रूपकमितीदमुभय प्राधान्यम् । तद्योगों : यथा उद्दण्डड्डत्ध्;प्रतिगण्डड्डत्ध्;भैरवविभो खङ्गप्रतापानलो- द्धूतप्रौढकृपाणधूमपटलः क्रोधस्फुलिङ्गोत्कटः । दिक्कोटीपुटरूढवैशिखमुखज्वालज्वलत्प्रस्फुटं प्रत्यर्थिक्षितिनाथसैन्यगहनाद्गोछाय(?) संलक्ष्यते ॥३८॥
अत्र नायकप्रतापपक्षे कृपाणक्रोधविशिखमुखलक्षणानामाहार्याणामनलपक्षे धूमस्फुलिङ्गशिखानां सहजानां चावयवानां रुपकाणां वैरिराजन्यक्षोभकरणे प्राधान्यमिति सहजाहार्याङ्गप्रधानं रूपकमिदम् । वैषम्यवाद्यथा श्रीसिङ्गक्षितिनाथबाहुभुजगे ताम्राङ्गगुलीपल्लवे गाढस्कन्धनिरूढमंजुमधुरे कल्यापणरेखोज्ज्वले । दूरप्रसृतदुष्टशिक्षकपुरामात्याभिषिक्त्तोद्धुरः स्कन्धावाससुखं चरस्थितिमती विश्वंभरा जृम्भते ॥३९॥
अत्र भुजावयविनो भुजगतया रूपणे कृते तदवयवानामङ्गुलीनां पत्र्लवतारूपया रूपणया पदान्तराणां स्कन्धशुभरेखाणां रूपणं चेति सर्वतो वैषम्यात् ताम्राङ्गुत्र्यादीनां भाग्यद्वारा धरणीभरणस्थैर्ये प्राधान्याच्च तदिदं विषमाङ्गप्रधानं रूपकम् ।
द्विधा शभ्दार्थमुख्यस्स्यात् केवलं व्यतिरेकि च ॥२४॥
केवलं यथा कुर्वन् कुवलयोल्लासं श्यामारञ्जनलालसः ।
सुधाकरोऽपि श्रीसिङ्गभूपालेन्दुः प्रकाशताम् ॥४०॥
अत्र नायकावयविनः कुवलयस्य चन्द्रतया रूपणेन शब्दप्राधान्यमुक्तश्लिष्टविशेषण विशेषादर्थस्य प्राधान्यमिति केवला नामेदमुभयप्रधानं रूपकम् । व्यतिरेकिकं यथा अभङ्गो वाराशिः विगलितकलङ्को हिमरुचि- र्विवेकी हेमाद्रिः कलितनिजमूर्ती रतिपतिः ।
अनिन्द्यो देवेन्द्रः कुटिलगतिहीनो भुजगराड्ड्डत्ध्; जनानां भाग्येन क्षितिमवति सिङ्गक्षितिपतिः ॥४१॥
अत्र वाराशिप्रभृतीनामभङ्गादिविशेषणाङ्कुरितव्यतिरेकाणां नायकसामानाधिकरण्येन कथनादर्थत श्शब्दतः प्राधान्यमवधार्यत इति व्यतिरेकवन्नामोभयप्रधानं रूपकम् । इत्यष्टादशधा रूपं रूपकस्य निरूपितम् ।
सढद्धठ्ठड़;कीर्णं मिश्ररूपत्वात् सङ्करान्नातिरिच्यते ॥२५॥
विद्याधरस्य व्यस्तादि रूपकेष्वचमत्क्रियाम् ।
वदतो लक्ष्यनिर्माणकातर्यं मूलकारणम् ॥२६॥
उभयोरुक्तिचातुर्यादौपम्यं यत्र गम्यते ।
उपमारूपकान्यत्वे सा हि साम्यमहङ्किया ॥२७॥
सेयं प्रपञ्चदृप्टान्तप्रतिवस्तूक्तिभिस्त्रिधा ।
अविवादिः प्रपञ्चोक्तिः साम्योत्कर्षाप्रकर्ष भाक् ॥२८॥
अत्र साम्यवती प्रपञ्चोक्तिर्यथा ... ... ... ... फलैः प्रेक्षासूतै र्वचनपरिपाकं कृतधियाम् ।
स्वरं वीणाक्वाणैर्ललितमुपधा वारसुदृशां जिगीषा यात्रायां भरितदिशि सिङ्गक्षितिपतिः ॥४२॥
अत्र कुलगिरि द्राक्षाफलविपञ्चीक्वाणानामुपमानानां मत्तेभसाहित्यगायिकास्वराणामुपमेयानां तुलाधृतवत्साम्यमितीत्यादिद्योतकमन्तरेणापि चतुरोक्तिभढद्धठ्ठड़;ग्या प्रतीयत इति सेयं साम्यवती प्रकृतप्रपञ्चोक्तिर्नाम साम्यालङ्कारभङ्गः । सेयं विकृतापि संभवति । यथा मिमीते मत्तेभैः कुलगिरिकुलं तुङ्गशिखरं फलानि द्राक्षाणां वचनपरिपाकैः कृतधियाम् ।
विपञ्चीनिक्वाणं श्रुतिभिरुपधा वारसुदृसां जिगोषा यात्रायां भरितदिशि सिङ्गक्षितिपतिः ॥४३॥
अत्र कुलशैलादीनामुपमेयत्वं मत्तेभानामुपमानत्वं च प्रसिद्धवैपरींत्येन कल्पितमिति सेयं विकृतप्रपञ्चोक्तिर्नाम साम्यभेदः । प्रकृतैवोत्कर्षेण यथा मा गर्वीयत मेदिनि सुमनसो रेचर्लवंशाग्रणीः श्रीसिङ्गक्षितिपालको वितरणैर्मुष्णाति तृष्णामिति  । सन्त्येवंविधकर्मठास्सुरगवीकल्पद्रुचिन्तामणि- श्रेणीसिद्धरसाजयो घनदयास्कन्धानुसंधायिनः ॥४४॥
अत्र भोभो विश्वंभरामराः किमनेनैव वितरणशालिना नायकेन गर्वायध्वे । दिविषदां पुनरनेकसन्ततिकल्पवृक्षादयो दातार इत्युपमानोत्कर्षादियमुत्कर्षवती प्रपञ्चोक्तिर्नाम साम्यभक्तिः । सैवापकर्षेण यथा कुर्वन्मार्जितमम्बरे जलनिधौ संक्षालयन् घर्षयन् देहं मेरुशिलासु चन्द्रकि जवं नक्त्तं दिवं भ्राम्यसे । किं कृत्वा हृदि सिङ्गभूपतियशो राजासि किं भ्रूमहे सत्यं शक्यमपोहितुं नहि नहि स्वाभाविकी श्यामिका ॥४५॥ अत्रोपमेयान्नायकयशोविलासादुपमानस्य चन्द्रस्यापकर्ष इत्यपकर्षवती नाम प्रपञ्चोक्तिः । अनयैव भङ्ग्या विकृतिरपि लक्षणीया । सद्धिद्र्योतकसद्भावे दृष्टान्तोक्तिरितीरिता ।
मिश्रितामिश्रितैस्सेयं क्रियाद्यैर्बहुधा भवेत् ॥२९॥
अत्र मिश्रक्रियया यथा निवर्तमानां विनिवर्तमानां कृतप्रसारां रचितप्रसाराम् । श्रीसिङ्गभूपालकटाक्षरेखां छायेव लक्ष्मीरनुभाति नित्यम् ॥४६॥ अत्र केवलनिवर्तनादिक्रियायोगजनितं साम्यं वा दृष्टान्तपूर्वमिति सेयं केवलक्रियायोगवती दृष्टान्तोक्तिः । मिश्रक्रियायोगवती सैव यथा अत्रैव द्वितीयपादस्थाने कृतप्रसादां रचितप्रसादेतिपाठे निवर्तनक्रिया प्रसादगुणनिमित्तसाम्या मिश्रक्रियायोगवतीयं दृष्टान्तोक्तिः । एवं मिश्रामिश्रजातिगुणद्रव्ययोगनिमित्ता दृष्टान्तोक्तयो द्रष्टव्याः । ननु दृष्टान्तोक्त्तेः दृष्टान्तालङ्कारस्य वा को विशेषः । श्रूयताम् । लौकिकपरीक्षकाणां यस्मिन्नर्थे बृद्धिसाम्यं स दृष्टान्त इत्यर्थं प्रति न कश्चिद्भेदः । उक्तिभङ्गिमुद्दिश्य पुनरनेको विद्यते । यथा हि साध्यसिद्धिप्रयोजनो दृष्टान्तः । साधम्र्यंसिद्धिप्रयोजनादृष्टान्तोक्तिः ।
दृ-ष्टान्ते द्योतकगन्धोऽपि नानुसन्धीयते । इहतु द्योतकप्रयोगस्याधिकार इत्याद्यत एवेयमुभयालङ्क्रिया । वस्तु किञ्चिदुपन्यस्य विन्यासात्तत्सलक्ष्मणः ।
साम्यं गम्यत इत्येषा प्रतिवस्तूक्तिरूच्यते ॥३०॥
दृष्टान्तोक्तिप्रपञ्चोक्तिछायया सा द्विधा मता ॥३१॥
छायाप्रतिवस्तूक्तिर्यथा मत्तेभासुरभासुराजिनपटे स्फूर्जत्कटे धूर्जटे- राशङ्क्येत यतः कुतश्चन मृगे न्यक्कारढक्कारवः । यद्यन्यैरनवद्यपद्ययशसः श्रीसिङ्गभूशार्ङिणो भूपालैरभिलक्ष्यते रणमुखे भ्रूभङ्गभीमं मुखम् ॥४७॥ अत्र दृष्टान्तरूपं वस्तु प्रथममुपन्यस्तम् । दाष्र्टान्तिकं प्रतिवस्तु पश्चादिति दृटान्तोक्तिछायावतीयं प्रतिवस्तूक्तिर्नाम साम्यभक्तिः । प्रपञ्चोक्तिछायावती यथा श्रीसिङ्गक्षितिपाश्रया यदि कथा मेरोर्न मे रोचते तद्वक्त्रस्य विलोकनं यदि वृथा चन्द्रस्य संदर्शनम् । तद्गोष्ठी यदि पृष्ठतो न विशते सा माधवी माधुरी तत्सेवा यदि सिद्धमेव सुधियामव्याजभव्यार्जनम् ॥४८॥
अत्रोपमानापकर्षस्त्रिष्वर्थेषु चतुर्थे तु समत्वमिति प्रपञ्चोक्तिछायावती प्रतिवस्तूक्तिः । एवं सामान्यतः साम्यमलङ्कारो निरूपितः ।
विशेषस्तु विशेषज्ञैर्लक्ष्यतां लक्ष्यविस्तरे ॥३२॥
यत्र डड्डत्ध्;ोलायते चित्तमर्थयोरतिसाम्यतः ।
स्यादेकानेकविष्या संशयोक्तिर्मता हि सा ॥३३॥
स्यादेकविषयानेकं यत्रैकत्र विशढद्धठ्ठड़;क्यते । यत्रत्वैकमनेकत्र सानेकविषया स्मृता ॥३४॥एकविषया यथा शाकाहारपरिग्रहो गिरिदरीष्वेकान्तचिन्ता रतिः शय्या स्थण्डिड्डत्ध्;ल एव भूतिधवला मूर्तिर्जटालं शिरः । अङ्गान्यस्थिमयानि हन्त सुतरां किं वा तपस्वी भवा- नुद्दण्डड्डत्ध्;प्रतिगण्डड्डत्ध्;भैरवविभोः किं वा विरोधी नृपः ॥४९॥
अत्रैकस्मिन्नेव पुरुषलक्षणे वस्तुनि तपस्मित्वनायक विरोधित्वलक्षणयोर्वस्तुतोरभिधीयमानसामान्यप्रतीतेर्विशेषादर्शनादुभयगतविशेषस्मरणाच्च विमर्श इति ज्ञेयमेकयिषया नाम संशयोक्तिः । अनेकविषया यथा द्वौ नेत्रानन्दकन्दौ जगति कुवलयप्रीणने जागरूकौ सन्मार्गैकप्रदारप्रवणनिजमती पूर्यमाणौ कलाभिः ।
तत्कोवा सिङ्गपृथ्वीतिलकः कोनु राकामृगाङ्कः का ज्योत्स्ना का च कीर्तिश्चिरमति विमृशन् नैव नाजामि तत्त्वम् ॥५०॥ अत्राभिधीयमानसादृश्ययोर्नायकतारकानायकयोः प्रत्येकमुभयमा शङ्क्यत इति सेयम् । इयं प्रतीत साम्याऽपि संभवति यथा अत्रैव का ञ्चोत्स्ना का च कीर्तिरिति ज्योत्स्नाप्रतीत धावल्यादिसाम्ययोः प्रत्येकमुभयमाशङ्क्यत इति सेयं प्रतीत वर्णनसाम्यानेकविषया । एवमेकविषयापि लक्षणीया । ननु बितर्कसंशयालङ्कारयोः को विशेषः । श्रूयताम् । कोटिद्वयावलम्बिविमर्शः संशयः । न्यक्कृतैककोटिस्तु वितर्कः । किञ्चिन्निर्णयामन्नो वितर्कः । वितर्कासन्नः संशयः । तथा हि संदिहानो वितर्ककोटिमारुह्य तर्ककक्ष्यां परित्यज्य तत्त्वमेवाभिनिविशते । वस्तु किञ्चिदपढद्धठ्ठड़;नुत्य सदृशासदृशस्य वा । अन्यस्य वस्तुनो न्यासो यत्र सापङ्नुतिर्मता ॥३५॥सदृशवस्तुन्यासवत्यपढद्धठ्ठड़;नुतिर्यथा नेयं शारदकौमुदी सखि यशः श्रीसिङ्गपृथ्वीपतेः नैतच्चञ्चलचञ्चरीकपटलं तद्द्वेषिणां दुर्यशः ।
नेदं कोकिलकूजितं मृगदृशां तत्कीर्तिसंगीतमि- त्यालापाननुसंदधाति सुदृशो दूरप्रियायाः सखि ॥५१॥
अत्र सत्यरूपापि चन्द्रिकाचञ्चरीककोकिलकूजितानि वचनादपढद्धठ्ठड़;नुत्य प्रतीयमनसादृश्यानि नायककीर्तितत्परिपन्धिदुष्कीर्तिगायिकास्वरलक्षणान्यन्यानि वस्तून्युपन्यस्तानीति सेयं सादृश्यवत्यपढद्धठ्ठड़;नुतिः ।
असादृश्यवती यथा नेत्रं हन्त वतंसगुच्छरजसा बाष्पायते दूषितं गात्रं स्पृटमनेन मन्दमरुता रोमाञ्चमालंबते ।
नान्यत्कारणमित्युदीरितवती काचिद्धृदीच्छागते श्रीसिङ्गक्षितिपालके निजसखी मन्दस्मितैर्लज्जते ॥५२॥
अत्र लज्जाशीलया (कया) चजिदानंदबाष्परोमाञ्चकारणं नायकविषयमनुरागमपढद्धठ्ठड़;नुत्य विसदृशविरागपवनलक्षणकारणोपन्यासः कल्पित इति सेयमसादृश्यवती नामापढद्धठ्ठड़;नुतिः ।
समाध्युक्तिर्मतोऽन्यस्मिन्नन्य धर्माधिरोपणम् ॥३६॥
अन्यस्यान्यधर्मस्य तदुभयस्य चेति व्युत्पत्त्या धर्मिणोरध्यासे धर्मस्याध्यासे धर्मधर्मिणोरध्यासे च त्रिविधः समाधिः । तत्र केवलधर्मिणोरध्यासे यथा पक्षाणां कुरुते स तत्क्षणमयं युत्पक्षरक्षामणिः दुर्गापाश्रयणं त्वभीरुमनसोर्नैवास्य संभाव्यते । इत्थं चिन्तयतामिव क्षितिजये श्रीसिङ्गपृथ्वीपते त्वय्यासन्नचरे कुलक्षितिभृतां लब्घोदया स्तब्धता ॥५३॥
अत्र पक्षपरिरक्षणादि धर्मारोपमपहाय नायके तद्धर्मवतः पर्वतशासनस्यैवाध्यासादयं धर्मिसमाधिः । धर्मसमाधिर्यथा श्रीसिङ्गभूपाल तव प्रतापे जित्वा प्रदीप्ते तपनप्रतापम् ।
दिशां तटे कोरकितान्तरङ्गा निकाममालिङ्गितकीर्तिरेषा ॥५४॥
अत्र नायकप्रतापनायककीर्ती दिक्तटेष्वचेतनासु यथाक्रमं भटप्रतिभटतत्सलक्षणधर्मे समारेपमपहाय जयपराजयहर्षालिङ्गनतरङ्गोल्लासरूपतद्धर्मा एव समारोपिता इति सेयं धर्मसमाधिः । तद्धर्मेण तद्धर्मिणां चाध्यासे यथा प्राक् संभूत भियाभिभूतरशनापृष्ठे कृताहं कितां दंष्ट्राग्रेण विकम्पिता परशतैराक्रम्य नीतांघ्रिणा ।
रक्त्तेः कर्दमितोज्झिता पितृगिरा नेतिकृष्णेति किं (?) रैचर्लीयकुलोद्भवेन भवता सेयं स्थिरा मन्यते ॥५५॥
अत्र नायके नारायणस्य धर्मिणां तद्धर्धाणां मत्स्यादिबलभद्रान्तावतारकल्पितानां जल्धिसंक्षोभणा दिरशनासमारोपणादयमुभयसमाधिः । यत्रोपमाना त्कथितादुपमेयं प्रतीयते । अतिप्रसिद्धेस्तामाहुस्समासोकिं्त मनीषिणः ॥३७॥
श्लाघां गर्हामुपालंभं प्राप्तेयं त्रिविधा भवेत् ॥३८॥
श्लाघावती यथा उदन्या दैन्यनिर्विण्ण पथिकव्रणबन्धुना ।
प्राप्यते जन्मसाफल्यमधुना धन्विसिन्धुना ॥५६॥
अत्र पथिकजनप्राणरक्षण मरुदेशसमाधिनोपमानेन प्रतीयमानया च पथिकजनरक्षणलक्षणसाधारणधर्मस्य कलिदोषकलुषीभूतराजलोकभूलोकैकपरायणस्य सिङ्गभूपालस्योक्तिसिद्धौ तच्छायैव श्लाघा प्रतीयत इति सेयं श्लाघावती समासोक्तिः । सैव गर्हावती यथा एका दैत्यगुरोरुभे मुरभिदस्तिस्रः पशूनां प्रभो- रष्टौ द्वादश पझगर्भगुहयोर्लङ्कापतेर्विशतिः । अस्माकं तु दृशः सहस्रमिति मा गर्वीय वास्तोष्पते माक्रोधीतरागतिस्मरणतोक्त लज्जा नु ...... तेभवेत् (?) ॥५७॥ अत्राहल्याभिसरणदोषनिमित्तसिद्धलोचन सहस्रेण तदाधिक्यादेव भार्गवादिविशिष्टजनतिरस्कारिणा दुश्च्यवनेनैवोपमानेन प्रतीयमानसामान्यस्यान्यायोपार्जितसमृद्धेः न्यायमार्गप्रवण सिङ्गभूपालादिप्रभुवर्गविभाषेण कस्य चिद् भूपालाधमस्योपमेयस्योक्तिसिद्धावुपमान द्वारेणैवोपम#ेयनिन्दा विवक्षितेति गर्हावतीयं समासोक्तिः । उपालंभवती यथा अपि मृदुलैरपि प्रवालैरपि कुसुमैरपि तिक्ततां विदित्वा ।
उपवससि सखे पलाशया किं परिणतवानपि तिक्त एव निम्बः ॥५८॥
अत्र तिक्तता मूर्धाभिषिक्त्तेन निजेनैवोपमानेन प्रतीयमानसादृस्यस्यैव निष्कम्परसे गुणहीनस्य कस्यचिदवर्णनीयस्योक्तिसिद्धौ परिणतवानपि तिक्त एवेत्युपालंभोक्तिरुपमानजादुपमेयमवलंबत इतीयमुपालंभवती समासोक्तिः । अभिधीयमानसादृश्या श्लाघावती यथा धृतेराधारस्य स्फुटरटित शुद्धैः कृतमुदा सरस्वत्या नित्यं प्रकटितसुवढद्धठ्ठड़;णप्रसरया । सुधर्मातम्बानामिह सुमनसामेकवसते- स्सुवर्णाद्रेः क्षोणीभरणमुचितं नेतरगिरेः ॥५९॥
अत्र सुवर्णगिरिणैवोपमानेन धृत्याधारत्वादिभिरभिधीयमानसादृश्यस्य सिङ्गभूपालस्योपमेयस्योक्तिसिद्धावुपमानमुखादिवोपमेयस्य श्लाघा प्रतीयत इति सेयं यथोक्ता । सैव गर्हावती यथा वाताहारतयेंद्रियार्थं विरतिस्संसूचिता सैकते सर्वाङ्गीणनिमज्जनात्प्रकटिता दुष्कर्मदूरीक्रिया । इत्थं विद्धमुपास्य तैर्थिकजन ग्रासादुदग्रात्मने मायामांसलशिंशुमार भवते दूरेण बद्धाञ्जलिः । ॥६०॥ अत्र शिंशुमारेणोपमानेनाभिधीयमानसादृस्यस्य कस्यचिद्द्वारवर्तिनो दांभिकस्योपमेयस्योक्तिसिद्धादुपमानमुखादुपमेयस्य गर्हा प्रतीयत इति सेयमभिधीयमानसादृश्यगर्हावती समासोक्तिः । सैवोपालंभवती यथा वारांनिधेर्बुधमनोरथसिद्धिहेतो- र्मर्यादया कृतरुचेर्बहुजीवनस्य ।
जातश्रियो हिमकरस्फुरणेद्धकान्ते- र्जाड्ड्डत्ध्;यं न चेदिह तुलामुपयाति कोऽन्यः ॥६१॥
अत्रांबुधेरेवोपमानस्योपालंभात् तदुपमेयस्याभिधीयमानसादृश्यस्य कस्यचिद्गुणवतोऽपि विलम्बकारिणे उपालंभः प्रतीयत इति सेयमभिधीयमानसादृश्योपालंभवती समासोक्तिः । अनेन श्लाघादिसंकरवत्यपि व्याख्याता । अत्र श्लाघागर्हणसंकरवती यथा वाराधाराः कति न सुवते दुर्यशोराशिहेतो- रन्तर्जन्तुव्यतिकरवसालंबितान् क्षुद्रशंखान् ।
सोऽयं भूम्नामावाधरुदधिर्यत्र भाग्यावधीनां सौभाग्यानां जनिरुदितवान् दक्षिणावर्तशङ्खः ॥६२॥
अत्र प्रथमार्धे क्षुद्रशङ्खसमुत्पत्तिस्थानजलाशयानामुपमानाकथनादेव तदुपमेयानां प्रतीयमानसादृस्यानां क्षुद्रक्षुद्रक्षत्रियोत्पत्तिस्थानानामन्यनरपालवंशानामुक्त्तेः सिद्धावुपमानद्वारेणैवोपमेय गर्हा प्रतीयते । उत्तरार्धे च दक्षिमणावर्तशङ्खजनकक्षीरसागरेणैवोपमानेन कथितसादृश्यस्य नायकाव तरमपरिणतभागधेयस्य रेचर्लवंशस्योक्तिसिद्धा वुपमानमुखेनैवोपमेयस्य श्लाघा प्रतीयते । तदियं गर्हाश्लाघासंकरवती समासोक्तिः । एवमन्ये भेदा लक्षणीयाः । एषां विकृता अपि संभवतन्ति । यथा कुर्वता सुमनोरक्षां गृहीतशतकोटिना ।
करेण पालयन् लोकान् भासते सिङ्गभूपतिः ॥६३॥
अत्र वर्णनीयस्य नायकस्य समुचिताया मुपमेयतायां विपर्यासोपमान्यायेनोपमानीकृतस्य श्लाघाया विशेषेण बलाभिधीयमान सामान्यशतमन्योः प्रतीतश्लाघे प्रतीते इति सेयं विकृता कथितसामान्या समासोक्तिः । एवमदनीयानि(?) भेदान्तराण्यपि स्वयमवगन्तव्यानि । ननु उपमासमासोक्त्त्योः को विशेषः । श्रूयताम् । उपमेये उपमानारोपणं समाधिः उपमाने उपमेयधर्माध्यासः समासोक्तिः इति व्यक्त एवानयोर्भेदः । अन्यथावस्थितिः प्राप्ता यत्र द्रकव्यगुणक्रियाः ।
संभाव्यन्तेऽन्यथा प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥३९॥
शरूपफलहेतुत्वाद् भावाद्भावानुयायिनाम् ।
द्रव्यादीनां विकल्पेन भवेदियमनेकधा ॥४०॥
तत्र द्रव्यस्वरूपोत्प्रेक्षा यथा नार्हस्थितिश्च सुरवेश्मनि सर्वदेति चित्ते विचिन्त्य पयसामधिपं विहाय । रेचर्लवंशमवतीर्ण इवाच्युतोऽयं श्रीसिङ्गभूपतिरिदं परिपाति विश्वम् ॥६४॥
अत्र नायकस्य रेचर्लवंशानतीर्णलक्ष्मीनायकरूपेण संभावनमिति सेयं द्रव्यस्वरूपेत्प्रेक्षा । द्रव्यफलोत्प्रेक्षा यथा मन्ये द्वितीयभुजगान्वयपालनार्थ दिक्कामिनीगिरिपयोधरचुम्बनार्थम् । बृन्दारकोपनसीम्नि हिमाचलार्थं श्रीसिङ्गभूपतियशो विशति त्रिलोकम् ॥६५॥
अत्र कीर्तेः त्रिलोकप्रवेशस्य प्रयोजनतया द्वितीयभुजगेश्वरादिद्रव्याणां कथनादियं तथोक्ता । हेतुभूतद्रव्योत्प्रेक्षा यथा आश्वस्तदिग्गजमनाकुलगोत्रशैल- मुन्मूर्धभोगिवरमुल्लसितादिकूर्मम् । श्रीसिङ्गभूमिपतिना रचितप्रतिष्ठा प्रीणांति भूमिरपरेण सुमेरूणेव ॥६६॥ अत्र वसुमतीप्रतिष्ठाहेतुभूतनायकलक्षणद्रव्यस्यापरसुमेरुतया संभावनं कृतमिति द्रव्यहेतूत्प्रेक्षा । गुण्स्वरूपोत्प्रेक्षा यथा तारूण्य पूर्णवपुषां तरलेक्षणानां भावानुबन्धगतयस्त्वयि सिङ्गभूप ।
कल्लोलिता इव कटाक्षविलासभङ्ग्यो मन्दस्मितैः कुसुमिता इवसापदेशैः ॥६७॥
अत्र नायकविषयाणां तरुणीजनानुरागाणां कल्लोलितादिरूपेण संभावनं कृतमिति सेयं तथोक्ता । यथा च श्रीसिङ्घधरणीपाल तव साहित्यचातुरी । कवीन् कन्दलयत्यन्तरानन्द इव मूर्तिमान् ॥६८॥
अत्र साहित्यचातुर्यस्य मूर्तिमदानन्दतया संभावनं कृतमिति सेयं तथोक्ता । गुणहेतूत्प्रेक्षा यथा राजमौलिकृतसंश्रये विधौ स्पर्धयेव तव कीर्तिनर्तकी । राजमौलिवपुरंशुवर्णिनी राजते जगति सिङ्गभूपते ॥६९॥
अत्र स्पर्धाया गुणत्वं हेतुत्वं चेति सेयं तथोक्ता । गुणफलोत्प्रेक्षा यथा शेषानशेषभुजगानुदधीन् पयोधीन् सर्वान् गजान् सुरगजानखइलान्विधाय । श्रीसिङ्गभूपतियशो विशदं त्रिलोकं स्रष्टुः सभामनुनयार्थमिव प्रयाति ॥७०॥ अत्रानुनयस्य गुणत्वम् फलत्वं चेति सेयं तथोक्ता । क्रियास्वरूपोत्प्रेक्षा यथा श्रीसिङ्गभूतलपतेः श्रितपारिजात- संज्ञाङ्कितस्य यशसा महता परीतः । कल्पद्रुमस्स्वजनिनिष्फलताविवेकाद् भूयोऽपि दुग्धजलधौ विनिमज्जतीव ॥७१॥
अत्र कल्पवृक्षस्य नायककीत्र्या यदावरणं तत्पयोधिमज्जवरूपेण संभावितमिति सेयं तथोक्ता । क्रियाफलोत्प्रेक्षा यथा वीरक्षीरार्णवाम्बुग्रसनधगधगत्कारवद्वाडड्डत्ध्;बाग्नि- ज्वालाजालाभिघातञ्यतिकरजनितामप्रकम्पानुकम्पा ।
अन्तस्संतापबाधां शमयितुमिव तां सिङ्गभूपालकीर्ति- ज्योत्स्ना कृत्स्रातिशीता प्रविशति कुहरं मन्दरीणां दरीणाम् ॥७२॥
अत्र शमयितुमिवेति क्रियाफलत्वम् । क्रियाहेतूत्प्रेक्षा यथा श्रीसिङ्गशार्ङधनुषातिवदान्यतायां स्पर्धापराधकरणादिव कोपितेन । आमूलवेल्लितलतावलयापदेशा- त्कल्पद्रुमा निगलिताः प्रभुणा प्रजानाम् ॥७३॥ अत्रापराधकरणस्य क्रियात्वं हेतुत्वं चेति तथोक्ता ।
उपलक्षणमि त्येतत् सजातेरप्येवमेव द्रष्टव्यम् ॥४१॥
एवं प्रकाराः कतिचिदुत्प्रेक्षायां निरूपिताः ।
उत्तरे चतुरोक्तेषु लक्षणीया विचक्षणैः ॥४२॥
अप्रस्तुतप्रशंसा स्यादस्तोत्व्यस्य या स्तुतिः ॥४३॥
यथा धन्यास्ते गिरयो जयन्ति यदमी श्रीसिङ्गपृथ्वीपते- र्यातव्या नहिभूभृतोऽप्यलमयं राजापि चन्द्रस्सखी । तत्र श्रीभरितान्यपि क्षितिरुहां बृन्दानि भाग्याधिका- न्युद्दण्डड्डत्ध्;ीकृतपुण्डड्डत्ध्;रीकमहिमाप्येकं कृतार्थ सरः ॥७४॥
अत्रापि जिगीषोर्नायकस्य यातव्यपक्षस्थितेर्मूर्धाभिषिक्त्तैरात्मनिन्दायां प्रस्तुतायामप्रस्तुतानां गिरिचन्द्रसरसां प्रशंसनं विहितमिति सेयमप्रस्तुतप्रशंसा । एकस्य स्तुति निन्दार्थं विपक्षितगुणोत्तरैः । यत्समीकृत्य कथनं सा मता तुल्ययोगिता ॥४४॥
तुल्ययोगिता यथा राधेयं रजनीकरं रतिपतिं रत्नाकरं राघवम् रत्नं वैधरणीधरं रसनिधिं रÏन्त रसालं रविम् । रैचर्लीयकुलोद्वहं च सृजता लोकोपकारक्रिया- हेतोर्लोकपितामहेन करुणासर्वस्वमाविष्कृतम् ॥७५॥
अत्र लोकोपकारपरायणत्वलब्धस्तुतीनां कर्णादीनां तुल्ययोगेन नायकस्तुतेर्विहितत्वादियं स्तुत्यर्था तुल्ययोगिता । निन्दार्था यथा मन्दादि धातुधमनाद् ग्रहणादहीना- मन्योपतापकरणात्प्रमदाधिकारात् । श्रीसिङ्गभूपरणणान्यनपाश्रयाच्च वाञ्छन्ति जीवितमहो विषमा मनुष्याः ॥७६॥
अत्र केवलवधूपातानपरिणामत्वेन लभ्दगर्हाणां धातुवादादीनां तुल्यकक्ष्यानिक्षेपान्नायकेतरराजाश्रयणस्य साम्यं निन्दार्थं प्रतीयत इति सेयं तथोक्ता । दोषस्य यो गुणीभावो दोषीभावो गुणस्य यः ।
स लेशस्यात्ततो नान्या व्याजस्तुतिरितिस्मृता ॥४५॥
अत्र दोषस्य गुणीभावे यथा कूटोपायनिकुट्टितप्रतिभटक्ष्मापालमौलिझजा- दाकृष्टैः स्वसुहृत्करप्रणिहितैः शस्तोपधा वस्तुभिः ।
त्वामाराधयतां यशोधननिधे श्रीसिङ्गपृथ्वीपते साक्षात् सेवितुमिच्छतोऽवनिपतीन् मन्यस्व मान्योत्तमान् ॥७७॥
अत्र येयमुपगौतमीतटं पर्यटतामाटविकमहीपतीनां कुटिलोपायपाटवस्तुतिः सेयमनुप्राणितराजमार्गप्रणयिनो नायकस्य मनसि दोषतया प्रतिभास्यत इत्यभिप्रायेण चतुरमतिभिरमात्यैः प्रमुखनैष्ठुर्यपरिजिहीर्षया कूटोपायप्रयोगरूपो दोषोऽपि नायकचरणसेनासाधनधनार्जनलक्षणगुणतया निरूपित इति सोऽयं दोषस्य गुणीभावो नाम लेशतः शनैरनन्यविदितमुच्यत इति लेशः । गुणस्य दोषीभावो यथा । एताव्त्यपि विप्रिये प्रियसखि प्राणेषु का प्रार्थना किं वा तेन शठेन निर्दयहृदा रेचर्लवंशेन्दुना ।
यस्यागः परिमार्जनाय कृतिनामग्रेसरस्य स्फुटं साम्नां सारधुमाधुरे सहभुवां शिक्षेव नित्यव्रतम् ॥७८॥
अत्र काचिदनतिधीरा नायका मानाग्रह परिग्रहानुगुणमर्थं सखीनायकाग्रतः प्रतिज्ञाय पदनिर्वाहमाशङ्कमाना सखीजनपरिहासपरिजिहीर्षया चाटुवादादिलक्षणमस्तोसं मानप्रत्यूहकारणं नायकगुणग्रामं दोषीभावेन समुपन्यस्यतीति सोऽयं गुणस्य दोषीभावो नाम लेशः । यथा च छायापहारे रचितेऽरविन्दैः श्रीसिढद्धठ्ठड़;गभूपाल न मोदसे त्वम् ।
छायापहारेण सहादिराज- श्लोकापहारं कुरुषे किमेतत् ॥७९॥
अत्र राजकीत्र्यपहारलक्षणस्य नायकगुणस्य शब्दशक्त्या चमत्काराय दोषतया कथनाद् व्याजस्तुतिरपि स एव । कारकाणां समावेशः सहान्यैर्यत्क्रियादिभिः ।
सा सहोक्तिरसादृश्यात्साहश्याच्च द्विधा भवेत् ॥४६॥
असादृश्यवती यथा साकं त्वत्कीर्तिविस्तारैः श्रीसिङ्गधरणीपते । दिगन्तराणि धावन्ति सामन्तनृपपङ्क्तयः ॥८०॥
अत्र शत्रुलक्षकत्वपदार्थो विसदृशैः नायक कीर्तिविस्तारैः कथिता प्रतीतसादृश्यैः सह देशान्तरधावनक्रियायां समाविष्ट इति सेयं तथोक्ता । सादृश्यवती यथा क्षोणीभृत्कटकोपरोधनपटुः व्यापारभव्योदया- माशापूरण कारणश्रियमिव प्राप्नोति कीर्तिश्रियम् । श्रीसिढद्धठ्ठड़;गक्षितिपालमण्डड्डत्ध्;नमणे रेचर्लवंशाग्रणी- रानन्दाननुसन्दधाति विदुषां द्रव्यैः स्वकाव्यैरिव ॥८१॥
अत्र शब्दशक्त्याभिधीयमानसमानधर्मयोः लक्ष्मीकीत्र्योः सादृश्यप्रतीयमानस्पृहणीयत्वादिना धर्मयोः द्रव्यकाव्यायोश्व सादृस्यमिवेन द्योत्यते । सहार्थश्व वाक्यार्थसामथ्र्यन लभ्यते । न चात्रोपमानशढद्धठ्ठड़;का कार्या । उपमायामुपमेयस्यैव क्रियासमावेशः । उपमानस्योपमेयमुखेन साक#्षात् । इह तु द्वयोस्समप्राधान्येन कर्मकरणभावादिविवक्षायां प्राप्त्यानन्दा नुसंधानादिक्रियासमावेश इति श्लेषोद्भावितोपमानछाया इतीयं सादृश्यवती समासोक्तिः । एवं विविक्तादि भेदेन कत्र्रादीनां प्रायोपमानानां भेदास्स्वयमुपगन्तव्याः । द्रव्यादीनामनेकेषां द्रव्यादौ विनिवेशनम् । समुच्चयस्स्यादन्येऽपि चार्थास्तस्यैव भक्तयः ॥४७॥
स तावच्चतुर्धा । द्विपदाश्रयो बहुपदाश्रय उभयवर्गाश्रयोऽनुभयाश्रयश्चेति । तत्र द्विपदाश्रयो द्विधा प्रतिपदद्योतक उत्तरपदद्योतकश्चेति । तत्राद्यो यथा लोकोत्तरं शुद्धिगुणं दधाना राजाधिकां कान्तिमुदञ्चयन्ती ।
श्रीसिङ्गभूपाल भुवि त्बदीया मूर्तिश्व कीर्तिश्व मुदं तनोति ॥८२॥
अत्र मूर्तिः कीर्तिरिति द्वे वस्तुनी प्रतिपदं द्योतकेन चकारेण एकस्यां तनोतीति क्रियायां समुच्चित्य निवेशिते । तेन तनुत इति द्विवचनं चार्थे द्वन्द्वसमासश्व भवतीति सोऽयं क्रियायां द्रव्यसमुच्चयो नाम प्रतिपदद्योतको द्विपदाश्रयस्समुच्चयभेदः । स एवोत्तरपदाश्रयद्योतको यथा मदान्धव्यापारप्रकटितसदान्धःपरिकरः प्रति स्याद्व्यामिश्र स्फुटपटहझाङ्कारपटिमा । जिकीषा संरंभस्तव सपदि सिङ्गक्षितिपते विपक्षाणां लक्ष्णी चलयति समुत्कण्ठयति च ॥८३॥
अत्र चलनोत्कण्ठालक्षणे द्वे वस्तुनी उत्तरपदवर्तिना द्योतकेनैकस्मिन्नेव विपक्षलक्ष्मीलक्षणे धर्मभूते द्वव्ये समुच्चयेनैककालमेव निवेशित इति सोऽयमुत्तरपदगतद्योतको नाम द्विपदाश्रयसमुच्चयभेदः । बहुपदाश्रयोऽपि पूर्वपद् द्विधा । तत्राद्यो यथा न्यायक्रमश्च भुजदण्डड्डत्ध्;पराक्रमश्च कालज्ञता च करुणा च कृतज्ञता च । काव्५ता च कविता च वदान्यता च त्वां सिङ्गभूप......प्रपरिष्करोति ॥८४॥ अत्र न्ययपराक्रमादयः प्रतिपदाश्रयद्योतकेनैकस्यां परिष्करणक्रियायां समुच्चयेन निवेश्यन्ते । तेन परिष्कुर्वन्तीति बहुवचनं द्वन्द्वसमासश्च न भवितीति सोऽयं प्रतिपदगतद्योतकोनाम बहुपदाश्रयसमुच्चयभेदः । सोऽयं च कारणबाहुल्येन पुराणछायां स्मृतिपथमवतारय न्नातीव चमत्कारकारीत्यस्माकं मतम् । तथापि पुरातनगतानुगतिकाश्रद्धया समुदाहृतं तदिदं सरससाहित्यसिद्धान्तमर्मज्ञैस्तितितिक्षतव्यम् । द्वितीयो यथा अनन्तभोगाश्रयणं विभुत्वं चक्रप्रियत्त्वं घनसत्त्वता च ।
श्रीसिङ्गभूपे श्रितपारिजाते प्रत्यक्षनारायणतां व्यनक्ति ॥८५॥
अत्रानन्तभोगाश्रयादीनि वस्तून्युत्तरपदवर्तिना चकारेण व्यनक्तीत्येकस्यां क्रियायां समुच्चीयन्ते न व्यञ्जयन्तीति बहुवचनं समासश्च न भवतीति सोऽयमुत्तरपदगतद्योतको नाम बहुपदाश्रयसमुच्चयभेदः । उभयवर्गाश्रयः पुनरुत्तरपदवर्तिद्योतक एव । यथा च श्रीसिङ्गभूपाल कवीश्वराणां पुण्यातिरेकादिदमाविरासीत् । काव्यं प्रशस्तं तव कगीर्तनं च सतां श्रियां सज्जनरञ्जनं च ॥८६॥
अत्र काव्यं कीर्तनं चेति द्वे क्रिये । श्रीसद्भावः सज्जनानुरञ्जनञ्चेति द्वौ गुणौ । एवं बहून्यपि वस्तूनि द्वन्द्वश उत्तरपदवर्तिना द्योतकेनाविरासीदित्येकस्यां क्रियायां निवेश्यन्ते । तेन सन्तीति बहुवचनं द्वन्द्वसमासश्च न स्यादिति सोऽयमुभ्यवर्गाश्रयस्समुच्चयः । अनुभयाश्रयः पुनरविद्यमानद्योतकत्वादन्वाचयस्येवास्य विषयो दीपकेनाहृत इती नोदाह्रियते । इतरेतरयोगोऽपि द्विपदाश्रयादिभेदेन चतुर्विधः । तत्रोत्तरपदवर्तिद्योतको द्विपदाश्रय इतरेतरयोगो यथा श्रीसिङ्गभूपतिमणेद्र्युमणेश्च नित्यं पश्य द्वयोरुदयतोर्हि महोदयश्रीः । कल्याणदानरतयोश्शरणागताना- मारूढविष्णुपदसेवनया निकामम् ॥८७॥
अत्र नायकप्रभानायकौ द्वे द्रव्ये पश्येत्येकस्मिन् गुणपदे यदितरेतरयोगेन निवेशिते तद्द्वयोरित्यत्र तद्विशेषणयोश्च द्विवचनविक्षायां समासश्च भवतीति सोऽयं तथोक्त इतरेतरयोगस्ससुच्चयभेद एव । एवमितरेतरयोगेऽपि द्योतकयोगा उदाहर्तव्याः । स एवानुभयाश्रयो यथा निष्पन्दमुग्धमवलोकितमस्तलज्जा चेष्टा कपोलतलकन्दलिता स्मितश्रीः । श्रीसिङ्गभूमिरमणे तरुणीजनानां भावस्थितिं पिशुनयन्ति सखीजनाय ॥८८॥
अत्रावलोकितचेष्टास्मितमिति वस्त्वनितरेतरयोगेन तरुणीजनानुराग निवेदनक्रियायां निवेश्यत इति सोऽयमनुभयाश्रयेतरेतरयोगस्समुच्चय एव । समाहारोऽपि पूर्ववच्चतुर्विधः । तत्रानुभयाश्रयो यथा सौन्दर्यं मदने सुखं सुरपतौ भाग्यं निधीनां प्रभौ कारुण्यं रघुनायके चतुरिमा चाणूरमल्लद्विषि । धर्मो धर्मतनूभवे वितरणं विद्याधराधीश्वरे तत्सर्वं श्रितवत्सले विलसति श्रीसिङ्गभूमीश्वरे ॥८९॥
अत्र सर्वं तदित्यनेन सौन्दर्यादीनां समुदाय एवानुसन्धीयते । तस्य च तिरोभूतावयवभेदत्वे समाहारः । स चेह तदित्येकवचनान्तेन नपुंसकेन च कथ्यते । न चेह क्वचिदपि चकारादिर्विद्यते । द्योतक इति सोऽयमुनभयाश्रयः समहारः समुच्चय एव । इतरे द्योतकवन्तः समाहाराः स्वयमूह्याः । अन्वाचयस्तु क्रियाविषय एव । तत्र द्योतकस्तूत्तरपदाश्रय एव । यथा उद्दण्डड्डत्ध्;प्रतिगण्डड्डत्ध्;भैरविभो संकल्पकल्पद्रुम श्रीसिङ्गक्षितिपालशेखर यशोविक्तारनिस्तारक । साधूनां परिरक्षणाय धरणीं जित्वा भजेथाः श्रियं पङ्क्तिञ्च प्रतियायिनां पुनरपि स्वे स्वे पदे स्थापिता ॥९०॥
अत्र भजेथा इति नायककर्तृकां श्रीकर्मकत्वेन क्रियामुपन्यस्य तत्कर्तृकमेव प्रतिपालनकर्मसंस्थापनक्रियां त्व न्वाचयेन निवेशितमिति सोऽयमन्वाचयोऽपि समुच्चयभेद एव ।
प्रतिषेधोक्रिराक्षेपो विधेर्वाथ निषेधतः ॥४८॥
विधिनाक्षेपो यथा कान्तारक्षितिवासखिन्नमनसा कान्त त्वया सेवितुं श्रीसिङ्गक्षितिनाथमन्ध्रनगरी गम्येति चेद् गम्यताम् ।
पन्थानः प्रभवन्तु ते शिवतमाः सीता (भूयात्?) प्रसन्नो नृपो (?) यं देशं प्रदधाति ते सुकृतधीस्तत्रैव जन्मास्तु मे ॥९१॥
अत्र गम्यतामिति कथितस्य विधिवाक्यस्यैवानुकूलयैव जन्मान्तराशिषा मरणसूचनानिषेधः क्रियत इति सोऽयं विध्याक्षेपः । निषेधाक्षेपो यथा न हि वयं कवयः कवयस्तु ये नगरिगुणानसतोऽपि विवृण्वते ।
निगदितुं न हि सिङ्गवसुन्धराभुजि सन्तोऽपि गुणान्वयमीश्महे ॥९२॥
अत्र नेश्महे इति निषेधेन कवित्वलक्षणस्यारोपितगुणवर्णनस्य निषेधः धर्मत इति सोऽयं विध्याक्षेपः (निषेधाक्षेपः?) । ज्ञेयस्सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साध्नसमर्थस्य न्यासो वक्त्वन्यवस्तुनः ॥४९॥
यथा सिङ्गक्षोणीरमणसरणिं मानमुन्मानधीत्वं यद्यद् द्रव्यं करयसि परं प्रत्यहोपार्जनेन ।
तत्तत्पात्रे निहितमसकृद्विस्मरस्येव चित्ते कार्यस्यान्ते क इव हि भवेत् काङ्क्षणा यः प्रभूणाम् ॥९३॥
अत्र नायकस्य पात्रदत्तधर्मद्रव्याननुशोचनलक्षणं वस्तु प्रस्तुत्य तत्साधनसमर्थंप्रभुस्वभावलक्षणं वस्त्वन्तरमुपन्यस्तमिति साहसं षङ्गुणं हि । अत्र कीर्तेः सप्तार्णवलङ्घनमुपन्यस्य तत्साधनसमर्थस्य षड्ड्डत्ध्;गुणस्त्रिसाहसवस्त्वन्तरस्योपन्यासादयं तथोक्तः । यत्र द्रव्यादिवैकल्यदर्शनं स्तुत्यवस्तुनः ।
विशेषप्रतिभानाय सा विशेषोक्तिरिष्यते ॥५०॥
यथा न यानं प्रसुनं न च सुरभइगन्धि प्रहरणं न मौर्वी वाचाटी न च धनुरयत्नातिमधुरम् । तथापि श्रीसिङ्गक्षितिपतिरयं चञ्चलदृशां विधत्ते संमोहं मनसि नितरां मन्मथ इव ॥९४॥ अत्र पुष्परथादिद्रव्यासंभवेऽपि नायकेन यदिदं मत्तकाशी चित्तसंमोहनकरणं तेन रूपादिशविशेषकारणं प्रतीयत इति सेयं प्रतीयमानहेतुर्विशेषोक्तिः ।
एवमभिधीयमानहेतुरपि द्रष्टव्या । उपस्कारः परिकरः क्रियादीनां विशेषणैः ॥५१॥
आश्वस्तमूलकच्छपमुल्लसितगिरीन्द्रमुत्सुकानन्तः । श्रीसिङ्गक्षितिनायकभुजदण्डड्डत्ध्;पहति वसुमतीचक्रम् ॥९५॥ अत्राश्वस्तेत्यादिविशेषणैर्मही वहनक्रियाया अनन्यसाधारणलक्षण उपस्कार इति सोऽयं क्रियापरिकरः । एवं कारकपरिकरादयोऽपि स्वयमुन्नेयाः । एकावली परिकरान्न बिन्नेति मतिर्मम ॥५२॥
यथा अवनेष्वरणे विभवे क्रमणे सुकृताव्धनि सिङ्गमहीपतिना । धरणी कुशलं गमिता हरिणा हरिणा हरिणा हरिणा हरिणा ॥९६॥
अत्र हरिणा हरिणा इत्यादि शब्दैकावल्या विभिन्नार्थया नायकलक्षणं कर्तृकारकमुपस्क्रियत इति सोऽयं शब्दैकावली कारकपरिकरभेद एव । एवमर्थैकावल्युभयैकावल्यौ ट्रष्टव्यौ । क्रियाजातिगुणद्रव्यवाचिनैकत्रवर्तिना ।
 वाक्यान्तरोपकारश्चेद्दीपकं तदुदाहृतम् ॥५३॥
अर्थावृत्तिपदावृत्तिसंपुजाद्यास्तु तद्भिदाः ॥५४॥
तत्र क्रियादीपकं यथा आरूढानि यशांसि तेत्रिभुवनं श्रीसिङ्गपृथ्वीपते गोत्रग्रावमहागुहाः क्षितिभुजां बृन्दानि मन्दौजसाम् । तल्लक्ष्मीललितानि लालितगिरां विद्वज्जनानां गृहान् तद्वाक्यानि च तावस्तुतिकथाश्लोक्यानि कर्णौ सताम् ॥९७॥ अत्र क्रियावाचिना गूढानीतीवपदेन प्रथमपादादिवर्तिना सर्ववाक्यानि दीप्यन्त इति तदिदमादिदीपकम् । एवं मध्यान्त्यक्रियादीपकं जातिदीपकादयोऽपि भेदाः द्रष्टव्याः । दीपकभेधेष्वर्थावृत्तिः यथा क्रीडड्डत्ध्;न्ति सर्पपतिकान्तिकुमुद्वतीभिः खेलन्ति दिक्करटिमौक्तिकतारकाभिः ।
दीव्यन्ति दिव्यवनितास्मितचन्द्रिकाभिः श्रीसिढद्धठ्ठड़;गभूप तव कीर्तिविलासचन्द्राः ॥९८॥
अत्र क्रीडड्डत्ध्;ार्थ एव पादादिक्रियास्वावर्तमानः सर्ववाक्यानि दीपयतीति सेयमर्थावृत्तिरपि दीपकमेव । पदावृत्तिर्यथा राजा रेचर्लवंश्योऽयं कुमुदं कुरुतेतराम् । समुदञ्चति राजापि कुमुदं सिन्धुसंभवः ॥९९॥
तत्र प्रजासन्तोषः कैरवश्चेत्यर्थयोरावर्तमानं कुमुदमिति पदं द्वे वा दीपयति पदावृत्तिरपि दीपकमेव । आभ्यामेव तदुभयावृत्तिरपि व्याख्याता । यथात्रैव राजेत्यर्थः शब्दश्चावर्तमानवाक्यद्वयमुत्तेजयत इति सेयमुभयावृत्तिरपि दीपकमेव । त्रिचतुरपदावृत्तिरूपः संपुटो यथा कीर्तिः क्रीडड्डत्ध्;ति सिङ्गभूप तलपतेर्निर्यत्नरत्नाङ्कुरं पातालो फणिलोकपुङ्गवफणाप्रासादमासेदुषी । लक्ष्मीजन्मभुपोऽनुविद्धलहरीडड्डत्ध्;लासु वारांनिधेः स्वर्गे दिव्यवधूविलासहसितैर्गण्डड्डत्ध्;स्थलीमण्डड्डत्ध्;लैः ॥१००॥
अत्र क्रियाकर्तृकसंबन्धपदानि प्रतिवाक्यामावृत्तानि संपुटतया दीपयन्तीति संपुटावृत्तिरपि दीपकमेव । एवं भेदान्तराणि यथासंभवमनुगन्तव्यानि । परिपाठ्या तु भणनं शब्दस्यार्थस्य वा क्रमः ॥५५॥
अत्र शब्दानां क्रमस्त्रिधा समस्तानामसमस्तानामुभयेषां चेति । त्रत समस्तशब्दक्रमो यथा प्रतापकान्तिसंशुद्धिभङ्ग्या श्रीसिङ्गभूपतेः ।
तुलां संदधते भानुहिमभानुकृशानवः ॥१०१॥
अत्र समासपरिपतितानां गुणानाञ्च क्रमेण प्रत्येकं योजनमिति समस्तशब्दक्रमोऽयम् । असमस्तशब्दक्रमो यथा नमस्कारं पुरस्कारं तिरस्कारं करोत्ययम् ।
श्रीसिङ्गधरणीपालः पूर्वेषां विदुषां द्विषाम् ॥१०२॥
अत्र पूर्वादीनां नमस्कारादीनां समासरहितादीनां यथाक्रममनन्वयो विवक्षित इति सोऽयमसमस्तशब्दक्रमः । समस्तासमस्तशब्दक्रमरुप उभयक्रमो यथा हरिश्वन्द्रो रक्षाकरणरुचिसत्येष्विति पूर्वोदाहृतम्॥ अत्र प्रथमतृतीययोः पादयोः समस्तानां रक्षाकरणादीनाञ्च गुणानामसमक्तानां तद्गुणकतां हरिश्वन्द्रो गाढद्धठ्ठड़१४;गैयमिति चोभयत्र पदश्लेषसामथ्र्यकथितानां हरिश्वन्द्रहरिश्वन्द्रानां गाङ्गेयगाङ्गेयानां च क्रमसमन्वयो न विवक्षित हति सोऽयमुभयक्रमः । वाक्यक्रमस्तु स्वयमुन्नेयः । अर्थक्रमो द्विविधः । देशतः कालतश्व । तत्राद्यो यथा श्रीसिङ्गक्षितिपाल तावकचमूधाटीवनाटीभव- द्वैरिस्त्रीषु हृताशुकासु शबरैस्त्वत्कीर्तिविस्फूर्तयः ।
 पश्वार्धे परिधानतां हि दधते संव्यानतां वक्षसि प्रायो मूध्न्यवगुठनत्वमधरे...दसां वा स्तुमः ॥१०३॥
अत्र वर्धमनायाः नायककोर्तेः प्रतिनायकशुद्धान्तकान्ताशरीरप्रदेशेषु क्रमसंक्रान्त्या योऽयं परिधानादौपम्यलाभः । एवं देशतोऽर्थक्रमः । कालतो यथा अपां शोषोद्धारा विपतनभिया हंसगिलना- त्तुषारैस्सीतार्ती विरहिजनशय्यादिकतया ।
विधित्वा सापायं जलरुहकुलं तद्विजहती स्थितिं धत्ते सिड्ड्डत्ध्;गक्षितिपतिरपाये त्वयि रमा ॥१०४॥
अत्र जलशोषादीनां जलजापायहेतूनां ग्रीष्मादिवसन्तावधि कालक्रमेण भणनात् कालतोऽर्थक्रमोऽयम् ।
मिषतो वाक्रप्रवृत्तिर्या स पर्याय इतीर्यते ॥५६॥
यथा हन्त क्रोशति शारिकानवरतं मृध्नाति लीलामृगः श्रान्ताः केलिचणौतिकार विकटैर्बाह्ये स्थिता वल्लकी ।
इत्यालापिनि निर्गते प्रियसखीवर्गे नवोढा प्रिया भूपालेन सखीजनानुसरणं स्पर्शेन विस्तारिता ॥१०५॥
अत्र रहोभङ्गभीरुणा विदग्धसखीवर्गेणाक्रोशनाकर्णनादिमिषात्सुखेन निर्गमोपायोऽभिहित इति सोऽयं पर्यायः । एवं कार्यमिषतः कारणोक्ते रविवक्षादयोऽस्य भेदाः स्वयमुन्नेयाः । या विवक्षा विशेषस्य नात्युद्वेगप्रदायिनी ।
असावतिशयोक्तिस्स्यात्सर्वालङ्कारजीवितम् ॥५७ ॥
गुणक्रियागोचरेयं न जातिद्रव्यगामिनी ।
न हि द्रव्यस्य जातेर्वा साक्षादतिशयः व्कचित् ॥५८॥
तत्र गुणातिशयभेदेषु धैर्यातिशयो यथा रूक्षाहंकृतयो न सन्ति ललित भेदं गतेन भ्रुवौ दृक्कोणोऽपि न रागमेति हसितं मन्दं च नान्तर्हितम् ।
दृष्ट्वापि प्रतिगर्जतां क्षितिभुजां संरंभगर्भश्रिया मूर्तिर्दारुणचेष्टयाप्यविकृता श्रीसिङ्गपृष्वीपतेः ॥१०६॥
अत्र महारणसंहंभे नायकस्य भ्रूभेदादिविकाराभावकथनाद्धैर्यविशेषो विवक्षित इति सेयं गुणातिशयोक्तिः ।
क्रियातिशयो यथा श्रीसिङ्गभूप भवतीयपरिग्रहेण धर्माय यद् बलवते कविरेष भीतः त्रेतादिबन्धुमुषितौ तु दधाति भागौ तत्ते तुलां न दधते प्रथमे नरेन्द्राः ॥१०७॥
अत्र नायकगतधर्मपरिपालनक्रियाविशेषो विवक्षित इति सेयं क्रियातिशयोक्रिः ।
श्लेषोऽनेकार्थकथनं पदेनैकेन संमतः ॥५९॥
यथा ख्यातान्महा शयतया कृतगोत्ररक्षा- नारूढभूपरिसरा प्रतिकूलवृत्तीन् । श्रीसिङ्गभूपतियसांसि निरूढसत्त्वा- नुल्लङ्घयन्ति विषमानपि वाहिनीशान् ॥१०८॥
अत्र वाहिनीशपदेन समुद्रसामन्तराजलक्षणमर्थद्वयं तद्विशेषणे तु तदनुकूलार्थद्वयं च श्लिष्टमिति सोऽयं श्लेषालङ्कारः ।
उद्भेदा यत्र भावस्य बावना सेयमीरिता ॥६० ॥
 यथा जातिप्रसूनपुटके स्वसखीकरेण श्रीसिङ्गभूपतिलकाय समर्पणीये । अर्धीकृतालककुचाफणि कढद्धठ्ठड़;कणेन मुद्रा कृता स्मरजिता लिखितेन तन्व्या ॥१०९॥
अत्र विदग्धया कयापि कामिन्या प्रिययोग्यानां पुष्पाणां पुष्पशरपुष्पंधयगन्धवहाभिमर्शः शङ्क्यते सोऽयं भावःपुष्पंधयादिप्रतिभटतया रक्षाहेतुभिरलकफणिस्मरजित्पदैरुद्धिद्यते सूच्यत इति सेयं भावना । अलङ्कारप्रपञ्चस्य शब्दार्थोभयवर्तिनः । अन्योन्ययोगः संसृष्टिरिति प्राज्ञैरुदीर्यते ॥६१॥
अत्र केवलशब्दालङ्कारसङ्करः शब्दालङ्कारः । केवलार्थालङ्कारसङ्करोऽर्थालङ्कारः । उभयालङ्कारसङ्कर उभयालङ्कारः । शब्दार्थालङ्कारयोः शब्दोभयालङ्कारयोरर्थोभयालङ्कारयोश्व सङ्कर उभयालङ्कार एव स्वार्थालङ्कारवशात् सङ्करस्योभयाश्रितत्वसिद्धेः संभाव्यमानत्वात् । केवलशब्दालङ्कारसङ्करो यथा साध्वसंमतिविध्वंसि कृत्वा सिङ्कनिषेवणम् । साध्वसं मतिविध्वंसि बूपै र्निजगृहस्थितैः ॥११०॥
अत्र साधूनामसंमतिमसंभावनां विन्दतोऽलभ्यमानान् सा ध्वंसयति नाशयतीति साध्वसंमतिविध्वसि दुर्जनतर्जनमित्यर्थः । तादृशं सिङ्गभूपालसेवनं कृत्वा निजगृहे स्वगृहे स्थितैर्भूपैर्मतिविध्वंसि साध्वसमिति योजना । अत्र निजगृहे निगृहीतमिति क्रियापदं निजगृह इति सप्तम्या ग#ूढमिति क्रियागूढलक्षणो विषयपदावृत्तियमकलक्षणस्व शब्दालङ्कारौ संकीर्णाविति केवलशब्दालङ्कारसङ्करोऽयम् । केवलार्थालङ्कारसङ्करो यथा सिङ्गभूप विदधाति तावको धीरणोरसिरनंबुदाशनिः ।
कानने नगरवर्तिनो रिपून तत्पुरे विपिनवासिनो मृगान् ॥१११॥
अत्रानंबृदाशनिरिति विभावना । उत्तरार्धे परिवृत्तिरिति द्वयो रर्थालङ्कारयोस्संकरः ।केवलोभयालङ्कारसङ्करो यथा लक्ष्मीभिरिव देवीभिर्विनयैरिव सूरिभिः । नयैरिव महामात्यै स्सेव्यते सिङ्गभूपतिः ॥११२॥
अत्रेवशब्देन सहार्थ इव संभावमार्थोऽपि द्योत्यत इति एकवाचकानुप्रवेशेन सहोक्तेरुत्प्रेक्षायाश्व सङ्करः । सब्दार्थालङ्कारसङ्करो यथा त्वया दीनारिणा राजन् कृता दीनारिणो मम ।
असमग्रामवृत्ता हे समग्रामवता महीम् ॥११३॥
अत्र प्रथमार्धे दीनारिणा दीनारीति द्वितीयपादमध्ययमकस्योत्तरार्धे समग्रामवता कृतेति विरोधाभासस्य द्वयोस्संकरः । शब्दोभयालङ्कारसंकरो यथा ताराभिरिन्दुरिव याभिरुपास्यतेऽयं श्रीसिङ्गभूमिपतिरन्ध्रविलासिनीभिः ।
चित्रं जनस्य वलया वलया नितान्तं तासां सितायतदृशामुदरे करे च ॥११४॥
अत्र उदरे वलयावलिरेखाः चित्रम् । अवलयन् अचलयन् करे वलयः कटकमवलयमिति कर्तृक्रियापदयोरेकवचनबहुवचने श्लिष्टे इति वचनश्लेषस्य ताराभिरिन्दुरिवेत्युपमायाश्व विवेको दृस्यत इति शब्दोभयालङ्कारसङ्करोऽयम् । यथा च माणिक्यैरिव गाणिक्यैः स्यन्दनैरिव चन्दनैः ।
सौजन्यैरिव राजन्यैर्मोदते सिङ्गभूपतिः ॥११५॥
अत्रानुप्रासोपमोत्प्रेक्षाणां सङ्करः । अर्थोभयालङ्कारसङ्करो यथा सन्त्रासौ द्बिषतां...प्रतिदिशं त्वत्कीर्तिराधायते त्वत्कीतौ परिधावनं प्रतिपदं गायन्ति वैरिस्त्रियः ।
ग्लानिर्वैरिबहधूलतासु धरणी विश्राम्यति त्वद्भुजे विश्रामो भुवि सिङ्गभूपतिमणें निद्रांन्ति वैरिस्त्रियः ॥११६॥
अत्रानागत चित्रहेत्वलङ्कारस्योपमायाश्व सङ्करः । शब्दार्थोभयालङ्कारसंकरो यथा श्रीसिड्ड्डत्ध्;गक्षोणिभत्र्रे दिशि दिशि सुमनोमानसोल्लास कत्र्रे सान्द्रामिन्द्रो विभूतिं शुचिरतिशुचितां धर्मराजोऽति धर्मम् ।
रक्षां रक्षोऽधिनाथः कुटिलविघटनोद्योगिचेतः प्रचेता वायुस्संपूर्णमायुर्धनमपि धनदश्शंङ्करः शं करोतु ॥११७॥
अत्र दिशि दिशीति सुमोमानसेति शङ्करः शं कोत्विति रक्षां रक्षो इति वत् छेकानुप्रासस्य सान्द्रामिद्र इत्यादावनुप्रासस्य सुमनश्श्लेषः प्रतिशब्दोत्थापितेन दिक्पाल रूप...(मध्यम?) मलोकपालस्य चान्योन्यप्रतीकारलक्षणेनान्योन्यार्थालङ्कारेण पूर्वादिक्पालपरिपाटीकथनलक्षणेन क्रमनाम्नोभयालङ्कारेण सह संनिवेशः प्रकाशत इति सोऽयं त्रिविधालङ्कार ... ... ... ... लङ्कारसङ्करोऽनुसंधेयः । पृथक् प्रयत्ननिर्वत्र्या यद्यप्येते गुणादयः ।
सिध्येयुरेकयत्नेन काव्ये पुण्यवतः कवेः ॥६२॥
सङ्करोऽपि गुणादीनामलङ्कारतयोदितः ।
भोजादिभि ... ... ... धायिभिः ॥६३॥
तत्र गुणालङ्कारसङ्करो यथा विश्वेशकल्पितचमत्कृति ... ... ... सिढद्धठ्ठड़;गयशसा सममाविरास्ताम् । आचन्द्रमातपनमाधरणीधरेन्द्र- मातारमागगनमागिरिजा -- -- -- ॥११८॥
(प्रथ?) मार्धे सहोक्तिः । उत्तरार्धे शेषकीर्ति -- -- -- मेतेषां सङ्करः काव्यचमत्कारमकलङ्कमङ्कुरयति । एवं सङ्करान्तराणि यथासंभवं महाकविप्रबन्धेषु रसज्ञैरनुसन्धेयानि  । एवं निदर्शितं संप्रदायादालोच्य लक्षणम् । कल्पनाकल्पितं काव्यमाचन्द्रार्कं प्रकाशते ॥६४॥लक्ष्यलक्षणनिर्माणविज्ञानकृतबुद्धिभिः । परिक्ष्यतामयं ग्रन्थो .... .... षया ॥६५॥
इति सकलमपि कल्याणम् इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासार शीतलायां चमत्कारचन्द्रिकायामष्टमो विलासः॥ समाप्तोऽयं ग्रन्थः॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-12-06T19:31:43.3000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

hot pressing

  • तप्त दाबन 
  • उष्ण दाबन 
RANDOM WORD

Did you know?

हिंदू धर्मियांत विधवा स्त्रिया कुंकू का लावत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site