TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चमत्कारचन्द्रिका - तृतीयो विलासः

श्रीहरिची माला आणि श्रीराधाचा मुक्ताहार यांची ही कथा आहे.


तृतीयो विलासः
चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्र विरचिता तृतीयो विलासः अर्थो वाच्यश्व लक्ष्यश्व व्यङ्गयोऽपि च विविच्यते । अभिधावृत्तिगम्योऽर्थो जात्यादिर्वाच्य ईरितः ॥१॥
यथा दानेन कर्णो दयया दिलीपो नयेन काव्यो विनयेन रामः ।
यदि प्रसिदिं्ध ददताममीभिः श्रीसिङ्गभूपो निखिलैः प्रसिद्धः ॥१॥
अत्र सर्वेषां पदानां जात्यादिवाचकत्वादर्थस्य वाच्यत्वं प्रतीयते । लक्षणावृत्तिगम्यार्थो लक्ष्य इत्यभिधीयते ॥२॥
लक्ष्यार्थस्तु चतुर्धा वाच्यार्थानन्वयेन तत्रैव । समवेतः संयुक्तः सम्बन्धी सदृश ङत्युक्तः ॥३॥
तत्र समवेतो लक्ष्यार्थो यथा राजन्यके प्रतिभटं प्रतिजन्यरङ्गे रुद्रं प्रकाशयति ते सरवालरेखा । श्रीसिङ्गभूपचकिते शरणागतेऽस्मिन् पझेक्षणं विवृणुते हि कटाक्षरेखा ॥२॥
अत्र रुद्रशब्दो मुख्यार्थे स्खलद्गतिः ।
तेन रुद्रेणाविनाभूतस्य शतृसंहरणसामय्र्थस्य लक्षणया विवक्षितत्वात् समवेतलक्ष्यार्थत्वम् । नानादिगन्तजयिनं स्वपुरप्रवेशे क्षीसिङ्गभूपमनुभावितराजशब्दम् ।
सौधाङ्गणानि परितो जयशब्दपूर्व- माचारलाजकुसुमाञ्जलिमुत्किरन्ति ॥३॥
अत्र सौधाङ्गणानामचेतनानां पुष्पाञ्जलिपरिक्षेपासंभवात् पुरे च सौधबाहुल्यविवक्षया तत्सङ्गताः पौराङ्गनाः लक्ष्यन्त इति संयुक्तलक्ष्यार्थत्वम् ।
विरोध्यविरोधकभावादिरमुख्यः सम्बन्धः ।
 तद्वान् सम्बन्धी यथा श्रीसिङ्गक्षितिपालकः प्रयतते यद्यत्समाटीकितुं तत्तत्पूरयितुं चिरेण नियतिर्बद्धव्रता तिष्ठति ।
अस्मासु प्रतिकूलता तु जहती भूयाः कृतार्थोद्यमाः जायेथा श्विरजीवनी प्रवसता मस्माकमालिर्गिरा ॥४॥
अत्र नियत्या भिन्नानां रिपुभूपतीनां वनं प्रति चिरजीविनी भूया इत्याशीराशंसासङ्गतेरभावात् तद्द्विरूद्धः शापरुपार्थो लक्ष्यते । आदिशब्दादवयवावयविभावसंबन्धादिर्यथा ग्रीष्मो निःश्वसितेषु लोचनयुगे वर्षाश्शरद्गण्डड्डत्ध्;योः हेमन्तस्स्वसखीमुखेषु शिशिरोऽप्यालेपने वस्तुनि । चैत्रस्तल्पविकल्पनासु वसति श्रीसिङ्गपृथ्वीपते त्वां संसेवितुमागतेषु धरणीपालेषु तद्योषिताम् ॥५॥ अत्रावयविभूतर्तुप्रक्रमभढद्धठ्ठड़;गरूपानुपपत्तेः तत्परिहाराय चैत्र इति पूर्वावयवेनावयवी वसन्तो लक्ष्यते । सादश्याल्लक्ष्यार्थो यथा नायकस्यैव कान्ते कृतागसि पुरः परिवर्तमाने सख्यं सरोजशशिनोः सहसा बभूव । रूक्षाक्षरं सुदृशि वक्तुमपारयन्त्या- मिन्दीवरद्वयमवाप तुषारधाराम् ॥६॥
अत्र सरोजादीनां मुख्यार्थानन्वयेन तत्सदृशः करतलादिलक्षणार्थः सादृश्यनिबन्धनया लक्षणया लक्ष्यते ।
शब्देनार्थेन वा लक्ष्यो व्यञ्जनासहचारिणा ।
व्यङ्ग्यार्थो वस्त्वलङ्काररसभावादिलक्षणः ॥४॥
अत्राद्यो यथा लीलालोकनलोलुपं मृगकुलं गन्ता गुहान्तानिमां- स्तत्क्प्यग्रसनव्रतीह भविता द्वीपी रुषीद्दीपितः ।
याता तन्मृगया रतेवनमिदं श्रीसिङ्गभूपो रया- दित्यादिर्भय मादिशन्त्यरिनृपाः स्त्रीणामनीभाव्रतम् ॥७॥
अत्र परिलीनशत्रुभूवरा गिरिगुहानायकेन नाक्रान्ता इति यत्तदिदं दुर्गंबुद्ध्या न भवति किन्तु पलायिता नानुयातवध्या इति मनीषयेति वस्तु व्यज्यते । द्वितीयो यथा पृथ्वीं श्रीसिङ्गभूपे वहति फणवतामीशितारं प्रमोदा- दाकल्पं केलितल्पं कलयितुमनसोरदिपुंसो निरोधे ।
भूमौ भारप्रसङ्गात्पुनरपि पतिता केलितल्पापदेशा- दाकल्पत्वैकयोग्यं भुजग इति पदं गायते ख्यातपूर्वम् ॥८॥
अत्र नायकस्य सर्वेषु राजसु सेवकेषु रणाभावादलब्धनवकपालस्य कपालिनो जीर्णकपालमालिकास्थाने भूभारवियुक्तं शेषाहिं निवेशयितुकामस्य वेत्युत्प्रेक्षालढद्धठ्ठड़;कारो व्यज्यते । किञ्च नायकेनैव जगत्त्राणबार निर्वहणादाश्वस्तस्य नारायणस्य निद्रामाकाङ्क्षत इवेति च तेनैव प्रत#ीयते । रसरूपस्तृतीयो यथा श्रीसिङ्गक्षितिनायकस्य रिपवो धाटीक्षतेराकुलाः शुष्यत्तालुपुटं स्खलत्पदतलं व्यालोकयन्तो दिशः ।
धावित्वा कथमप्युपेत्य तमसा गाढोपगूढां गुहा- मन्विष्यन्ति तदन्तरेऽपि करसंस्पर्शेन गर्तान्तरम् ॥९॥
अत्र नायकविरोधिसमाश्रयो भयानको रसो निजविबावादिभिरसंलक्ष्यक्रमतया व्यज्यते ।
भावरूपश्चतुर्थो यता नायकस्यैव श्टङ्गावीरसौहार्दं मौग्ध्यवैयात्यसौढद्धठ्ठड़;टदम् ।
लास्यताण्डड्डत्ध्;वसौजन्यं दाम्पत्यं तद् भजामहे ॥१०॥
अत्र मौग्द्येत्यादौ विरुद्धगणघटनया लास्येत्यादौ विरुद्धक्रियाघटनया दाम्पत्यमित्यत्र विरुद्धजातिघटनया वाचिन्त्यैश्वर्यप्रतिपादकोऽर्धनारीश्वरलक्षणाभिमतदैवतगैचरो वक्तुर्भक्तिभावो व्यज्यते । एवमन्येप्यादिशब्दग्राह्या रसभावादिरूपा व्यङ्यार्थास्तत्रतत्रोदाहरणे द्रष्टव्याः ।
अथार्थदोषाः ।
अपार्थं व्यर्थमेकर्थं ससंशयमपक्रमम् । परुषं विरसं भिन्नमतिमात्रमनुज्ज्वलम् ॥५॥
नीचाधिकासदृक्षोपमानान्यप्रथितोपमम् । अश्लीलं च विरुद्धं च दोषाः काव्यार्थगोचराः ॥६॥
अत्रापार्थमित्यादौ भावप्रधाननिर्देशान्नपुंसकत्वमवगन्तव्यम् । समुदायार्थशून्यं यत्तदपार्थमितीरितम् ॥७॥
यथा चैत्ये शंभोर्वदनदशके वीक्ष्य दीर्घं कराग्रम् मत्वा दुर्गं लवणधनुषे कामदेवाय हुं भट् ।
इत्याराध्य प्रणवमुखरे प्राञ्जलौ पारशीके तुष्टा लक्ष्मीर्वितरति शुभं सिङ्गभूपालकाय ॥११॥
अत्र परस्परासङ्गतत्वात् समुदायार्थशून्यता स्पष्टैव । व्याकुलोन्मत्तवाक्यादौ तद् गुणीभूय भूषयेत् ॥८॥
व्याकुलभावे यथा को वा जेष्यति सोमवंशतिलकानस्मान् रणप्राङ्गणे हन्तास्मासु पराङ्मुखो हतविधिः किं दुर्गमध्यास्महे । अस्मत्पूर्वनृपानयं निहतवान् दीर्घान् धिगस्मद्भुजान् किं वाक्यैरनवोतसिङ्गनृपतेः सेवैव कृत्यं पदम् ॥१२॥
अत्र वाक्यार्थनां परस्परासङ्गतत्वेऽपि नायकजैत्रयात्रासमाकर्णनव्याकुलानां प्रत्यथिभूपानां नानाभावशाबल्यसूचकत्वाद् गुणत्वम् ।
उन्मत्तभावे यथा औत्सुक्यादनवोतसिङ्गनृपतेराकारमालिख्य सा निर्वण्र्यायमसौ मम प्रिय इति प्रेमाभियोगभ्रमात् ।
आशूत्थाय ततोपसृत्य तरसा किंचिद्विवृत्तानना सासूयं सदरस्मितं सचरस्मितं सचकितं साकाङ्क्षमालौकते ॥१३॥
अत्र चित्रमुद्दिश्याशूत्थानापसरणदृष्टिविकारादीनामर्थानामसङ्गतत्वेन समुदायत्वशून्यत्वेऽपि रागोत्कर्षप्रतिपादकसमस्तकामावस्थासूचकत्वाद् गुमत्वम् । व्यर्थमाहुर्गतार्थ यद्यच्च स्यादप्रयोजनम् ॥९॥
यथा नेत्राभ्यामवलोक्य सिङ्गनृपतिं द्वाभ्यां रणे विद्विषः सव्यूहैरभियान्ति सप्रतिभटानालोक्य गर्वोद्धतान् । दोष्णा स्वेन निजं कृपाणमवते तत्खङ्गधारां गता- स्ते स्वःस्त्रीकुचकुम्भयोर्मृगमदं लुम्पन्ति लुम्पन्ति च ॥१४॥
अत्रावलोक्येत्यनेनैव नेत्राभ्यामिति, नेत्राभ्यामित्यनेनैव द्वाभ्यामिति दोष्णा कृपाणमवत इत्यनेनैव, स्वेन निजमिति चार्थसामथ्र्यादेवावगतेः नेत्रादीनां गतार्थत्वम् । सुरस्त्रीमृगमदलेपनक्रीडड्डत्ध्;यैव रिपूणां कथाशेषत्वावगतेः स्वःस्त्रीति शब्दश्लेषसामथ्र्यलब्धनिजस्त#रीकुचकुम्भमृगमदलेपनक्रियाया अप्रयोजनत्वाद् व्यर्थत्वम् । इदं गुणपतं याति निशेषश्चेद्विवक्ष्यते ॥१०॥
यथा अलोलैराश्वर्यादविचलितलज्जापरिमलैः प्रमोदादुद्वेलैश्चकितहरिणीवीक्षणसखैः । अमन्दैरौत्सुक्यात्प्रणयलहरीमर्मपिशुनै- रपाङगैस्सिढद्धठ्ठड़;गक्ष्मारमणमबला वीक्षितवती ॥१५॥
अत्र नायकमबला वीक्षितवतीत्यनेनैवानन्यसिद्धेनावगतस्यापाङगैरित्यस्य गतार्थत्वेऽपि निष्पन्दत्वलज्जापरिमलादिविशेषविवक्षयोपात्तत्वाददोषः । अप्रयोजनस्य यथा सङ्कल्पैरनवोतसिङ्गनृपतौ संरूढमूलाङ्कुरै- राक्रान्ता तनुतां गता स्मरशरैश्शातेव शातोदरी ।
अस्मन्नूलमिदं तनुत्वमिति किं लज्जालसै लोचने प्राप्ते पक्ष्मपुटावृतिं रतिपतेस्तत् केतनं जृम्भताम् ॥१६॥
अत्र मीनविजृम्भणकथनस्य प्रकृतावस्थानुपयोगित्वेनाप्रयोजकत्वेऽपि लोके प्रायेण परिभूतानां पराभवितुरापदं विना विजृम्भणं न संभवतीति लोचनयोरपुनरुन्मीलनसूचनेन नवमावस्थायाः पराकाष्ठा प्रतीयत इति गुणत्वम् ।
उक्ताभिन्नार्थमेकार्थं यथा संरक्षितां वेतनमाननाभ्यां करोति सेनां विनिहत्य शत्रून् । कल्याणभूपो विनिहत्य शत्रून् बलानि संरक्षति वेतनाद्यः ॥१७॥
अत्र पूर्वोत्तरार्धयोरपृथगभिप्रायत्वादेकार्थम् । रसोद्रेके त्वयं गुणः ॥११॥
यथा कुमारश्रीसिङ्गे जलधिरशनां शासति मही- ममर्यादाध्वस्ताः पतनपरिणाहप्रतिभुवः ।
अधर्मा निर्मूला नरकपरिपाकप्रणिधयो विनष्टा दुश्चेष्टाः कलिकलुषवेशीपरिधयः ॥१८॥
अत्र द्वितीयादिषु पादेषु भिन्नार्थत्वाभावेऽपि केनचिदधर्मगन्धोऽप्यस्मद्देशे न विद्यत इति त्रिर्वाचा धर्मप्रतिष्ठापकस्वामिपक्षपातातिशयोपक्षिप्तं सोद्रेकेण चेतसाभिहितत्वाद् गुणत्वम् । सन्देहदायकार्थं यत् ससंशयमितीरितम् ॥१२॥
यथा श्रीसिङ्गभूपधाटीषु विद्विषो हीनसाधनाः । सालश्रेणिमुपाश्रित्य कुर्वते जीवतं तृणम् ॥१९॥
अत्र हीनसाधना विद्विषः सालश्रेणिं प्राकारपङ्क्तिमाश्रित्य जीवनं प्राणान् तृणं कुर्वते तृणाय मन्यन्त इत्यर्थः ।
अथवा सालश्रेणिं वाटिकामाश्रित्य हीनसाधनाः तृणं जीवनं प्राणधारणं कुर्वत इति च नासत्प्रतिपक्षत्वमसत्प्रतिपक्षत्वं वेऽति संशयप्रतीतेः ससंशयमिदम् ।उत्कर्षादिविवक्षायामस्यापि गुणगौरवम् ॥१३॥
यथा कोकिलस्पर्धिसल्लापा मृगवैरिविलोचनाः ।
वामाः श्यामा वशीकर्तुं नेशते सिङ्गभूपतिम् ॥२०॥
अत्र कोकिलस्पर्धिनः कोकिलस्वरवत् कलमधुरास्सल्लापा यासां ताः ।
मृगवैरीणि मृगलोचनतुल्यानि लोचनानि यासां ताः ।
वामाः रम्याः श्यामा युवतयो नायकं वशीकर्तुं नेशते न शक्ता इत्यनेन स्त्रीव्यसनमस्य नास्तीति । उत कोकिलस्पर्धिनां काकानां सल्लाप इव सल्लापा यासां ताःनामाः वक्राः श्यामाः कालाङ्ग्यः एनं वशीकर्तुं नेशत इत्यनेनानुत्तमासु काकस्वराढ्यासु स्त्रीषु न रमन्त इति कामशास्त्रपरिज्ञानमस्तीति वा सन्देहे उभयथापि नायकोत्कर्षप्रतीतिरिति गुणत्वम् । पौर्वापर्यविपर्यासो यत्र स्यात्तदपक्रमम् ॥१४॥
यथा घोराजिरङ्गे प्रतिपक्षभूपाः श्रीकिङ्गभूपालवसुं विलोक्य । कुर्वन्ति मौहूर्तिकसार्वभौमैः प्रयाणहोरापरिशोधनानि ॥२१॥
अत्र पूर्वं पुरान्निर्गत्य प्रतिपक्षभूपैः पश्वादतिक्रान्तप्रयाणलग्नपरिशोधनं क्रियत इत्यपक्रमत्वम् । चित्रहेत्वादिषु प्रायो गुणतामस्य मन्वते ॥१५॥
यथा पश्वान्मुञ्चति ते चित्तं क्षमां श्रीसिङ्गभूपते ।
पुरस्तादेव मुञ्चन्ति पौरस्त्या भूभुजः क्षमाः ॥२२॥
अत्र पूर्वभाविनो नायकचित्ते तितिक्षामोक्षणस्य हेतोः, हेतुमतः पश्वाद्भाविनः प्रतिराजनिजदेशमोक्षणस्य च पौर्वापर्यविपर्यसादपक्रमत्वेऽपि नायकतितिक्षामोक्षणस्य देशमोक्षणलक्षणप्रतिराजसाध्वसोद्दीपनप्रकाशनपरत्वाददोषः । प्रत्यक्षनिष्ठुरार्थं यत्परुषं तन्निगद्यते ॥१६॥
यथा गणडड्डत्ध्;ग्रावतले निपातयत वा गर्तान्तरे दत्त वा व्याघ्राणां पुरतः परिक्षिपत वा व्याक्रोशतो बालकान् ।
हन्तामी परितो वनं मृगयतः क्ष्मापालचूडड्डत्ध्;मणेः वर्तन्ते भवतीभिरद्य हिवयं सर्वेऽपि दह्यामहे ॥२३॥
अत्र नायकचमूधाटीभयेन गिरिगुहासु लीनानां कुलीनकुटुम्बिनीरुद्दिश्य बालकरोदननिवारणाभिप्रायमात्राण्यपि प्रत्यक्षे रूक्षार्थान्यक्षराणि गदितानीति परुषत्वम् । हितोपदेशातिक्रान्तस्मरणादौ च तद् गुणः ॥१७॥
हितोपदेशे यथा अस्मद्वक्षसिजद्वयात्किमु सुखं स्वर्दन्ति कुम्भद्वयं पीयूषं किमु सारमस्मदधरादस्मादपस्मारितम् ।
कोऽयं वो जनितेति साहसरसान् श्रीवीरसिङ्घप्रभो संरम्भादपसारयन्त्यरिनृपान् प्रौढाः प्रतीतोक्तिभिः ॥२४॥
अत्र मारणशूचनाभिप्रायेण परुषत्वेऽपि मरणपर्यवसायी बलवता नायकेन विरोधः परिहरणीय इति हितोपदेशत्वाद् गुणत्वम् । अतिक्रान्तस्मरणे यथा यन्मुक्तोऽयमजिढिद्धठ्ठड़;वका प्रियसखा त्वत्खङ्गधारामुखा- द्यो दृष्टो न च तैः किरातहतकैर्दुर्गोपहारोद्यतैः ।
तच्वन्मढद्धठ्ठड़;गल सूत्रवैभव मिति प्रस्तौति सिढद्धठ्ठड़;गप्रभो- र्धाटीसंभ्रमनष्टदुष्टपतिका ञ्चैकां स्त्रियं बन्धुता ॥२५॥
अत्र प्रथमार्धे परुषत्वेऽपि संभावितातिक्रान्तानुवादमात्रपरत्वाद् गुणत्वम् ।
विरसं विरसार्थस्स्यादनौचित्यकलङ्कतः ॥१८॥
यथा श्रुत्वा सिङ्गक्षितिपतिरणारम्भगम्भीरघोषान् शुष्यत्तालु प्रतिनृपतयस्स्तब्धजङ्घं पतन्तः ।
संमुह्यन्ते श्रुतिषु मरुतां शैलकान्तारदेशे निर्यान्तीषु श्रुतिपुजसुखं वैणवीभ्यो वपाभ्यः ॥२६॥
अत्र धाटीभयेन पलायमानानां मनसः कीचकरन्ध्रसमीरणश्रवणसुखानुसन्धानमनुचितमिति विरसत्वम् । अप्रधानस्य विज्ञेयो गुणीभावोऽस्य कोविदैः ॥१९॥
यथा कस्तूर्या तत्कपोल द्वयभुवि मकरी निर्मितौ प्रस्तुतायां निर्मित्सूनां स्ववक्षस्यतिपरिचयाच्वत्प्रशस्तेरुपांशु । वीर श्रीसिङ्गभूप त्वदहितकुभुजां राज्यलक्ष्मीसपत्नी- मानव्याजेन लज्जां सपदि विदधते स्वावरोधाः प्रगल्भाः ॥२७॥
अत्र प्रतिनायकगता नायकबिरुदविलेखननिमित्तया जनिता स्वावरोधसान्निध्यादिभिरुद्दीपिता लज्जानुमितैः निर्वेददैन्यविषादादिभिरभिव्यक्ता निर्वेददैन्यविषादादिभिरुपचिता तदनु तदनुमितैरेव मानसिककुत्सादिभिरभिव्यक्ता निजजीवितजुगुप्सा च स्वावरोधविषया तत्प्रागल्भूयादिभिरुद्दीपिता मकरिकातपत्रनिर्माणदिभिरभिव्यक्ता तदनुमितैः हर्षादिभिरुपचिता रतिश्व निर्भरमेकत्र संनिवेशित इत्यनौचित्येन विरसत्वेऽपि तयोर्नायकबिरुदविलेशनहेतुतया नायककृपाकटाक्षप्रसाद सम्पन्नतया च न संभाव्यमानयोश्शरणागतरक्षणलक्षणनायकगतपरोपकारत्वेना प्राधान्याददष्टत्वम्॥
प्रक्रान्तभङ्ग्यनिर्वाहो भिन्नमाहुर्मनीषिणः ॥२०॥
यथा गौडड्डत्ध्;ीपानमदालसाः परिगलद्धम्मिल्लमल्लीस्रजः सव्याजस्खलितोक्तयो मदवतीसीमन्तरत्नश्रियः ।
तारुण्योदधिशीकरा स्मरकलासाम्राज्यसिद्धिक्रियाः श्रीसिङ्गक्षितिपाल तावकगुणान् गायन्ति गौडड्डत्ध्;ङ्गनाः ॥२८॥
अत्र मत्तजात्युपक्रमस्य मदवतीत्यादिगुणवर्णनेनानिर्वाहाद् गुणत्वम् । अस्यापि गुणता व्कापि यदि छाया न हीयते ॥२१॥
यथा ग्रीष्मो निःश्वसितेषु लोचनयुगे वर्षाः शरद्गण्डड्डत्ध्;योरिति पूर्वोदाढद्धठ्ठड़;टतेषु ऋतुष्वेकवचनप्रक्रमस्य वर्षा इति बहुवचनोपादानाद् भिन्नत्वेऽपि भूम्न्येव वर्षा इत्यनुशासनाद् बहुवचनश्रुतेरप्यर्थैक्यस्यात्याज्यत्वादेकवचनछाया न हीयत इति गुणत्वम् । यदश्रद्धेयमत्युक्तमतिमात्रं तदुच्यते ॥२२॥
यथा श्रीसिङ्गभूपाल तवाहितानां निःश्वासवेगा गिरिकाननानि । कुर्वन्ति निर्दग्धनिकुञ्जपुञ्जं पर्यस्तगण्डड्डत्ध्;पलमण्डड्डत्ध्;लानि ॥२९॥
अत्र पराभवभारादत्युष्णानामतिबहुलानामपि रिपुनृपाल
निःश्वासवेगानामाभोगो तथाविधदाहकक्षेपकत्वयोरश्रद्धेयत्वमित्यतिमात्रत्वम् । अस्यापि गुणतां केचिद्यथापूर्वं समर्थने । वदन्त्यन्ये तु सरसा लोकस्थित्यनुरोधतः ॥२३॥
आद्यं यथा श्रीसिङ्गक्षितिपाल तावकचमूधाटीषु वाजिछटा रिंखोद्धूतरजोभिरम्बुनिधयो विश्वेऽपि गाधीकृताः । चञ्चत्केतुपटान्तवान्तपवनै र्भूयोप्यगाधीकृताः भद्रे भेन्द्रमदाम्बुना पुनरमी पूर्वाधिकं पूरिताः ॥३०॥
अत्र सेनावाजिरजसा समुद्राणां शोषण स्थलीकरणादिरतिमात्रत्वेऽपि पुनरपिवारिपूरकल्पनया वस्तुस्थितेरविरोधाद् गाढमार्गानुवर्तिनां विदग्धानामतिगुणत्वम् । द्वितीयं यथा यात्रेयं कुलदेवतासु किमुतोद्वाहक्रमो भूभुजा- माचारा नु सखीति वा प्रतिपतं वध्वा विवाहोत्सवे । धाटीसंश्रवणा त्पलायनवतां श्रीसिङ्गभूपद्विषां राज्ञां मर्मनिकृन्तने पटुतरा तन्मण्डड्डत्ध्;लाग्रादपि ॥३१॥
अत्र वाचां खड्ड्डत्ध्;गादपि ढद्धठ्ठड़;टदयमर्मभेदकथना दतिमात्रत्वेऽपि तादृशानां तादृशानि वचनानि वज्रादपि ढद्धठ्ठड़;टदयमर्माणि भिन्दन्ति । किमुत खड्ड्डत्ध्;गादिरिति लोकस्थितेरनुवर्तनाद्विदर्भमार्गानुसारिणां दाक्षिणात्यानामतिगुणत्वम् । नातिस्फुटचमत्कारमनुज्ज्वलमितीरितम् ॥२४॥
यथा क्रोडड्डत्ध्;ान् खनन्तिविपिने भक्षयन्ति मृगान् कुशान् । निद्रान्ति पादपछाये कल्याणनृपविद्विषः ॥३२॥
अत्र विद्विषां नगरेषु भयव्याकुलतया कदाचिदपि निद्रा चक्षुः नोपैति भ्रष्टराज्यास्तु कान्तारे वन्यजन्तुवत् विस्रब्धा निद्रान्तीति विवक्षितस्यापि चमत्कारस्यातिक्लेशेन प्रतीते रस्फुटालङ्कारत्वाच्चानुज्ज्वलत्वम् । विदग्धढद्धठ्ठड़;टदयाः व्कापि तस्यापि गुणतां विदुः ॥२५॥
यथा सर्वे ग्रहा सनक्षत्रा इत्यादि पूर्वोदाढद्धठ्ठड़१४;टतम् । अत्र जात्याद्यर्थालङ्कारविरहेणानुज्ज्वलत्वेऽपि शुद्धश्रोत्रियाशीर्वादानुकरणत्वाद् गुणत्वम् । स्पष्टं नीचोपमानादि६यं नाम्नैव लक्षितम् ॥२६॥
नीचाधिकोपमाने यथा श्रीसिङ्गभूप भवदीयकृपाणरेखा- मालोक्य पक्तिमकुशाग्रनिशातधाराम् । लीनाः प्रविश्य विपिनं प्रदरान्तरालं नारायणोदरदरीमिव वैरिभूपाः ॥३३॥
अत्र खङ्गधारां प्रति कुशधारायामतिनिशातत्वे नीचत्वादतिनीचोपमानत्वं विपिनप्रदरं प्रति वैपुल्येन नारायणोदरस्यात्याधिक्यादधिकोपमानत्वम् । असदृक्षोपमानत्वं यथा मण्डड्डत्ध्;लीकृतकोदण्डड्डत्ध्; रणे कल्याणभूपतिः ।
करकम्पितकल्हारो मीनाढद्धठ्ठड़;क इव राजते ॥३४॥
अत्र कोदण्डड्डत्ध्;सौगन्धिकयोः साम्यगन्धस्याबावादसदृक्षोपमानत्वम् । आद्ययोस्तु गुणीभावः कदापि कविकौशलात् ॥२७॥
यथा परिपन्थिनि सिङ्गनृपो धनकणिकां कनकगिरिरिवादत्ते । पात्रे तिष्ठति पुरतः तृणकणवच्यजति कनकानि ॥३५॥
अत्र कनकगिरितृणकणयोरत्यधिकनीचयोरुपमानत्वेऽपि नायकस्यार्थधर्मार्जनाप्रमादावति शयविवक्षायां न दुष्यतः ।
असदृक्षोपमानस्य व्यतिरेकोपमादिषु । यथा अविवेकी न सुरभिवत् चिन्तामणिरिव न याति काठिन्यम् ।
श्रीसिङ्गभूपतिलकः शिव शिव भूलोकभाग्यसौभाग्यम् ॥३६॥
अत्रोपमानोपमेययोर्वैषम्येऽपि व्यतिरेकोपमानत्वाद् गुणत्वम् । अप्रसिद्धोपमानं तु भवेदप्रथितोपमम् ॥२८॥
यथा हन्त सौगन्धिककराः स्फुटकोकनदांघ्रयः ।
श्रीकिङ्गभूपधाटीभिः जर्जरा घूर्जरस्त्रियः ॥३७॥
अत्र सौगन्धिककोकनदयोः कान्ताकरचरणोपमानत्वेन कविप्रयोगेषु न प्रसिद्धिरिति दुष्टत्वम् । अस्यापि गुणता व्कापि तरङ्गितचमत्कृतेः ॥२९॥
यथा श्रीसिङ्गभूपाल भवत्प्रयुक्तनाराचपङ्क्त्या परितः पतन्त्या । अराजि वीराहित राजकण्ठे सुराङ्गनासंवरणस्रजेव ॥३८॥
अत्र नाराजपङिक्तस्वयंवरणस्रजोरुपमेयोपमानभावाप्रसिद्धावपि सुराङ्गानां भोग हेतुत्वसाम्याच्छमत्कारातिस्य इति गुणत्वम् । अश्लीलं तद्विनिर्दिष्टं यदश्लीलप्रतीतिकृत् ॥३०॥
यथा उद्दीपिताः प्रहारेण भूपाल तव शात्रवाः । रन्ध्रे प्रहर्तुमौद्धत्यादुन्नमन्ति नमन्ति च ॥३९॥
अत्र प्रहारोद्दीपनं रन्ध्रप्रहाराय नमनोन्नमने च शिश्नेऽपि विद्येते इति तत्प्रतीतेरश्लीलत्वम् । अस्यापि गुणता ज्ञेया कवीन्द्रस्वीकृतादिषु ॥३१॥
यथा जित्वा तत्परिरंभण प्रकृतिकं द्यूते सखीनां पुरः शार्यारोपणसूचिते पणविधौ श्रीसिङ्गभूमीभुजा । मन्दस्मेरकपोलकान्तिलहरीसंक्रान्तवक्त्रेक्षणा सास्विन्नाङ्गुलि शारिकापरिकरं सज्जीकरोति प्रिया ॥४०॥
अत्र शारिकास्त्र्युपरि शारिकारोपणेन पुम्भावकेलिरूपस्याश्लीलस्य प्रतीतेरश्लीलत्वेऽपि कविभिरेवंविधस्यास्लीलस्याङ्गीकाराद् गुणत्वम् । कुत्र कविभिरेवमुररीकृतमिति चेत्तर्हि साधु सर्वतो निदर्शयामः ।
तथाहि तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ॥४१॥
इति रघुवंशे क्लिष्टचन्द्रमदयैः कचग्रहैरुत्पथाहितनखं समत्सरम् । तस्यतच्छिथिलमेकलागुणं पार्वतीरतमभूदतृप्तये ॥४२॥
इति कुमारसंभवे मुखप्रधानै रविलंबपूर्वैः कण्ठग्रहैः क्षिप्रनिपीडिड्डत्ध्;ताङ्गैः ।
करप्रचारैः शिथिलोपरोधैर्लब्धैः प्रियाया मुमुदे मुकुन्दः ॥४३॥
इति कन्दर्पसंभवे प्रोतया गलितनीवि निरस्यन्नुत्तरीयमवलम्बितकाञ्चि । मण्डड्डत्ध्;लीकृतपृथुस्तनभारं सस्वजे दयितया ढद्धठ्ठड़;टदयेशः ॥४४॥ इति भारबिकाव्ये आशुलङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधरतन्त्रि मण्डड्डत्ध्;लक्वणिंतचारु चुकूजे ॥४५॥
इति माघकाव्ये एवमन्यत्रापि विज्ञेयम् । देशकाले कलालोकन्यायागमविरोधि यत् । साहित्यप्राणसारज्ञैः तद्विरुद्धमितीरितम् ॥३२॥
तत्र देशोऽन्ध्रो महाराष्ट्रादिःकालो नक्तंदिवर्तंवः ।
गीतिनीतिप्रभृतयः कालाः कामार्थसंश्रयाः ॥३३॥
चराचराणां भूतानां प्रवृत्तिर्लोक उच्यते । न्यायस्तु हेतुविद्या र्यादागमो धर्मसंहिता ॥३४॥
देशादिविरुद्धानि यथा राधे मासि दिवानिशं मृगमदव्यालेपिनो मालती शय्यायां यमुनातरङ्गपवनस्पर्शोत्सुकैर्वत्सलैः ।
धात्रीनायकसेवनाय मिलिता भूमीश्वरा मानिनो राजाद्रौ मणिहारसौरभमयैः क्रीढन्ति बन्दीजनैः ॥४६॥
अत्रान्ध्रदेशे यमुनेति देशनिरोधः ।
राधेमासि मालतीशय्येति कालविरोधः ।
हाराणां सौरभमिति लोकविरोधः ।
एते प्रत्यक्षविरोधाः ।
मानिनः सोवा मिलिता इति स्ववचनविरोधः ।
बन्दिजना वत्सला इत्यौचित्यविरोधः ।
अन्यसेवकानामहर्निशं क्रीडेड्डत्ध्;ति युक्तिविरोधः ।
एते अनुमानविरोधाः ।
बन्दीकृतैः परपरिग्रहैः क्रीडड्डत्ध्;न्तीति कर्मसंहिताविरोधः । बन्दीष्वन्यासक्तेः व्यसनमपकृतस्त्रीषु विश्वासश्चेत्यर्थागमविरोधः ।
ग्रीष्मे दिवानिशं क्रीडड्डत्ध्;नं पक्षाद्वर्षनिदाघयोरित्यायुर्वेदविरोधः ।
ग्रीष्मे कस्तूरिकाविलेपनं भोगशास्त्रविरोधः ।
अत्रागमान्तर्भूतानामपि कलाशासत्राणां पृथगभिधानं तद्ज्ञानस्य साहित्ये प्राधान्यज्ञापनार्थम् । महोत्पातानुभावादि विवक्षायामिदं गुणः ॥३५॥
उत्पातविवक्षायां यथा उद्दण्डड्डत्ध्;प्रतिगण्डड्डत्ध्;भेरवविभो स्मेरे कटाक्षे रुषा जाते कोकनदच्छविप्रतिभटे राष्ट्रेषु विद्वेषिणाम् ।
माकन्दाश्शरति प्रभूतकलिकाः पझं कुकूलोदरे पाषाणाः प्रहसन्ति हन्त दधते सन्ध्यासु निद्रा द्विजाः ॥४७॥
अत्र शरदि माकन्दप्रसूनानीति कालविरोधः ।
कुकूलोदरे पझमिति युक्तिविरोधः पाषाणाः प्रहसन्तीति लोकविरोधः ।
तदेषां दुष्टत्वेऽपि नायककोपजनिष्यमाणपराष्ट्रविपत्तिसूचकतुर्निमित्तविवक्षया गुणत्वम् । अनुभावविवभायां यथा कस्तूरीमृगयूधसेविततलैः कर्पूरपालीद्रुमै- रारामानभिरामतामुपगतानालोक्य राजाचले । विस्मेरा ढद्धठ्ठड़;टदि पञ्चवर्णकशुकादाकण्र्य कर्णोत्सवं श्रीसिङ्गक्षितिपालविक्रमकलां नन्दन्त्यपूर्वे जनाः ॥४८॥
अत्रान्ध्रदेशे कस्तूरीमृगकर्पूरद्रुमादिसद्धाव इति देशविरुद्धत्वेऽपि नानाद्वीपाधीशसकाशादुपायनग्रहणसमर्थनायकप्रभाववर्णनविवक्षया गुणत्वम् । शब्दार्थरूपं तदितं काव्यं शब्दार्थकोविदैः ।
त्रैविध्येन चमत्कारि चमत्कारितरं यथा ॥३६॥
चमत्कारितमं चेति प्रविविच्य निदर्शितम् । शब्दचारुत्वतात्पर्ये चमत्कारीति कथ्यते ॥३७॥
यथा कमलमुकुलपालीकल्पितापानकोती कलमधुकरमालाकाकलीकल्पनादेः ।
सरसि सरसतीरे सारसारापसारे विहरति भरितौघे राजशैलाधिराजः ॥४९॥
अत्रानुप्रासनिर्वहणमात्रे कविप्रयत्नस्य विश्रान्तेः शब्दमात्रचारुत्वादिदं काव्यं चमत्कारीत्युच्यते । वाच्यचारुत्वतात्पर्ये चमत्कारितरं मतम् ॥३८॥यथा श्रीसिङ्गक्षितिपाल तावकचमूधाटीभयाटीकिता- नाकारैरपि शाबरैरपिहितान् घोराङ्गणे फक्कणे । आत्मीयैव हि पश्यतां पिशुनयत्याबालगौपालकं भूपालात्कुलिशातपत्र कलशीचिढद्धठ्ठड़;ना पदानां ततिः ॥५०॥
अत्र कैतवकिरातानां प्रतिनायकानां कुलिसादिराजलक्षणलक्षितपदावलीपरिज्ञानेन यदिमे राजान इत्यभ्यूहनं सोऽयमनुमानामङ्कारः ।
तत्रैव कविप्रयत्नस्य विश्रान्तिरिति वाचकाक्षरमुल्लङ्घ्य वाच्यचारुत्वतात्पर्यादितं चमत्कारितरमित्युच्यते । व्यङ्ग्यर्य चगुणीभावे तदेवाहुर्मनीषिणः ।
इहोपसर्जनीभूतमष्टधा व्यङ्ग्यमुच्यते ॥३९॥
तथा चाहुः अगूढमपरस्याङ्गं वाच्यसिद्ध्यढद्धठ्ठड़;गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये काव्काक्षिप्त मसुन्दरम् ॥इति॥ ॥४०॥
अगूढव्यङ्ग्यं यथा कस्तूरीमृगयूथसेविततलैः कर्पूरपालीद्रुमै- रारामानभिरामतामुपगतानालोक्य राजाचले ।
विस्मेरा ढद्धठ्ठड़;टदि पञ्चवर्णकशुकादाकण्र्य कर्णोत्सवं श्रीसिङ्गक्षितिपालविक्रमकलां नन्दन्त्यपूर्वे जनाः ॥५१॥
अत्र विक्रमकलामित्यर्थशक्तिमूलस्य नानाद्वीपाधिपप्रहितस्योपायनविशेषरूपस्य व्यङ्ग्यस्योपर्येव प्रभावादिदमगूढं व्यङ्ग्यं नाम चमत्कारितरं काव्यम् ।
अपराङ्गव्यङ्ग्यं यथा चूतालोकभिया निमीलितदृशो रञ्जन्ति भागान्तरं बन्धूनां च कुहूभिया श्रुतिरुधो नाकर्णयन्त्यो गिरः ।
पान्धैर्भूतभिया पलायनपरैर्नावेदिताध्वक्रमाः खिद्यन्ति त्वदरिस्त्रियो वनभुवि श्रीसिङ्गपृथ्वीपते ॥५२॥
अत्र शत्रुस्त्रीविप्रलम्भस्य करुणाङ्गत्वम् ।
वाच्यसिद्ध्यङ्गं यथा षढ्भिः षोढशभिः पूर्वैर्गौरेका महिषी कृता । सैव श्रीसिङ्गभूपालकुञ्जरेण विशीकृता ॥५३॥
अत्र वशेति गजकान्तालक्षणं व्यङ्ग्यं भूपालकुञ्जरेणेत्यत्रोपमारूपकसन्देहे रूपकसिद्धिमुपपादयतीति वाच्यसिद्ध्यङ्गमिदम् ।
अस्फुटं यथा चित्रं श्रीसिङ्गभूपालो विमथ्य रिपुवाहिनीम् ।
विकिरत्यमृतं सर्वश्रवणानन्दकारणम् ॥५४॥
अत्र मन्दरः समुद्रं विमथ्य केषांचिदेव रसनानन्दकारण ममृतमुत्पादयामास । नायकस्तु वाहिनीं विमथ्य सर्वलोकश्रवणानन्दकारणं कीर्तिरूपममृतं दिक्षुपूरयतीति मन्दरान्नायकस्याधिक्यप्रतिपादनात् प्रतीयमानस्य व्यतिरेकस्य नातिस्फुटत्वम् ।
सन्दिग्धव्यङ्ग्यं यथा श्रीसिङ्गभूपपृतनाधिकृतैः निषण्णै- रास्थानसौधमणितोरणवेतिकासु ।
आलोकनेन हरिदागतराज राजि- र्दृष्टा कपोलतलकन्दलितस्मितेन ॥५५॥
अत्र नानादिगन्तागतराजकगोचरं सेनापतीनां सस्मितानलोकनं संभावनाभिप्रायेण वा रणेषु प्रभूततदीयकातरदशास्मरणेन वेति सन्देहः । तुल्यप्राधान्यव्यङ्ग्यं यथा तव श्रीसिङ्गभूपाल प्रतापतपनोदयः ।
सातपत्रान् महीपालान् सन्तापयति सन्ततम् ॥५६॥
अत्र सातपत्रान् शत्रून् प्रतापतपनः सन्तापयतीति वाच्यस्य निरातपत्रान् नः सन्तापयतीति व्यङ्ग्यस्य च प्राधान्यं सममेव प्रतीयते ।
काक्वाक्षिप्तं यथा भद्रेभादशनभतक्षितिधरग्रावश्रियोऽग्रे स्थिताः राजिर्वा जवनिर्जितार्कहयता विभ्राजिनां वाजिनाम् । उद्दण्डड्डत्ध्;प्रतिगण्डड्डत्ध्;भैरवविभुं प्राणेश शुद्धाङ्गणे हन्ताद्यापि दिदृक्षसे न सुढद्धठ्ठड़;टदः प्राणा न चाहं हिताः ॥५७॥
अत्र प्रतिनायकमुद्दिश्य तद्देवीवाक्ये गन्धगजा वाजिनो वा तवाग्रे न स्थिता प्राणास्व प्रिया एवाहं च तव हितैवेति व्यङ्ग्यं प्रतीयमानमपि कुञ्जरादयोऽग्रे स्थिता वा इत्यादि काकुसहकारिणा वाचकशब्देनैवाक्षिप्यत इत्युपसर्जनीभूतत्वम् । असुन्दरं यथा धात्रीमतिक्रम्य परिस्फुरन्ती भुजङ्गलोकानभितश्वरन्ती । श्रीसिङ्गभूपाल तव प्रभावात् श्लाघ्या हि कीर्तिः सुमनोगृहेषु ॥५८॥
अत्र कीर्तेः धूर्तस्त्रिया साम्यं शब्दशक्तिप्रतीतमपि वाच्यादनतिशायीति न सुन्दरम् । प्रत्येयार्थस्य चारुत्वे चमत्कारितमं मतम् ॥४०॥
यथा सिङ्गप्रभुरलङ्कारी लङ्कारी राघवः पुनः ।
वर्णान्तरत्वमुभयोः श्रूयते सर्वसम्मतम् ॥५९॥
अत्र वर्णेनाक्षरेणान्तरं भेदो ययोस्तच्वमिति वाच्ये प्रतिष्ठिते वर्णो वैश्यजातिरन्तरं नायकरघुनायकयोरिति परस्परव्यतिरेकालढद्धठ्ठड़१४;कारो व्यङ्ग्यः ।
तस्यैव कवितात्पर्यविश्रान्तिधामत्वाच्चारुत्वमिति चमत्कारितमत्वम् । यथा वा कृतायस्तम्भनिर्भेदो भक्तप्रढद्धठ्ठड़;लादपोषकः ।
श्रीपतिनंरसिंहोऽयं राजते राजशेखरः ॥६०॥
अत्र शब्दशक्तिमूलो नायकवैकुण्ठकण्ठीरवयोरुपमालङ्कारो व्यज्यते । अनेन च क्षणादिव नायको निखिलविरोधिविदारणक्रियापरिणति समर्थनिर्वक्रपराक्रम इति विधिरुपं वस्तु व्यज्यते ।
एतेन च नायकेन सह विरोधो न करणीय इति निषेधरूपं वस्तु, अमुना च नायकप्रतिभटीभूता महीपाला निर्बुद्धय इत्युत्प्रेक्षा व्यज्यते ।
अनया च नायकविरोधिनो नरनायका दैवपराहता इत्युत्प्रेक्षाऽपरा व्यज्यते ।
एवं प्रतिशत्रुप्रतिभाविशेषप्रत्ययार्थपरंपरासमुन्मेषसंपन्नतया बाढमचिन्त्यमहिमविश्रान्तिधामतां नीतं तदिदं चमत्कारितममित्युच्यते ।
अत्र भेदप्रपञ्चो ध्वनिलोचनादिग्रन्थेषु द्रष्टव्यः ।
 गद्यं पद्यं च मिश्रं चेत्येतत् सर्वं त्रिधा स्मृतम् । अपादः पदसन्दर्भो गद्यं ढद्धठ्ठड़;टद्यं मनीषिणाम् ॥४१॥
कीर्तिरत्ननिषद्यायां गद्ये कस्यापि पाटवम् । गद्यबन्धमयं काव्यं श्रीहर्षचरितादिकम् ॥४२॥
चतुष्पादान्वितं पद्यं चादिर्मात्रेति तद् द्विधा । छन्दोविचितिकोशेषु तयोज्र्ञेयस्तु विस्तरः ॥४३॥
पद्यबन्धमयं काव्यं क्षुद्राक्षुद्रतया द्विधा ॥४४॥
क्षुद्रं मुक्तककाव्यं तद् भामहाद्यैः प्रपञ्चितम् ।
अक्षुद्रं सर्गबन्धादि प्रशस्तोदात्तवस्तुकम् ॥४५॥
सदेशकालपात्रादि वर्णनासम्पदुज्ज्वलम् ।
त्रिवर्गफलदं काव्यं रघुवंशादिकं मतम् ॥४६॥
गद्यपद्यमयं
मिश्रं प्रेक्ष्यं श्राव्यमिति द्दिधा । प्रेक्ष्यं द्विधा रूपकाख्यमुपरूपकमित्यपि ॥४७ ॥रूपकं दशधा प्रोक्तं नाटकादिविभेदतः ।
महाप्रबन्धसाम्राज्यमाधिकर्तुमिदं क्षमम् ॥४८॥
सिङ्गभूपालरचिते रसार्णवसुधाकरे  ।
अस्य प्रपञ्चो विज्ञेयः के तथा वक्तुमीशते ॥४९॥
उपरुपकमाख्यातं तद्धि श्रीगदितादिकम् ।
भावप्रकाशिकाद्येषु तल्लक्षणमवेक्ष्यते ॥५०॥
श्राव्यं च कथितं चम्पूरुपचम्पूरिति द्विधा । चम्पूप्रबन्धस्तत्र स्यात्कान्ताष्टादशवर्णनः ॥५१॥
स प्रबन्ध इति श्लाघ्यो भोजरामायणादिकः ।
उपम्पूप्रबन्धानामियत्ता केन गद्यते ॥५२॥
अत्रापि कविसामथ्र्याद्र् बाषातालादिमिश्रणैः ।
कलिकोत्कलिकादीनां परिनायासविकल्पनैः ॥५३॥
रसभावादिभेदेन संपद्यन्ते तथोचितम् ।
तथापि प्रभुवन्द्यादिहर्षणारभटीस्पृशाम् ॥५४॥
वक्ष्ये च चतुर्भद्रादीनां केषांचिदिह लक्षणम् ॥५५॥
पद्यानन्तरबद्धानां गद्यानां हि यथारुचि  ।
अवैषम्यादियत्ताया नियमो भद्रमुच्यते ॥५६॥
चत्वारि यत्र तानि स्युस्तच्चतुर्भद्रमीरितम् ॥५७॥
भद्रं च सतालमतालं मिश्रं चेति त्रिविधम् ।
यत्र (पद्यानन्तरं त्रिचतुर) पद्यान्ततन्त्री चतुरमात्रादि नियमे केवलकलिकोत्कलिकानिबन्धः तत्सतालभद्रम् ।
तदिदमुदाहरणादिषु । यत्र पद्यानन्तरं गद्यानि कलिकाश्व तन्मिश्रभद्रम् ।
तदिदं चतुर्भद्रादिविषयम् । चतुर्भद्रनिबन्धनाप्रकारस्तु यत्किञ्चिदारभटीवृत्तियोग्यमाशीर्वादभूषितं संबुद्धिविभक्तिसंभक्तनायकनामाङ्कितं पद्यमादौ निबध्नीयात् । ततो देव धीर शूरेत्यादि पदोपक्रमाणि गद्यान्यन्तानुप्रासवन्ति समसंख्यया वक्तव्यानि । पश्वाद् गद्यसंख्यातिक्रमेण द्वयोद्र्वयोराद्यन्तानुप्राससुन्दरमाकलनीयाः कलिका इतीदं समुच्चित्य भद्रमित्यभिधीयते । एवं चतुर्णां भद्राणां निबन्धे चतुर्भद्रः ।
एवमष्टभद्रादयोऽपि तस्यैवा वृत्तितो भवन्तीति न पृथगुच्यन्ते । द्विभद्रमपि चेच्छन्ति भाषा नैकविधा यदि ।
ख्यातं हि रक्तं कल्याणं योगस्संस्कृतदेश्ययोः ॥५८॥
एवं भाषाद्वयीयोगे योग्यं नाम प्रकल्पयेत् ॥५९॥
तदेव ननाबिरुदैरङ्कितं बिरुदावलिः ।
तत्तत्समयक्रर्तव्यसूचनादिफला तु सा ॥६०॥
वर्णनीयगुणोत्कर्षवती भोगावली मता ।
प्रतिभद्रं समुन्निद्रदिगन्तविजयश्रमम् ॥६१॥
तच्चतुर्भद्रमाख्यातं कोविदैर्विजयावली ।
यत्सतालभद्रं स्यात्तदुदाहरणं मतम् ॥६२॥
जयत्युपक्रमोद्भासि मालिन्याख्यादिपद्यके ।
विभक्तयः क्रमादत्र सप्त संबुद्धिरष्टमी ॥६३॥
प्रतिभद्रं च पद्यान्ते कल्पयेत्कलिकाष्टकम् ।
ततः सप्तदशा व्यस्ताः कलिकार्धसमातृकाः ॥६४॥
तत्तद्विभक्त्याभासान्ताः कुर्यादुत्कलिकास्तथा ।
आद्यन्तानुप्रासभक्तिः कल्पनीया द्वयोद्र्वयोः ॥६५॥
विभक्त्याभासनियमा लघ्वन्तात्तालिकेन च ।
गदेत् सर्वविभक्त्यन्ते पद्यं सार्थविभक्तिकम् ॥६६॥
आशीर्वादसमायुक्तमित्युदाहरणक्रमः ।
क्रमाद्भाषाष्टकं यत्र सोदाहरणमातृकाः ॥६७॥
९निजपूर्वपदान्तस्य द्वित्राद्यक्षरसन्ततिः ।
उत्तरस्य पदस्यादि यस्मिन्नव्यवधानतः ॥६८॥
तदेतद्भद्रसन्धानाच्चक्रवच्चक्रवालकम् ।
पद्यानन्तरिता गद्यपङ्क्तिराद्यन्तपद्यका ॥६९॥
इदं प्रोक्तपदैरन्यैः पर्यायो गद्यप्द्ययोः ।
पूर्वोत्तरानुसंधानं सर्वसाधारणं मतम् ॥७०॥
अन्ते क्षुद्रप्रबन्धानामार्ययानुष्टुभापि च ।
नामप्रकाशे यत्कर्तुर्नायकस्य कृतेरपि ॥७१॥
संबुद्धिरेका सर्वत्र हित्वोदाहणं मता ।
इत्थमन्यदपि ज्ञेयमेतज्जातिसमुद्भवम् ॥७२॥
द्विपतीप्रमुखानां तु क्षुद्रेष्वन्तर्गतिर्मता ।
येषां लक्ष्यं बुधैरूह्यं वयं विस्तरभीरवः॥ ॥७३॥
इति श्री सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासारशीतलायां चमत्कारचन्द्रिकाया मर्थगुणदोषप्रबन्धविशेषविवेको नाम तृतीयो विलासः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-12-06T19:22:01.2030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

छकडी

  • स्त्री. सहा संख्येचें माप किंवा गट ; समुदाय ( कागद , फांशांवरील सहा ठिपके , आंबे , रुपये इ० चा ); तिफाशीं सोंगटयांतील सहांचें दान . [ सं . षटक ] 
  • ०चें न. पांचाचा फाडा ( फळांचापण प्रत्येक फाडयावर एक जास्ती . शेंकडा घेतला असतां एकशेंवीस फळें मिळतात ); सहांच्या गटानें केलेलें माप . 
  • माप न. पांचाचा फाडा ( फळांचापण प्रत्येक फाडयावर एक जास्ती . शेंकडा घेतला असतां एकशेंवीस फळें मिळतात ); सहांच्या गटानें केलेलें माप . 
  • छकडीचें माप 
More meanings
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site