TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चमत्कारचन्द्रिका - द्वितीयो विलासः

श्रीहरिची माला आणि श्रीराधाचा मुक्ताहार यांची ही कथा आहे.


द्वितीयो विलासः
चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता द्वितीयो विलासः अथ वाक्यम् समन्वितपदं वाक्यं लक्षकं व्यञ्जकञ्च तत् ॥१॥
लक्षकवाक्यं यथा उच्चैराश्रितवत्सलोयममृषाभाषीति यद् गीयसे श्रीसिङ्गक्षितिनायकैतदधुना निव्यूढेमेतच्वया ।
मद्भाग्यानि पचेलिमानि नितरामेवं सपत्नीजने- ष्वारूढास्मि चिराय तावककृपासंभावनाया पदम् ॥१॥
अत्र मानवत्याः कृतापराधे दयिते चाटुवाक्यस्यासंबद्धत्वाद् विप्रलम्भकोऽसीत्यादि वाच्यविरुद्धोऽर्थो लक्ष्यते । व्यञ्जकवाक्यं यथा क्षोणीभृतां शिशिरकल्पितपादकान्त- श्श्यामोपलालनकरो नयनप्रियाङ्गः । राजाचले सुमहसा मुदयानुकूले राजा विराजति सतामुपरञ्जनाय ॥२॥
अत्र शब्दशक्तिमूलो नायकतारकानायकयोरुपमारूपोऽनुरणनध्वनिः सर्वेणैववाक्येन प्रतीयत इति व्यञ्जकमिदम् । अथ वाक्यदोषाः अपप्रयुक्तं दुस्सन्धि व्युत्कमं पुनरुक्तिमत् ।
दुरन्वयञ्च वाक्याङ्गसङ्कीर्णं वाक्यगर्भितम् ॥२॥
द्वे भिन्नीलिङ्गवचने द्वे च न्यूनादिकोपमे । विकलं केवलञ्चेति दुष्टं वाक्यमिहोच्यते ॥३॥
अपप्रयुक्तं पदयोर्योगे यत्रापशद्बनम् ॥४॥
यथा राजान्यो हि धनान्यलं जनपदान विष्पीडड्डत्ध्;्य तान्यन्वहं पण्यस्त्रीविटचेटपात्रठनटस्तोमाय संयच्छते । श्रीसिङ्गक्षितिपालकः पुनरयं न्यायक्रमैरर्जिता- न्युर्वीदेवजनाय वेदविदुषे वित्तानि दत्तेतराम् ॥३॥
अत्र स्तोमायेत्यत्राशिष्टस्य व्यवहारत्वाच्चतुथ्र्यर्थे तृतीयया भवितव्यम् । तथापि चतुर्थीकृतिरिति सोऽयमपप्रयोगो वाक्यदोषः॥
अस्यापि गुणतामाहुः विवक्षावशतः व्कचित् ।
निसर्गसुन्दरत्वेन गुणदेषविवेचकाः ॥५॥
यथा अस्मत्कल्पलतादलानि गिलति त्वत्कामगौर्वार्यतां मच्चिन्तामणिवेदिभिः परिणमेद् दूरान्नयोच्चैर्गजम् । इत्यारू़ढवितर्दिकाः प्रतिपतं जल्पन्ति भूदेवताः सिङ्गक्ष्माभुजि कल्पवृक्षसुरभीहस्त्यादिदानोद्यते ॥४॥
अत्र कामगवीति वक्तव्ये कामगौरिति यदुक्तं तदिदं "गोरतद्धितलुकि" इति टप्रत्ययस्य समासान्तविधिरनित्य इत्यनित्यत्वादर्थप्रसादविवक्षया नापप्रयुक्तम् । तथा च महाकविप्रयोगः तीर्थकरक्रमोत्तंसनामनि महाकाव्ये --- शुभ्राभ्रङ्कषशेखरेषु विदुषां वासेशु वाग्भासिनां भव्यत्वत्करुणा कटाक्षकणिकास्पर्शेन दर्शेश्वर ।
कालं वैजननं विना फलवती स्तल्पन्ति कल्पद्रुमाः पङ्क्तिः कामगवाञ्च निर्भरतरं प्रस्नोति वत्सान् विना ॥५॥
इति तथा चाहुः आचार्याः "इत्यादिशाश्त्रमाहात्म्यदर्शनालसचेतसाम् । अपभाषणवद्धाति न तु सौभाग्यमुज्झति॥" इति ॥६॥
अश्लिष्टकष्टाश्लीलादिसन्दि दुस्सन्धि गीयते ॥७॥
अश्लिष्टकष्ट सन्धिनी यथा कल्याणस्य इनेन्दुतुल्यमहसो अव्याजशौर्यश्रियो विद्विड्ड्डत्ध्;ढ्रीभरढोग्ध्र सिद्युतियुजो धृत्या अतन्व्या उरोः ।
श्रोत्रे ऊर्जितकुण्डड्डत्ध्;ले उरुरुचिं आद्यां कविप्रक्रियां नाश्राव्यां सहतः सुसन्धिललिते दुस्सन्धिसम्बन्धिनीम् ॥६॥
अत्र संहिता विवक्षितेति प्रथमपादे पदानामश्लिष्टसन्धित्वाद् दुःसन्धित्वम् । विद्विड्ड्डत्ध्;ढ्रीभरेत्यादि पदे श्रुतिकटुरूपकष्ट सन्धित्वाद् दुःसन्धित्वम् । धृत्या अतन्व्या उरोरित्यत्र लुप्तविसर्गप्रायकष्टसन्धित्वाद् दुःसन्धित्वम् । तृतीयपादे प्रगृह्यप्रायकष्टसन्धित्वाद् दुःसन्धित्वम्॥
अश्लीलसन्धि यथा पश्य प्रिये भव्यनृपालख्ङ्गधारानिपाताच्चकितान्तरेण । सरोमया सीत्कृतसिन्धुपूरं विगाढमार्तस्य कुतो विवेकः ॥७॥
चित्रे सकृत् प्रगृह्यादावाद्ययोर्गुणभूमिका ॥८॥
यथा विधत्ते श्रीसिङ्गक्षितिपकमलर्धेर्निधिरसौ समुद्रस्ते बाहुश्वकितचकितक्ष्माभृदवनः ।
मदान्धद्वे षिस्त्रीकुचकलशकाश्मीरमकरी- निरासव्यासकिंत शिव शिव चरित्राणि महताम् ॥८॥
अत्र कमलर्धेरित्यस्य कष्टसन्धित्वेऽपि कमलायाः कमलस्य च ऋद्धेरिति श्लेषनिवहिफलत्वात् सकृदेवेति गुणत्वम् ।
सकृदेव प्रगृह्यो यथा प्रज्ञापि तव सूक्ष्मार्थग्राहिणी लोचने इव । श्रीसिङ्गभूपधाटीव कीर्ती राजातिलङ्घिनी ॥९॥
अत्र लोचने इवेति कष्टसन्धित्वेऽपि प्रगृह्यत्वात् सकृदेवेति गुणत्वम् । सन्ध्यश्लीलस्य सर्वत्र दुर्जनस्येव वर्जनम् ।
अस्यापि च गृणीभावे न ग्राह्यं नग्नदर्शनम् ॥९॥
यथा योग्यं प्रयोज्यस्य शब्दस्यार्थस्य वा क्रमः  ।
विपर्यस्तो भवेद्यत्र व्युत्क्रमं तन्निगद्यते ॥१०॥
यथा श्रीसिङ्गभूपाल बलप्रभावे भीमौ यथा दर्पककीचकारी । आदेशनिवहिविधौ गुरूणां यथा राघवभार्गवौ त्वम् ॥१०॥
अत्र बले प्रभावे चेति सामान्यधर्मपरिगणनाक्रमवशादुपमानयोरपि तद्धर्मिणोः क्रमेणोक्तिरेव युक्तेति कीचकदर्पकारीति वक्तव्ये व्युत्कमेण भणनाच्छब्दव्युत्कममिदम् ।
अत्रैव राघवादपि भार्गवस्याभ्यर्हितत्वाद् भार्गवराघवाविति वक्तव्ये तदतिक्रम्य निर्देशादर्थव्युत्क्रममिदम । उभयत्रापि कीचकदर्पकारी भार्गवराघवाविति च पाठो रमणीयः ।
निर्विशेषविवक्षायां दुःशङ्काव्यपनोदने । उक्तिशंकोचसौकर्येऽ प्यस्यापि समुपास्यता ॥११॥
निर्विशेषविवक्षायां यथा घटामः स्वीयं वा पुरततिमनघ्र्यानपि मणी- नखर्वामुवीं वाविसृज गतिरन्या न महता । त्वया ग्राह्यं सिङ्गक्षितिभुजि न वैरं प्रियतम् प्रियाणामस्माकं वचनमुचितं मास्म परिभूः ॥११॥
अत्र पुरदेशगजाश्वरत्नानामभ्यर्हितत्वात् पूर्वपूर्वं निर्देशः ।
अथवा न विसर्जनक्रियासम्बन्धादनभ्यर्हितानां पूर्वपूर्वमुद्देशः कर्तव्यः ।
एवं सत्युक्तप्रकारेणातिक्रमेऽपि प्राणेश्वर सकलमपि धनं स्वामिने समप्र्य प्राणा रक्षणीयाः ।
कृतमभ्यहितानभ्यर्हितविवेकेनेत विवक्षया शत्रुकान्ताभिरूक्तत्वाद् दुष्टत्वम् ।
दुःशङ्कापरिहारे यथा नायकस्यैव वंशावल्याम् यस्याद्यो विदितः कुमारतिलकः श्रीयन्नवोतो गुणै- रेकस्याग्रजमात्मरूपविभवे चापे द्वयोरग्रजम् ।
आरूढे त्रितयाग्रजं विजयते दुर्वारदोर्विक्रमे सत्योक्तौ चतुरग्रजं वितरणे किञ्चापि पञ्चाग्रजम् ॥१२॥
अत्र कर्णादीनामभ्यर्हितत्वात् पञ्चानामग्रजं त्रयाणामग्रजं द्वयोहग्रजमेकस्याग्रजमिति वक्तव्येऽपि संख्यापचयसूचिताप्रशस्तिप्रतीतिपरिहाराय संख्योपचयत्वारोपेणो त्तरोत्तराभिवृद्धिद्योतनादपक्रपेऽपि क्रमादतिसुन्दर इति गुणत्वम् । उक्तिसंकोचसौकर्ये यथा रामाः श्रीकिङ्गभूपाल चत्वारोंऽशा हरेः स्फुजम् । समौ तत्र महोदात्तौ विषमौ तु महोद्धतौ ॥१३॥
अत्र कृतत्रेताद्वापरकलियुगेषु भार्गवो राघवो यादव इति त्रयो रामाः श्रीसिङ्गभूपालश्चेति चत्वारो लोकरक्षापेक्षया श्रीविष्णोरंशा इत्युक्ताः ।
तेषु चतुर्षु प्रथम उद्धतो द्वितीय उदात्तः तृतीयश्चोद्धतश्वतुर्थ उदात्त इति वक्तव्ये पठितप्रकारेण व्युत्क्रमेऽपि समाविति द्वितीयचतुर्थयोर्दशरथान्नवोतसंभूतयो रंशयोः, विषमाविति रेणुकारोहिणीगर्भसंभूतयोः प्रथमतृतीययोरंशयोश्व धीरोदात्तधीरोद्धतत्वगुणसाम्यसंबन्धानुसन्धायिना संक्षोपोक्तिसौकर्येऽपि चारुता समुन्मीलतीति गुणत्वम् । पदं पदार्थस्वाभिन्ने यत्र तत्पुनरुक्तिमत् ॥१२॥हास्तिकमास्तिकसेव्य तवेदं दुर्जनतर्जन सिढद्धठ्ठड़;घनृपाल । तर्जितगर्जितडड्डत्ध्;म्बरमास्ते शम्बरडड्डत्ध्;म्बरमेति मदाम्बु ॥१४॥
अत्र डड्डत्ध्;मबरयोरेकरूपत्वात् पदपुनरुक्तिः । भावोत्कर्षविवक्षादावस्याप्यादरणीयता ॥१३॥
यथा दयोदधे त्वं नः पाहि पाहि नः करुणांबुधे । पोष्या वयं न विद्वेष्याः सिङ्गभूपाल पालय ॥१५॥
अत्र करुणांबुधे दयोदधे इत्यर्थपुनरुक्तिः ।
पाहि नः पाहि न इति शब्दपुनरुक्तिः ।
तदुभयमपि शतृसंबन्धिका विग्रहकारिगतदैन्यातिशयविवक्षायां न दुष्यति किन्तु स्वार्थातिशयं पुष्यतीति गुणत्वम् । दूरतान्वययोग्यानां यत्र स्यात्तद्दुरन्वयम् ॥१४॥
यथा श्रीसिङ्गक्षितिपालसङ्गरतलेष्वङ्गानि दृष्ट्वा द्विषा- मातङ्केन समन्ततः किलकिलारावेण वैतालिकाः ।
कान्ताः खण्डड्डत्ध्;विख्ण्डड्डत्ध्;तां परिगतान्युच्चण्डड्डत्ध्;खङ्गाहतेः घोराः कङ्ककुलाकुलेषु चकिताश्विन्वन्ति मिन्वन्ति च ॥१६॥
अत्र कङ्ककुलाकुलेषु सङ्गरेष्वित्यनयोरातङ्केन चकिता इत्यनयोः किलकिलारावेण घोरा इत्यनयोर्वैतालिका दुष्ट्वेत्यनयोरतिप्रत्यासत्तिकाङ्क्षिणोः दूरदूरा विघटना दृश्यते । सेयमन्वयावसरे सरसमानसं दुःखाकरोतीति दुरन्वयं दुष्टम् । गुणकक्ष्यापरिक्षेपः व्कचिदस्यापि दृश्यते ॥१५॥
यथा दोग्धारः पालयां केचित् गोपालास्वक्रिरे गवाम् । सा परं सिङ्गभूपेन चरितार्था वसुन्धरा ॥१७॥
अत्र पालयाञ्चक्रिरे इति वक्तव्ये पालयां केचिद् गोपालाश्वक्रिरे इति दूरान्वय्त्वेऽपि व्यवहितमपीच्छन्ति केचिदिति विशेषाव्युत्वादनाद् गुणत्वम् । स्मृतं वाक्याङ्गसङ्कीर्णमन्यवाक्याङ्गसङ्गतम् ॥१६॥
 यथा खड्ड्डत्ध्;गानापृछ्य निर्यान्ति वधूराकृष्ट धुन्वते ।
दिवं मुञ्चन्ति यान्ति क्ष्मां सिङ्गभूपालविद्विषः ॥१८॥
अत्र वधूरापृच्छ्य निर्यान्ति खढ्गानाकृष्य धुन्वते क्ष्मां मुञ्चन्ति दिवं यान्ति इति वक्तव्ये वाक्ययोः परस्परपदसङ्करः कृत इति वाक्याङ्गसङिकीर्णमिदम् । वाक्यं वाक्यादिके तच्च गुणीभावेन भाव्यते ॥१७॥
यथा वाचामीश सुरेश दैवतगुरो त्वामप्यजैषीत्किल प्रज्ञायामनवोतसिङ्गनृपतिः सच्वे तदैरावतम् ।
दाने कल्पतरून् जिता वयममी तत्सांप्रतं सांप्रतं भोगे स्वामिनि निर्जिते त्वयि यथा राजा तथा हि प्रजाः ॥१९॥
अत्र वाचामीश दैवतगुरो त्वामप्यजैषीदित्येकं वाक्यम् । सुरेश वयं जिता इत्यपररं प्रतिवाक्यम् । तयोरंशभूतसम्बुद्धिपदसङ्करेऽपि वाक्योपवाक्यत्वान्न दोषः ।
तद्वाक्यगर्भित यस्य गर्भे वाक्यान्तरस्थितिः ॥१८॥
यथा कृतान्तदंष्ट्राक्रूराय खड्ड्डत्ध्;गाय तव भूपते ।
का हि शङ्का मदान्धानां तिष्ठन्ति शत्रुभूवराः ॥२०॥
अत्र नायक तव खड्ड्डत्ध्;गाय शत्रुभूपास्तिष्ठन्तीति वाक्यस्य गर्भे का हि शङ्का मदान्धानामिति वक्यान्तरमविकलं स्थितमिति तदिदं वाक्थगभितम् ।
इदं सहृदयाढद्धठ्ठड़;लादि स्वावस्थासूचनादिषु ॥१९॥
यथा सख्यश्वन्द्रमुखो निषिञ्च चरणे मन्दाकिने चन्दनं पझाक्षः सखि पझकी मधुकरौ पझेन निर्वापय । स्मेरश्री र्नय शारिकां चतुरिकां दूरं दुरालापिनीं श्रीसिङ्गे ढद्धठ्ठड़;टदयङ्गमो मम परः किं जल्पितैः कल्पितैः ॥२१॥
अत्र हे सख्यः चन्द्रमुखः पझाक्षः स्मेरश्रीः नायको मे ढद्धठ्ठड़;टदयङ्गमो नायक इति वाक्यस्य निषिञ्च चरणावित्यादिना सखि पझके ममेत्यादिना नय शारिकामित्यादिना । वाक्यत्रयेण प्रतिपादितं गर्भितत्वेऽपि नायिकायाः नायकगुण सङ्कीर्तनक्रमसमारूढसंतापोद्वेगादिलक्षणकामावस्थातिशयसूचकत्वेन सढद्धठ्ठड़;टदयढद्धठ्ठड़;टदयाढद्धठ्ठड़;लादनाद् गुणत्वम् । यत्रोपमा भिन्नलिङ्गा भिन्नलिङ्गं तदीरितम् । तद्भिन्नवचनं यत्र विबिन्नवचनोपमा ॥२०॥
यथा शास्त्रादेव सिता प्रज्ञा हंसीव विशदं यशः तव सिढद्धठ्ठड़;गमहीपाल शशीव रूचिरा तनूः ॥२२॥
अत्रोपमानोपमेययोः भिन्नवचनत्वं भिन्नलिङ्गत्वं च स्पष्टम् । गुणीभवेव्द्दयमिदं यत्रोद्वेगो न धीमताम् ॥२१॥
यथा प्रज्ञापि तवसूक्ष्मार्थदर्शिनी लोचने इव । श्रीसिढद्धठ्ठड़;गभूपधाटीव कीर्ती राजाति लङ्घिनी ॥२३॥
अत्र लोचने इव प्रज्ञा इत्युपमानोपमेययोर्लिङ्गवचनभेदेऽपि सूक्ष्मार्थग्राहिणीति विशेषावचनश्लेषवैचित्र्य कृतिसामथ्र्येन सढद्धठ्ठड़;टदयानामुद्वेगो न भवतीति गुणत्वम् ।
यत्र न्यूनत्वमाधिक्यमुपमानविशेषणैः ।
लक्ष्येते ते क्रमेणैव ज्ञेये न्यूनाधिकोपमे ॥२२॥
न्यूनोपमं यथा निभाति सिङ्गक्षितिपस्य मौलिः छत्रेण चामीकरकुम्भकेन । मानोन्नतं श्टङ्गमिवोदयाद्रेः सम्पूर्णबिम्बेन सुधाकरेण ॥२४॥
अत्र चामीकरकलशोपमानस्य कस्यचिदपि धर्मस्य सुधाकरविशेषणत्वेनानुकृतत्वान्न्यूनोपममिदम् ।
अधिकोपमं यथा सिंहासने राजति सिङ्गभूपो भुजान्तरे चञ्चलतारहारः । नवप्रवालोज्ज्वलदीर्घगुच्छस्तटे सूमेरोरिव कल्पवृक्षः ॥२५॥
अत्रोपमेयपझरागेष्वनुक्तेषु तदुपमानस्य नवप्रवालस्या धिक्यादधिकोपमानम्. प्रसिद्धेरनुमानाच्च गुणतामनयोर्विदुः ॥२३॥
न्यूनोपमगुणीभावो यथा भुजगाकम्पितोत्तालकरालकरवालया । भासते सिङ्गभूपालो भद्रश्रीरिव शाखया ॥२६॥
अत्र करवालोपमानस्य कृष्णाहेरनुपादानान् न्यूनोपमत्वेऽपि वसन्ति चन्दने कृष्णसर्पा इति रूढेरनतिक्लेशेन तत्प्रतीतिरिति न दुष्टत्वम् ।
अधिकोपमस्य यथा हरावलीविलसिता विलसद्दुकूला वाराङ्गनाः क्षितिपतेर्वशयन्ति चेतः ।
ज्योत्स्नाविसारविशदा विकचोत्पलाभा राकानिशा इव विराजितलोलताराः ॥२७॥
अत्र नीलोत्पलग्रहणादधिकोपमत्वेऽपि वारविलासिनीकटाक्षविक्षेपयोरविनाभावविज्ञानपरिणतान्तःकरणानामुपमानो द्धाटनानुमानादनति प्रयासेन कुवलयोपमेयानां कटाक्षविक्षेपाणां प्रतीतिरिति गुणत्वम् ।
छ्न्दोयतिक्रियाद्यैस्तु विकलं विकलं विदुः ॥२४॥
तत्र छन्दोविकलं यथा अव्यादव्याजचसौभाग्यवामभागौ महेश्वरः ।
कलाविदां वरेण्यं तु सिङ्गभूपालशेखरम् ॥२८॥
अत्र तृतीयाक्षरविकलत्वाच्छन्दोविकलमिदम् ।
अन्यत्रसंस्कटतादस्य गुणताल्पापि गण्यते ॥२५॥
यथा सिरिसिंगभूमि विहुणो जस भरगंगप्पवाह मज्झम्मि ।
परिण्हउण समद्धं तेल्लोक्कं होइ परिसुद्धम् ॥२९॥
अत्र तृतीयपादे द्वितीयवर्णस्य संयोगपूर्वत्वाद्गुरुत्वेन छन्दोवैकल्येऽपि प्राकृतादिषु संयुक्तवर्णानां ढद्धठ्ठड़;वाण्वाकारल्पकारदीनां तीव्रप्रयत्नोच्चारणेन पूर्वलघुत्वं कैश्चिदिष्टमिति गुणत्वम् ।
यतिविकलं यथा नित्यं तोयधिमणिमेखलां धरित्रीं श्रीसिङ्गक्षितिभुजी रक्षितं प्रवृत्ते । विद्वेष्टान् भजति वनिपतावनीपान् मित्राणि स्फुटमवनिपतावनीपात् ॥३०॥
अत्र तृतीयस्थाने यतौ कर्तव्यायां प्रथमपादे तथा न कृतमिति यतिविकलमिदम् । स्वरसन्ध्यनुभावेन गुणीभूतमिदं मतम् ॥२६॥
यथा श्रीसिङ्गक्षितिपाल तावकचमूधाटीभयाटीकिता- नाकारैरपि शाबरैरपि हितान् घोराङ्गमे फक्कणे । आत्मीयैव हि पश्यतां पिशुनयत्याबालगोपालकं भूपालान् कुलिशातपत्रकरशीचिढद्धठ्ठड़१४;ना पदानां ततिः ॥३१॥
अत्र द्वादशस्थाने कर्तव्यायां यतौ दृतीयपादे तथा न कृतमिति वैकल्येऽपि स्वरसन्धिनिमित्तत्वान्न दोषः ।
क्रियाविकलं यथा चतुरङ्गरिपुप्यूहनिबर्हणपटीयसा । भूपाल तव खढ्गेन विपदो मानगर्विताः ॥३२॥
अत्र नामशेषक्रियान्त इति न विद्यते । तेन क्रियाविकलमिदम् । एवं कारकादिविकलमप्यूह्यम् । इदमस्त्यादिसापेक्षं समर्थं वा गुणीभवेत् ॥२७ ॥यथा रामाः श्रीसिङ्गभूपश्व चत्वारोंशा हरेः स्फुटम् । समौ तत्र महोदात्तौ विषमौ तु महोद्धतौ ॥३३॥
अत्र प्रथमार्थे भवन्तीत्यपेक्षायां तदन्तर्भावेन वैकल्येऽपि यत्रान्य क्रियापदं नास्ति तत्रासिर्भवतिर्हि प्रथमपुरुषे प्रयुज्यत इत्यनुशासनाद् गुणत्वम् । द्वीतीयार्धे क्रियाभावेप्युदात्तादि गुणसंबन्धद्योतकनिष्ठान्तत्वेन निराकाङ्भत्वात् समर्थकत्वमिति गुमतवम् ।
केवलं त्वनभिव्यक्तचमत्करणकारणम् ॥२८॥
यथा आन्दोलिकाया मासीनमायान्तं राजवत्र्मनि । स्त्रियः पश्यन्ति राजानं पुरः पश्चात्परिच्छदम् ॥३४॥
अत्र गुणादीनां चमत्कारकारणानामस्फुटत्वेन प्रतीतेः जातिमात्रवत्तिष्ठतीति केवलमिदम् । तत्केवलं छान्दसानामासीरादौ गुणीभवेत् ॥२९॥
यथा सर्वे ग्रहाः सनभत्रास्तव श्रीसिङ्गभूपते । भवन्त्वेकादसस्थानफलदा वरदास्सदा ॥३५॥
यथा च अमी वेदिं परितः क्लुप्तदिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः । अवघ्नन्तो दुरितं हव्यगन्धै- र्वैतानास्त्वां वढद्धठ्ठड़;नयः पालयन्तु ॥३६॥
इत्यादावस्फुटचमत्कारहेतुत्वेन केवलत्वेऽपि शुद्धश्रोत्रियस्य कण्वमहर्षेराशीर्वाक्यत्वाद् ग्राह्यत्वम् ।
इति वाक्यदोषगुणविचारः श्रीः इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकवीन्द्रचन्द्र प्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासारशीतलायां चमत्कार- चन्द्रिकायां द्वितीयो विलासः॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-12-06T19:21:00.6400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आग्रह स्वर्गातला आणि पत्ता नाही ताकाला

  • आग्रह मोठा बादशाही पद्धतीचा करावयाचा, पण वाढावयाला पुरते ताक सुद्धां नसावयाचे! पोकळ आग्रह 
  • वरवरचा आग्रह. 
RANDOM WORD

Did you know?

I need something, but I cant find it or is it not there?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site