TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चमत्कारचन्द्रिका - पञ्चमो विलासः

श्रीहरिची माला आणि श्रीराधाचा मुक्ताहार यांची ही कथा आहे.


पञ्चमो विलासः
चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचीता पञ्चमो विलासः । संविधानकचातुर्यात्साक्षादिव परिस्फुरन् । अलौकिकस्स चाखादो यस्स्यात्सोऽत्र रसो मतः ॥१॥
तदन्वयेन काव्यश्रीः कमनीयत्वमागता । आकल्पान्तरमाकल्पं कीर्तिं कल्पयते कविः ॥२॥
स वै रस इति श्रुत्या ब्रढद्धठ्ठड़;नणः समकक्ष्यया । प्रोक्तो रसस्खयं भाग्यात्कैश्चिदेवानुभूयते ॥३॥
शिवो रस इति प्रोक्तः सत्यं भावकसत्तमैः ।
न चेल्लोकोपकाराय कथमस्याष्टमूर्तिता ॥४॥
अष्टधा सच श्रुङ्गारहास्यौ वीराद्भुतौ स्थितौ । द्वन्द्वशा रौद्रकरुणौ तौ बीभत्सभयानकौ ॥५॥
मधुरः सर्वसंमत्या तिक्तादिषु रसेष्विव । हास्यादिषु स श्रुङ्गारो रससाम्राज्यमर्हति ॥६॥
तस्मिन् परिश्रमः कार्यः कवेश्चर्वितुमिच्छया । यस्यानुभवतो धीराः नात्मानमवजानते ॥७॥
काव्यं हि तन्मयं यत्र कवेरत्यन्तमाग्रहः । वासना मानसी वापि स्फुरतीति पुरा वचः ॥८॥
चिरं जीवतु वक्रोक्तिः स्वभावोक्तिश्च तिष्ठताम् । रसोक्तेरेव काव्यानि ग्राहीणीति (ग्राह्याणीति?) मतिर्मम ॥९॥
गुणाद्यैरपि वागर्थौ नीरसौ कोऽनुमोदते ।
परस्परानुरागेण रहिताविव दम्पती ॥१०॥
अलं रसोक्तिरल्पापि काव्ये कल्पयितुं श्रियम् । वस्तु कर्पूरलेशोऽपि सुगन्धीकुरुते परम् ॥११॥
सत्तास्फुरत्तानुबन्धा निष्पत्तिः पुष्टि संकरौ । ह्रासाभासौ शमः शेष इत्युक्ता हि रसोक्तयः ॥१२॥
निजाश्रये समुन्मेषो विभावगुणसंपदा । रसस्य सत्ता रत्यादिस्थायीभावा रतिश्च सा ॥१३॥
आश्रयो विषयः, प्रोत्साहः सहकारीणि चेति त्रिरूपविभाव समग्रतया केवलया रसस्य स्वाश्रये यदुन्मेषमात्रं सेह सत्ता । सैव रत्यादीनां केवलानामाकारेणा वतिष्ठते । रत्यादयश्च -- रतिर्हासोत्साहविस्मयक्रोधशोकजुगुप्साभयानि क्रमोदितश्रृङ्गारादिरसाधिष्ठानभूमयो वासनाप्रवाहणावतिष्ठमाना स्थायिन इत्युच्यन्ते । तत्र रतिरूपेण सत्ता यथा गुञ्जन् मञ्जुलचञ्चरीकमिथुने पुंस्कोकिलालापिनि प्रारब्धस्मर पादुकार्चनविधेर्माकन्दमूलाङ्गणे । श्यामाया मदुराधरे मृगदृशि व्यालोल नीलालके दूरादाननपङ्कजे क्षितिभुजा व्यापारिते लोचने ॥१॥
अत्र केवलं विभावसामग्रीकथनेन नायकस्याभिलाषामत्रं प्रतीयत इति सेयं रसस्य सत्ता । एकस्यैवानुभावस्य प्राकट्यं साच्विकस्य वा । संस्कारपारिपाट्या चेत् स्फुरत्ता साभिधीयते ॥१४॥
अनुभावाः संक्षोपतो द्विविधाह्युक्ताः कायिका वाचिकाश्चेति । अनुभावत्वेऽपि स्तम्भप्रलयरोमा ञ्चस्वेदवैवण्र्यवेपथुगद्गदिकाश्रुलक्षणानां साच्विकानां पृथगभिधानं विशेषद्योतनाय । रतिरूपेण रसस्य स्फुरत्ता यथा केयूररत्नमुपलालयता नृपेण यत्प्रार्थितं निजसखईचन सन्निधाने । श्यामापयोधरतटी परमादरेण तस्योत्तरं कृतवती पुलकप्ररोहान् ॥२॥
अत्र नायके केयूरनायकरत्नप्रतिबिम्बतनायिकापयोधरलालनलक्षणनायिकानुभावेत्पादनरूपा रसस्य स्फुलत्ता । नायिकायां च पुलकलक्षणैकसाच्विकसम्पादकतया स्फुरत्तैव । यथा च स्पर्शोत्सवेन नृपतेः प्रमदाकुचाभ्यां रागाङ्कुरा इव धृताः पुलकप्ररोहाः । तत्सेचनार्थमिब तत्करपल्लवोऽपि प्रस्वेदवारिकणिकाः प्रकटीकरोति ॥३॥ अत्र क्रमात् पुलकस्वेदलक्षणसाच्विकाभ्यां रसस्य स्फुरत्ता सूच्यते । उद्दीपनविभावाद्यैस्संस्कारेण पटीयसा । अत्रास्यैकानुभावस्य वर्तनं स्यान्मुहुर्मुहुः ॥१५॥
सकृद्वैषामनेकेषामेकसंचारिणोऽथवा ।
सोऽयं रसानुबन्धज्ञैरनुबन्ध इतीर्यते ॥१६॥
मुहुरेकानुभावानुवृत्तिलक्षणो यथा कर्पूरवासितवसन्तविनोदनान्ते यान्तीभि रात्मभवनानि विलासिनीभिः । आमन्त्रितो वलितकष्ठमनेकवारं श्रीसिङ्गभूपतिरपाङ्गविलोकनेन ॥४॥
अत्र नायकगुणादिना वसन्तादिना च समुद्दीपिता विलासिनीनां रतिवासना मुहुर्मुहुर्वलितकष्ठकटाक्षलक्षणेन च शरीरारम्भानुभावेनानुबध्यत इति तथोक्त्तोऽयम् । अनेकानुभावसंबन्धलक्षणो यथा आरूढघर्मकणमाहतमन्दहास- माविर्भव त्पुलकमाचितकण्ठसादम् । अङ्गान्यनङ्गविवशानि विलासिनीनांम श्रीसिढद्धठ्ठड़;गभूतलपतेरवलोंकनेन ॥५॥
अत्र नायकगोचरा तदानीन्तनी पुरातनी वा विलासिनीनां रतिः नायकविलोकनादिभिरुद्दीपिता मन्दहासेन शरीरारंभेण स्वेदादिभिश्च साच्विकैः बहुभिरनुबध्यत इति तथोक्तः । सञ्चारिणो नाम विर्वेदविषाददैन्यग्लानिश्रममदगर्वशङ्कात्रासावेगोन्मादापस्मारव्याधिमोहमरणालस्यजडड्डत्ध्;ता व्रीडड्डत्ध् वहित्थास्मृतिवितर्कचिन्ताश्च मतिधृतिहर्षोत्सुकत्वोग्रतामर्षकृपासूयाचापल्यनिद्रासुप्तिबोधाश्चेति त्रयÏस्त्रशत् । एकसञ्चारिणानुबन्धो यथा वासन्तिकावलवेश्मनि माधवश्री- मञ्जीरशिञ्जितमधुव्रतकाकलीके । श्रीसिङ्गभूमिपतिसङ्गतिकाङ्क्षिणी सा हस्ताम्बुजे कृतवती निजगण्डड्डत्ध्;पालिम् ॥६॥
अत्र नायकगोचरा नायिकारतिवासना वासन्तिकादिभिरुद्दीपिता करतलकपोलविन्यासलक्षणशरीरारंभनिजानुभावानुमितेन चिन्तालक्षणेन व्यभिचारिणानु बध्यत इति सोऽयं तथोक्तः । केचिदेनां रसोक्तिमेकानुभाववदेकव्यभिचारिणो निबन्धे सम्बन्ध एक एवेति स्फुरत्तोक्तिमेवाचक्षते । वयं पुनएतस्यामुक्त्यां सानुभावेन व्यभिचारिणैकस्संबन्धः । व्यभिचारिणा स्थायिनो द्वितीय इति परंपरया संबन्धानुगतिसंभवादनुबन्धमामनाम । सञ्चारिभावबाहुल्येऽप्यमुमेव परे जगुः । स बक्ष्यमाणो निष्पत्तेर्भेद एवेति मे मतम् ॥१७॥
यथा काचित्कुरङ्गनयना नयनाभिरामा श्रीसिङ्गभूमिरमणं रमणी निरीक्ष्य । आलोकते प्रतिदिशं कुस्ते स्वनिन्दा- मालंबते करतलेन कपोलपातिम् ॥७॥
अत्र परितो विलोकनेन शङ्का । स्वनिन्दोपालंभनेन लावण्यगतिर्निर्वेदः । कपोलकरतलसंसर्गेण चिन्ता च प्रतीयते । अत्रानुभावसंसर्गाभावेऽपि रतेरनुभावोत्पादेनानुबन्धदशायामिव संचारिभावबाहुल्यदशायां वासनावासन्तिकादिभिरुद्दीपिताया इव पाटवविशेषजन्यत्वाद्रसस्य चतुरश्रतयाप्रतिभानाच्च निवृत्तिरेवेयं नानुबन्धमात्रमिति सुलभम् । योगाद्विभावानुभावसाच्विकव्यभिचारिणाम् । चतुरश्रा रसश्रीर्या निष्पत्तिरिति गीयते ॥१८॥
यथा दृष्ट्वा सिङ्गविभुं गुणैकवसतिं काचित्कुरङ्गेक्षणा स्विन्नाङ्गी मधुरस्मिता पुलकवत्यारेचितभ्रूलता । धत्तेवेपथुमाकुलां कलयते साचीकरोत्याननं पाणिभ्यां विदधाति गण्डड्डत्ध्;युगलीमालिङ्गति स्वां सखीम् ॥८॥
अत्र नायकगोचरा नायिकारतिस्तत्सान्निध्यादिना दीप्यमाना स्मितभ्रूलतारेचनलक्षणाभ्यां शरीरारंभानुभावाभ्यां स्वेदपुलकवेपथुलक्षणैस्सात्विकैराकुलीभावमुखसाचीकरणकपोलपिधानसखीसमालिङ्गनानुमितैः साध्वसलज्जावहित्थाचापललक्षणैः संचारिभावैः संस्कृतेतीयं रतिरूपेण रसस्य निष्पत्तिः । विषयाश्रयसंस्कारगुणप्रकृतिपाटवैः । दीपानातिशयाच्चास्य प्रकर्षः पुष्टिरिष्यते ॥१९॥
यथा अव्याजस्पृहणीयमञ्चति परां काÏन्त सखीनां पुरः श्रीसिङ्गक्षितिनायकेन सुतनोरङ्गं समालिङ्गतम् । स्वाज्ञानिर्वहणेन निर्वृतमनास्तत्कालमीलद्दृशे यस्मै पुष्पशरासनः स्वसुकृतैः कल्याणमाशंसते ॥९॥
अत्र रूपयौवनविशेषशीलादिगुणसंपन्नां नायिकामुद्दिश्य समुत्पन्ना धीरललितप्रकृते राश्रयभूतस्य नायकस्य रतिः परिचयोपचितेन संस्कारपाटवेन परिबोध्यमाना स्वभावसुन्दरतदङ्ग सन्निवेशरामणीयकविभावनोद्दीपनातिशयेन दीप्यमाना सखीनां समक्षमन्यालिढद्धठ्ठड़;गनलक्षणशरीरारंभानुभावानुमीयमानां लज्जात्यागलक्षणां सप्तमीं रसावस्थामध्यास्ते । किञ्च समग्रात्मगुण संपदा नायकमुद्दिश्य समुत्पन्ना स्थिरानुरागसरसप्रकृतेः नायिकाया रतिः परिचयानुकूल्याब्यामुत्कटेन वासना पाटवेन प्रबोध्यमाना प्रकृष्टप्रेमप्रियतमालिङ्गनदीपनातिशयेनोद्दीप्यमानां नयननिमीलनानुभावानुमीयमानां नवमीं प्रेमपुष्टिमवस्था मधितिष्ठतीति सेयं रसपुष्टिः॥
प्रेमपुष्टेरे वावस्थादशकं सिङ्गभूपालीये (निदर्शकं)निदर्शितं हि ॥२०॥
अभिलाषचिन्तनानुस्मृतिगुणसंकीर्तनोद्वेगाः । सविलासा उन्मादव्याधी जडड्डत्ध्;ता मृतिश्च दशधा ताः ॥२१॥
क्रमशो दर्शयति । ननु तत्र पूर्वानुरागाख्यविप्रलंभजन्यतया तदिदं दशादशकं (प्रदर्शकं) प्रदर्शितम् । अत्र तु संभोगेन कथं निरूप्यत इति चेदुच्यते । विप्रलंभे प्रायेण कविभिरेतदापोषितमित्यभिप्रायेण । न तु संभोगे तन्निषेधायेति वेदितव्यम् । समकालबलोत्पत्तिहेतौ भावान्तरे सति । यस्तेन तस्य संसर्गः स सङ्कर इतीरितः ॥२२॥
यथा दृष्टे दृष्टे सिङ्गभूपे तत्पूर्वागसि वल्लभे । आश्वर्यरोषस्नेहानां मज्जत्यूर्मिषु मानिमी ॥१०॥
अत्र विस्मयरोषस्नेहा यथोचितं तत्पूर्वापराधतया दृष्टतया वल्लभतया भक्तिजनितास्तत्तदाश्रितविशेषविभावनोद्दीप्यमानाः परमपरिपोषलक्षणकथास्वभाववाच्कशब्दप्रयोगशक्त्या यथोचितं सूचितैरनिमेषाधरस्फुरणनीवीबन्धविस्रंसनादिभिरनुभावैः स्तम्भवैवण्र्यरोमाञ्चादिभिस्साच्विक रनुवद्धा ऊर्मिपदद्योतितैर्वितर्तहर्षादिव्यभिचारिभि स्तरङ्गितास्तुल्यकालबलोत्पत्तिहेतुतया संकीर्णाश्च रससङ्करप्रतीतिमङ्कुरयन्तीति रससङ्करोक्तिरियम् ।
आरूढस्य परां काष्ठां येन केनापि हेतुना ।
रसस्यापचयो यस्य तं ह्रासं कवयो विदुः ॥२३॥
यथा श्वासो येन यया च भाषणविधौ व्यालोकने पक्ष्मणां व्यापारः परिरंभणे मलयजं प्रत्यूह इत्यूह्यते । तामापृच्छति राजशैलगतये पाण्ङ्यस्स तस्मै च सा सेवारीतिमुपादिशन्त्यनुसमाचारेण चक्रे नतिम् ॥११॥
अत्र प्रतिविरोधिनां निःश्वासादीनां भाषणादिसंभोगप्रत्यूहत्वाभिमानलक्षणेन चित्तारम्भानुभावेन कृतप्रतीतेरुद्वेगलक्षणायाः पाण्डड्डत्ध्;्यतदवरोधयोः प्रेमपुष्टेरपचयो राज्यध्वंसवनवासादिपरिक्लेश हेतुको भवति । एकत्र नायकसेवार्थं राजगिरिगमनायामन्त्रणेन वागारम्भणेनान्यत्र स#ेवाप्रकारोपदेशसमाचारनतिभ्यां वाक्कायसंरंभानुभावाभ्यां प्रतीयत इति सेयं रसह्रासोक्तिः । आलम्बनस्यानौचित्याद् भवन्नपि परिस्फुलन् । रसवद्धासते किञ्चिदयमाभास ईरितः ॥२४॥
तत्र श्रृङ्गाराभासश्चतुर्धा ईरितः । एकत्र रागस्याभावादनेकत्र वैषम्येण संभवात्तिर्यगालंबनत्वान्म्लेच्छालंबनत्वाच्च । अत्र रागासंभवस्त्रिधा--प्रागभावात्, प्रध्वंसाभावादत्यन्ताभावाच्च । अत्र रागप्रागभावविषये नाभासता । दर्शनादिसामग्रीसंभवे रागोत्पत्तेः संभाव्यमानत्वादितरयोस्त्वाभासतैव । रागात्यन्ताभावे यथा व्यर्थत्वं गमिता कटाक्षसरणिः साकूतमन्दस्मिता व्यङ्ग्योक्तिर्वितथा वृथा विरचितस्तादृक् प्रणामाञ्जलिः । नेच्छत्यन्यपरिग्रहं किल वधूं रेचर्लवंशाग्रणीः सख्यस्त्वं च सुहुर्मुहुः स्मरत मां सोऽयं हि सत्यव्रतः ॥१२॥
अत्र मुहुर्महुरात्मस्मरण प्रार्थनालक्षणां सखीजनामन्त्रणवागारंभानुभावानुमितां तनुत्यागोद्योगलक्षणां परां पुष्टिमधितिष्ठन् परकीयायाः नायिकाया अनुरागो विषयभूते नायकरत्ने परस्त्री विषयरागात्यन्ताभावादेकतः खण्डिड्डत्ध्;तोऽपि श्रृङ्गारमिवाभासयतीति सोऽयं रसाभासोक्तिः । एवमन्यदप्युदाहार्यम् । प्रबलोषूपजातेषु प्रतिकूलेषु हेतुषु । रसप्रभूतेरामूलं मीलनं शम ईरितः ॥२५॥
यथा सिङ्गक्षोणिभुजः कलिङ्गकुभुजे क्रुद्धस्य तस्मिन् क्षणे दत्तां तत्तनयामुपायनतया लोकोत्तमां पश्यतः । व्यावृत्ता धनुषः कटाक्षसरणिस्तद्भ्रूलतालोकिनी दृक्कोणं परिढद्धठ्ठड़;टत्य रागमहिमा चिते परं चेष्टते ॥१३॥
अत्र पूर्वमारूढोऽपि कलिङ्गनरपालगोचरो नायकस्य क्रोधो बलवता समुचितोपायनसमर्पणजनितप्रसादोपबृहितेन कलिङ्गराजकन्यकागोचरेण प्रेम्णा निरवशेषमुपशाम्यत इति सेयं रसशमोक्तिः । रसस्य वासनास्थैर्यादाश्यप्रकृतेरुत ।
प्रलीनस्यापि यो गन्धः स शेष इति गीयते ॥२६॥
यथा श्यामायाः कुचमण्डड्डत्ध्;ले न परयोर्णत्तेभकुम्भद्वये दृÏष्ट रागतरङ्गितां विदधता श्रीसिङ्गभूमीभुजा । दाक्षिण्यव्रतभ्हगभीरुमनसा देवेन वामभ्रुवा- मन्यासामपि सा तथैव कृतिना नेत्रक्रिया नाप्यसौ ॥१४॥
अत्र धीरललितप्रकृतेर्नायकस्य श्यामागोचरेण बलवता प्रेम्णा प्रलीनतामानीतस्यापि तदितरनायिकागोचरस्य प्रेम्णो विशेषः कटाक्षप्रदान दाक्षिण्येन प्रतिभातत इति सेयं रसशेषोक्तिः । एवं हास्यादिष्वपि रसेषु स्फुरत्तादि दशोक्तिप्रकाराः स्वयमनुसन्धेयाः । विशेषादाग्रहोऽस्माकमलढद्धठ्ठड़;कारप्रपञ्चने । ब्रूमस्तथापि संज्ञेपात् श्रृङ्गारादिनिरूपणम् ॥२७॥
अत्र श्रृङ्गारो नाम चतुरस्त्रीपुंसालंबनो मनोहरपदार्थोद्दीपनो ललितभ्रूलताविक्षेपकटाक्षमन्दस्मिताद्यनुभावो निखिलसाच्विकोत्सुकत्वोग्रता लस्यजुगुप्सावहित्थादिपरिशिष्ट सञ्चारिपुष्टो रतिस्थायीभावो विप्रलंभसंभोगभेदवान् विगलित वेद्यान्तरत्वलक्षणं चेतोविकासमधितिषठति ।
अत्र विप्रलंभो यथा चान्द्रीचन्दन मारुदैश्व नितरामाकम्पितस्वान्तया सङ्गत्यामनवोतसिङ्गवृपतेरारूढवाञ्छाश्रिया । निःश्वासग्लपिताधरं परिततस्संरुद्धवाष्पोदयं तन्व्या स्निग्धसखीजने विरचिता दीना दृशोर्वृत्तयः ॥१५॥
अत्र नायकगोचरा कस्याश्विन्नायिकाया रतिरभीष्टालिङ्गनाद्यप्राप्तावपि प्रकृष्यमाणा चन्द्रचन्दनमारूतै श्वकारादनुक्तसमुच्चितैः पुंस्कोकिलालापिभि स्समुद्दीप्यमाना निःश्वासादिशरीरारंभानुभावै स्सूचिता बाष्पादिसाच्विकैः प्रकाशिता तनुत्वदीनदृष्ट्याद्यानुमितैः ग्लानिश्रमविषादावेगदैन्यादिसञ्जारिभिरभिपोषिता विगलितवेद्यान्तरतया भावकचेतसि विकासो पाधिका स्फुरन्ती श्रृङ्गाररसतामापद्यत इति सोऽयं तथोक्तः ।
संभोगश्रृङ्गारो यथा अव्याजस्पृहणीयमञ्चति परां काÏन्त सखीनां पुरः श्रीसिङ्गभितिनायकेन सुतनोरङ्गं समालिङ्गितम् ।
स्वाज्ञानिर्वहणेन निर्वृतमनास्तत्कालमीलद्दृशे यस्मै पुष्पशरासनः स्वसुकृतैः कल्याणमाशंसते ॥१६॥
हास्यो नाम कुब्जवामनादिसमलम्बनस्तत्स्वरूपादिभावनोद्दीपनो नयनविस्तारगण्डड्डत्ध्;मण्डड्डत्ध्;ल विकासस्वन्धनिकुञ्चनाद्यनुभावो बाष्पस्वेदादिसाच्विको हर्षावहित्थाधृतिप्रमुखसञ्जारीहास्यस्थायीभावः स्मितविहसितादि भेदवान् विकासोपाधिरेव विलसति । यथा स्त्रीपुंसौ गडुड्डत्ध्;रावुपायनकृतौ द्वीपान्तराधीश्वरै- रीक्षित्वा विकसत्कपोलमधिपो लीलाब्जमाजिघ्रति । राजाद्रेस्सचिवा हसन्ति विकसन्नेत्रं विभुग्वांसकं संपीडड्डत्ध्;्यापहसन्ति पाश्र्वयुगलीं बाष्पाविलाक्षं जनाः ॥१७॥
अत्र कुब्जमिथुनविषयो नायकादिसमाश्रय हासः तदीयस्त्रीपुंसव्यापाराभासभावनोद्दीपितः कपोलविकासादिना शरीरारंभानुभावेन सूचितो लीलारविन्दसमाघ्राणाद्यनुमितेनावहित्थालक्षणसञ्चारिणा परिपुष्टो मनोविकासमधितिष्ठतीति सोऽयं हास्यः ।
वीरो नाम प्रकृष्टप्रकृतिनायकाश्रयो लोकोत्तरवस्तुविषयस्तादृशपुरावृत्तपुरुषकारानुबन्धासह सहजसच्वादिसमुद्दीपनविभावो मुखप्रसादवाहुस्फुरणकृपाणनिरीक्षणप्रमुखानुभावो रोमाञ्चवेपथुप्रभृतिसाच्विको हर्षासूयामर्षमतिधृतिप्रमुखसञ्चारिभावकल्पितश्रीरुत्साहस्थायीभावश्चेतसो विस्तारमधितिष्ठति । यथा रामस्य श्रुतसिन्धुबन्धनविधिः बाहू निजौ वीक्षते प्रीतिं नैति दिगन्तराजविजये द्वीपान्तराणां श्रुतेः ।
न श्लाघां बहुमन्यते वितरणे देवेष्वसंप्रार्थिषु श्रीसिङ्गक्षितिनाथमण्डड्डत्ध्;नमणी रेचर्लवंशाग्रणीः ॥१८॥
अत्र नायकोत्तमाश्रयो लोकोत्तरत्वप्राप्तिविषय उत्साहो रामभद्रापदान श्रवणादिनोद्दीपितो राजबाहुनिरीक्षणलक्षितरामभद्रविषयस्पर्धाविशेषात् जम्बूद्वीपराजविषयानादराच्च प्रकाशितेनाधिकस्पदां निवारयेति लक्षणवता शोभानाम्ना पौरुषसाच्विकेन द्वीपान्तरजयाशंसालक्षणेन चित#्तारंभानुभावेन चाभिव्यक्तोऽसूयाधृतिमतिगर्वादिभिरुपचितो मनोविस्तारमधितिष्ठतीति सोऽयं युद्धवीरः ।
तथा च तत्रैव दानवीरोऽपि देवताकर्तृकार्थित्वाकाङक्षालक्षणेन चित्तारम्भानुभावेनाभिव्यक्तो देवतालभ्यवस्तुविशेषवितरणकण्डूड्डत्ध्;लतालक्षणं परमोत्कर्षमारोहति । अद्भुतनामा लोकोत्तरदर्शनादिविभावो नयननैश्वल्यशिरोधूननछोटिकासाधुवादाद्यनुभावः पुलकादिसाच्विको हर्षचापल्य धृतिमतिप्रमुखसञ्चारिभावो विस्मयस्थायीबावश्वित्तविस्तारमेवाधितिष्ठति ।
यथा श्रुत्वा संसदि सिङ्गभूपचरितं दत्तं हविस्तदद्विजै- रादातुं भुवमागतैः प्रतिगतैराख्यातमिन्द्रादिभिः ।
अन्योन्यं किल साधुसाध्विति कृतालापा दिलीपादयः प्रान्तस्फारविलोकिता पुलकिता मूर्धानमाधुन्वते ॥१९॥
अत्र कलिकालोऽपि धर्णप्रतिष्ठापनादिनायकपुण्यचरितविषयो दिलीपादिपुरातनमहाराजसमाश्रयो विस्मयो महेन्द्रादिसमादरणोदाहरणाभ्यामुद्दीपितो नयनस्तैमित्या द्यनुभावानुमितः पुलकसाच्विकेन विशेषतः प्रकाशितः साधुवादशिरः कम्पानुमितैर्हर्षचापलादिभिरभिपुष्टश्वित्तविस्तारलकषणमुपाधिमुपातिष्ठत इति सोऽयमद्भुतरसः ।
रौद्रो नाम क्रूरजनसमाश्रयो ।ड़ड्डत्ध्;पराधिविषयः तदपकारस्मरणप्रमुकोद्दीपनो भ्रूभङ्गदन्तघट्टनरूक्षेक्षणाद्यनुभावः स्वेदवेपथुप्रमुखसाच्विकोऽमर्षाभ्यसूया चापलोग्रतादिसञ्चारिभावप्रपञ्चितः क्रोधस्थायीभावः चित्तविक्षोभलक्षणमुपाधिमनुसंधत्ते । यथा चक्षुर्विक्षेपलक्षस्फुरितपरिपतत्क्रोधर्वांढद्धठ्ठड़;नस्फुलिङ्गं भ्रूभङ्गोद्भेदभीमं कटु रटति रटद्दन्तदष्टा धरोष्ठम् । दुर्वाराखर्वगर्वज्वरभरघटित स्वेदमाधूतगात्रं भिन्ते श्रीसिङ्गभूपप्रतिभटपटलं निष्कृपस्ते कृपाणः ॥२०॥
 
 अत्र प्रतिभटसमाश्रयो नायकगोचरः क्रोधस्थायी देशाक्रमणबन्धुवधबन्धनादिभिरुद्दीप्यमानो भ्रूभङ्गदन्तकर्षणौष्ठ संदंशनादिभिरभिलक्षितः स्वेदवेपथुभ्यां सात्त्विकाभ्यां प्रकाशमानस्तदुपलक्षितैरेव गर्वामर्षचापलोग्रतामर्षादिभिव्र्यभिचारिभिः पुष्टो भावकानां चेतसि विक्षोभलक्षणामानन्दलहरीमुन्मुद्रयन् रौद्र इत्याख्यायते । करुणो नाम विपन्नसुढद्धठ्ठड़;टदादिविषयः तद्गुणस्मरणाद्युद्दीपनो विलापपतनाद्यनुभावो वैवण्र्यस्तम्भाश्रुमुखसात्त्विको निर्वेदग्लानिविषाददैन्यावेगोन्मादादिसञ्चारी शोकस्थायीभावो मनोविक्षोभलक्षणमेवोपाधिमनुसन्धत्ते । यथा एतत्तद्वदनं किमेष सभुजः सेऽयं तवोरस्स्थली हा प्राणेश हलास्मि नास्मि दलिता गाढं खलु स्त्रीमनः । इत्यादीनि रणाङ्गणेषु गणशः श्रीसिङ्गभूपद्विष- द्देवीनां परिदेवितानि करुणां श्रण्वन्ति भूतान्यपि ॥२१॥
अत्र नायकशत्रुकुलबालिकाश्रयो विपन्नवल्लभविषयः शोकस्थायी खण्डड्डत्ध्;ीकृतः ततस्ततो विपर्यस्ततदवयवप्रत्यभिज्ञादिभिरुद्दीप्यमानः तदेतदितिवागारम्भमव्यभिचरता निर्देशलक्षणेन हस्तारम्भानुभावेन सूचितः तदनुसरणपरिणतिरवश्यं भाविनाश्रुपातवैवण्र्यादिना सात्त्विकसमुदयेन प्रकाशितः तत्तदुचितहाप्राणेशादिवागारम्भानुमितैर्दैन्यविषादनिर्वेदमतिभिःव्यभिचारिभिरादिपदद्योतित परिदेवितविशेषोपकल्पितैः ग्लानिश्रमशङ्गाचापलोन्मादादिभिरन्यैश्व परिपोषितो नीरसतया स्थाणुप्रायाणामपि भूतबेतालात्मकादीनाम प्यनुकम्पातिशयसम्पादकतया भावुकचेतसि विक्षोभपुष्टि मधितिष्ठन् करुण इत्याख्यायते । बीभत्सो नाम हेयवस्तुविषयः तद्दोषदर्शनादिभिरुद्दीपितो नासाग्रपिधानमुखकूणननेत्रसंकोचना द्यनुभावो वैवण्र्यादिसात्त्विको निर्वेदावेगचापलव्रीडड्डत्ध्;ादिव्यभिचारी जुगुप्सास्थायीभावो विदग्धभावकचेतसि विक्षेपलक्षणामानन्दभूमिकामालंबते । यथा अंहश्शेषैरिव परिवृतो मक्षिकामण्डड्डत्ध्;लीभिः पूयक्लिन्नं व्रणमभिमृशन् वाससः खण्डड्डत्ध्;केन । रथ्याप्रान्ते द्रुतमपसृतं संकुचन्नेत्रकोणं छन्नघ्राणं रचयति जनं दद्रुरोगी दरिद्रः ॥२२॥
अत्र नायकशत्रुदद्रुरोगिविषया जनाश्रया जुगुप्सा व्रणामर्शना दिभिरुद्दीपिता नेत्रसंकोचनादिभिरभिव्यक्ता परापसरणानुमितैरावेगचापलादिभिःपोषिता भावक चेतसि विक्षेपलक्षणमुपाधिमादधाना बीभत्स इत्याख्यायते । भयानको नाम भीषणवस्तुविषयो मुखशोषतालुपुटलेहननीचैर्गमनाद्यनुभावो, अश्रुवर्जित सात्त्विको विषादशङ्कात्रासावेगदैन्यजडड्डत्ध्;ता ग्लानिश्रमचिन्तापस्मारादिसंचारिभावो भयस्थायीभावश्चित्तविक्षेपलक्षणामेव भूमिकामालम्बते । यथा श्रीसिङ्गक्षितिनायकस्य रिपवो धाटीश्रुतेराकुलाः शुष्यत्तालुपुटं स्खलत्पदतलं व्यालोकयन्तो दिशः ।
धावित्वा कथमप्युपेत्य तमसा गाढोपगूढां गुहा- मन्विष्यन्ति तदन्तरेऽपि करसंस्पर्शेन गर्तान्तरम् ॥२३॥
अत्र क्रियाक्रूरनायकनासीरभटविषयः शत्रुसमाश्रयः स्थायीभावो धाटीश्रवणोद्दीपितो धावनगुहाप्रवेशगर्तान्तरान्वेषणादिभि रनुभावैरभिव्यक्तो व्याकुलत्वतालुशोषण पदस्खलनाद्यनुमितैरावेगशङ्कात्रासादिभिव्र्यभिचारिभिरभिपुष्टो भावकचेतसि विक्षेपलक्षणां भूमिकां बिभ्राणो भयानक इत्याख्यायते । सेयमखिलोऽपि रसपुरुषार्थो जननसाहस्रसंपादितसाहित्यदेवतापदारविन्दयुगलोपासनाजनितवासनाप्रौढपरिपाकभावनाविशेषसहकारिणां सढद्धठ्ठड़;टदयानां मानसेन गोचरी कृतो येन केनचिदाकारेण भासते । ननु कोऽयमाकारो रसस्य येनायं भावकमानसैरनुभूयत इति चेत्स्वस्वानुभवैकवदनीये तस्मिन्नाकारे कथमस्मादृशां वाचोव्यापार मात्मीयमापूरयेयुः । न हि क्षीरसागरमागलं पिबन्नपि तं माधुरीविशेषमिदंतया निर्देष्टुं ब्रढद्धठ्ठड़;नापि शक्नोति । किन्तु विगलितवेद्यान्तरत्वमिति वचनपरिपाटीं मनसि मुहुरावर्तयता भावनासिद्धिपर्यन्तं संतोष्टव्यमायुष्मता । ननु आकाशापूपिकान्यायादसौ रस इति स्फुटम् । आमीलितदृशां पुंसां सेयं भावक भूमिका ॥२८॥
मानाधीना मेयसिद्धिः सर्वसिद्धान्तसम्मता  । असत्यो रसवादोऽयं रसवाद इतः परम् ॥२९ ॥
न प्रत्यक्षेण लक्ष्योऽयं नानुमानेन मान्यते । न चागमेन सुगमो नोपमानेन मानितः ॥३० ॥समर्थितो नार्थापत्त्या नाभावेन च ........  । ................ संभाव्यो नैतिह्येन च लिह्यते ॥३१॥
इति चेदुच्यते स्वानुभूतिविलसनमेव रसस्य सद्भावे प्रमाममिति परमं रहस्यम् । तदेतदनुपदमेव प्रदर्शितम् । अन्या पुनरियं वागाडंड्डत्ध्;बरविडंड्डत्ध्;बना विविधचर्चाविनोदकंडूड्डत्ध्;लधिषणाप्रकांडड्डत्ध्;ानां वादिनां मुदे विलिख्यते । तथाहि । ननु प्रत्यक्षी भवन्नसौ निर्विकल्पकेनावभासते सविकल्पकेन वा । नाद्यः । वस्तुस्वरूप मात्रावभासकस्वबावत्वान्निर्विकल्पकस्य रसस्य भुवि भावदिविशेषानुसंधानपूर्वकप्रतीतिस्वभावत्वात् । निर्विकल्पकपूर्वत्वात्सविकल्पकस्येति चेत् श्रूयताम् । सविकल्पकेनेति ब्रूमः । सविकल्पकस्य निर्विकल्पकपूर्वकत्वाभिधानमविजारितरमणीयमेव । निर्विशिष्टविषयानुल्लेखिनो ज्ञानस्यैवासंभवात् । तथा च शेषावतारविशेषस्य भगवतः पतञ्जलेरभिप्रायं प्रकटयता व्याढद्धठ्ठड़;टतं हरियोगिना । न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥३२॥
इति अनुमानमपि सामान्यतो दृष्टम् रसावभासकतयात्मनि बहुमानमाकल्यति । अमी सामाजिका रसानुभववन्तः । ये ये विवक्षितचेष्टाविशिष्टास्ते ते रसानुभववन्तः । यथा तत्त्वसाक्षात्कारानुभवितारः । तथा चेमे चेष्टाविशिष्टाः । तस्मात् रसानुभववन्त एवेति । न च दृष्टान्ते साधनवैकल्यम#ाशङ्कनीयम् । समाधिवेलायामानन्ते बाष्पादिव्यतिकरप्रसिद्धेः । तथा महिम्रस्तवे ""मनः प्रत्यक् चित्ते सविधमवधायास्तमरुतः प्रढद्धठ्ठड़;टष्यद्रोमाणः प्रमदसलिलोत्सङ्गित दृशः । यदालोक्याढद्धठ्ठड़;लादह्रद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं कमपि यमिनस्तत्किल भवान्"" इति ॥२४॥ आगमाः पुन रनेकसिद्धान्तरहस्ये साक्षात्कारिणां यथादृष्टवादिनां पुराणकवीनामलङ्कारसंहिताः । तत्र च रस एव सर्वोत्तरतया प्रतिपाद्यते । गोसदृशो गवय इतिवत् तत्त्वसाक्षात्कारसदृशो रस इत्युपमानमपि रससद्भावायानुभावनादात्मसत्तासाफल्यमनुसंधत्ते । अर्थापत्तिरपि निरापत्तिकं समर्थयते रससद्भावम् । यथा दिवा न भुञ्जानस्य देवदत्तस्य पीनत्वानुपपत्त्या कल्पिता नक्तंभुक्तिः । एवं विभावानुभावादेरनुपपत्त्या रस इति । ननु रसाप्रतीतावपि स्वयमेव क्वचिदास्वाद्यतया स्वतन्द्राणां भावादीनां कानुपपत्तिरिति चेत् कदाचित् कोऽपि विभावादिषु स्वतन्त्रव्यवहार उपचारमात्रेण राजपुरुषेषु राजव्यवहारवदिति संभववस्तुसंख्याविषयतया रसमहाराजलक्ष्मीमनालक्षयन् निजदौर्भाग्यमाविर्भावयति । ऐतिह्यमपि निदर्शितप्रमाणसंवादिना बाह्यं, नैव रसनिरूपणे संबाधमवलम्बते । तदित्थमखिलप्रमाणसंसिद्धे रससुधानिष्यन्दे सुमनोभिरनुभूयमाने योग्यानुपलब्धिलक्षणमभावप्रमाणं रसावमानैक दुराग्रहाणां विपरीतसाक्षराणां मनसि वैदग्ध्याभावमेकोऽपि भासयति । तथा चोक्तमस्मदाचार्यैः काशीश्वरमिश्रैः रसमीमांसायाम् ""रसलक्ष्मीमनादृत्य वागाडड्डत्ध्;म्बर तोरणम् ।
पुण्ड्रेड्डत्ध्;क्षो रसविद्वेषादृजीषानुभवो यथा"" ॥३३॥
प्रमाणलक्षणादिक मन्यतोऽवगन्तव्यम् । कवयो लोकसिद्धान्तसिद्धार्थव्यवहारिणः ।
अत्रैव हि चमत्कारसाक्षात्का रैकसाक्षिणः ॥३४॥
अनुक्तानामिहान्येषां लक्ष्यलक्षणविस्तरः ।
सिङ्गभूपालरचिते रसार्णावसुधाकरे ॥३५॥
आदिद्वितीययोः साधु शीलनीया विलासयोः । अन्यत्रबद्धदृष्टित्वादस्माभिर्न प्रपञ्चितः ॥३६॥
न हि सर्वत्र सर्वेषां विशेषाणां प्रदर्शनम् । अतिविस्तरदोषेण ग्रन्थोच्छेदप्रसङ्गतः ॥३७॥
दिङ्मात्रमेव शास्त्रेषु धीमतामुपदिश्यते । खयमेवावभासन्ते विशेषाः परिशीलनात् ॥३८॥
इति सकलमपि कल्याणम् । इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासार शीतलायां चमत्कारचन्द्रिकाया- मलङ्कृतौ रसविवेको नाम पञ्चमो विलासः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-12-06T19:23:49.1270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

herediatary character

  • न. आनुवंशिक लक्षण 
  • न. आनुवंशिक स्वरुप 
  • न. वंशपरंपरागत स्वरुप 
RANDOM WORD

Did you know?

चंद्र व सूर्य यांच्या ग्रहणी जन्म झाल्यास त्याचे काय परिणाम होतात? शांती, विधी काही आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site