चमत्कारचन्द्रिका - षष्ठो विलासः

श्रीहरिची माला आणि श्रीराधाचा मुक्ताहार यांची ही कथा आहे.


चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता अलङ्कारविलासः । एकदेशगतास्सर्वं शरीरं कटकादिवत् ।
अलङ्कुर्वन्ति ये काव्यं तेऽलङ्कारतया मताः ॥१॥
त्रैविध्यं कथितं तेषां शब्दार्थोभयसंभयात् ।
अत्र शब्दगताः प्राज्ञैरेकादश समीरिताः ॥२॥
छाया मुद्रा युक्तिः श्लेषानुप्रासगुम्भनाश्चित्रम् ।
यमकं वाकोवाक्यं गूढं प्रश्नोत्तरं चेति ॥३॥
अन्योक्तीनामनुकृतिः छाया सेयमुदाढद्धठ्ठड़;टता ।
त्रेधा नागरिकग्राम्यसामान्योक्त्यनुसारतः ॥४॥
तत्र नागरिकोक्तिछाया यथा सिक्तोऽपि सिङ्गभूपालकल्याणोक्तिसुधारसैः । यो न पल्लवितस्तस्मै जङ्गमस्थाणवे नमः ॥१॥
अत्र जङ्गमस्थाणवे नम इति सोल्लुण्ठने नमःशब्दं वदतां विदग्धानामुक्तेरनुकृतिः छाया । ग्राम्योक्तिच्छाया यथा सखि सिङ्गनृपतिपदयुगशरणागतराजवेभवं पश्य ।
सुन्दरि किमिदं चित्रं राज्ञि भुजङ्गेऽपि काचवलयः किम् ॥२॥
अत्र तुरीयपाद आश्रयविशेषेणाब्युदयविशेषं वदतां ग्राम्याणामुक्तेरनुकृतिः छाया । सामान्योक्तिच्छाया यथा कोऽयं वाञ्छितमर्थिनां वितनुते नन्वेष चिन्तामणिः सग्रावा किल किन्तु नैव हि पुमान् हासेन किं भूयसा ।
सोऽयं श्री अनवोतसिङ्गनृपतिः कस्मादिदं ज्ञायते रत्नोल्लासिनि कङ्ब्त्णे करतले किं दर्पणापेक्षया ॥३॥
अत्र तुरीयपादे प्रत्यक्षसिद्धे वस्तुनि किमन्यापेक्षयेत्यस्मिन्नर्थे करकङ्कणदर्शने किमादर्शविम्बेनेति सर्वजनसाधारणोक्तेरनुकरणादियं सामान्योक्तिच्छाया । साभिप्रायस्य वाक्ये यद्वचसोऽभिनिवेशनम् ।
मुद्रां तां मुत्प्रदायित्वात् काव्यमुद्राविदो विदुः ॥५॥
सेयं द्वेधा बुधैरुक्ता पदेन वचनेन च ॥६॥
पदमुद्रा यथा अस्मत्कल्पलातादलानि गिलति त्वत्कामगौर्वार्यतां मच्चिन्तामणिवेदिभिः परिणमेद्दूरान्ननयोच्चैर्गजम् । इत्यारूढवितर्दिकाः प्रतिपदं जल्पन्ति भूदेवताः सिङ्गक्ष्माभुजि कल्पवृक्षसुरभीहस्त्यादिदानोद्यते ॥४॥
अत्र कल्पलतादीनां देवतायोग्यत्वात् सद्ब्राढद्धठ्ठड़;नणा इत्यादिपदतोऽपि भूदेवता इति पदस्याभिजातत्वमितीयं पदमुद्रा । वचनमुद्रा यथा भो चिन्दामणिवेदिकापरिसरे सन्तानसन्तानक- च्छायायां सुरभीपयोधरपयोधाराभिराराधिताः । मा गर्वीयत देवता वयममी दृष्टाःस्म आविस्मितैः श्रीसिङ्गक्षितिनायकस्य करुणारङ्गैरपाङ्गैः स्फुटम् ॥५॥
अत्र देवतासाम्यबहुवचनाभिप्रायणात्मनि वक्त्रा वयमिति बहुवचनं प्रयुक्तमितीयं वचनमुद्रा । आयुज्यमानस्य मिथः शब्दर्य प्रकृतोचितम् ।
योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः ॥७॥
तत्रायुज्यमानपदयोजना यथा शम्भोस्स्थिता भूषणपेटिकायां श्रियः सपत्नीमभितः स्फुरन्ती । विष्णोः पदं मध्यममाविशन्ती विराजते सिङ्गनृपालकीर्तिः ॥६॥
अत्र पातालमित्यादि प्रकृतार्थे शम्भुभूषणपेटिकादि पदानामक्लेशयोगपरंपरया योजना कृतेति पदयुक्तिरियम् ।
एवं वाक्यप्रकरणप्रबन्धविशेषाणामप्युदाहारणानि द्रष्टव्यानि । एकरूपेण वाक्येन द्वयोर्भणनमर्थयोः । तन्त्रेण यत्र हि श्लेषः सोऽयं नैकविधो मतः ॥८॥
प्रकृतिप्रत्ययपदविभक्तिवचनादिभिः ॥९॥
तत्र प्रकृतिश्लेषो यथा कल्याणदस्त्वदीयोयं नतः श्रीसिङ्गभूपते । अर्थसारविदां लोके विदुषां विद्विषामपि ॥७॥
अत्र कल्याणद इत्यत्र ददातिददत्योः सारविदामित्यत्र वेत्तिविदन्त्योश्च प्रकृत्योः श्लेषः । करोति सिङ्गभूपाल करस्ते विदुषां मुदम् । कर्ता वैरिविपत्तीनां संपदं सुढद्धठ्ठड़;टदां स्फुटम् ॥८॥
तत्र कर्तेति पदे तृच्प्रत्ययतृन्प्रत्यययोः श्लेषः । वैरिविपत्तीनां कर्तेति तृच्प्रत्ययः । संपदंकर्तेति तृन्प्रत्ययः । अन्यथा कृद्योगषष्ठ्यावश्यंभावित्वात्तदुभयविभक्तिसंबंधाय प्रत्ययद्वयस्य विवक्षितत्वात् तथोक्तोऽयम् । पदश्लेषो यथा हरिश्चन्द्रो रक्षाकरणरुचिसत्येषु वचसां विलासे वागीशो महति नियमे नीतिनिगमे । विजेता गाङ्गेयं जनभरण संमोहनकला- व्रतेषु श्रीसिङ्गक्षितिपतिरुदारो विजयते ॥९॥
अत्र हरिश्चन्द्र इति चक्रवर्तिवाचके पदे हरिश्चन्द्रश्चन्द्रश्चेति पदयोः वागीशः वागीशश्चेति पदयोः गाङ्गेय इति भीष्म इति वाचके पदे गाङ्गोयं चेति पदयोः श्लेषः, इत्ययं पदश्लेषः । विभक्तिश्लेषो द्विधा । सजातीयो विजातीय इति । तत्राद्यो यथा स्थितो विराजिराजीववासिन्या कौस्तुभेन च ।
 वक्षःस्थलं दधानोऽव्याद्देवः श्रीसिङ्गभूपतिम् ॥१०॥
अत्र वीनां पक्षिणां राट् तस्मिन् विराजीति सप्तमी । लक्ष्मीकौस्तुभाभ्यां विराजी विराजनशीलमिति द्वितीया । तेद्वे सुब्विभक्त्ती विराजीति पदे श्लिष्टेइति सजातीयविभक्तिश्लेषोऽयम् । द्वितीयो यथा कीर्तिर्विशाला द्विषतामहारि व्यतानि तद्वामदृशां च वक्षः ।
अभेदि तद्दुर्गमपि व्यधायि श्रीसिङ्गभूपेन निजाप्तचित्तम् ॥११॥
अत्र नायकेन द्विषतां कीर्तिरहारि ढद्धठ्ठड़;टता । तेनैव रिपुस्त्रीणां वक्षः अविद्यमानहारं व्यतानीत्यत्र अतीत्येकपदे लुङि प्रथमपुरुषश्च नपुंसककर्म च द्वितीया च तिङ्सुब्विभक्त्ती श्लिष्टे इति विजातीयविभक्तिश्लेषः । एवमभेदीत्यत्रापि विज्ञेयम् । वजनश्लेषो यथा आशानां प्रभवस्सीमा श्रियां सत्त्रभुजश्शुभाः ।
शौरिर्देवाश्च ददतां कल्याणं सिङ्गभूभुजे ॥१२॥
अत्र शौरिः नारायणो नायकाय कल्याणं ददतां वितरतु । दद दाने इति धातोरात्मनेपदिनो लोटि प्रथमपुरुषैवकचनम् । कीदृशः शौरिः । आशानां नतजनमनोरथानां प्रभव उत्पत्तिस्थानं दातेत्यर्थथः श्रियां सौभाग्यविष्ये सीमा परमावधिः । सतस्त्रायत इति सत्त्रः । तादृशो भुजो बाहुरस्येति सत्त्रभुजः । शोभना भासो दीप्तयोऽस्येति शुभाः देवपक्षे तु देवाः । कल्याणं ददतां वितरन्तु । ददतामिति डुड्डत्ध्;दाञ् दाने इति धातोरात्मनेपदिनो लोटि प्रथमपुरुषबहुवचनम् । किं भूताः देवाः? आशानां दिशां प्रभवो नाथाः, श्रियां संपदां सीमा अवधयः । सत्रे भुजत इति सत्रभुजः । शोभना भाः कान्तिः येषां ते शुबा इत्युक्तमार्गेण क्रियापदे विशेषणपतं एकवचनबहुवचने श्लिष्टे इत्ययं वचनश्लेषः । आदिशब्दाद्भाषाश्लेषः यथा मेलायनाय ते राज्यमस्तु गादनसिंगन । वीराय मनसा पोररामाकाजनकेतन ॥१३॥
हे गादन ! गदयति पूर्वमभिभाषयतीति गादनः । तस्य संबुद्धिः पूर्वभिभाषिन्नित्यर्थः । तादृशाय ते राज्यम् । पौररामाकाटनकेतन पौररामाणां पोरस्त्रीणां काटनकेतन मत्स्यकेतन रामामदनेत्यर्थः । हे सिगन सिङ्गभूपाल । मनसा वीराय मेलायनाय । मा च इला च मेते लक्ष्मीभूम्यौ तयोरयनं मार्गः मेलायनं तस्मै मेलायनाय लक्ष्मीभूमिनिवासस्थानायेत्यर्थः । तादृशाय ते राज्यमिति प्रजापालनसामथ्र्यरूपकर्मास्तु सर्वोत्कर्षेण भूयादिति संस्कृतभाषा प्रतीयते । मेलायनायेत्यादिपदेषु भद्रमभवद्वे त्याद्यार्थवाचिषु तद्देशभाषाविदुषामान्ध्रभाषा च प्रतीयते । तदय भाषाश्लेषः । एवं संस्कृतप्राकृतादिभाषाश्लेषास्तु तत्र तत्र महाकविप्रबन्धेषु चित्रतरेषु स्वयमनुसंधेयाः । अनुप्रासस्तु वर्णानामावृत्तिरविदूरगा ।
अव्यापको व्यापकश्चेत्ययं द्वेधा समासतः ॥१०॥
अव्यापको यथा गौडड्डत्ध्;ीसङ्गीतभङ्गी रहसि विलसितं कोसलीकौशलानां नेपालीगण्डड्डत्ध्;पाली मृगमदमकरीं कैरलीं पानकेलीम् । लाटीपाटीरचर्चां कुसुमविरचनां कुन्तलीकुन्तलानां सिङ्गक्ष्माकान्त भिन्ते तव विजयरमास्निघ्धवेणिः कृपाणिः ॥१४॥ अत्रानुप्रासस्य प्रतिवाक्यं भिन्नरूपत्वादव्यापकानुप्रासोऽयम् । यथा च जयति जगदुदारो जाल्मवृत्तातिदूरः सुजनभजनशीलः स्तुत्यसत्यानुकूलः । अभिनवसुरधेनोरन्नवोतस्य सूनुः क्षितिनुतगुणसान्द्रः सिङ्गभूपालचन्द्रः ॥१५॥
अत्र पदाद्यान्तानुप्रासस्य प्रतिपादं भिन्नरूपत्वम् । व्यापकानुप्रासो यथा-नायकस्यैव वंशावल्याम् यत्र चरणसन्नाहिनी तृणचरणं निजपुराच्च निस्सरणम् । वनचरणं तच्चरणकपरिचरणं वा विरोधिनां शरणम् ॥१६॥
अत्र रेफणकारयुगलस्य सर्वत्रानुवृत्तत्वाद्य्वापकानुप्रासोऽयम् । एवं वृत्तिलाटानुप्रासातयो द्रष्टव्याः । शब्दस्य प्रकृते सम्यग्घटना गुंफना मता । अत्रशब्दो द्विविधः निरर्थकोऽन्यग्रथितश्चेति तत्राद्यास्य यथा श्रीसिङ्गक्षितिपालसङ्गरजयप्रस्थापकै स्तावकै- र्धाटीदुंदुविनिस्स्वनैरभिनवव्यापारिणो वैरिणः । स्वच्छायामनुधाविनीं प्रतिभट नाशङ्क्य शङ्काकुला- स्त्रायध्वं बे बे बे इति प्रतिपदं जल्पन्ति धावन्ति च ॥१७॥
अत्र बे इत्यादि निरर्थकशब्दस्य प्रस्तुतानुगुण्येन ग्रथनादियं निरर्थकशब्दगुंफना । अन्.यग्रथितशब्दगुंफना त्रिविधा । पादगुंफना पादद्वयगुंफना पादत्रयगुंफनां चेति । तत्राद्या यथा अर्थस्य पुरुषो दास इति वक्त व्यलज्जताम् । दासो हि पुरुषस्यार्थः पश्यतः सिङ्गभूपतिम् ॥१८॥
अत्राद्योक्तस्य प्रथमस्य प्रस्तुतानुगुण्येन घटितत्वादियमन्यग्रथिता पादगुंफना । द्वितीया यथा युवा युगव्यायतबाहुरंसलः कवाटवक्षाः परिणद्धकंधरः । इतीदमन्यत्र कवित्वपद्धति- र्विगाहते सिङ्गनृपे तु सार्थताम् ॥१९॥
अत्र कालिदासग्रथितस्य प्रथमार्धस्य प्रस्तुतानुगुण्यानुघटनादियं पादद्वयगुंफना । तृतीया यथा सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् । यावद्रसं वर्तमानो राजते सिङ्गभूपतिः ॥२०॥
अत्र पूर्वालङ्कारशास्त्रकारग्र थितस्यापि पादत्रयस्य प्रथमार्धे सपक्षैर्विपक्षैश्चानतिक्रमणीयो यावद्रसं वर्तमान इति प्रस्तुतानुगुण्येन घटनादियं पादत्रयगुफना । चित्रं तु चक्रबन्धाद्यं न सर्वकविसम्मतम् । रसोल्लासविरोधित्वाच्चित्तक्लेशैककारणम् ॥१२॥
चक्रबन्धो यथा सक्षमाचक्रदिशाविलासिविभुना तिग्मांशुहारिश्रिया विश्रामक्षणविश्वरङ्गवियता कल्पं यशो ज्योतिषा । विद्वत्कान्तिमवाप यः प्रविशदाविर्भूतकृत्स्नागमां मांधाता स च तद्विशेषविदुषो याति त्विषा नोपमाम् ॥२१॥
अत्र नेमिमारभ्य तृतीयस्मिन्नन्तरे चमत्कारज्योत्स्नेति कृतिनाम । सप्तमे विश्वपतिकविरिति तत्कर्तृनाम । नवमे नायकनाम च प्रकटीक्रियते । आदिशब्दात्पङबन्धादयः । अत्र पझबन्धो यथा सा च मा क्षपितभावराक्षसा साक्षरावगतपादमारसा ।
सारसा दयतु सिङ्गयं रसा सारयं गजवती क्षणा च सा ॥२२॥
अत्र क्षपिताः भावेन राक्षसाः क्रूरजनाः यया सा क्षपितभावराक्षसा दरिद्रीकृतक्रूरजनेत्यर्थः । साक्षरावगतपादसारसा विद्वद्ध्यातपादपझा मा लक्ष्मीः रसासारं भूवि श्रेष्ठं वस्तु याति प्राप्नोति इति रसासारयः । तं सिङ्गयं सिङ्गभूपालं सारसादावासपझादयतु भजतु । तथा गजवत#ी स्वाधारदिग्गजवतीत्यर्थः । सा क्षमा भूमिश्च । अन्यदेवं विधमनुसन्धेयम् । यमकं त्वविनाभूतखरव्यञ्जनसंहतेः ।
पुनःश्रुतिर्विभिन्नार्था तनमध्यान्तादिगं त्रिधा ॥१३॥
आदियमकं यथा नायकस्यैव सदया सदया बुद्धिरवतारवता मम ।
मधुरा मधुरानाथ भवता भवतादरम् ॥२३॥
अत्र चतुर्णामपि पादानामादौ प्रधमाक्षरसहितं वर्णत्रितयमान्तरतमव्यव्थानेन पुनःश्रुतमिति सर्वपादादियमकमिदम् । एवमन्येपि द्विपादादियमकदलयोव्र्यवहिताव्यवहितभेदाः स्वयमवगन्तव्याः । मध्ययमकं यथा घनयशोनयशोभितसंगरोत्सुकतमः कतमः सहते रिपुः ।
भवदसिं वद सिङ्गमहीपते परमया रमया भरितद्युते ॥२४॥
अत्र चतुष्र्वपि पादेषु प्रथमाक्षरं विहाय मध्याक्षरयमकमान्तरमव्य वधानेन पुनःश्रुतमिति सर्वपादमध्ययमकमिदम् । एवमन्येऽपि पूर्वपदस्य भेदा निरूपणीयाः । अन्त्ययमकं यथा यशसा सौरभवन्तं सिङ्गमहीपाल मेरुधीर भवन्तम् । सुकृतीकृतवसुदेवः सततं पायाद्वितीर्णघनवसुदेवः ॥२५॥
हे मेरुधीर सिङ्गमहीपाल यशसा सौरभवन्तं यशस्सुरभिं भवन्तं सुकृतीकृतवसुदेवः स्वजन्मना कृतार्थीकृतानकदुन्दुभिः देवः श्रीकृष्णः वितीर्णघनवसु यथा तथा पायादित्यन्त्याक्षर सहितमक्षरचतुष्टयम् पादद्वये पुनःश्रुतमिति द्विपादान्तयमकमिदम् । एवमन्येऽपि भेदाः स्वयमूह्यः । अवान्तरभिदास्तस्य बहवस्सन्ति दुष्कराः ।
मृदुमार्गविरोधित्वादस्माभिर्न प्रपञ्चिताः ॥१४॥
उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यमितीरितम् ॥१५॥
यथा रम्भे किं सखि मेनके न सुलभाः कल्पद्रुमाणां स्रजः ते स्वर्गे न हि सन्ति कुत्र धरणीभागे कुतः कारणात् ।
दातुः श्रीअनवोतसिङ्गनृपतेस्तैर्दत्तहस्ताङ्गुली- ब्र्रढद्धठ्ठड़;ना निर्मितनानतो नु धनिकाः सर्वेऽपि धात्रीसुराः ॥२६॥
अत्र रम्भामेनकयोरुक्तिप्रत्युक्तयः स्पष्टाः ।
क्रियाकारकसंभन्धगुप्तिमद् गूढमुच्यते ॥१६॥
 तत्र क्रियागूढं यथा कृपाणखण्डिड्डत्ध्;तारातिमण्डड्डत्ध्;लाधीशमण्डड्डत्ध्;लः । श्रीसिङ्गधरणीपाल विभवेति समृद्धताम् ॥२७॥
अत्र हे विभो समृद्धतामेहीति क्रियापदस्य विभव इति सप्तम्या गोपितत्वमिति गूढक्रियापदत्वात् क्रियागूढम् । यथा च कन्दर्पकल्पनाकारं श्रीसिङ्गधरणीभुजम् । पुरमार्गे पुरन्ध्रीणां निश्चलानयनाञ्चलाः ॥२८॥
अत्रापुरिति क्रियापदं पुरन्ध्रीणामिति पदेन गोपितमिति क्रियागूढम् । कारकगूढं यथा श्रीसिङ्गभूपनासीरधाटीसाध्वससंभ्रमात् । क्व दरी क्व दरीत्यद्रेः कान्तारे रटति स्फुटम् ॥२९॥
अत्र रटतिक्रियायाः कर्तृकारकभूता अरेः कान्ताः कान्तार इति सप्तम्या गोपितमिति कारकगूढेषु कर्तृगूढमिदम् । एवं कर्मगूढादयो द्रष्टव्याः । संबन्धपदगूढं यथा शरानपाङ्गश्री राजन् नाभिक्रमति केवलम् । भ्रूवल्लीललितैश्चापं त्वत्सेवा सुदृशामपि ॥३०॥
अत्र एः कामस्येति सम्बन्धपदं ललितैर्विलासैरिति तृतीया वा (तृतीयया?) गोपितमिति संबन्धगूढमिदम् । पष्ठयाः कारकत्वाभावात् सम्भन्धगूढस्यात्र पृथङ्निर्देशः । यत्रोत्तरर्य निर्मेदः प्रश्ने प्रश्नोत्तरं हि तत् ।
अन्तःप्रश्र्नं बहिःप्रश्र्नमुभयप्रश्र्नं चेति तत्त्रिधा ॥१७॥
कमदर्पयन्मनोभूः किं नरपतिवेश्म राजते निधिमत् । कामधुरा कथय सशे त्वयैव कथितं हि सिङ्गभूपाल ॥३१॥ अत्र मनोभूः कमलोभयदिति प्रश्ने कं ब्रढद्धठ्ठड़१४;नाणम् । नरपतिवेश्म किंमिति प्रश्ने किन्नरपतिवेश्म, कुबेरगृहमिति । मधुरा केति प्रश्ने कामधुरा कामभार इति चोत्तराणि प्रश्नावयस्यान्तर इतीदमन्तःप्रश्नम् । प्रत्याननं राजितगण्डड्डत्ध्;मध्यं सुभीषणं भैरवमस्तकं किम् । त्वया नचेदुत्तरमप्रदत्तं राजन् न जानाति भवान् भवन्तम् ॥३२॥
अत्र प्रतिगण्डड्डत्ध्;भैरव इत्युत्तरस्य प्रश्नवाक्यान्तरे प्रतीयमानत्वादिदञ्चान्तः प्रश्नम् । बहिः प्रश्नं यथा कीदृग्बलं देवविभो शुचेश्च सम्बोधनं त्वद्रिपुमण्डड्डत्ध्;लञ्च । श्रीसिढद्धठ्ठड़;गभूपाल वदोत्तराणि पूर्वोक्तवर्णभयवृद्धियोगात् ॥३३॥
अत्र इन्द्रबलं सफलि शुचिसंबुद्धिः पवित्रेति त्वद्विपुमण्डड्डत्ध्;लं वित्रपं वित्रसदिति वा त्रीण्युत्तराणि प्रश्नाद् बहिरेव मृग्याणि । बहिः प्रश्नमिदम् । उभयप्रश्नं यथा योगिनां भोगिनां राजन् क इष्टस्तं न वेत्ति यः ।
विपरीतो हरस्तेन न ज्ञातो हि सहाम्बरः ॥३५॥
अत्र रहोवास इत्युत्तरस्य पूर्वभागो रहश्शब्दो विपरीतहरशब्देन प्रश्नवाक्यस्यान्तः प्रतीयते । उत्तरावयवो वास इत्ययं बहिरेव मृग्यत इति बहिरन्तःप्रश्नोत्तरस्य स्थितत्वादिदमुभयप्रश्नम् । एवं निरूपितास्साधु शब्दालङ्कारजातयः । काव्यं विभूषयेदाभिः यथान्यैर्नापहास्यते ॥१८॥
इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां चमत्कारचन्द्रिकायां शब्दालङ्कारविवेको नाम षष्ठो विलासः ॥

N/A

References : N/A
Last Updated : December 06, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP