TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चमत्कारचन्द्रिका - चतुर्थो विलासः

श्रीहरिची माला आणि श्रीराधाचा मुक्ताहार यांची ही कथा आहे.


चतुर्थो विलासः
चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता चतुर्थो विलासः ।
रूपादय इवाङ्गस्य स्वरूपोत्कर्षहेतवः ।
काव्यस्यैतान्विजानन्ति गुणान् गुणविवेकिनः ॥१॥
श्लेषप्रसादौ समता माधुरी सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजः कान्तिरुदात्तता ॥२॥
प्रेयान् समाधिरौर्जिंत्यं सौम्यं गाम्भीर्यविस्तरौ ।
संक्षेपः शब्दसंस्कारो भाविकत्वं च सम्मितः ॥३॥
गत्युक्तिरीतयः काव्ये ते त्रायोविंशतिर्मताः ।
तत्र श्लेषः मसृणश्लिष्टपदता श्लेष इत्यभिधीयते ॥४॥
यथा अव्याजसुन्दरमनिन्दितसच्वसार- माजानुवाहुमरविन्ददलायताक्षम् । श्रीसिङ्गभूपमवलोकयतां जनाना- मानन्दितानि नयनानि सुधाम्बुनेव ॥१॥
अत्र भिन्नानामपि पदानामेकपदवत्पाठसमये प्रतिभानं श्लेषः । द्रागर्थावगतिर्यत्र स प्रसादो निगद्यते ॥५॥
यथा सौगन्धिके च घनसारिणि चन्दने च बिम्बाधरे च सुदृशां वदने च तासाम् । श्रीसिङ्गभूपरचिते च गिरां कदम्बें को वा न नन्दति जनो जगदेकसारे ॥२॥
अत्र पादानां समकालमेवार्थसमर्पकत्वात् प्रसादः ।
मृदुस्फुटविमिश्राणां वर्णानां बन्धक्ल्टप्तिषु ।
आमूलचूडंड्डत्ध्; निर्वाहः समता धीमतां मता ॥६॥
अत्र स्फटवर्णनिर्वाहो यथा युद्धेषु प्रतिपक्षलक्षतुरगप्रध्वंसनोत्तंसिते त्वत्कौक्षेयकशिक्षितैरपि परं सिङ्गक्षमारक्षक । सप्ताश्वे प्रतिभेदमात्रमरिभिः प्रायेण संधार्यते कष्टं क्लिष्टधियां गुरोरपि वृथा सर्वैव विद्या भवेत् ॥३॥
अत्र पादचतुष्टयेऽपि घोषपराक्षरप्रायत्वनिर्वहणात्स्फुटवर्णा समता । मिश्रवर्णबन्धनिर्वाहो यथा आक्षेपोक्तिविधायिनां क्षितिभुजामात्मावरोधान्तिके युद्धाग्रे तु निरीक्ष्य साध्वसवतां त्वां खङ्गनारायण । रूक्षोदग्र तृणाङ्कुरग्रसनता जिढद्धठ्ठड़;वाग्रविच्छेदनं दण्डड्डत्ध्;ऽभूदत एव ते हि भवता स्वे स्वे पदे स्थापिताः ॥४॥
अत्र पादचतुष्टयेऽपि नातिवर्णमृदुप्रायता नातिरूक्षाक्षरप्रायता चेति मिश्रबन्धसमता । अग्रन्थिला पृधग्भूतिः पतानां माधुरी मता । ॥७॥
यथा चम्मं पोम्मोत्त उत्तं ( मिळत नाही) बोम्मो कापूण सोम्मं त्विहुवण रअणं कण्ण अंकित्ति सण्णं द्विहा उंतिए णाहं कुण इव रउणं मंगलं सिंगभूवम् ॥५॥
अत्र पाठसमय एव पदविभागः प्रतिभातीति माधुर्यम् । संयुक्ताक्षरसच्वेऽपि श्रव्यत्वं सुकुमारता ॥८॥
यथा युष्माभिः प्रतिगण्डड्डत्ध्;भैरवरणे प्राणाः कथं रक्षिता इत्यन्तः पुरपृच्छया यदरिषु प्राप्तेषु चाज्ञावशम् ।
शंसत्युन्नतमान्स व्यतिकरव्यापारपारङ्गता गण्डड्डत्ध्;न्दोलितकर्णकुण्डड्डत्ध्;लहरिन्माणिक्य वर्णाङ्कुराः ॥६॥
अत्र संयुक्ताक्षरप्रायत्वे श्रुतेरकटुत्वात्सौकुमार्यम् ।
अद्याहारानपेक्षत्व मर्थव्यक्तिरितीरिता ॥९॥
यथा नमन्ति सिङ्गभूपालं राजानो नीतिकोविदाः ।
निजराज्यप्रतिष्ठायै शरणागतवत्सलम् ॥७॥
अत्र वाक्यस्य संपूर्णता स्पष्टैव । विकटाक्षरता बन्धे प्राज्ञैरौदार्य मीर्यते ॥१०॥
यथा गर्जद्घूर्जरगर्वपर्वतभिदे नेपालभूपालक- ध्वान्तध्वान्तविरोधिने कटुरटत्सौराष्ट्रराष्ट्रद्रुहे ।
दृप्यत्केरलमौलिमोटनकृते श्रीसिङ्गपृथ्वींपते भूयासुर्भुवनाभयव्रतभृते श्रेयांसि भूयांसि ते ॥८॥
अत्र विकटाक्षरतया नृत्यद्भिरिव पदैर्या बन्धरचना तदौदार्यम् । ओजस्समास्बाहुल्यमेतद् द्वेधा निगद्यते । समासानामदीर्घाणां प्राचुर्यात्प्रथमं भवेत् ॥११॥
इदं कोमलमार्गानुसारिणां प्राणसंमितम् । समासस्यातिदीर्घत्वाद् द्वितीयं गौडड्डत्ध्;सम्मतम् ॥१२॥
अत्राल्पसमासप्राचुर्यं यथा नायकस्यैव आकीर्णघर्मजलमाकुलकेशपाश- मामीलिताक्षियुगमादृतपारवश्यम् ।
आनन्दकन्दलितमस्तमितान्यभाव- माशास्महे किमपि चेष्टितमायताक्ष्याः ॥९॥
यथा च सङ्गीतक्रमचङ्क्रमप्रियसखी शृढद्धठ्ठड़;गारसंजीवनी सौजन्यद्रुमसारणी चतुरतासाम्राज्यसिंहासनम् । श्रीसिङ्गक्षितिपालशेखरमणेर्वैयात्यघण्टापथ- श्चाटुव्याढद्धठ्ठड़१४;टतिवैखरी विजयते साहित्यशिल्पावधिः ॥१०॥
अत्र स्वल्पसमासत्वं (?) स्पष्टमेव (मिळत नाही) दीर्घसमासत्वं यथा
(मिळत नाही) पिशाचाः सह सहचटैः हस्ततालानुकूलं (?) क्रीडड्डत्ध्;न्ति क्रेंक्रियाभिः कहकहनिनदाडड्डत्ध्;म्बरालम्बिनीभिः ॥११॥
अत्र दीर्घसमासत्वं स्पष्टमेव । कान्तिश्छाया हि बन्धस्य कथिता बन्धकोविदैः ॥१३॥
यथा आकृष्टा मूÐध्न कृष्णा गहनमणिगता मैथिली पूर्वमूर्वो- श्छन्ना पर्णैरपर्णा किल नलमहिषी कल्पिता शित्पिनीति । आस्तां तत्तद्दशायामपि दधति शुचं यावदाक्षेपरूपै- राख्यातैः सिङ्गभूप त्वदरिमृगदृशां स्थैर्यवत्यो जरत्यः ॥१२॥
यथा (वा) ललितरसविलाकव्यासविन्यासधन्यां प्रथयति मधुरार्थां भारतीं सिङ्गभूपे । गरनिगरणरूक्षैरक्षरै र्वावदूको विषधरकुलमूर्धा न स्फुटी यः स्फुटीति ॥१३॥
अत्र बन्धस्यात्युज्ज्वलत्वं छाया सैव कान्तिः ।
श्लाग्यैर्विशेषणैर्योगं बुधा विदुरुदात्तताम् ॥१४॥
यथा आकल्पमाकल्पविशेषभाजा भुजेन रेखाकुलिशाङ्कितेन । श्रीसिङ्गभूपाल तवायतेन रक्षावती सागरमेखलेयम् ॥१४॥
अत्र भुजविशेषणानां भाग्यविशेषप्रतिपादकत्वादतिश्लाघ्यत्वम् ।
प्रेयान् प्रियोक्तेर्विन्यासश्चाटुसाहित्यजीवितम् ॥१५॥
यथा सौभाग्यभाग्य युवतीजनचित्तचोर दाक्षिण्यगण्य धरणीतलपारिजात । शृङ्गारभाव करुणाकर सिङ्गभूप गां रक्ष रक्ष तव रक्षणमेव धर्मः ॥१५॥
अत्र नायकं प्रति दूत्याः प्रियोक्तिः स्पष्टैव । समाधिरिह शब्दस्य वृत्तिस्स्यादौपचारिकी ॥१६॥
यथा अध्यास्ते फणिलोकपुङ्गवफणानिव्र्यूढपर्यङ्किका- माक्रामत्यनुवेलमब्धिरशना काञ्चीगुणाडड्डत्ध्;म्बरम् ।
निंस्ते विस्मयधूतधूर्जटिजटाकूलंकषाहंक्रियां श्रीसिङ्गक्षितिपालकीर्तिमहिमासाकल्यकल्पोदयः ॥१६॥ अत्राध्यासनाक्रमणचुम्बनानामुपचरितत्वं कीर्तेरचेतनत्वात् । यद्बन्धस्यातिगाढत्वं तदौर्जित्यमुदाढद्धठ्ठड़१४;टतम् ॥१७ ॥
यथा करिपतिदृढकुम्भालम्बन्प्रक्रमां च (मिळत नाही) घोरकोणः कृपाणः । तव रचयति धनुरध्वंसनं सिङ्गभूप प्रदनकदनगन्धप्रङ्वणब्वान् पिशाचान् ॥१७॥
अत्र ह्रस्वाक्षराणां संयुक्तपूर्वतया गुरुत्वे यद्गाढत्वं तदौर्जित्यं नाम । अन्तस्संजल्पसामथ्र्यं शब्दानां सौक्ष्म्यमुच्यते ॥१८॥
यथा भूधातुं कर्तृभावादनुगतमनुना मानयत्यात्ममाने पर्याये संपदां स्यादभिपरिसहितं विद्विषां कर्मभावः ।
पुंलिङ्गे त्वन्मनोऽब्जं स्पृशति शिवपदं त्वद्गृहाली न पुंसि स्त्रीलिङ्गे शात्रवाणां निखिलमपि पुरं सिङ्गभूपालचन्द्र ॥१८॥
अत्र नायकः सम्पदोऽनुभवतीति, द्विषः परिभवति, नायकस्य मानसं शिवो महादेवः स्पृशति, तद्विरोधिनगरं शिवा जम्बूकः स्पृशतीति पदानां भूधातुं कर्तुभावादित्यादिषु गर्भितत्वादन्तः संजल्पनशक्तिःप्रतीयत इति सौक्ष्म्यमिदम्  ।
घ्वनिमत्ता तु गाम्भीर्यं (मिळत नाही) यथा एकेनैव तुरङ्गमेण ककुभो व्याक्रम्य सौम्यक्रमा- नङ्गीकृत्य करान् कदाचिदगतः कांचित्तमोग्रस्तताम् । उल्लासाय सतामनन्तमुदयं धत्ते तथापि स्फुटं त्वं प्राज्ञैर्ननु सिङ्गभूपतिलक ज्ञातोऽसि भासां निधिः ॥१९॥
अत्र सूर्यस्तु दिशस्तुरङ्गमैस्सप्तभिराक्रमति, तीव्रान् किरणानङ्गीकरोति, रहुग्रस्ततां गच्छति नक्षत्राणामनुल्लासाय सान्तमुदयं धत्त इति ध्वनिर्विद्यते । तस्माद्गम्भीरत्वम् । (मिळत नाही)  प्रपञ्चोक्तिस्तु विस्तरः ॥१९॥
पुण्यैः पूर्वमुपार्जितैस्तनुमतो जन्मास्तु सन्मानुषं जन्माप्यस्य तदान्ध्रदेशतिलके राजाचले संभवेत् ।
तत्राप्येष दधातु तां परिणतिं भाग्यस्य योग्यां तथा गत्वा नन्दति सिङ्गभूवर गिरं त्वत्कां चमत्कारिणीम् ॥२०॥ अत्र नायकस्य सन्निधौ सर्वदा स्थातुमिच्छामीति विवक्षितार्थस्यातिविवृत्य करणाद्विस्तरः । संक्षेपस्तु समस्योक्तिरनल्पस्यापि वस्तुनः ॥२०॥
यथा षड्ड्डत्ध्;भिः षोडड्डत्ध्;शभिर्भूपैगौरेका महिषी कृता । सैव श्रीसिङ्गभूपालकुञ्जरेण वशीकृता ॥२१॥
अत्र षड्ड्डत्ध्;भिरित्यनेन "हरिश्चन्द्रो नलो राजा पुरुकुत्सः पुरूरवाः । सगरः कार्तवीर्यश्च षडेड्डत्ध्;ते चक्रवर्तिनः॥" इति श्लोकार्थस्य, षोडड्डत्ध्;शभिः भूपैरित्यनेन "गयोऽम्बरीषः शशिबिन्दुरङ्ग पृथुर्मरुत्तो भरतस्सुहोत्तः । रामो दिलीपः शिबिरन्तिदेवौ ययातिमान्धातृभगीरथाश्च॥" इति श्लोकार्थस्य च प्रपञ्चकथनप्रसिद्धस्यात्रातिसङ्कोचेन कथनाच्चमत्कारातिशयकारी संक्षेपो नाम गुणः अयम् --- "स मारुतसुतानीतमहौषधिधृतव्यथः ।" इत्यादौ कविभिरङ्गीकृतो लक्षणीयः । सुपां तिङां च व्यत्पत्तिश्शब्दसंस्कार उच्यते ॥२१॥
यथा दिक्कूलङ्कषवैभवा घनपथव्याप्तिप्रियंभावुका श्रीसिङ्गक्षितिपालकीर्तिविभवाः शम्भोस्तुलालम्बिनः । गामध्यासितुमीशते प्रगुपते पर्याप्तमार्योत्सवान् कल्पान्ते तव कल्पितां विवृणुते धाम्रा महिम्रां श्रियम् ॥२२॥
अत्र दिक्कूलंकषेति प्रियंभावुकेति गामध्यासितुमित्यादौ सुबन्तानामीशत इत्यादिषु तिङ्न्तानां च दिग्व्यापिनोऽन्तरिक्षव्यापिनो गवि तिष्ठन्त्यादिभि र्विशेषप्रतिभानाच्छब्दसंस्कार इत्युच्यते । हर्षादि भाववशतो वाग्वृत्तिर्भाविकं मतम् ॥२२॥
यथा विद्यादैवत तात तावकगुरो सर्वज्ञचूडड्डत्ध्;ामणे स्तोतव्योऽसि मनीषिणां त्वमथवा वन्द्यो जवाकैरलम् । इत्थं सिङ्गमहीपतिं गुरुजनोऽप्याभाषते तोषवान् तत्तत्पद्धतिधर्ममर्मणि परिच्छेदानि संवादिनम् ॥२३॥ परिछेदसंभूतसंतोषवशेन प्रवृत्तत्वाद् भाविकत्वम् । तत्सम्मितत्वं शब्दार्थकूलाबधृतिरुच्यते ॥२३॥
यथा विक्रमे न क्रमे केचित्क्रमे केचिन्न विक्रमे । विक्रमे च क्रमे चायं दक्षः श्रीसिङ्गभूपतिः ॥२४॥
अत्र यावदर्थपदत्वं सम्मितत्वम् ।
आरोहमवरोहञ्च स्वराणां गतिरीरिता ॥२४॥
यथा श्रीसिङ्गक्ष्मापाले क्षोणीं धारयति सारधौरेये । अकरणि मदयति फणिपतिहरिदिभकुलकुधर कपटकमठानाम् ॥२५॥
पूर्वार्धे दीर्वतयास्वराणामारोहः । उत्तरार्धे ह्रस्वतयावरोहश्चेति गतिः । उक्तिर्विवक्षितस्या न्यभङ्ग्या भणनमुच्यते ॥२५॥
यथा तस्याः किं गुणजीवितस्य कुशलं राजन् सती जीवति प्रश्नस्तत्कुशलक्रमो हि कथितं सा जीवतीति स्फुटम् । भद्रे दूति पुनस्तदेव किमिदं मुग्धेव संभाषसे श्वासे तिष्ठति सा मृतेति गदितुं श्रीसिढद्धठ्ठड़;ग किं युज्यते ॥२६॥
अत्र तस्याः किं कुशलमिति नायकप्रश्ने दूत्या कुशलमकुशलं वेति प्रतिवक्तव्यजीवतीत्यादियुक्तिभङ्ग्या योऽयं त्वद्विरहे जीवितमात्रशेषेति सूचनाप्रकारस्सोऽयमुक्तिर्नाम गुणः ।
उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते ॥२६॥
एकं याचितमर्थिना द्बिगुणितं चित्ते त्वदीये पुन- र्वाक्ये तन्त्रिगुणं चतुर्गुणयुतं हस्ते ततस्त्वर्थिनः । पाणौ पञ्जगुणं प्रकल्पितमहो षाड्ड्डत्ध्;गुण्यदीक्षागुरो- रौदार्ये तव सिङ्गभूप नितरामाश्चर्यमाचार्यकम् ॥२७॥
अत्र्रकादीनां षडड्डत्ध्;न्तानां यथाक्रमं निर्वाहो रीतिः । इति गुणविवेकः । रीतिः पदानां घटना प्रोक्ता रीतिविशारदैः ।
रीङ् गतावित्यतो धातोरियं रीतिरितीर्यते ॥२७॥
असमासा समासेन मध्यमेव विभूषिता ।
अतिदीर्घसमासा चमिश्रा चेति चतुर्विधा ॥२८॥
असमासा यथा राजानः सन्तु लोके दिनरजनिकृतोरत्र वंशावतंसा विष्णोरैतिह्यसिद्धानभिदधति गुणान् कीर्तिगन्धाः प्रवन्धाः । अद्य क्षोणी कृतार्था नृपतिकुलगुरू चक्षुषी यस्य सौऽयं देवो रेचर्लवंशो विहरति भगवान् सिङ्गभूपालमूर्तिः ॥२८॥
नन्वत्र समासः श्रूयते कथमसमासेति चेत् श्रूयताम् । अत्र नञा समासस्वरूपनिषेधो नाभिधीयते । किन्तु तस्य तीर्गत्वं द्राघीयस्त्वं च । यथा-अनुदरेयं कन्या; निस्सारः पुमान्; इति । तस्माद् द्वयोः त्रयाणां वा (न) पदानां समासे रीतेः सढद्धठ्ठड़;टदयढद्धठ्ठड़;टदयानामनुद्वेगदायिनामसमासत्वमेव । यथा च दृष्टमसमासमार्गानुसारिणां महाकवीनां प्रबन्धरत्नेषु । "तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी" ॥२९॥
इत्यादि मेघसन्देशे "वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना । अपचितकुसुमापि वल्लरीयं समजनि वृन्तनिलीनषट्पदा"॥ ॥३०॥
इति कर्णामृते ।
"उत्फुल्लगण्डड्डत्ध्;युगमद्भुतमन्दहासमुद्वेलरागमुररीकृतकामतन्त्रम् । हस्तेन हस्तमवलम्ब्य कदा नु सेवे सल्लापरूपममृतं सरसीरुहाक्ष्याः ॥३१॥
इति सिङ्गभूपालीये । "मुखप्रधानैरवलंबपूर्वैः कण्ठग्रहैर्विप्रतिपीडिड्डत्ध्;ताङ्गैः । नखप्रचारै श्शिथिलोपगूढैर्लब्धैः प्रियाया मुमुदे मुकुन्दः ॥३२॥
इति कन्दर्पसंभवे ।
एवनम्येष्वपि वैदर्भमार्गानुसारिणां प्रबन्धेषु तत्र तत्र च तुन्नपदसमासस्यासमासत्वकीर्तनानुप्रवेशाकारो ऽवगन्तव्यः । अपरञ्च न्यूनानामदशाधिकानां पदानां समासो मध्यमः तद्वती मध्यमसमासा यथा श्रीसिङ्गभूप भवदीयवचोविलास- धारासुधामधुरिमानुभवानुभावात् । आमीलिताञ्चलविलोचनयुग्मनिर्य- दानन्दबाष्णकणिकाः सुधियो भवन्ति ॥३३॥
दशाधिकपदसमासातिदीर्घसमासा यथा श्रीसिङ्गक्षोणिपालप्रबलबलभरोद्धूतधूलीवितान- छन्नच्छायासहायद्युतिहरिदुदरस्कन्धबद्धान्धकारे । व्योम्नि व्यामप्रमेयस्तनयुवतिपरीरंभसंहभकेली- प्रत्यूहव्यूहशान्तिप्रमुदितमनसस्तं प्रशंसन्ति सिद्धाः ॥३४॥
असमासादिरीतीना सहकारान्मिश्रा  । असमासातिदीर्घसमासयोर्मिश्रणे यथा अवितुरकृतभङ्गं सिङ्गभूपालमौले- स्त्रिभूवनमपि शुद्धं कीर्तिकल्लोलिनीभिः । विषमविषमचक्षुर्जूटकोटीकुलुङ्ग- स्खलितफलितफेनस्वढद्धठ्ठड़;धुनीस्पर्धिनीभिः ॥३५॥
अत्र प्रथमार्धेऽसमासोत्तरार्धेऽतिदीर्घसमासा । असमासामध्यमसमासयोर्यथा प्रतिनृपतिपुरन्ध्रीचारुपाटीरचर्चा- परिकरपरिचर्याद्रोहिणी खड्ड्डत्ध्;गधारा । जयति विजयलक्ष्म्या वेणिकाश्रेणिकान्ती रणभुवि तव बाहासङ्गिनी सिङ्गभूप ॥३६॥
अत्र प्रथमार्धे मध्यमसमासोत्तरार्घेऽसमासा । अतिदीर्घमध्यमसमासयोर्यथा सिङ्गक्ष्मापाल युद्धे प्रतिभटरथिनीनाथकोटीरकोटी- स्फायल्लीलाकलाची भरितनववसाविस्रकीलालहालाम् । पायं पायं पिशाचाः सह सह चरीहस्ततालानुकूलं क्रीडड्डत्ध्;न्ति क्रेंक्रियाभिः कहकहनिनदाडड्डत्ध्;म्बरालम्बिनीभिः ॥३७॥
अत्र प्रथमार्धेऽतिदीर्घसमासोत्तरार्धे मध्यमसमासा । एवमन्यदप्येतज्जातीयं द्रष्टव्यम् । इति रीतिविवेकः । या विकासे च विक्षेपे विक्षोभे विस्तरे तथा (चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि षड्ड्डत्ध्;विधा) ॥२९॥
कैशिक्यारभटी चैव भारती सात्वती तथा । मध्यमारभटी चैव तथा मध्यमकैशिकी ॥३०॥
मृदू श्रृङ्गारकरुणौ स्वल्पौ हासायाद्भुतौ पुनः । उद्धतौ रौद्रबीभत्सौ किंचिद्वीरभयानकौ ॥३१॥
शब्दार्थयोर्मृदुत्वेन कैशिकीवृत्तिरिष्यते ॥३२॥
यथा अलोलैराश्चर्यादविरलितलज्जापरिमलैः प्रमोदादुद्वेलैश्चकितहरिणीप्रेक्षणसखैः । अमन्दैरौत्सुक्यात्प्रणयलहरीमर्मपिशुनै- रपाङ्गैस्सिङ्गक्ष्मारमणमबला वीक्षितवती ॥३८॥
वृत्तिमारभटीमाहुः प्रौढत्वादर्थशब्दयोः ॥३३॥
यथा सावष्टम्भ सदम्भजम्भगिरिसद्व्यालम्भनोत्तम्भित प्रारम्भाद्भूतजम्भभेदिभिदुरत्विङ्गेन खङ्गेन ते  । श्रीसिङ्गक्षितिरक्षक प्रतिमृधं सिद्ध्येदरि क्ष्माभृतां सा रम्भाकुचकुम्भसम्भ्रमपरी रम्भादिसम्भावना ॥३९॥
अत्र स्निग्धप्राणवर्णप्रायत्वं सन्दर्भस्य मृदुत्वम् । श्रुङ्गारत्वादर्थस्त मृदुत्वम् । अत्र रूक्षमहाप्राणवर्णप्रमायत्वेन संदर्भस्य गाढत्वम् । प्रतिभटध्वंसनरुपत्वादर्थस्यगाढत्वम् । मृद्वर्था प्रौढसंदर्भा भारतीवृत्तिरिष्यते ॥३४॥
यथा तज्जित्वा परिरम्भणप्रभृतिकं द्यूते सखीनां पुरः शार्यारोपणसूचिते पणविधौ श्रीशिङ्गपृथ्वीक्षिता । हासोत्फुल्लकपोलकान्तिलहरीसंक्रान्तवक्रेक्षणा सा स्विन्नाङ्गुलि शारिकापरिकरं सज्जीकरोति प्रिया ॥४०॥
अत्र श्रृङ्गारत्वादर्थस्य मृदुत्वम् । बन्धस्य महाप्रणरूक्षवर्णप्रायत्वं प्रौढत्वम् । प्रौढार्थमृदुसंदर्बा सात्वती वृत्तिरिष्यते ॥३५॥
यथा श्रीसिङ्गभूपकरवालहलारिमौले- र्मुक्ताफलानि पतितान्यभितः स्फुरन्ति । कीलालमांसकलितासु रणस्थलीषु बीजाङ्कुराणि यशसामिव निर्मलानि ॥४१॥
अत्र रिपुहिंसनरूपत्वा दर्थस्य प्रौढत्वम् । अल्पप्राणवर्णप्रायत्वात्संदर्भस्य मृदुत्वम् । मृद्वर्थ ईषत्प्रौढसंदर्भा मध्यमकैशिकी ॥३६॥
यथा त्वामाश्रितेष्ववसरोऽपि न हि क्रशिम्नां तच्चितमाश्रयति च त्वयि सा नतभ्रूः । आख्याति हन्त तनिमानमिति प्रसङ्गे कस्यायशो विमृश चेतसि सिङ्गभूप ॥४२॥
अत्र विप्रलम्भत्वादर्थस्य मृदुत्वम् । बन्धस्य संयुक्तवर्णह्रस्वाक्षरप्रायत्वेनोर्जितत्वादीषद्गाढत्वम् । मद्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा ॥३७॥
यथा संवर्तपावकशिखा किमु किं नु जिढद्धठ्ठड़;वा मृत्योरियं किमु युगान्तकृतान्तदंष्ट्रा । इत्यूह्यते समरसीमनिषेव्यदेशे श्रीसिङ्गभूपकरकम्पितखड्ड्डत्ध्;गरेखा ॥४३॥
 अत्र समरक्रियारूपत्वादर्थस्य प्रौढत्वम् । मिश्रवर्णारब्धत्वात्संदर्भस्य नातिमृदुत्वम् । इति वृत्तिविवेकः । पाकं वाचां परीपाकमाहुराखादमेदुरम् । सोऽयं मृदुः खरश्चेति समासेन द्विधा भवेत् ॥३८॥
अत्र मृदुपाको यथा किं कामेन किमिन्दुना सुरभिणा किं वा जयन्तेन वा मद्बाग्यादनवोतसिङ्गनृपते रूपं मया वीक्षितम् । धन्यास्तत्परिचर्ययैव सुदृशौ हन्तेति रोमाञ्चिता स्विद्यद्गण्डड्डत्ध्;तलं सगद्गदपदं साख्याति सख्याः पुरः ॥४४॥
अत्र द्राक्षापाक इवाक्लेशेन समास्वाददायी शब्दपरिणामो मृदुपाक इत्युच्यते । सोऽयं प्रायेण सहजसाहित्यरेखासमुल्लेखानां सरसकवीश्वराणामानन्दनिष्यन्दफले प्रबन्धेषु दृश्यते । तथा हि --- कालिदासस्य । "विवृण्वती शैलसुतापि भावमढद्धठ्ठड़; गै" रित्यादि कुमारसंभवे ॥४५॥
तथा च श्रीहर्षदेवस्य । "फुल्लो जणाणुरावो लज्जा गुरुई परप्पसो अव्वा । पिअसहि विसमं पेम्मं मरणं सरणं च चरम एत्तं" ॥४६॥
तथा च ममैव चिक्षेप लक्ष्मीर्निटले नखाग्रैः प्रस्वेदवारातपमाक्षिपन्ती । जुगोप देवोऽपि स रोमहर्षं जवाब्धि वाताहतिकैतवेन ॥४७॥
इति कन्दर्पसंभवे ।
एवमन्यत्रापि द्रष्टव्यम् । खरपाको यथा कल्याणेक्षण हेषया प्रकटितस्तम्भप्रतिष्ठाक्रमे मन्दाक्षच्छवि सुन्दरे ललितदृक्कोणक्रियातोरणे । भावोल्लासविलासके वरतनोरस्या मनोमण्टपे श्रीसिढद्धठ्ठड़;गक्षितिपालमूर्तिरयते साम्राज्यसिंहासनम् ॥४८॥
अत्र नारिकेलपाक इव विमर्शक्लेशेन विलंब्यास्वाददायी शब्दपरिणामः खरपाक इत्युच्यते । सोऽयमभ्यस्तकविभूमिकानां वक्रोक्तिवासनावासितान्तः करणानां विदग्धानां व्युत्पत्तिमात्रफलेषु लक्ष्यते । तथा हि मुरारेः तदात्वप्रोन्मीलन्म्रदिमरमणीयाः कठिनतां विचिन्त्य प्रत्यङ्गादिव तरुणभावेन नमितौ । स्तनौ संबिभ्राणाः क्षणविनयवैयात्यमसृण- स्मरोन्मेषाः केषामुपरि सरसानां युवतयः ॥४९॥
तथा नैषधकारस्य सर्वाणि रोमाण्यपि बालभावाद्वरस्त्रियं वीक्षितुमुत्सुकानि । तस्यास्तथा कोरकिताङ्गयष्टेरुद्ग्रीविकादानमिवान्वभूवन् ॥५०॥
यथा तस्यैव साधु त्वया तर्कितमेतदेव स्वेनानलं यत्किल संश्रयिष्ये । विनामुना स्वात्मनि तु प्रहर्तुं मृषा गिरं त्वां नृपतौ न कर्तुम् ॥५१॥
एवमन्यत्राप्यनुसंधेयम् । इति पाकविवेकः । शय्या पदानामन्योन्यमैत्री विनिमयासहा । स एवास्य पराकाष्ठा शय्या देशविभेदनः ॥३९ ॥
लोके प्रसिद्धमित्येषा प्राज्ञैः शय्येति कीर्तिता ॥४०॥
संरंभादनवोतसिङ्गनृपतेर्घाटीसमाटीकने निःसाणेषु धणं धणं धणमिति घ्वानानुसन्धायिषु । मोदन्ते हि रणं रणं रणमिति प्रौढा स्तदीया भटाः भ्राÏन्त यान्ति तृणं तृणं तृणमिति प्रत्यर्थिपृथ्वीभुजः ॥५२॥
यथा लीलालोकनलोलुपं मृगकुलं गन्ता गुहान्तानिमां- स्तत्क्रव्यग्रसन व्रतीह भविता द्वीपी रुषोद्दीपितः । याता तन्मृगयारतेर्वनमिदं श्रीसिङ्गभूपोदया- दित्यादिर्भयमादिशन्त्यरिनृपाः स्त्रीणामनीक्षाव्रतम् ॥५३॥
अत्र पदानां पर्यायपदसद्भावेऽपि परिवृच्यसहिष्णुत्वादन्योन्यमैत्रीरूपा शय्या । अत्र रसस्य पृथक्प्रकरणे प्रपञ्चनविवक्षया व्युत्क्रम्य वृत्तिपाकशय्यानां स्वरूपं निरूपितम् । इति शय्याविवेकः ।
इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासार शीतलायां चमत्कारचन्द्रिकायां गुणविवेको नाम चतुर्थो विलासः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-12-06T19:22:51.9070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ignition distributor

  • प्रज्वलन वितरक 
RANDOM WORD

Did you know?

मी ह्या साईट साठी काही करू शकते काय
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.