संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|अलंकारवती नाम पञ्चदशो लम्बकः| अन्तराख्यायिका अलंकारवती नाम पञ्चदशो लम्बकः रामाख्यायिका रूपलताख्यायिका अनङ्गप्रभाख्यायिका कार्पटिकाख्यायिका वीरवराख्यायिका नारायणदर्शनम् समुद्रशूराख्यायिका अन्तराख्यायिका चामराख्यायिका लुब्धाख्यायिका हिरण्यवर्णाख्यायिका अन्तर्नलाख्यायिका बन्धुमत्याख्यायिका अलंकारवती नाम अन्तराख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत अन्तराख्यायिका Translation - भाषांतर अंकारवतीवक्त्रपद्मचुम्बनषट्पदः । ततः सुहृद्धृतः कालं निनाय नरवाहनः ॥२१९॥अथ तं प्राह सेनानीस्तवासौ बालसेवकः ।राजा विक्रमतुङ्गाख्यो देव प्राप्तो जयश्रियम् ॥२२०॥ तव भ्रूभङ्गमात्रेण हेलया तव सैनिकैः । समरे विजितास्तस्य रिपवः पञ्च पार्थिवा ॥२२१॥ते च विक्रमतुङ्गेन स्वयं बद्धा महारणे । त्वत्पादमूलमानीता मानिनो वसुधाधिपाः ॥२२२॥ श्रुत्वेति राजतनये प्रहृष्टे प्राह गोमुखः । राजा विक्रमसेनस्ते सिद्धये देवसेवकः ॥२२३॥अत्रान्तरे वीरवृत्तं श्रूयतां कथयाम्यहम् ।बभूव हास्तिनपुरे चमरो नाम भूपतिः ॥२२४॥स गोत्राश्त्रुस्तस्यासीत्प्रतापो नाम पार्थिवः ।सहान्यैर्वसुधाधीशैः स तं जेतुं समुद्ययौ ॥२२५॥विजयारम्भवार्तायां प्रतापेन महीभुजा । पृष्टस्तं प्राह दैवज्ञो जयस्तव न दृश्यते ॥२२६॥न कालोऽयं तवोद्योगे मा प्रमादे मनः कृथाः । सुकाले विहितं सर्वमयत्नेनैव सिध्द्यति ॥२२७॥ कौतुकाख्ये पुरवरे राजा बहुसुवर्णकः । बभूव सर्वजनतास्वंकल्पसुरपादपः ॥२२८॥यशोधर्माभिधानस्तं कदाचिच्चिरसेवकः ।व्यजिज्ञपदुर्गतिर्मे क्ष्मापते वार्यतामिति ॥२२९॥पुनः पुनः प्रार्थ्यमानस्तेन राजा निरुत्तरः । दिवमालोक्य सुचिरादूचे सचिवसंसदि ॥२३०॥जानामि सेवकस्त्वं मे दीर्घकालमनन्यगः । दातुमिच्छामि ते सर्वं किं तु सूर्यो रुणद्धि माम् ॥२३१॥इति राज्ञो वचः श्रुत्वा मौनमूके सभातले । यशोधर्मा विनिःश्वस्य विधिं मेने दिवाकरम् ॥२३२॥ततः कदाचित्स नृपं राहुग्रस्तेंऽशुमालिनि । व्यजिज्ञपत्कुरुक्षेत्रे हेमरत्नाम्बरप्रदम् ॥२३३॥त्वत्प्रसादनिषेद्धा मे देवोऽयं भास्करो रिपुः । राहुणा शत्रुणाक्रान्तो देह्यस्मिन्मे क्षणे धनम् ॥२३४॥इति नर्मवता तेन विज्ञप्तः स महीपतिः । प्रहस्य सानुगस्तस्मै तुष्टो भूरि धनं ददौ ॥२३५॥महाव्ययोऽयं सुचिरान्न प्राप्य तद्रणक्षयम् । विविग्नहृदयः प्रायात्तपसे विन्ध्यवासिनीम् ॥२३६॥सा तुष्टा तं भोगान्धनं वासमवाप्नुहि । इति देव्या समुद्दिष्टो द्रष्टुं प्रायाद्वणिक्सुतौ ॥२३७॥एकं स संचयपरं ददर्श कृपणाशयम् । भोज्यलेशापराधेन प्राप्तः प्राप्तविसूचिकाम् ॥२३८॥धीरं निःसंचयं चान्यं सदा संभोगतत्परम् । स तौ दृष्ट्वा गिरिसुतां ययाचे भोगसंपदम् ॥२३९॥ देवीवरात्प्राप भोगान्स संपूर्णमनोरथः । इत्येवं काल्विहितं सर्वं भवति सिद्धये ॥२४०॥इत्यन्तराख्यायिका ॥८॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP