संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|अलंकारवती नाम पञ्चदशो लम्बकः| अन्तर्नलाख्यायिका अलंकारवती नाम पञ्चदशो लम्बकः रामाख्यायिका रूपलताख्यायिका अनङ्गप्रभाख्यायिका कार्पटिकाख्यायिका वीरवराख्यायिका नारायणदर्शनम् समुद्रशूराख्यायिका अन्तराख्यायिका चामराख्यायिका लुब्धाख्यायिका हिरण्यवर्णाख्यायिका अन्तर्नलाख्यायिका बन्धुमत्याख्यायिका अलंकारवती नाम अन्तर्नलाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत अन्तर्नलाख्यायिका Translation - भाषांतर गोमुखेनेति कथिते प्रहृष्टे नरवाहने । तत्स्पर्धाबन्धसंरब्धो मरुभूतिरभाषत ॥२८१॥चन्द्रस्वामीति विप्रोऽभून्नगरे कमलाभिधे । भार्या देवमती नाम तस्याभूदुचितव्रता ॥२८२॥महीपालाभिधं तस्यां स प्राप तनयं प्रियम् ।अलंकारं निजकुले कन्यां चन्द्रवतीं तथा ॥२८३॥कदाचिदथ दुर्भिक्षे भार्यामामन्त्र्य तां ययौ । श्वशुरावसथे न्यस्तं तं पुत्रं कन्यकां च ताम् ॥२८४॥पथि ग्रीष्मोपसंतप्तं संप्राप्तो जीवनं वनम् । शुशोच दृष्ट्वा तृष्णार्तौ बालौ शुश्यन्मुखाम्बुजौ ॥२८५॥निधाय तौ तथैकान्ते तदर्थं जलकाङ्क्षया ।स व्रजञ्शबराधीशमपश्यद्दारुणाकृतिम् ॥२८६॥तेन दुर्गोपहाराय नीते तस्मिन्निजालयम् । तौ बालकौ महाशोकवह्निसंतापमापतुः ॥२८७॥ ततो यदृच्छयायातो वणिक्सार्थवराभिधः । निजं निनाय कृपया तौ गृहं श्रुत््कथः ॥२८८॥चन्द्रवत्या समं स्वस्रा महीपालोऽथ तद्गृहे । श्रुतिस्मृतिक्रियासक्तश्चिरं तस्थौ द्विजाग्रणीः ॥२८९॥ ततस्तारावलोकस्य नृपतेः सचिवो द्विजः ।श्रीमान््तस्वामीति तं मित्रं प्राप सार्थपम् ॥२९०॥स तद्गृहे द्विजसुतं दृष्ट्वा कन्यां च विस्मितः । दत्तः सार्थवरेणैव प्रीतः पुत्रपदे व्यधात् ॥२९१॥अनन्तस्वामिनानीतौ तारापुरनिवासिनौ । तद्वधूभ्यां च यत्नेन सुताविति विवर्धितौ ॥२९२॥अस्मिन्नवसरे चन्द्रस्वामी शबरमन्दिरे । तुष्टाव भास्करं गाधनिगडाबन्धपीडितः ॥२९३॥तत्स्तोत्रतुष्टो भगवान्स्वप्ने शबरमंशुमान् ।आदिदेश कृपाविष्टो द्विजोऽयं त्यज्यतामिति ॥२९४॥तदाज्ञया परित्यक्तस्तेन सोऽथ सुताशया । चिन्तासंतप्तहृदयो बभ्राम निखिलां महीम् ॥२९५॥स पृच्चन्पथिकान्सर्वाञ्शुश्राव जलधेस्तटे । बालौ केनापि वणीजा प्राप्तावित्यस्फुटं पथि ॥२९६॥समुदरद्वीपविशयनगरग्रामगह्वरम् । स विविच्य शनैः प्राप क्षपायां निर्जनं वनम् ॥२९७॥ददर्श मातृकास्तत्र देवतायोगिनीगणैः । सेविताः कलिसंसक्ता नृत्यगीररसाकुलाः ॥२९८॥तत्रैका योगिनी प्राह निजां दृष्ट्वानुयायिनीम् । निरीक्ष्यमाणां विप्रं सा साभिलाषं सविभ्रमाम् ॥२९९॥अयि किं त्वमदृष्टेऽसि विप्रेऽस्मिन्नभिलाषिणी । पुरा नपुंसकं प्राप सुन्दरी राजकन्यका ॥३००॥ भर्तारं निशि शय्यायां तं दृष्ट्वा दुःखिताभवत् । सा पित्रे प्रेशयामास दूतं सोऽप्याययौ रुषा ॥३०१॥ नपुंसकेन मत्कन्या दूषितेति रणोन्मुखः । भयात्तस्याथ जामाता मन्त्रेणाराध्य गुह्यकम् ॥३०२॥अवाप्य पौरुषं लिङ्गं सिषेवे सुन्दरीं पुनः ।त्वमप्यज्ञातशीलेऽस्मिन्मा कृथाः सादरं मनः ॥३०३॥तामित्युक्त्वा समभ्येत्य पप्रच्छ ब्राह्मणं ततः । अप्यस्यां साभिलाषस्त्वं न वेति द्विज कथ्यताम् ॥३०४॥सोऽब्रवीद्देवि मनसः स्वभावो ह्यभिलाषिता ।किं त्वहं त्वविवेकेन रक्षाम्यनुचितादिति ॥३०५॥तच्छ्रुत्वा वरदा देवी तस्मै नीलोत्पलं ददौ । सर्वार्थसिद्धिमेतेन प्राप्स्यसीत्यभिधाय सा ॥३०६॥तत्प्राप्य स व्रजन्प्रातर्गत्वा तारापुरं शनैः । हा कष्टमिति शुश्राव जनकोलाहलं महत् ॥३०७॥किमेतदिति पृष्ट्वासौ पौरेभ्यः स्वामिनो महत् ।अनन्तस्वामिनः सूनुर्दत्तको नृपमन्त्रिणः ॥३०८॥सर्पेण दष्टः श्रुत्वेति तमपश्यव्द्यसुं ततः । नीलोत्पलप्रभावेन जीवयित्वा स तं क्षणात् ॥३०९॥कण्ठे जग्राह सोत्कण्ठं परिज्ञाय निजात्मजम् ।ततो बन्धुमतीं नाम तनयां गुणशालिनीम् ॥३१०॥ददौ तारावलोकोऽस्मै राज्यार्धं च नरेश्वरः । प्राप्तराज्यं महीपालं चन्द्रस्वामी ततः सुतम् ॥३११॥तं रहः प्राह जननीं द्रष्टुमेहि निजां पुरीम् । सा हि दीर्घवियोगेन किं तु जीवति वा न वा ॥३१२॥तामादाय पुनः पुत्र समेष्यावः क्षणादिति ।तव संप्राप्तराज्यस्य गुरुभक्तिर्विभूषणम् ॥३१३॥ लक्ष्मीलताकुठारो हि गुरुशापः सुदुःसहः । चक्रस्य वणिजः पूर्वं पितुरादेशखण्डनात् ॥३१४॥ज्वालाकुलं मूर्ध्नि चक्रं पपातात्यन्तदुःसहम् । पितरौ सेवमानस्य धर्मव्याधस्य कोऽप्यभूत् ॥३१५॥ज्ञानप्रकाशो येनास्य शिष्यतां मुनयो ययुः । इति पित्रा समादिष्टः स ययौ मातुरन्तिकम् ॥३१६॥याते तस्मिन्वियोगार्ता बन्धुमत्यभवत्ततः । सा दुःखिता मातृगिरा सत्रागारमकारयत् ॥३१७॥ नानादेशगतामेकद्विजविश्रान्तिपादपम् ।ततः संगमदत्ताख्यो द्विजन्मा तीर्थशालिनीम् ॥३१८॥ भ्रान्त्वा वसुमतीं लेभे स तत्र स्नानभोजनम् ।बन्धुमत्या स पृष्टोऽथ वियोगे दुःखभेषजम् ॥३१९॥उवाच पुण्ययोगेन निजं भर्तारमाप्स्यसि । स्वयमेव मयाश्चर्यं दृष्टं श्रृणु पतिव्रते ॥३२०॥भ्रान्त्वा निखिलतीर्थानि हिमशैलसरोवरे । उत्थितं दिव्यपुरुषं दिव्याभरनभूषितम् ॥३२१॥अपश्यं दिव्यनारीभिः सेव्यमानं सरोवरात् । रममाणे ततस्तस्मिंस्तत्र लीलावतीसखे ॥३२२॥केलिक्रान्ते क्षणं सुप्ते कोऽपि राजा समाययौ । स समभ्येत्य निद्रालोः खङ्गं तस्यान्तिके स्थितम् ॥३२३॥गृहीत्वा तत्प्रभावेण तं जघान पदा ततः । तस्मिन्निरस्ते विभ्रष्टविद्ये निपतिते तटात् ॥३२४॥स राजा तद्वधूयुग्मं प्राप्य मामवदत्ततः । एष पाशुपताचार्यो मया सह पुरा व्यधात् ॥३२५॥पातालसिद्धिखङ्गोऽयं दिव्यः प्राप्तस्ततो मया । छद्मना मम सुप्तस्य हृत्वा खङ्गमिमं निशि ॥३२६॥पापः प्रयातो नभसा दिव्यस्त्रीसङ्गसिद्धिदम् । अद्य द्वादशभिर्लब्धः सोऽयं संवत्सरैर्मया ॥३२७॥निधनार्होऽपि न हतः सिद्धयोऽपि हृतास्तु ताः । इत्युक्त्वा सरसो मध्ये दिव्यमाणिक्यमन्दिरम् ॥३२८॥सहैवामरकान्ताभ्यां स विवेश नरेश्वरः ।इति बन्धुमती श्रुत्वा चित्रमुक्तं द्विजन्मना ॥३२९॥बबन्ध धैर्यं धर्मस्था सती दयितसंगमे ।कदाचिदपरोऽभ्येत्य तां द्विजः सत्रशालिकाम् ॥३३०॥ भुक्त्वा विज्ञातवृत्तान्तः प्राह बन्धुमतीं कृशाम् । निषधेशु नलो नाम भूपालो ललिताकृतिः ॥३३१॥अभूद्गुणगणोद्यानविकाशकुसुमाकरः । मृगयारसिकः सोऽथ कदाचित्कनकप्रभाम् ॥३३२॥बबन्ध हंसांस्ते चाहुर्मुञ्चास्मांस्त्वं महीपते । सुता विदर्भराजस्य भीमस्यास्ति सुमध्यमा ॥३३३॥दमयन्तीति विख्याता वयं तत्केलिसारसाः ।ते वयं भवता मुक्ताः करिष्यामः प्रियं तव ॥३३४॥भविष्यसि तृतीयेन तन्मुखाम्भोजषट्पदः । इति श्रुत्वैव तत्याज हंसान्व्याप्तो मनोभुवा ॥३३५॥श्रुतेनापीप्सितं वस्तु कस्य धैर्यं न कर्षति ।ते गत्वा दमयन्त्यै तं कथयन्तो न्यवेदयन् ॥३३६॥सौभाग्यमिव साकारं प्रत्यक्षमिव मन्मथम् ।शनकैर्विरहक्षामौ तौ गुणाकर्णनाम्निथः ॥३३७॥दिनैर्बभूवतुः प्रौधशरताकाण्डपाण्डुरौ । अथ राजसुता ध्यात्वा नलसंगमवाञ्छया ॥३३८॥नृपेभ्यः प्राहिणोद्दूतान्पितुर्वाक्यात्सयंवरे । समागतेषु भूपेषु लोकपालाः समाययुः ॥३३९॥शक्राद्या नारदगिरा कन्यावरणलोलुपाः । साभिलाषां नले ज्ञात्वा दमयन्तीं दृढव्रतामामम ॥३४०॥तद्रूपा एव विविशुः स्वयंवरसभां सुराः । निर्विशेषान्नलान्दृष्ट्वा दमयन्ती भुवि स्थिता ॥३४१॥छायाद्वितीयमवृणोत्परिज्ञाय नलं धिया । ज्ञात्वा देवाः स्वमाकारं विधाय प्रददुर्वरान् ॥३४२॥नलरूपाय संतुष्टाः स्मरणाच्च स संनिधिम् ।दमयन्तीं समादाय स्वपुरं नैषधे गते ॥३४३॥द्वापरेण कलिः सार्धं कन्यालोभात्समाययौ । वृतस्तया नलो राजा गच्छ वृत्तः स्वयंवरः ॥३४४॥श्रुत्वेति देववचनं वृद्धः प्रायात्कलिर्नलम् ।तदाविष्टः स नृपतिः सगोत्रेणाथ शत्रुणा ॥३४५॥केनापि पुष्कराख्येन जित्वारण्यं विवासितः ।दमयन्त्या स सहितः काननं प्राप्य निर्जनम् ॥३४६॥गृहीतुं वाससा हंसान्क्षुत्क्षामः क्षिप्रमुद्ययौ । कलिद्वापरनिर्दिष्टास्ते हंसास्तूर्णमंशुकम् ॥३४७॥जह्नुस्तस्य ततः सोऽपि दयितार्धाम्बरं श्रितः । तावेकवसनाद्दूरं गत्वा प्राप्य वनान्तरम् ॥३४८॥निषण्णौ स्थण्डिले तृष्णाशुष्यद्वदनपङ्कजौ । दमयन्त्यां प्रसुप्तायां नलः कलिविमोहितः ॥३४९॥कृत्वा शस्त्रेण वस्त्रार्धं प्रययौ दैवविप्लुतः । स गत्वा पुनरभ्यायात्पुनः प्रायात्स दुःखितः ॥३५०॥दोलाविलोलहृदयो रागान्मोहाच्च भूपतिः । त्रायस्वेव्ति समाकर्ण्य शब्दं गत्वा वनान्तरम् ॥३५१॥दावानलादुज्जहार कर्कोटं पन्नगोत्तम म् ।ततस्तद्विशफूत्कारैर्यातः क्षिप्रं विवर्णताम् ॥३५२॥हस्वोऽविटङ्कवदनः सोऽभवन्नृपशेखरः । ऋतुपर्णस्य नगरीमयोध्यां प्राप्य दुःखितः ॥३५३॥प्राप्तनागांशुकस्तस्थौ सूदसारथ्यकर्मणि । दमयन्ती प्रबुद्धापि प्राणनाथविनाकृता ॥३५४॥विललापातिकरुणं दृषदामपि दारणम् । क्कसि मे हृदयाधीश फुल्लपद्मदलेक्षण ॥३५५॥ तां दुष्टाजगरेणाशु ग्रस्तां वा क्रोशतीं मुहुः । तामाकर्ण्यागतो व्याधो हत्वा दुष्टं मुमोच ताम् ॥३५६॥ ततः कामातुरो भूतकोपाद्भस्म चकार तम् । इति क्षामाक्षरं बाला शोचन्ती सा ययौ शनैः ॥३५७॥कालेन वैदर्भपुरीं पितुः प्राप्य सुमध्यमा । एकवेणीव्रता तस्थौ नलसंगमवाञ्छया ॥३५८॥सा ततः प्राहिणोद्विप्रान्विचेतुं निशधाधिपम् । पृथिवीं ते च तद्गाथा गायन्तो बभ्रमुश्चिरम् ॥३५९॥ऋतुपर्णपुरे धीमानेको विप्रश्चरन्मुहुः । जगौ विगुणयंस्तत्र नलस्याद्भुतचेष्टितम् ॥३६०॥मनोरथमपि च्छित्वा वाससोऽर्धं गतो ह्यसि । प्राणेश्वर प्रियां भार्यां क्क नु त्यक्त्वा विमोहिताम् ॥३६१॥ द्विजस्येत्यथ सारथ्यच्छन्नस्तुरगमन्दिरम् । श्रुत्वैव विकटाकारः सास्रोऽभूद्बाहुकाभिधः ॥३६२॥सोऽब्रवीद्दैवदग्धानां दुष्कर्महतचेतसाम् । निकारं करुणापूर्णः सहन्ते सरलाशयाः ॥३६३॥ बाहुकस्येति वचनं श्रुत्वा साश्रुदृशो वचः । अयोध्यां ब्राह्मणो गत्वा दमयन्त्यै न्यवेदयत् ॥३६४॥ सापि स्वयंवरव्याजादृतुपर्ण्म महीभुजम् । एकेनैव निनायाह्ना लङ्घितानेकयोजनम् ॥३६५॥स वाजिहृदयज्ञेन बाहुकेनाश्ववाहिना । ध्यात्वायोध्याधिपं प्राप्तं नलं सूतमशङ्कत ॥३६६॥ ऋतुपर्णप्रदिष्टं च प्राप्याक्शहृदयं नलः । नागांशुकेन तत्याज बाहुकस्तां विरूपताम् ॥३६७॥कर्कोटविषदग्धोऽथ तच्छरीराद्विनिर्गतः । कलिर्विभीतकतरुं विवेश भयविह्वलः ॥३६८॥ततः स्वरूपसुभगं नलं पद्मदलेक्षणम् । दमयन्ती समासाद्य हृष्टा निर्वॄतिमाययौ ॥३६९॥ नलोऽपि स्वपुरं गत्वा सानुगो वल्लभासखः । द्यूतेन पुष्करं जित्वा निजं राज्यमवाप्तवान् ॥३७०॥इति वैदर्भतनया दयितं प्राप सुन्दरी । त्वमप्येवं महीपालं द्विजेन्द्रं पतिमाप्स्यसि ॥३७१॥ इत्यन्तर्नलाख्यायिका ॥१२॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP