संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|अलंकारवती नाम पञ्चदशो लम्बकः| कार्पटिकाख्यायिका अलंकारवती नाम पञ्चदशो लम्बकः रामाख्यायिका रूपलताख्यायिका अनङ्गप्रभाख्यायिका कार्पटिकाख्यायिका वीरवराख्यायिका नारायणदर्शनम् समुद्रशूराख्यायिका अन्तराख्यायिका चामराख्यायिका लुब्धाख्यायिका हिरण्यवर्णाख्यायिका अन्तर्नलाख्यायिका बन्धुमत्याख्यायिका अलंकारवती नाम कार्पटिकाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कार्पटिकाख्यायिका Translation - भाषांतर गोमुखेनेति कथितं श्रुत्वा वत्सेश्वरात्मजः । जहास तस्या वृत्तान्तमलंकारवतीसखः ॥१६६॥ कदाचिदथ तं प्राह राजपुत्रं सुहृद्युतम् । मरुभूतिः कृपाविष्टो दृष्ट्वा कार्पटिकं पुरः ॥१६७॥शीतवातातपसहो सदैव त्वत्परायणः । नाद्यापि परमां लक्ष्मीं प्राप्त इत्यद्भुतं महत् ॥१६८॥प्राग्दत्तं भुञ्जते सर्वे कर्तुं वा कस्य कः क्षमः ।तवापि यत्कार्पटिकः पदं नाद्यापि संपदाम् ॥१६९॥इत्युक्ते राजपुत्रस्य पुरतो मरुभूतिना । गोमुखः प्राह सदृशं श्रूयतामेवमत्र च ॥१७०॥ अभूत्प्लक्षपुरे श्रीमान्प्लक्षदत्ताभिधो नृपः । लब्धदत्ताह्वयस्तस्य भक्तः कार्पटिकोऽभवत् ॥१७१॥चिरसेवापरिक्लिष्टं तं विज्ञाय स पार्थिवः । गूढं रत्नैः समापूर्य फलं तस्मै ददौ स्वयम् ॥१७२॥ मातुलुङ्गफलं प्राप्य सोऽपि राज्ञा समर्पितम् । अभिदध्यौ तदद्यापि नाहं लक्ष्मीनिरीक्षितः ॥१७३॥इति चिन्तापरो गत्वा यदृच्छोपगताय सः । भक्तः कार्पटिकस्तस्य तत्फलं भिक्षवे ददौ ॥१७४॥राजा नन्दिरिति ख्यातः स भिक्षुस्तन्महीभुजे । हस्तोपायनमास्थाने मातुलुङ्गफलं ददौ ॥१७५॥राजापि रत्नसंफूर्णं तत्परिज्ञाय सस्मितः । ( पुनः कार्पटिकायैव स तस्मै प्रददौ फलम् ॥१७६॥राज्ञा दत्तं तदादाय दुःखितोऽसौ व्यचिन्तयत् ) । अहो रत्नाकरजुषा मया प्राप्तः कपर्दकः ॥१७७॥इति ध्यात्वा मयाख्यस्य तद्ददौ राजसेविनः ।( वस्त्रयुग्मेन संतुष्टो मन्यमानोऽधिकं धनम् ॥१७८॥अभयोऽपि फलं गत्वा भूभुजे तन्न्यवेदयत् । भूयः कार्पटिकायैव प्रादात्तच्च फलं नृपः ॥१७९॥तद्विलासवती नाम फलमादाय नर्तकी । मूल्येन तस्मादनयद्भूपालोपायनास्पदम् ) ॥१८०॥ राजा पुनस्तदासाद्य सावेगं स्मितसुन्दरः । तं कार्पटिकमुद्दिश्य चिक्षेप मणिमत्फलम् ॥१८१॥वेगावपानस्फुटितफलोदरविनिर्गतैः । रत्नैरिन्द्रायुधच्छायैस्तस्योत्सङ्गमपूर्यत ॥१८२॥ प्रक्षीणदुष्कृतो लक्ष्म्या कटाक्षैरिव लक्षितः । तैर्महारत्ननिकरैः सोऽभवत्संपदां निधिः ॥१८३॥इत्यनिस्तीर्णदुष्कर्मसंकटैः श्रीर्न लभ्यते । तवापि सेवको देव यन्नाद्यापि पदं श्रियः ॥१८४॥इति कार्पटिकाख्यायिका ॥४॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP