संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|अलंकारवती नाम पञ्चदशो लम्बकः| समुद्रशूराख्यायिका अलंकारवती नाम पञ्चदशो लम्बकः रामाख्यायिका रूपलताख्यायिका अनङ्गप्रभाख्यायिका कार्पटिकाख्यायिका वीरवराख्यायिका नारायणदर्शनम् समुद्रशूराख्यायिका अन्तराख्यायिका चामराख्यायिका लुब्धाख्यायिका हिरण्यवर्णाख्यायिका अन्तर्नलाख्यायिका बन्धुमत्याख्यायिका अलंकारवती नाम समुद्रशूराख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत समुद्रशूराख्यायिका Translation - भाषांतर ततः कदाचिदाकर्ण्य तूर्यशब्दं पुरान्तिके । किमेतदिति पप्रच्छ सचिवान्नरवाहनः ॥२०२॥ ततो हरिशिखः प्राह भद्रस्य वणिजो गृहे ।कौशाम्बीवासिनो देव वर्तते विपुलोत्सवः ॥२०३॥लब्धो निजगृहोपान्तान्निधिस्तेन महाधनः । कृपया वत्सराजेन न चात्तस्तन्निवेदितः ॥२०४॥तत्प्रसादाद्गृहं तस्य वणिजः प्रस्तुतोत्सवे । सुतारस्तूर्यशब्दोऽयं रुणद्धि निखिलां पुरीम् ॥२०५॥उक्ते हरिशिखेनेति गोमुखः प्राह सस्मितः । अस्त्येवमेव धन्यानां विधाता वाञ्छितप्रदः ॥२०६॥ पुरा समुद्रशूरेण वणिजा द्वीपगामिना । भग्ने प्रवहणे प्राप्तो जलोच्छूनः शवोऽ)म्बुधौ ॥२०७॥तेनैवोत्तीर्य जलधेर्हमद्वीपमवाप्य सः । शववस्त्राञ्चलासक्तां मणिमालामवाप्तवान् ॥२०८॥तां कण्ठसूत्रिकां पूर्वं स चौरो राजमन्दिरात् । हृत्वा जलौघान्निःसॄत्य ममज्ज जलधौ भयात् ॥२०९॥तां व्यसोस्तस्य चोरस्य स गृहीत्वा पुरान्तरम् । प्रविश्य पादपतले श्रान्तो निद्रां समाययौ ॥२१०॥मणिमालां परिज्ञाय स राजपुरुषैर्बलात् ।नृपतेरन्तरं नीतस्तत्कोपाकुलिताकृतेः ॥२११॥अत्रान्तरे रत्नमालां गृध्रस्तामहरच्छलात् । ( हृतेयमिति भूपालपुरः प्रतिसृता जनैः ॥२१२॥आदिष्टे वणिजे राज्ञा वधे शब्दोऽभवद्दिवि । वणिक्समुद्रशूरोऽयं निर्दोष इति कर्मतः ) ॥२१३॥ततः संपूजितो राज्ञा शतैस्तद्वाक्यगौरवात् । तीर्त्वा प्रवहणेनाब्धिं वेलातटमवाप्तवान् ॥२१४॥तत्रास्य शबराः सर्वं जगॄहुर्धनसंचयम् । स हृतद्रविणो गत्वा निषसाद तरोरधः ॥२१५॥नीडे महाद्रुमस्याधस्तामेव मणिसूत्रिकाम् । लम्बमानां विलोक्याराद्गृध्रन्यस्तामवाप्तवान् ॥२१६॥पृथ्वीमूल्यानि रत्नानि तस्मादिव खगालयात् । स प्राप्य स्वग्रुहं प्रायाद्वणिग्वैश्रवणोपमः ॥२१७॥इति लाभक्षयाभ्यासाद्धन्यानामेव पुण्यतः । उदयान्ता भवन्त्येवमुक्त्वैव विरराम सः ॥२१८॥इति समुद्रशूराख्यायिका ॥७॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP