TransLiteral Foundation

किष्किंधाकांडम् - काव्य ३०१ ते ३५०

किष्किन्धाकाण्डम् या प्रकरणातील श्लोकातील चवथे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ३०१ ते ३५०
न कृतं रा घवस्येष्टं कार्यं राज्ञश्च शासनम्
अस्माकमियमज्ञाता विपत्तिः सहसागता. ॥३०१॥
प्रियका म स्तथा धन्यो जटायुर्गृध्रनायकः
रावणान्मरणं प्राप्तः स गतिं परमां गतः. ॥३०२॥
प्राणान्प्र ज हता तेन गृध्रेंद्रेण जटायुषा
प्रियं कृतं दाशरथेः सख्युः सूनोर्महात्मनः. ॥३०३॥
तथा व य मपि प्राणान् रामस्यैव महाप्रभोः
प्रियार्थ निश्चितास्त्यक्तुं स्नेहस्यानृण्यतार्थिनः. ’ ॥३०४॥
स गृध रा जस्तच्छ्रुत्वा तानुवाच प्लवंगमान्,
‘ कोऽयं गिरा घोषयति भ्रातुर्मम जटायुषः ? ॥३०५॥
प्रियस्य म रणं कीशाः कंपयन्मे भृशं मनः
सूर्यांशुदग्धपक्षत्वादक्षमोऽहं विसर्पितुम् ॥३०६॥
समीपं ज गतीभृत्तो नीत्वा मां दयया द्रुतम्
वृत्तं यवीयसः कीशाः ! कथयध्वं सविस्तारम्. ’ ॥३०७॥
ते तु प्रा य गताः कीशाः श्रद्दधुर्नैव तद्वचः
वंचनं भक्षणार्थं नः करोतीत्येव मेनिरे. ॥३०८॥
तारात्म ज प्रभृतयश्चक्रुः क्रूरां मतिं तदा,
‘ सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति, ॥३०९॥
झटित्य य त्रतः सर्वे वयमत्र वनौकसः
कृतकृत्या भविष्यामः सिद्धिमिष्टामितो गताः. ’ ॥३१०॥
ततस्ता रा त्मजः शृगादवतार्य गिरेः स्वयम्
कथयामास गृध्राय तस्मै वृत्तांतमादितः. ॥३११॥
स श्रुत्वा म रणं भ्रातुः संपाती रावणात्तथा
रुरोदोवाच च कपीन् बाष्पसंदिग्धया गिरा, ॥३१२॥
‘ वियात श्री रद्य वृद्धः शृण्वंस्तदपि मर्षये,
अशक्तो दग्धपक्षत्वाद्भ्रातुर्वैदविमोक्षणे. ॥३१३॥
आवां पु रा वृत्तवधे वृत्ते बंधू जयैषिणौ
आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम्. ॥३१४॥
प्राप्तेऽर्के म ध्यमत्यार्तो जटायुरभवत्तदा
आच्छादितः स पक्षाभ्यां मया स्नेहेन वानराः ! ॥३१५॥
तदानु ज मवन् जातो दग्धपक्षोऽर्कतेजसा
तप्तोऽहं पतितो विंध्ये पर्वतेऽस्मिन् यदृच्छया. ॥३१६॥
गुहाल य इह भ्रातुस्ततः प्रभृति काचन
प्रावृत्तिर्न मया लब्धा श्रुतद्यैवेयमीदृशी. ’ ॥३१७॥
गृध्रं ता रा त्मजः प्रह, ‘ रावणं रावणालयम्
अंतिके यदि वा दूरे यदि जानासि शंस नः. ’ ॥३१८॥
विहंग म पतिः प्राह, ‘ लोकान् वेद्म्यखिलानहम्
क्षीरधेर्मथनं देवासुरयुद्धं त्रिविक्रमम् ॥३१९॥
हृतं मे ज रया तेजः प्राणाश्च शिथिला मम
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया. ॥३२०॥
दृष्टा वि य ति रूपाढ्या सर्वाभरणभूषिता
क्रोशंती रामरामेति लक्ष्मणेति च भामिनी. ॥३२१॥
तामहं ज गतीभर्तुर्जनकस्य महात्मनः
रावणेन हृतां कन्यां मन्ये रामस्य कीर्तनात्. ॥३२२॥
इतस्तो य निधेर्द्वीपे पूर्लंका शतयोजने
तामध्यास्ते विश्रवसस्तनुजो रावणाभिधः. ॥३२३॥
तस्यां सा रा जतनया रावणांतःपुरे सती
रुद्धा वसति लंकायां राक्षसीभिः सुरक्षिता. ॥३२४॥
द्राग्विक म ध्वं प्लवगाः ! सीतां द्रक्षथ तत्र ताम्
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ. ॥३२५॥
इहस्थः श्री मतीं सीतां तं च पश्यामि रावणम्
आ योजनशतात्साग्राद्गृध्राः पश्यंति नित्यशः. ॥३२६॥
मां वान रा ! भवंतोऽब्धिं नयंतु भृशदुर्बलम्
प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः. ’ ॥३२७॥
तथा ते म र्कटाश्चक्रुः स्वदेशे स्थापितं पुनः
उवाच जांबवान्, ‘ दृष्टा त्वया वान्येन जानकी ? ’ ॥३२८॥
तमंड ज वरः प्राह, ‘ सुपार्श्वो नाम मत्सुतः
आहारार्थं गतः प्रातः प्राप्तः सायमनामिषः. ॥३२९॥
पुत्रः प्रिय य करोऽप्यंग ! क्षुधितेन मया भृशम्
दुर्वाक्यैः पीडितः साधुर्मामुवाच क्षमापयन्. ॥३३०॥
ताताहा रा र्थमुद्युक्तो महेंद्रेऽहं नगे स्थितः
व्योम्न्यपश्यं स्त्रियं गौरीं हरंतं कज्जलप्रभम्. ॥३३१॥
गृहीतु म हमाहारमुत्प्लुतः पुरुषं स्त्रियम्.
स पुमान् प्रांजलिः प्राह मार्गं देहीति मां पितः ! ॥३३२॥
त्यक्तः स ज नक ! प्रह्व मया तूर्णं ततो गतः
न हि सामोपपन्नानां प्रहर्ता विद्यते भुवि. ॥३३३॥
सभाज य द्भिर्मां सिद्धैः पश्चादिति निवेदितम्
स रावणः सा च सीता रामस्य दयिता सती. ॥३३४॥
नंदिनीं ज नकस्यार्यां स्नुषां दशरथस्य ताम्
पश्यन् स्थितोऽहं रामेति लक्ष्मणेति च वादिनीम्.॥३३५॥
कालात्य य स्य तातायं हेतुस्तेन निरामिषः
आगतोऽहमिति प्राह सुपार्श्वस्तनयो मम. ॥३३६॥
निशाक रा ख्यः सुतपा मुनिर्मामब्रवीत्पुरा,
‘ तिष्ठेह विष्णो रामस्य त्वं साहाय्यं करिष्यसि. ॥३३७॥
नाथेन म नुवंशस्य जानक्याः परिमार्गणे
प्रेषिताः कपयो दूता एष्यंतीह महाबलाः. ॥३३८॥
आख्येया श्री मतस्तेभ्यः संपाते महिषी त्वया
सर्वथा न तु गंतव्यमीदृशः क्क गमिष्यसि ? ॥३३९॥
कार्ये सु रा णां विप्राणां रामस्येंद्रस्य चात्मनः
इह स्थित्वा कृते वत्स ! त्वं सपक्षो भविष्यसि. ॥३४०॥
मुनिर्मा म ब्रवीदेवं पश्चास्त्वर्गं जगाम सः
साग्राण्यष्टौ सहस्राणि वर्षाण्यत्राभवन्मम. ॥३४१॥
मयात्म ज स्तदात्यर्थं वाग्भिः संतर्जितो रुषा
तेन सत्यपि सामर्थ्ये न त्राता जानकी यतः. ॥३४२॥
सप्रत्य य मिदं तस्य निशाकरमुनेर्वचः
तत्प्रसादान्नवौ पक्षावुत्पन्नौ मम पश्यत. ’ ॥३४३॥
तान्वान रा नुवाचाथ संपातिर्गृध्रभूपतिः,
‘ पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः. ’ ॥३४४॥
विहंग म स्तदेत्युक्त्वा जिज्ञासुः स्वां गतिं ततः
उत्पपात गिरेः शृंगात्पुरस्तरुणवन्मुदा. ॥३४५॥
श्रुत्वांड ज स्य वचनं ते लब्धप्रत्ययास्तदा
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः. ॥३४६॥
प्रेक्ष्य तो य निधिं कीशा आकाशमिव दुस्तरम्
निषेदुः सहिताः कार्यं कथमित्यब्रुवंस्तदा. ॥३४७॥
वाल्यात्म ज स्तानुवाच, ‘ किं विषण्णाः प्लवंगमाः ?
विषादो हंति पुरुषं बालं क्रुद्ध इवोरगः. ॥३४८॥
कोऽद्य तो य निधिं वीरो लंघयिष्यति तेजसा ?
कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम् ? ॥३४९॥
सुतान्दा रा न् प्रसादेन कस्य पश्येम संगताः ?
यदि कश्चित्समर्थो नो ददात्वभयदक्षिणाम्. ॥३५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:38.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

short circuit ratio

  • Elec.Eng. लघुपथ गुणोत्तर (लघुपरिपथ गुणोत्तर) 
  • लघु परिपथ गुणोत्तर 
RANDOM WORD

Did you know?

श्रीयंत्रातील चक्र आणि त्रिकोण कशाचे प्रतिक आहेत?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.