TransLiteral Foundation

किष्किंधाकांडम् - काव्य १ ते ५०

किष्किन्धाकाण्डम् या प्रकरणातील श्लोकातील चवथे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य १ ते ५०
तां पं पां श्री मतीं प्रपय स्मृत्वा सीतां रघूत्तमः
विललाप भृशं, कांतावियुक्तः को न विह्वलः ? ॥१॥
‘ पश्य वीरात्र सुखिनः कांतान् कांतान्वितान् खगान्
दुःखास्पदमहं सा च वसंतेऽद्य मम प्रिया. ॥२॥
धन्याः स म य एतस्मिन्ये ये कांताभिरन्विताः
तन्वि ! तारयितुं त्वाहं नालं, मे कैव धन्विता ? ॥३॥
वसंते ज नितानंदे स्त्रीमतां श्रीमतां सताम्
न तां लभेऽहं यां प्राप्तो मुदं प्राणभृतां मताम् ॥४॥
सा मे प्रिय य तमा सीता मरिष्यति मया विना
अहं च तामृते, वत्स ! त्वं साधुं भरतं व्रज. ॥५॥
न हि तां रा जतनयां सुकेशीं मृदुभाषिणीम्
अपश्यतो मे सौमित्रे ! जीवितेऽस्ति प्रयोजनम्, ॥६॥
अयं हि म दिराक्ष्या मे वसंतोऽत्यंतमीप्सितः
नूनं परवशा सीता सापि शोचत्यहं यथा. ॥७॥
वक्ष्यामि ज ननीं किं नु स्त्रुषा मे क्केति वादिनीम्
पृष्टसीतं च जनकं गुरुं दुहितृवत्सलम्.; ॥८॥
अथवाऽ य शसा स्पृष्टमात्मानं त्यजतो मम
केयं चिंता वृथा वत्स ! मामनुज्ञातु मर्हसि. ’ ॥९॥
इत्यग्र ज मतीवार्तं क्लिपंतमनाथवत्
तं सौमित्रिरुवा ‘ चार्य ! न त्वं शोचितुमर्हसि. ॥१०॥
त्यज प्रि य जने शोकं स्मृत्वा दुःखं वियोगजम्
अतिस्त्रेहपरिष्वंगाद्वर्तिरार्द्रापि दह्यते. ॥११॥
सर्वथा रा वणस्तात ! न भविष्यति पापकृत्
यदि गच्छति पातालं ततोऽभ्यधिकमेव वा. ॥१२॥
प्रवृत्तौ म नुजाधीश ! लब्धायां तस्य सर्वथा
भविता कृतकार्यस्त्वं वधिष्याम्यहमेव तम्. ॥१३॥
उत्साहः श्री मता कार्य आर्य ! मार्यसवोऽक्षयाः
महात्मानं कृतात्मानमात्मानं किं न बुध्यसे ? ॥१४॥
धीरा वी रा महात्मानो नैवं कुर्वंति गर्हितम्
चोरस्य तस्य काहंता हंताहं तात ! तं रणे. ’ ॥१५॥
रामः सा म पटोर्भ्रातुर्गिरा प्राप्य पुनर्धृतिम्
पंपातोयं सुधाधारासंपातोऽयं सतां पपौ. ॥१६॥
पंपातो ज ग्मतुर्वीरावृष्यमूकं महागिरिम्
तौ दृष्ट्वैव वितत्रास सुग्रीवः कपिकुंजरः. ॥१७॥
आंजने य स्ततस्तेन प्रेषितो राघवांतिकम्
नत्वा xपसवेषेण तावुवाच विचक्षण, ॥१८॥
‘ महाप रा क्रमौ देवप्रतिमौ तापसव्रतौ
देशं कथमिमं प्राप्तौ त्रासयंतौ व नौकसः ? ॥१९॥
कौ युवां म हिमावासौ द्युतिमंतौ धनुर्धरौ
यदृच्छयेव संप्राप्तौ चंद्रसूर्यौ वसुंधराम्. ॥२०॥
कीशरा ज स्तीक्ष्णदंडो वाली, तेन निराकृतः
सुग्रीवो नाम तद्भ्राता जगद्भ्रमति दुःखितः. ॥२१॥
तेनाहं य क्षपेंद्राभौ प्रेषितः पवनात्मजः
भिक्षुरूपप्रतिच्छन्नो हनूमान्नाम वानरः. ॥२२॥
सोऽद्य ते ज स्विवर्याभ्यां युवाभ्यां सख्यमिच्छति
कामरूपः कामचारी तस्याहं सचिवः प्रियः. ’ ॥२३॥
कौसल्ये यस्तु तच्छ्रुत्वा, स्तुत्वा तं, प्राह लक्ष्मणम्
‘ वत्सायं पंडितः, शक्यं वक्तुं नैवेदृगन्यथा. ’ ॥२४॥
तं वान रा धिपस्याप्तं सचिवं प्राह लक्ष्मणः
‘ विदिता नो गुणा विद्वन् ! सुग्रीवस्य महात्मनः. ॥२५॥
तमेव म तिमन्नावां मार्गावः प्लवगेश्वरम्
करिष्यावः प्रियं तस्य वचनात्तव सत्तम् ! ’ ॥२६॥
पप्रच्छ श्री मतो वृत्तं रामस्य पवनात्मजः
सौमित्रिः कथयामास, ‘ ख्यातो दशरथः प्रभुः ॥२७॥
तस्यायं रा ज सिंहस्य ज्येष्ठः पुत्रो महाबळः
रामो नाम वनं प्राप्तस्तद्गिरा तापसव्रतः. ॥२८॥
भ्राताह म स्य नाथस्य लक्ष्मणो नाम किंकरः
भार्या रामस्य दयिता सीता नाम जनैः श्रुता ॥२९॥
तनया ज नकस्यार्या गोदावर्यास्तटे वने
आवाभ्यां रहिते काले रक्षसापहृता तु सा. ॥३०॥
न तज्ञ्ज्ञा य त उद्व्टत्तं रक्षो विद्वन् ! विशेषतः
दनुर्नाम दितेः पुत्रः शापाद्राक्षसतां गतः. ॥३१॥
तेनायं रा क्षसं पापं क्रूरं सीतापहारिणम्
ज्ञास्यतीति समाख्यातः सुग्रीवो व्रजता दिवम्. ॥३२॥
एतद्भो ! म तिमन् ! सर्वमाख्यातं पृच्छतस्तव
अहं चायं रघूत्तंसः सुग्रीवं शरणं गतौ. ॥३३॥
महारा ज सुते रामे शरण्ये शरणागते
यूथपैः सह सुग्रीवः प्रसादं कर्तुमर्हति. ’ ॥३४॥
आंजने य उवा ‘ चाहो ! ईदृशाः सद्गुणार्णवाः
द्रष्टव्या वानरेंद्रेण दिष्ट्या दर्शनमागताः. ॥३५॥
स ह्यग्र ज निरस्तोऽत्र हृतदारो रवेः सुतः
सुग्रीवो वर्तते वीरौ ! साहाय्यं वां करिष्यति. ॥३६॥
तस्मान्न य ज्ञं तं साधु गच्छामः प्लवगेश्वरम्. ’
इति श्रुत्वा तथेत्येवमूचतू रामलक्ष्मणौ. ॥३७॥
ततः स रा मं सौमित्रिं पृष्ठमारोप्य मारुतिः
तौ सुग्रीवायाचचक्षे तद्वृत्तं च यथाश्रुतम्. ॥३८॥  
सुग्रीवो म नुजेंद्रस्य सुतौ दशरथस्य तौ
दृष्ट्वा प्रीतोऽभवज्ञ्ज्ञात्वा स्त्रीहेतोः शरणागतौ. ॥३९॥
सुग्रीवः श्री मतामाद्यं प्रीत्योवाच रघूत्तमम्,
‘ भवान् धर्मविनीतश्च सुतपाः सर्ववत्सलः. ॥४०॥
आख्याता रा जसुत ! मे त्वद्गुणा वातसूनुना,
तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो ! ॥४१॥
यत्त्वं का म यसे सख्यं वानरेण मया सह
रोचते यदि सौहार्दं बाहुरेष प्रसारितः. ॥४२॥
नवीन ज लदश्याम राम कामशतोत्तम !
गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा. ’ ॥४३॥
एतत्प्रि य वचः श्रुत्वा सुग्रीवस्य सुभाषितम्,
संप्रहृष्टमना हस्तं पीडयामास पाणिना. ॥४४॥
तं वान रा णामधिपं पर्यष्वजत पीडितम्
रामः सौहृदमालंब्य हर्षयामास हर्षितः. ॥४५॥
पावकं म यनोद्भूतं चक्रतुस्तौ प्रदक्षिणम्
सखायौ रामसुग्रीवौ मलयाद्रौ बभूवतुः. ॥४६॥
तौ नाभि ज ग्मतुस्तृप्तिमन्योन्यं वीक्ष्य सन्मती
रामः प्राह, ‘ सखा मे त्वमेकं दुःखं सुखं च नौ. ’ ॥४७॥
स रामा य ददौ शाखां भङ्क्वा सालस्य पुष्पिताम्
लक्ष्मणाय मरुत्पुत्रश्चंदनस्य मनोरमाम्. ॥४८॥
तस्यां रा ज सुतो रामः सुग्रीवश्च महामनाः
निषसाद महाभागो लक्ष्मणश्चारुलक्षणः. ॥४९॥
रामं व य स्यः सुग्रीव उवाच, ‘ रघुनंदन !
वालिनो मे महाबाहो ! भर्यातस्याभयं कुरु. ’ ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:38.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

liable to account

  • खुलासा करण्यास दायी 
  • हिशेब देण्यास दायी 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.