संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|किष्किंधाकांडम्| काव्य ५१ ते १०० किष्किंधाकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ३९० किष्किंधाकांडम् - काव्य ५१ ते १०० किष्किन्धाकाण्डम् या प्रकरणातील श्लोकातील चवथे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ५१ ते १०० Translation - भाषांतर तमाह रा घवो मित्रमुपकारफलं, ‘ सखे ! वानरेंद्रं वधिष्यामि तव दारापहारिणम्. ’ ॥५१॥ सोऽपि रा म मुवा’चाहमानयिष्यामि जानकीम्,अनुजानातु जानामि मैथिली सा न संशयः. ॥५२॥ रक्षसा श्री मती व्योम्नि हियमाणा बलीयसा दृष्टा सा राम रामेति क्रोशंती लक्ष्मणेति च. ॥५३॥ सा वान रा णामस्माकं मध्ये राम ! मुमोच यत्उत्तरीयं सभूषं तद्दर्शयिष्यामि तेऽनघ ! ’ ॥५४॥रामस्त म ब्रवीत्तूर्णं, ‘ सखे ! तद्दर्शयाद्य मे आनयोत्तिष्ठ सुग्रीव ! किमर्थं प्रविलम्बसे ! ॥५५॥कपिरा ज स्तस्य गिरेर्गुहां तूर्ण्म प्रविश्य तत् आनीय दर्शयामास सांबरं रत्नभूषणम्. ॥५६॥उत्तरी य मथालोक्य रामस्तद्भूषणानि च ‘ हा प्रिये ! जानकी ’ त्युक्त्वा प्ररुदन्नपतत्क्षितौ. ॥५७॥अलंका रा नुत्तरीयं हृदि कृत्वा रुदन् बहु उवाच लक्ष्मणं, ‘ पश्य प्रियाया भूषणानि मे. ’ ॥५८॥स वाक्य म ब्रवी, ‘ जाने न केयूरे न कुंडले नूपुरे त्वभिजानामि नित्यं पादाभिवंदनात्. ’ ॥५९॥कपिरा ज मथापृच्छद्रक्षसा निजमृत्यवे ‘ कं देशं मे प्रिया सीता नीता जानासि चेद्वद, ॥६०॥नयामि य मलोकं तं सह सर्वैर्निशाचरैः. ’ इति श्रुत्वा प्रभोर्वाक्यमुवाच कपिनायकः ॥६१॥‘ न जाने ज गतां नाथ तस्य देशं कुलं बलम् सत्वं तु प्रतिजानामि त्यज शोकमरिंदम ! ॥६२॥अहं प्र य त्नं राजेंद्र ! करिष्याम्यचिरात्तथा यथा त्वं मुदिरश्याम राम ! प्राप्स्यसि मैथिलीम्. ॥६३॥मयापि रा घव ! प्राप्तं व्यसनं स्त्रीवियोगजम् परंतु नैवं शोचामि प्राकृतो वानरोऽपि सन्. ’ ॥६४॥ इति प्रे म वतः श्रुत्वा हितं वकयं रघूद्वहः संपरिष्वज्य बाहुभ्यां सखायमिदमब्रवीत्. ॥६५॥ ‘ यत्तव श्री मतः कार्यं प्रथमं तत्करोम्यहम् त्वं प्रयत्नं कुरु सखे ! सीतायाः परिमार्गणे. ॥६६॥कथं वै रा ग्निरुद्भूतः सुग्रीव ! हृदि वालिनः ? तत्त्वं कथय तत्त्वेन करिष्ये प्रियमेव ते. ॥६७॥हृदि मे म न्युरुद्भूतः श्रुत्वा त्वामवमानितम् जानीहीषुर्मया सृष्टो निरस्तश्च रिपुस्तव. ’ ॥६८॥कपिः प्रां ज लिरा, ‘हार्य ! दुंदुभेः पूर्वजः सुतः मायावी नाम तेजस्वी बलदृप्तो महासुरः ॥६९॥ स्त्रीकृते य दभूद्वैरं तेन राघव ! वालिनःतद्घोरमेकदा शत्रुः किष्किंधाद्वारमागतः ॥७०॥ आहूय रा त्रौ युद्धाय नर्दति स्म स कोपनः सुप्तो वाली स्वनं श्रुत्वा क्रोधान्न ममृषे प्रभो ! ॥७१॥ हंतुं त म सुरं वाली निःसृतोऽहं च राघव ! दृष्ट्वा मां वालिनं भीतः प्रदुद्गावाऽसुरस्तदा. ॥७२॥विवरं ज गतां नाथ ! जगत्या जवनोऽह्यितःप्रविवेश स मायावी मायावीर्यो रघूत्तम ! ॥७३॥कौसल्ये य ! बिलद्वारि स्वपादशपथैः स्वयम् स्थापयास मां वाली प्रविशंतं निवार्यसः. ॥७४॥रघुरा ज ! ततस्तूर्णं प्रविवेश महाबलम् तस्य तत्र प्रविष्टस्य साग्रः संवत्सरो गतः. ॥७५॥नदंतां य स्तदा तत्र दैत्यानां निनदोऽभवत् स श्रोत्रमागतो मे नो वालिनः शौर्यशालिनः. ॥७६॥रक्तपू रा द्बिलात्तस्मात्सफेनाद्राम ! निःसृतात् भ्रातुर्वधमहं मत्वा भृशं शोकाकुलोऽभवम्. ॥७७॥बिलस्य म हतो द्वारं शिलया गिरिमात्रया विधाय चोदकं कृत्वा किष्किंधामागतः सखे ! ॥७८॥तद्वृत्तं श्री मतो ज्ञातं वालिनो मंत्रिभिः प्रभो ! ततोऽहं तैः समागम्य समेतैरभिषेचितः. ॥७९॥न्यायेन रा ज्यं तत्तस्य मयि शासति राघव ! हत्वा तमसुरं वाली किष्किंधामागतो गुहाम्. ॥८०॥काकुत्स्थ ! म त्वा मां शत्रुं राज्यकामं स साहसीइयेष भक्तं प्रणतं हंतुं बध्वा स्वमंत्रिणः. ॥८१॥मयाग्र ज इति क्षांत समर्थेनापि निग्रहेतदा निर्वासयामास वस्त्रेणैकेन मां कपिः. ॥८२॥तस्माद्भ य मभूद्भूरि क्रांतवानखिलां महीम् रामाहमपविद्धश्च हृतदारश्च वालिना. ॥८३॥एतं दु रा धर्षमगं वालिनः कारणांतरे प्रविष्टोऽस्मि महाराज ! वैरमेवमभून्महत्. ॥८४॥उवाच म धुहा रामस्तं सुग्रीवं शुचाकुलम् ‘ आत्मानुमानात्पश्यामि मग्नस्त्वं शोकसागरे ॥८५॥सुग्रीव ! ज हि शोकं मे शराः प्राणहरा रिपोःत्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम्. ’ ॥८६॥प्राप्ताभ य उवाचाथो सुग्रीवो राघवं प्रभुम् ‘ वालिनः पौरुषं श्रुत्वा विधत्स्व यदनंतरम्. ॥८७॥चतुरो ज लधीन् ब्राह्मे मुहूर्ते नित्यमुत्थितः क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः. ॥८८॥गुरूण्य य त्रतः शैलशिखराणि स वीर्यवान्ऊर्ध्वं कंदुकवत्क्षिप्त्वा प्रतिगृह्णाति राघव ! ॥८९॥मनुष्य रा ज ! महिषो दुंदुभिर्नाम दारुणः ‘ मम युद्धं प्रयच्छे’ति स उवाच महाणर्वम्. ॥९०॥ नाहं स म र्थः; श्वशुरः शंकरस्य हिमाचलः तं याहीत्यब्रवीद्राम ! सागरो वरदर्पितम्. ॥९१॥ श्वशुरः श्री गलस्यापि गजेंद्रप्रतिमाः शिलाः क्षिपंतं बहु गर्जंतं प्रादुर्भूयाब्रवीदिदम्. ॥९२॥यो वान रा णामधिपो वाली शक्रात्मजो बली प्रदास्यति स ते युद्धं न त्वं मां क्लेष्टुमर्हसि. ॥९३॥ किष्किंधां म हिषः प्रपय रुद्ध्वा द्वारं मदोद्धतः ननर्द कंपयन् भूमिं दुंदुभिर्दुंदुभिर्यथा. ॥९४॥ खुरैः स ज गतीं मत्तो दारयामास भूरुहान् भंजन् द्वारं विषाणाभ्यामालिखन् करिरादिव. ॥९५॥तं लुला य मरिं वाली निष्क्रम्यांतःपुराद्रुषा उवाच, ‘ दुंदुभे ! प्राणान् रक्ष त्वं विदितोऽसि मे. ’ ॥९६॥ ‘ कपे ! गि रा किमनया स्त्रीणामंतिक उक्तया ? मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम्. ’ ॥९७॥श्रुत्वैवं म हिषप्रोक्तं वालिना हेममालिना निहतो लीलया क्षिप्तो वेगेनैकेन योजनम्. ॥९८॥राजरा ज ! तमाविध्य गजायुतबलं खलम्गृहीत्वा शृंगयोर्दूरं चिक्षेप कपिकेसरी. ॥९९॥ये लुला य स्य वदनादुद्गता रक्तबिंदवः प्रपेतुस्तेऽनिलोत्क्षिप्ता मतंगस्याश्रमे शुचौ. ॥१००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP