TransLiteral Foundation

किष्किंधाकांडम् - काव्य २५१ ते ३००

किष्किन्धाकाण्डम् या प्रकरणातील श्लोकातील चवथे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य २५१ ते ३००
सुग्रीवो ज गतां नाथमुवाचैतत्समागतम्
त्वत्सैन्थं त्वद्वशे युक्तमाज्ञापयितुमर्हसि. ’ ॥२५१॥
तं सखा य मतिप्रेम्णा परिष्वज्याब्रवीत्प्रभुः,
‘ ज्ञायतां सौम्य ! वैदेही यदि जीवति वा न वा. ’ ॥२५२॥
देशश्च रा वणस्यादौ ज्ञेयः, कार्येऽत्र लक्ष्मणः
नैव, नैवाहमप्यद्य त्वमेवाज्ञाकरः प्रभुः. ’ ॥२५३॥
प्लवंग म पतिः श्रुत्वा प्रभूक्तं मुदितस्ततः
विनतं प्रेषयामास दिशं पूर्वां महाबलम्. ॥२५४॥
‘ तनया ज नकस्येष्टा रावणश्च दुराशयः
मार्गितव्यो वसन्मासादूर्ध्वं वध्यो भवेन्मम. ’ ॥२५५॥
एवं ना यक आज्ञाप्य विनतं तं तथांगदम्
जांबवंतं हनूमंतं मैंदं च द्विविदं कपिम्, ॥२५६॥
नीलं ग ज मथान्यांश्च दक्षिणां दिशमीश्वरः
कृत्वावधिं मासमाशु प्रेषयामास सिद्धये. ॥२५७॥
तारोद य करं कीशं सुषेणं वीर्यसागरम्
यूथपं बुद्धिसंपन्नं प्रतीचीमादिशद्दिशम्. ॥२५८॥
स वान रा धिपः प्राह ततः शतबलिं कपिम्,
‘ त्वमुदीचीं दिशं गत्वा तत्रान्वेषय जानकीम्. ’ ॥२५९॥
सुग्रीवं म रुतः पुत्रे दृष्ट्वा विश्वस्तमानसम्
अंगुलीयमभिज्ञानं रामस्तस्मै ददौ निजम्. ॥२६०॥
सीतायाः श्री मता कीशाः प्रेरिताः परिमार्गणे
गताः स्वां स्वां दिशं सर्वे महोत्साहाः सहस्रशः. ॥२६१॥
सुग्रीवं रा घवोऽपृच्छ, ‘ त्सखे ! कथय तत्त्वतः
कथं भवान्विजानीते सकलं मंडलं भुवः ? ’ ॥२६२॥
प्लवंग म पतिः प्राह वालिनामहनुद्रुतः
तदा ससचिवो धावन्दृष्टवान्मंडलं भुवः. ’ ॥२६३॥
वातात्म ज मुखा वीराः सांगदाः सर्वतो दिशम्
अन्वेषमाणा ददृशुर्न ते तां जनकात्मजाम्. ॥२६४॥
महाका य मथारण्येऽसुरं वालिसुतोऽङ्गदः
रावणोऽयमिति ज्ञात्वा व्यसुं चक्रे तलेन तम्. ॥२६५॥
ते वान रा बिलं किंचिद्ददृशुक्षुत्तृडर्दिताः
तस्मान्निर्गच्छतो दृष्ट्वा पक्षिणो हंससारसान्. ॥२६६॥
तस्मिंस्त म स आवासे प्रविश्य कपयो बिले
गत्वा योजनमेकं तेऽपश्यन् हेममयांस्तरून्. ॥२६७॥
वापीश्च ज लजै रम्या मणिसोपानभूषिताः
प्रासादं कांचनं तत्र स्त्रियं वृद्धां महाप्रभाम्. ॥२६८॥
कस्याल य स्त्वं का मातरिति नत्वा हनूमता
पृष्ट्वा सोवाच, ‘ वत्सेदं स्थानं मयविनिर्मितम्. ॥२६९॥
देवरा ज स्तमशनिप्रहारेणावधीद्रुषा
हेमायां स्वर्गवेश्यायां सक्तं नक्तंदिवं मयम्. ॥२७०॥
हिरण्म य मिदं गेहं वनमत्युत्तमं स्वयम्
दत्तं स्वयंभुवा तस्यै हेमायै वानरोत्तम ! ॥२७१॥
तन्मंदि रा वनं तस्याः सख्यात्कर्तुमिह स्थिता
दुहिता मेरुसावर्णेरहं नाम्ना स्वयंप्रभा. ’ ॥२७२॥
एवं सा म धुरैर्वाक्यैः फलैस्तोर्यरतर्पयत्,
‘ के यूयं ब्रूत किं कार्य ’ मिति पप्रच्छ तान्कर्पान् ॥२७३॥
त आहुः, ‘ श्री मति ! श्रीमान् रामो दशरथात्मजः
रक्षसा रावणेनास्य सीता प्रियतमा हृता. ॥२७४॥
सखा न रा धिराजस्य सुग्रीवः कपिनायकः
तेन मातर्वयं सीतां मार्गध्वमिति चोदिताः. ॥२७५॥
दिशं य म स्य संप्राप्ता द्रष्टुं तां तं च रावणम्,
विचित्य तु वनं सर्वं क्षुधितास्तृषिता वयम्. ॥२७६॥
बिलं तु ज लपानार्थं प्रविष्टा जलपक्षिणः
बहिर्निर्गच्छतो दृष्ट्वा मातर्नो वृत्तमीदृशम्. ॥२७७॥
समयो य स्तु तेनार्ये ! सुग्रीवेण कृतो महान्
स व्यतिक्रांत एवात्र बिलेऽस्माकं महासति ! ॥२७८॥
त्वां तपो रा शिममलां प्रपन्नाः शरणं वयम्
सा त्वमस्मान्बिलादस्मादुत्तारीयतुर्महीस. ’ ॥२७९॥
सोवाच, ‘ म न्य एतस्मात्प्रविष्टॆन निवर्तितुम्
जीवता दुष्करं कीशाः ! सत्यमेतद्ब्रवीमि वः. ॥२८०॥
भयं त्य ज त, चक्षूंषि निमीलयत, वानराः !
तपसाहं बिलादस्मात्तारयिष्यामि पुत्रकाः ! ’ ॥२८१॥
ततस्ते य द्यथा प्रोक्तास्तथा सर्वे निमीलिताः
निमिषांतरमात्रेण बिलादुत्तारितास्तया. ॥२८२॥
विंध्यस्य ज गतीध्रस्य पादे पुष्पितपादपे
उपविश्यार्णवं दृष्ट्वा चिंतां प्रपताः प्लवंगमाः. ॥२८३॥
अनुष्ठे य स्य कार्यस्य तेऽसिद्धौ भयशंकिताः
व्यतीते समये श्रांता निपेतुर्वानराः क्षितौ. ॥२८४॥
तान् स ता रा सुतः प्राह, ‘ युक्तं प्रायोपवेशनम्
मासस्त्वृक्षबिले पूर्णो हरयः किं न बुद्ध्यत ? ॥२८५॥
इदानी म कृतार्थानां मर्तव्यं नात्र संशयः
तीक्ष्णदंडो हि सुग्रीवो वयमत्यपराधिनः. ॥२८६॥
येन स्त्री श्री श्च मत्तेन भ्रातुर्ज्येष्ठस्य भुज्यते
अकार्य तस्य किं, घातं मत्पितुर्यो ह्यकारयत्. ’ ॥२८७॥
कपिस्ता रा भिधस्तत्र तदोवाच, ‘ वयं बिले
प्रविश्य निर्भयाः सर्वे वसाम यदि रोचते. ’ ॥२८८॥
उवाच म रुतः पुत्रो, ‘ यां धात्रीं मन्यसे गुहाम्
अस्यास्त्वीषत्करं मन्ये लक्ष्मणेषोर्विदारणम्. ॥२८९॥
देवरा ज स्य बाणेन स्वल्पमेव कृतं तदा
लक्ष्मणो निशितैर्बाणैभिद्यात्पत्रपुटं यथा. ॥२९०॥
धर्माश्च य श्च सुग्रीवः सत्यसंधो महाव्रतः
तारायाः प्रियकामश्च स त्वां जातु न नाशयेत्. ’ ॥२९१॥
प्राह ता रा त्मजो, ‘ भ्रातुर्जीवतो महिषी प्रियाम्
धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः, ॥२९२॥
भो हनू म न् ! पश्यसि त्वं कं धर्मं तत्र वानरे
आदिष्टा मार्गितुं सीतां लक्ष्मणस्य भयाद्वयम्. ॥२९३॥
न बंध ज नितं श्रेयो मरणं वानरर्षभाः
सद्गतेः कारणं मन्ये वरं प्रायोपवेशनम्. ’ ॥२९४॥
विनिश्च य मि म कृत्वा रुदन् दर्भेषु दुर्मुखः
वृद्धान्नत्वांगदो भूमौ विवेशास्वस्थमानसः. ॥२९५॥
ते तं रा ज सुतं दृष्ट्वा तथावस्थं सुदुःखिताः
जांबवत्प्रमुखाः प्रायमुपविष्टा वनौकसः. ॥२९६॥
परमा य स्तचित्तास्ते चक्रुः प्रायोपवेशनम्
सुग्रीवमभिनिंदतः प्रशंसंतश्च वालिनम्. ॥२९७॥
स गृध्र रा जः संपातिर्दैवात्तं देशमागतः
भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः. ॥२९८॥
प्लवंग म स्तान्प्लवगान् दृष्ट्वोवाच स हृष्टधीः,
‘ एषां प्रायोपविष्टानां भक्षिष्येऽहं मृतं मृतम्. ’ ॥२९९॥
तच्छ्रुत्वा श्री मतः पुत्रो मरुतः सुतमब्रवीत्,
‘ पश्य गृध्रमिषः कालः प्राप्तोऽस्माकं विपत्तये. ॥३००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:38.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वहीन

  • न. ( बे . ) उखळ . [ फा . हावन ] 
RANDOM WORD

Did you know?

एखाद्या वास्तुला वास्तुशास्त्रानुसार कोणतेच उपाय नसल्यास, मग कांहीे उपाय आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.